११ मृत्युञ्जयकल्पः

॥ अथ मृत्युञ्जयकल्पः ॥ (बो. गृ. शे. सू. ३. ११) जन्मनक्षत्रे पुण्ये नक्षत्रे त्रिजन्मनि वा ब्राह्मणानन्नेन परिविष्य

पुण्याहं स्वस्ति ऋद्धिम्

इति वाचयित्वाऽथदेवयजनोल्लेखनप्रभृत्याऽग्निमुखात् कृत्वा ‘सावित्र्या’ पक्वं हुत्वा प्रादेशमात्रास्तिस्रस्तिस्रो दूर्वा एका समिधमाहृत्य अष्टसहस्रमष्टशतमष्टाविंशतिर्वा दधिमधुघृतपयांसि समुदायुत्याऽभ्यज्याऽऽदधाति –

अपैतु मृत्युः, परं मृत्यो, मा नो महान्तम्, मा नस्तोके, त्रियम्बकम्, ये ते सहस्रम्

इत्यष्टषष्टिशतकृत्व आवर्तयेत्तदानीं अष्टसहस्रं सम्पद्यते ॥ अथाऽऽज्याहुतीरुपजुहोति -

मृत्युर्नश्यत्वायुर्वर्धतां भूस्स्वाहा ।
मृत्युर्नश्यत्वायुर्वर्धतां भुवस्स्वाहा ।
मृत्युर्नश्यत्वायुर्वर्धतां सुवस्स्वाहा ।
मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवस्सुवस्स्वाहा

इति ॥

जयप्रभृति सिद्धमानुवरप्रदानात् ॥ अथाग्रेणाऽग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति -

तच्छं योरावृणीमहे

इति ।

अथ दक्षिणां ददाति-धेनुमृषभमनड्वाहं कंसं हिरण्यं वासो वेत्वपपुनर्मृत्युं जयति

इति ह स्माह भगवान बोधायनः॥

प्रयोगः

अथ प्रयोगः ॥ (देवालये, नदीतीरे, गोष्ठे, पुण्यतमे स्थले, स्वगृहे वा) कर्ता स्वजन्मनक्षत्रे, पुण्यनक्षत्रे त्रिजन्मनि वा प्रातर्नित्यकर्म कृत्वा आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

मम समस्तापमृत्युनिवृत्त्या दीर्घायुष्याभिवृद्ध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं मृत्युञ्जयशान्तिं करिष्ये

इति सङ्कल्प्य गणपतिं सम्पूज्य ब्राह्मणानन्नेन परिविष्य

मृत्युञ्जयः प्रीयताम्

इति पुण्याहं वाचयित्वाऽऽचार्यादीन्वृत्वा देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य मम समस्त॰ (शक्तौ-सग्रहमखां) मृत्युञ्जयशान्ति होम करिष्ये॰ वरदो नामाग्निः, सविता देवता, चरुर्हविः, उपहोमश्च पयोदधिमधुघृताक्तश्वेतदूर्वात्रययुतपलाशसमिद्भिः

(अपैतु मृत्युः॰, परं मृत्यो॰, मा नो महान्तं॰, मा नस्तोके॰ त्र्यम्बकं॰, ये ते सहस्र॰

इति षडर्चेन) मृत्युसूक्तेन अष्टषष्ट्यधिकशतावृत्याष्टोत्तरसंख्याकाहुतिभिः, मृत्युनश्यत्वित्यादि चतुर्भिर्मन्त्रैराज्येन, अग्निः स्विष्टकृदित्यादि सङ्कल्प्यान्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाग्निं व्रीहिभिर्यवैर्वा निर्मिते स्थण्डिले कलशं प्रतिष्ठाप्य वरुणं सम्पूज्य कलशे प्रतिमा विन्यस्य मृत्युसूक्तेन मृत्युञ्जयमावाह्य षोडशोपचारैः सम्पूज्य देवस्य त्वेत्यादि सवित्रे चरुं निरुप्य प्रोक्ष्याज्यसंस्काराद्यग्निमुखान्तं कृत्वा सावित्र्या पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधौ निधाय दधि-मधु-घृत-पयांसि समुदायुत्य प्रादेशमात्राभिः तिसृभिस्तिमृभिः श्वेतदूर्वाभिः सहैकैकां पालाशीं समिधमभ्यज्यान्वाधानोक्तक्रमेण हुत्वाऽऽज्याहुतीरुपजुहोति-

मृत्युर्नश्यत्वायुर्वर्धतां1 भूः स्वाहा,
मृत्युर्नश्यत्वायुर्वर्धतां भुवः स्वाहा,
मृत्युर्नश्यत्वायुर्वर्धतां सुवः स्वाहा,
मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवः सुवः स्वाहा,

इति ॥ सर्वत्र, (मृत्युञ्जयायेदं॰) ॥ स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाग्निं दूर्वास्तम्वेषु

तच्छं योरावृणीमहे॰ शं चतुष्पदे

इति हुतशेषं निधायोत्तरपरिषेकादि होमशेषं समाप्यावाहितदेवतां पुनः सम्पूज्योद्वासयेत् ॥ आचार्यादयः कलशोदकेन मृत्युसूक्तादिभिः सपरिवारं यजमानं प्रोक्षेयुः ॥ आचार्याय कलशदानं, गोदानं, वस्त्रयुग्मदानमृत्विग्भ्यो यथाशक्ति दक्षिणादानं च कृत्वा ब्राह्मणान्सम्भोज्याऽऽशिषो गृह्णीयात् ॥

पुत्रप्रतिग्रहविधिः

॥ अथ पुत्रप्रतिग्रहविधिः ॥ (बो. गृ. शे. सू. २.६ )

अथातः पुत्रप्रतिग्रहकल्पं व्याख्यास्यामः - शोणितशुक्लसम्भवो मातृपितृनिमित्तकस्तस्य प्रदानपरि त्यागविक्रयेषु मातापितरौ कर्तारौ प्रभवतो न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा स हि सन्तानाय पूर्वेषाम् ॥ न तु स्त्री पुत्रं दद्यात् रतिगृह्णीयाद्वाऽन्यत्राऽनुज्ञानाद्भर्तुः ॥ पुत्रं प्रतिग्रहीष्यन्नुपकल्पयते - द्वे वाससी द्वे कुण्डले अङ्गुलीयकं चाऽऽचार्यञ्च वेदपारगं कुशमयं बर्हिः पर्णमयमिध्मम् इति ॥ अथ बन्धूनां मध्ये राजनि चावेद्य परिषदि वाऽगारमध्ये ब्राह्मणानन्नेन परिविष्य

पुण्याहं स्वस्त्यृद्धिम्

इति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याऽऽप्रणीताभ्यः कृत्वा दातुस्समीपं गत्वा

पुत्रं मे देहि

इति भिक्षेत । ‘ददामि’ इतीतर आह ॥ तं पुत्रं प्रतिगृह्णाति -

धर्माय त्वा गृह्णामि सन्तत्यै त्वा गृह्णामि

इति ॥ अथैनं वस्त्रकुण्डलाभ्यामङ्गुलीयकेन चाऽलङ्कृत्य परिधानप्रभृत्याऽऽग्निमुखात् कृत्वा पक्वाज्जुहोति –

यस्त्वा हृदा कीरिणामन्यमानः

इति पुरोनुवाक्यामनूच्य

यस्मै त्वं सुकृते जातवेदः

इति याज्यया जुहोति ॥ अथ व्याहृतीभिर्हुत्वा स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथ दक्षिणां ददात्येते एव वाससी एते एव कुण्डले एतच्चाङ्गुलीयकम् ॥ यद्येवं कृते औरसः पुत्र उत्पद्यते तुरीयभागेष भवति इति ह स्माह भगवान् बोधायनः ॥

प्रयोगः

अथ प्रयोगः ॥ पुत्रप्रतिग्रहीता पूर्वमेव बन्धूनां राज्ञां शिष्टानां सन्निधौ वा निवेद्याऽनुमतिं लब्ध्वा, शुक्लपक्षे शुभनक्षत्रे चन्द्रताराबलान्विते शुभे दिने, प्रातर्नित्यकर्म कृत्वा, गृहमध्य उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

ममाऽप्रजत्व प्रयुक्तपैतृकर्णाऽपाकरणार्थं पुन्नामनरकत्राणार्थञ्च श्रीपरमेश्वरप्रीत्यर्थ पुत्रप्रतिग्रहं करिष्ये

इति सङ्कल्प्य, गणपतिं सम्पूज्य मातृकापूजनं नान्दीश्राद्धञ्च विधाय

जातवेदोऽग्निः प्रीयताम्

इति पुण्याहं वाचयित्वाऽऽचार्यं वृत्वा मधुपर्केणाऽहयित्वा, विष्णु सम्पूज्य बान्धवान्ब्राह्मणांश्च सम्भोजयेत् ॥ अथ देवयजनोल्लेखनप्रभृत्यग्निं प्रतिष्ठाप्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य, ममाप्रजत्व॰ पुत्रप्रतिग्रहहोमं करिष्ये॰ बलवर्धनो नामाऽग्निःः जातवेदोऽग्निर्देवता, चरर्हविः, अग्निः स्विष्टकृदित्यादि सङ्कल्प्यान्वाधाय, पात्राऽऽसादने प्राकृतपात्राण्यासाद्य, पर्णमयमिध्मं, कुशमयं बर्हिः, द्वे वाससी, द्वे कुण्डले, अङ्गुलीयकञ्चाचासादयेदिति विशेषः ॥ पवित्रकरणाद्याप्रणीताभ्यः कृत्वा, पुत्रप्रतिग्रहीता ब्राह्मणैर्बन्धुवर्गैश्च सह दातुः समीपं गत्वा,

पुत्रं मे देहि

इति भिक्षेत।

ततो दाता ‘ददामि’ इत्युक्त्वाऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

प्रतिग्रहीतुः पैतृकर्णाऽपाकरणार्थं पुन्नामनरकत्राणार्थञ्च आत्मनः श्रीपरमेश्वरप्रीत्यर्थ पुत्रदानं करिष्ये

इति सङ्कल्प्य, गणपतिं सम्पूज्य, प्रतिग्रहीतारं यथाविभवं सम्पूज्य

इमं पुत्रं तव पैतृकर्णाऽपाकरणार्थं पुन्नामनरकत्राणार्थश्च आत्मनः श्रीपरमेश्वरप्रीत्यर्थ तुभ्यमहं सम्प्रददे, न मम, पुत्रं प्रतिगृह्णातु भवान्

इति पत्न्याऽन्वारब्धो दद्यात् ॥ प्रतिग्रहीता पत्न्या सह प्रतिगृह्णाति -

देवस्य त्वा॰ हस्ताभ्यां प्रतिगृह्णामि राजा त्वा वरुणो नयतु॰ प्रजापतये पुरुषं, तेनाऽमृतत्वमश्यां॰ उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु, धर्माय त्वा गृह्णामि, सन्तत्यै त्वा गृह्णामि

इति ॥ ततः कुमारं पूर्वासादितवस्त्रकुण्डलाऽङ्गुलीयकैरलङ्कृत्य, मङ्गलमन्त्रघोषपुरस्सरं देवयजनमानीयाऽग्नेः पश्चाद्भार्योत्सङ्ग उपवेशयेत् ॥ ततो देवस्य त्वेत्यादि जातवेदसेऽग्नये चरुं निरुप्य प्रोक्ष्याऽऽज्यसंस्काराद्यग्निमुखान्तं कृत्वा पक्वाज्जुहोति-

यस्त्वा हृदा॰, यस्मै त्वं॰

इति द्वाभ्याम् । (जातवेदसेऽग्नय इदं॰) स्विष्टकृतमवदायान्तःपरिधौ निधाय व्याहृताभि राज्येनोपहुत्य, स्विष्टकृदादि होमशेष समापयेत् ॥ तत आचार्याय धेनुं, पुत्रधृते वाससी, कुण्डले, पुत्रधृतमङ्गुलीयकञ्च दत्वा, दश सङ्ख्याकान् ब्राह्मणान् भोजयित्वाऽऽशिषो गृह्णीयात् ॥

सरस्वतीकल्पः

॥ अथ सरस्वतीकल्पः ॥ (बो. गृ. शे. सू. ३.६) अथातस्सरस्वतीकल्पं व्याख्यास्यामः ॥ शुक्लपक्षे त्रयोदश्यां वोत्तरयोः फाल्गुन्योर्वा पुण्ये नक्षत्रेऽथ देवयजनोल्लेखनप्रभृत्याऽऽप्रणीताभ्यः कृत्वाऽग्रेणाग्नि सरस्वतीमावाहयति -

‘यातु वरदा देवी अक्षरं ब्रह्मसम्मितम् ।
गायत्रीं छन्दसां मातेदं ब्रह्म जुषस्व नः ॥
सरस्वतीमावाहयामि

इत्यावाह्यात्र स्थानानि कल्पयति -

वाग्देव्यै कल्पयामि, गीर्देव्यै क॰, सरस्वत्यै क॰, ब्राह्म्यै कल्पयामि

इति ॥ अथैनास्स्नापयति -

आपो हिष्ठा॰ हिरण्यवर्णाः, पवमानः

इत्येतेनानुवाकेन मार्जयित्वाऽद्भिस्तर्पयित्वैतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः

अमुष्यै नमोऽमुष्यै नमः

इति । परिधानप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति पायसं वा -

चोदयित्री सूनृतानां, पावीरवी कन्या

इति द्वाभ्याम् ॥ अथाज्याहुतीरुपजुहोति -

प्र णो देवी, आ नो दिवः, ये ते सरस्व ऊर्मयः, उत नः प्रिया प्रियासु, इमा जुह्वाना, यस्ते स्तनश्शशयः, देवीं वाचमजनयन्त, यद्वाग्वदन्ति

इत्येतेन सूक्तेन ॥ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाग्रेणाऽग्निं पलाशपर्णेषु हुतशेष निवेदयित्वा बाह्यबालिं दत्वोदेत्यापरेणाग्निं प्राङ्मुखं कुमारमुपवेश्य विद्यारम्भं कुरुते अनन्तरं देवीमुद्वासयेत्-

उत्तमे शिखरे देवि भूम्यां पर्वतमूर्धनि ।
ब्राह्मणेभ्यो यनुज्ञातं गच्छ देवि यथासुखम्

इति पुनरागमनाय पुनदर्शनाय ॥

एवमेव मासिमासि विद्याकांक्षी सरस्वतीमाराधयेत्

इत्याह भगवान्बोधायनः ॥

प्रयोगः

अथ प्रयोगः ॥ शुक्लपक्षे त्रयोदश्यामुत्तराफल्गुनीनक्षत्रे चन्द्रताराबलान्विते शुभनक्षत्रे वा, पिता कुमारेण सह प्रातनित्यकर्म कृत्वा, स्नानादिचतुष्टयं विधायाऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

अस्य कुमारकस्य निर्विघ्नेन समस्तविद्याप्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थं सरस्वत्याराधनं करिष्ये

इति सङ्कल्प्य, गणपतिं सम्पूज्य

वाग्देव्यादिसरस्वती प्रीयताम्

इति पुण्याहं वाचयित्वा, स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्यास्य कुमारकस्य॰ सरस्वती होम करिष्ये॰ बलवर्धनो नामाऽग्निः, सरस्वती देवता, चरुहविः (पायसं वा) उपहोमश्च - प्र णो देवी॰ इत्येतेनाऽष्टर्चेन सूक्तेनाज्येन, अग्निः स्विष्टकृदित्यादि सङ्कल्प्यान्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाऽग्निमष्टदलोपरि तण्डुलैस्स्थण्डिलं कृत्वा, विधिवत्कलशं प्रतिष्ठाप्य वरुणपूजान्तं कृत्वा,

आयातु वरदा देवी अक्षरं ब्रह्म सम्मितम् ।
गायत्री छन्दसां मातेदं ब्रह्म जुषस्व नः

इत्युक्त्वा

ॐ भूः सरस्वतीमावाहयामि । ॐ भुवः सरस्वती॰ । ॐ सुवः सरस्वती॰ । ॐ भूर्भुवः सुवः सरस्वती°

इत्यावाह्य, ततोऽक्षतपुञ्जेषु पूर्वादि प्रादक्षिण्येन -

ॐ वाग्देव्यै कल्पयामि । गीर्देध्यै कल्प॰ । सरस्वत्यै कल्प॰ । ब्राह्म्यै कल्प॰

इति दर्भद्वयनिर्मितं कूर्च प्रत्येकं निधाय, स्थानानि कल्पयित्वा,

ॐ भूर्भुवः सुवः वाग्देव्यै नमः वाग्देवीमावाहयामि

एवमेव

गीर्देवीमावाहयामि, सरस्वतीमावाहयामि, ब्राह्मीमावाहयामि

इति क्रमेणावाह्य षोडशोपचारैः पूजयेत् ॥

आपो हि ष्ठा॰

इति तिसृभिः -

हिरण्यवर्णाः

इति चतसृभिः

पवमानः सुवर्जनः॰

इत्येतेनानुवाकेन स्नापयित्वा

ॐ सरस्वतीं तर्पयामि, वाग्देवी॰, गीर्देवी॰, सरस्वती॰, ब्राह्मी॰

इत्यद्भिस्तर्पयित्वा,

सरस्वत्यै नमः, वाग्देव्यै नमः, गीर्देव्यै॰, सरस्वत्यै॰, ब्राह्म्यै॰

इत्येतैर्नामधेयैर्गन्ध-पुष्प-धूप-दीपैरभ्यर्च्य । देवस्य त्वेत्यादि सरस्वत्यै चरुं निरुप्य, प्रोक्ष्याऽऽज्यसंस्काराद्यग्निमुखान्तं कृत्वा पक्वाज्जुहोति -

‘चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वतो३म्पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । ग्नाभिरच्छिद्रँ शरणँ सजोषां दुराधर्षं गृणते शर्म यँ सत्स्वाहा [[TODO: परिष्कार्यम्]]

(सरस्वत्या इद॰) अथ स्विष्टकृतमवदायान्तःपरिधौ निधायाऽऽज्याहुतीरुपजुहोति -

प्र णो देवी॰ ॥ आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मान्नो वाचमुशती शृणोतु स्वाहा ॥ ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । तषान्ते सुम्नमीमहे स्वाहा ॥ उत नः प्रिया प्रियासु ॥ सप्तस्वसा सुर्जुष्टा। सरस्वती स्तोम्यां भूत्स्वाहा ॥ इमा जुह्नाना युष्मदा नमोभिः प्रति स्तोमँ सरस्वति जुषस्व । तव शर्मान्प्रियत मे दधानाः ॥ उप स्थयामं शरणं न वृक्षँ स्वाहा ॥ यस्ते स्तनः॰ ॥ देवीं वाचमजनयन्तः॰ ॥ यद्वाग्वदन्ति॰ ॥ [[TODO: परिष्कार्यम्]]

इति ॥ (सर्वत्र सरस्वत्या इदं॰) स्विष्टकृत्प्रभृति प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाऽग्निं पलाश पर्णेषु – मध्ये

सरस्वत्यै स्वाहा नमः

तद्वहिः पूर्वादि चतुर्दिक्षु

वाग्देव्यै स्वाहा नमः, गीर्देव्यै॰, सरस्वत्यै॰, ब्राह्म्यै

इति हुतशेषं निधाय बहिर्गत्वा,

ये भूताः प्रचरन्ति॰ पुष्टिपतिर्दधातु स्वाहा

इति हुतशेषेण बलिं दद्यात् ॥ अथ हस्तपादान्प्रक्षाल्याचम्य, यथागतमागत्योत्तरपरिषेकादि होमशेषं समाप्यावाहितदेवताः पुनः सम्पूज्य

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा

इति सम्प्रार्थ्य, स्वविद्यासूत्रकारादीन्प्रणम्यापरेणाऽग्निं कुमारं प्रामुखमुपवेश्य विद्यारम्भं कुर्यात् ॥

उत्तमे शिखरे देवि भूम्यां पर्वतमूर्धनि ।
ब्राह्मणेभ्यो ह्यनुज्ञातं गच्छ देवि यथासुखम् ॥

ॐ भूः सरस्वतीमुद्वासयामि, ॐ भुवः सर°, ॐ सुवः°, ॐ भूर्भुवः सुवः॰

एवं क्रमेण

वाग्दे्वी॰, गीर्देवी॰, सरस्वती॰, ब्राह्मीमुद्रासयामि, प्रयातु भगवति सरस्वति पुनरागमनाय पुनदर्शनाय

इत्युद्वासयेत् ॥ ततः कलशोदकेनाभिषेकः ॥ ब्राह्मणान्सम्पूज्य कलशदानं यथाशक्ति दक्षिणादानञ्च कृत्वा ब्राह्मणान्भोजयित्वाऽऽशिषो गृह्णीयात् ॥ एवमेव विद्याकामो मासिमासि सरस्वतीमाराधयेत्॥


  1. “अमुकनक्षत्रे अमुकराशौ जातस्थामुकशर्मणः” इत्यादि सूत्रान्तरे विशेष उक्तः ॥ ↩︎