॥ अथोग्ररथशान्तिः ॥ (बो. गृ. शे. सू. ५.८) ब्राह्मणराजन्यवैश्यानां जन्मदिनादारभ्य षष्टितमसंवत्सरे जन्मदिने जन्मनक्षत्रे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा तस्याऽग्नेयदिग्भागे निष्कद्वयेन मृत्युप्रतिमां कृत्वा धान्यानामुपरि यथाविधि कलशस्थापनं कृत्वा कलशस्योपरि प्रतिमा पूजयेत्-
अपैतु मृत्युः, परं मृत्यो, मा नस्तोके, त्रियम्बकं
इत्यष्टोत्तरशतवारं जपित्वाऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति-
मा नो महान्तं, मा नस्तोके
इति द्वाभ्याम् ॥
अथाज्याहुतीरुपजुहोति - घृतसूक्तेन प्रत्यूचम् ॥ स्विष्टकृत्प्रभृतिसिद्धमाधेनुवरप्रदानात् ॥ अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति ॥ अपरेणाग्निं प्राङ्मुख उपविश्य मृत्युसूक्तायुष्यसूक्तपुराणमन्त्रैः कलशोदकेनात्मानमभिषिच्याचार्यं सम्पूज्य ऋत्विग्भ्यो यथाशक्ति दक्षिणां दत्वा ब्राह्मणान्भोजयेत्
इत्याह भगवान् बोधायनः ॥
प्रयोगः
अथ प्रयोगः ॥ कर्ता जन्मदिनादारभ्य षष्टितमसंवत्सरे जन्ममासे जन्मनक्षत्रे (असम्भवे तद्वर्षान्तर्गतजन्मर्क्षे वा चन्द्रतारादिबलान्वितशुभे काले) सपत्नीकः प्रातर्मङ्गलस्नानं विधाय. शान्त्युपयोगिसम्भारान्सम्भृत्य भद्रासने प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
अमुकगोत्रस्य, अमुकनक्षत्रजातस्य, अमुकशर्मणो मम जन्मनः सकाशात् षष्टितमाब्दप्राप्त्या भविष्यत्वेन सूचितानामपमृत्यु-घोरमृत्यु-दुःस्वप्नदर्शन-मातापितृमृति-भार्यापुत्रवियोग-राजभय-ज्वरादिविविधरोगबाधा-मतिवैकल्येन्द्रियवैकल्य-छायाविकृति-दृष्टिदन्ताद्यवयवशैथिल्याद्यनेकाऽध्यात्मिकबााधानां प्रशमनार्थं, ग्रहपीडाऽग्निबाधा-स्फुटध्रुवनक्षत्रज्योतिषामदर्शन - यक्षराक्षसभूतप्रेतपिशाचशाकिनीडाकिन्यादिविविधदर्शनाद्याधिदैविकबाधापरिहारार्थ, सर्पवृश्चिकदुष्टकीटकदंश-व्याघ्रसिंहशृगालव्यालबाधाद्याधिभौतिकपीडानिवारणार्थं, अन्येषाञ्च महोत्पातानामरिष्टरूपाणां परिहारपूर्वकदीर्घायुरारोग्यादिसुखसम्पत्समृद्ध्यर्थं, श्रीपरमेश्वरप्रीत्यर्थं, सग्रहमखामुग्ररथशान्तिं करिष्ये
इति सङ्कल्प्य । गणपतिं सम्पूज्य, मातृकापूजनं नान्दीश्राद्धञ्च विधाय,
मृत्युः प्रीयताम्
इति पुण्याहं वाचयित्वाऽऽचार्यादीनृत्विजो वृत्वा तान्यथाविभवमभ्यर्चयेत् ॥ अथाचार्यो गोमयेन गोचर्ममात्रचतुरस्त्रं स्थण्डिलमुपलिप्य, तस्याग्नेयादिग्भागे व्रीहिभिर्यवैर्वा दक्षिणोत्तरक्रमेण स्थण्डिलद्वयं कृत्वा, दक्षिणे स्थण्डिले ग्रहानावाह्य सम्पूज्य, उत्तरे स्थण्डिले कलशं प्रतिष्ठाप्य तस्मिञ्छुद्धजलं सप्तमृत्तिकाः पञ्चपल्लवान्पञ्चत्वचः पञ्चगव्यं पञ्चामृतं पञ्चरत्नानि सर्वौषधीश्च निक्षिप्य वस्त्रद्वयेनावेष्ट्य पूर्णपात्रं निधाय वरुणं संपूज्य, निष्कद्व्यसुवर्णानिर्मितां मृत्युप्रतिमामग्युत्तारणपूर्वकं पूर्णपात्रे निधाय,
मा नो महान्तं॰, मा नस्तोक॰
इति द्वाभ्यां मृत्युमावाह्य षोडशोपचारैः सम्पूज्य,
अपैतु मृत्युः॰, परं मृत्यो॰, मा नो महान्तं॰, मा नस्तोके॰, त्र्यम्बकं यजामहे॰
इति मन्त्रपञ्चकमष्टोत्तरवारं कलशं स्पृश्वा जपेत् ॥ (श्रीसूक्तं, पुरुषसूक्तं, रुबैकादाशनी, सम्भवे ऋगादिवेदांश्च) अथाऽचार्यो देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्याऽमुकगोत्रस्य यजमानस्य जन्मनः सकाशात्॰ श्रीपरमेश्वरप्रीत्यर्थं ग्रहमखपूर्वकमुग्ररथशान्तिहोमं करिष्ये॰ ग्रहान्बाधानमुक्त्वा, उग्ररथशान्तिहोमः कर्म, वरदो नामाऽग्निः, मृत्युर्देवता, चरुर्हविः, उपहोमश्च यो ब्रह्मा ब्रह्मणः॰ इत्यष्टर्चेन घृतसूक्तेन ईशानादि देवताः केवलाज्येन एकैकवारं यक्ष्ये, स्विष्टकृतः अर्यमादयो देवताः, इत्यादि सङ्कल्प्यान्वाधायाऽऽप्रणीताभ्यः कृत्वा, आदित्यादिग्रहेभ्यो मृत्यवे च सिद्धमोदनं निरुप्य प्रोक्ष्याऽग्नावुत्तरतोऽधिश्रित्याऽऽज्यसंस्काराद्यग्निमुखान्तं कृत्वा, ग्रहाणां पक्वं हुत्वा व्याहृतीर्मिन्दाहुती च हुत्वा
मा नो महान्तं॰, मा नस्तोके॰
इति द्वाभ्यां मृत्यवे पक्वं जुहुयात् (मृत्यव इदं॰) अथ स्विष्टकृतमवदायान्तःपरिधौ निधायाऽन्वाधानोक्तक्रमणोपहुत्य, स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाऽनिं दुर्वास्तम्बेषु हुतशेषं निदधाति
मा नो महान्त॰, मा नस्तोके॰
इति द्वाभ्याम् ॥ तत उत्तरपरिषेकादि होमशेषं समाप्यावाहितदेवताः पुनः सम्पूज्य, लाजाऽपूपपृथुकपायसादीन्निवेद्य
अपैतु मृत्युः॰
इत्यादि मन्त्रैः सम्प्रार्थ्य देवता उद्वाासयेत् ॥ अथर्त्विजः - अपरेणाऽग्निं यजमान सपरिवारं प्रामुखमुपवेश्य, मृत्युसूक्तेनाऽऽयुष्यसूक्तेन (पुरुषसूक्तेन शान्तिसूक्तेन पवमानसूक्तेन सुरास्त्वां॰ इत्यादिभिः शिवसङ्कल्पमन्त्रैश्च) प्रोक्षेयुः ॥ ततो यजमानः पूर्वधृतवासो विसृज्यान्यदहतं वस्त्रं परिधायाऽऽचम्य, (पुरतो दीपं, फलं, दूर्वाः, गन्धं, पुष्पं, गोरोचनं, सिद्धार्थान्, दर्पणं, दधि, आज्यं, कज्जलं, शतमानं हिरण्यश्चासाद्याऽऽयुष्य सूक्तेनाभिमन्त्र्याथाचार्यः षष्टिग्रन्थियुतं मङ्गलवस्त्रमायुष्यसूक्तेन यजमानस्य दक्षिणहस्ते बध्नाति ॥ अथ यजमानः
स्योना पृथिविः
इति भूमिं प्रार्थ्य.
अग्ने॒ त्वन्नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑
इति दीपं दृष्ट्वा,
याः फलिनीः॰
इति हस्ते फलं गृहीत्वा,
काण्डात्काण्डात्
इति दूर्वाः शिरसि निधाय,
गन्धद्वारां॰
इति गन्धं ललाटेऽनुलिप्य,
आयने ते॰
इति पुष्पं शिरसि धृत्वा,
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑त॒स्थुषः॑ । रोच॒न्ते रोच॒ना दि॒वि
इति गोरोचनेन ललाटे तिलकं कृत्वा,
दधिक्राव्णो॰
इति सिद्धार्थान् शिरसि निधाय,
युञ्जते मन उत युनते धियः ॥ विप्रा विर्घस्य बृहतो विपश्चितः ॥ वि होत्रा दधे वयुना विदेक इत् ॥ मही देवस्य सवितुः परिश्रुतिः ॥ [[TODO: परिष्कार्यम्]]
इति दर्पणे मुखमवलोक्य,
उदु त्यं जातवेदसं॰
इति दध्ना ललाटे तिलकं कृत्वा,
सहस्राक्षेण॰
इत्याज्येन मुखप्रभृत्यनुलोममापादमभ्यज्य,
वृ॒त्रस्य॑ क॒नीनि॑कासि चक्षु॒ष्पा अ॑सि चक्षु॑र्मे पाहि
इत्यक्षिणी अञ्जयित्वा.
शतं जीव शरदो वर्धमानः॰
इति दक्षिणहस्तस्थं वस्त्रग्रन्थिं प्रार्थयेत् ॥) आचार्यादीन्सम्पूज्य, दशदानं, कुण्डले, हारं, अङ्गुलीयकं, दीपं, निरीक्षिताज्यं,
शतमान शतायुष्य शतर्वार्य शतप्रिय ।
अतस्त्वां सम्प्रयच्छामि शतायुस्त्वं प्रयच्छ मे
इति शतमानं हिरण्यश्च दद्यात् । अथाचार्याय सपीठं कलशं, ऋत्विग्भ्यो यथाशक्ति भूयसी दक्षिणां च दद्यात् । पुरन्ध्र्यो यथाचारं मङ्गलार्तिक्यं कुर्युः ॥ ततः स्वेष्टदेवता आचार्य मातरं पितरं ब्राह्मणान् सुवासिनीश्च नमस्कृत्य, सहस्रं शतं वा ब्राह्मणान् सुवासिनीश्च सम्भोज्य आशिषो गृह्णीयात् ॥