॥ गणहवनविधिः ॥ (वो. ध. सू. ४. ७, ८)
निवृत्तः पापकर्मभ्यः प्रवृत्तः पुण्यकर्मसु ॥
यो विप्रस्तस्य सिध्यन्ति विना यन्त्रैरपि कियाः ॥
ब्राह्मणा ऋजवस्तस्माद्यद्यदिच्छन्ति चेतसा ॥
तत्तदा साधयन्त्याशु संशुद्धा ऋजुकर्मभिः ॥
एवमेतानि यन्त्राणि तावत्कार्याणि धीमता ॥
कालेन यावतोपैति विग्रहं शुद्धिमात्मनः ॥
एभिर्यन्त्रविशुद्धात्मा त्रिरात्रोपोषितस्ततः ॥
तदारभेत येनार्द्धि कर्मणा प्राप्तुमिच्छति ॥
क्षापवित्रं सहस्राक्षो मृगारोंऽहोमुचौ गणौ ॥
पावमान्यश्च कुश्माण्ड्यो वैश्वानर्य ऋचश्च याः ॥
घृतौदनेन ता जुह्वत्सप्ताहं सवनत्रयम् ॥
मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ॥
“सिंहे म” इत्यपां पूर्णे पात्रेऽवेक्ष्य चतुष्पथे ॥
मुच्यते सर्व पापेभ्यो महतः पातकादपि ॥
वृद्धत्वे यौवने बाल्ये यः कृतः पापसञ्चयः ॥
पूर्वजन्मसु वाऽज्ञानात्तस्मादपि विमुच्यते ॥
भोजयित्वा द्विजानन्ते पायसेन सुसर्पिषा ॥
गोभूमितिलहेमानि भुक्तवद्भयः प्रदाय च ॥
विप्रो भवति पूतात्मा निर्दग्धवृजिनेन्धनः ॥
काम्यानां कर्मणां योग्यः तथाऽधानादि कर्मणाम् ॥
अतिलोभात्प्रमादाद्वा यः करोति क्रियामिमाम् ॥
अन्यस्य सोंऽहसाऽऽविष्टो गरगीरिव सीदति ॥
आचार्यस्य पितुर्मातुरात्मनश्च क्रियामिमाम् ॥
कुर्वन्भात्यर्कवद्विप्रस्सा कार्यैषामतः क्रिया ॥
क एतेन सहस्राक्षं पवित्रेणाऽकरोच्छुचिम् ॥
अग्निं वायुं रविं सोमं यमादींश्च सुरेश्वरान् ॥
यत्किञ्चित्पुण्यनामेह त्रिषु लोकेषु विश्रुतम् ॥
विप्रादितत्कृतं केन पवित्रक्रिययाऽनया ॥
प्राजापत्यमिदं गुह्यं पापघ्नं प्रथमोद्भवम् ॥
समुत्पन्नान्यतः पश्चात्पवित्राणि सहस्रशः ॥
योऽब्दायनर्तुपक्षाहान् जुहोत्यष्टौ गणानिमान ॥
पुनाति चाऽऽत्मनो वंश्यान् दश पूर्वन् दशाऽपरान् ॥
एतानष्टौ गणान होतुं न शक्नोति यदि द्विजः ॥
एकोऽपि तेन होतव्यो रजस्तेनाऽस्य नश्यति ॥
सूनवो यस्य शिष्या वा जुह्वत्यष्टौ गणानिमान् ॥
अध्यापनपरिक्रीतैरंहसस्सोऽपि मुच्यते ॥
धनेनाऽपि परिक्रीतैरात्मपापजिघांसया ॥
हावनीया ह्यशक्तेन नाऽवसाद्यश्शरीरधृक् ॥
धनस्य क्रियते त्यागः कर्मणां सुकृतामपि ॥
पुंसोऽनृणस्य पापस्य विमोक्षः क्रियते क्वचित् ॥
मुक्तो यो विधिनैतेन सर्वपापार्णसागरात् ॥
आत्मानं मन्यते शुद्धं समर्थं कर्म साधने ॥
ज्ञायते चाऽमरैः द्युस्स्थैः पुण्यकर्मेति भूस्थितः ॥
देववन्मोदते भूयस्स्वर्गलोकेऽपि पुण्यकृत् ॥
सर्व पापार्णमुक्तात्मा क्रिया आरभते तु याः ॥
अयत्नेनैव तास्सिद्धिं यान्ति शुद्धशरीरिणः ॥
प्राजापत्यमिदं पुण्यमृषीणां समुदीरितम् ॥
इदमध्यापयेन्नित्यं धारयेच्छ्रुणुतेऽपि वा ॥
मुच्यते सर्वपापेभ्यो ब्रह्मलोके महीयते ॥
(बो. गृ. शे. सू. ५. ६. २२-२६)
परानपहरेद्यस्तु बालवृक्षान्छिनत्ति यः ।
भक्षयन्नण्डशिशुकान्गुरून्वा सर्वदा द्विषन् ॥
परपुत्रांश्च यो द्वेष्टि क्रीडन्बद्धमृगादिभिः ।
निर्दयः सर्वभूतेषु पितृपूजां विलोपयन् ॥
स वंध्यो मृतपुत्रो वा भवेत्तेषां तु निष्कृतिः ॥
मौनी व्रती हविष्याशी हूयते नियतेन्द्रियः ॥
जुह्वन्धृतेन कूश्माण्डैर्गणानष्टौ घृतोदनैः ।
जपन्वा पौरुषं सूक्तं हेमगोभूतिलान्ददत् ॥
कृच्छ्रातिकृच्छ्रैर्जपकृन्मुच्यते सोंहसः क्षणात् ॥
(बो. श्रौ. सू. २.५) सिँहे मे मन्युः॥ व्याघ्रे मेऽन्तरामयः ॥ वृके मे क्षुत् ॥ अश्वे मे घसिः ॥ धन्वनि मे पिपासा ॥ राजगृहे मेऽशनया ॥ अश्मनि मे तन्द्रिः ॥ गर्दभे मेऽर्शः ॥ शल्यके मे ह्रीः॥ अश्वत्थे मे वेपथुः ॥ कूर्मे मेऽङ्गरोगः॥ बस्ते मेऽपसर्या ॥ आप्रिये मे मृत्युः ॥ भातृव्ये मे पाप्मा ॥ सपत्ने मे निर्ऋतिः ॥ दुष्कीर्तौ मे व्यृद्धिः ॥ परस्वति मेऽसमृद्धिः ॥ खड्गे म आर्तिः ॥ गवये म आन्ध्यम् ॥ गौरे मे बाधिर्यम् ॥ ऋक्षे मे शोकः॥ गोधायां मे स्वेदः ॥ जरायां मे हिमः॥ कृष्णशकुनौ मे भीरुता। कशे मे पापो गन्धः॥ उलूके मे श्वभ्यशः ॥ श्लोके म ईर्ष्या ॥ मर्कटे मे दुर्ऋद्धिः॥ कुलले मे मँस्था॥ उलले में प्रध्या॥ उष्ट्रे मे तृष्णा ॥ अर्शे मे श्रमः ॥ अव्यां म आव्यम् ॥ कोशे मे गन्धः ॥ कुमार्यां मेऽलङ्कारः ॥ सूकरे मे क्लदथुः ॥ पृदाखुनि मे स्वप्नः॥ अजगरे मे दुस्वप्नः ॥ विद्युति मे स्मयशः॥ लोभायां मे क्लेदः॥ शलभे मे पाप्मालक्ष्मी ॥ स्त्रीषु मेऽनृतम् ॥ अजासु मे कर्कशः ॥ व्रात्ये म ईर्ष्या॥ शूद्रे मे स्तेयम् ॥ वैश्ये मेऽकार्मकृत्यम् ॥ राजन्यबन्धुनि मेऽज्ञानम् ॥ नैषादे में ब्रह्महत्या ॥ कुलिङ्गे मे क्षवथुः ॥ उलले मे विलासः ॥ उद्रिणि मे वमतिः ॥ किम्पुरुषे मे रोदः ॥ द्वीपिनि मे निष्टपत् ॥ हस्तिनि मे किलासः ॥ शुनि मे दुरिप्रस्ना ॥ वन्येषु मे म्लेच्छः ॥ विदेहेषु मे शीपथः ॥ महावर्षेषु मे ग्लौः ॥ मूजवत्सु मे तप्ना ॥ दुन्दुभौ मे कासिका ॥ इक्ष्वाकुषु मे पित्तम् ॥ कलिङ्गेषु मेऽमेध्यम् ॥ अश्वतर्य्यां मेऽप्रजस्ता ॥ पुँश्चल्यां मे दुश्चरितम् ॥ अखुनि मे दन्तरोगः ॥ मक्षिकायां मे श्वल्कशः॥ शुके मे हरिमा ॥ मयूरे मे जल्प्या॥ वृषे मे जरा ॥ चाषे मे पापवादः ॥ अप्सु मे श्रमः॥ ब्रह्मोज्झे मे किल्विषम् ॥ अपेहि पाप्मन्पुनरपनाशितो भवा नः पाप्मन्सुकृतस्य लोके पाप्मन्धेह्यविहृतो यो नः पाप्पन्न जहाति तमु त्वा जहिमो वयमन्यत्रास्मानिविशताँ सहस्राक्षो अमत्यों यो नो द्वेष्टि स रिष्यतु यमु द्विष्मस्तमु जहीत्यथाऽञ्जलिनाप उपहन्ति सुमित्रा न आप ओषधयः सन्त्विति ॥ तां दिशमेता अप उत्सिञ्चति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यञ्च वयं द्विष्म इत्यथाप उपस्पृश्य यथेतं प्रविशन्ति ॥
प्रयोगः
अथ प्रयोगः ॥ अमावास्यां पौर्णमास्यां वा नित्यकर्मान्ते केशश्मश्रुनखलोमानि वापयित्वा, स्नात्वाचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,
ममेहजन्मनि पूर्वजन्मसु वा बाल्य-कौमार-यौवन-वार्धक्यावस्थासु मनोवाक्कायकर्मभिर्ज्ञानतोऽज्ञानतश्च कृत परद्रव्यापहरण-बालवृक्षच्छेदन-मृगशावहननाऽण्डभक्षण-मातृ-पितृ-गुरुद्वेषान्यपुत्रेषुविद्वेषण बद्धमृगादिभिः क्रीडन-सर्वभूतद्रोहाऽष्टकापर्वसङ्क्रांत्यादौ विहितपितृकर्मराहित्येत्यादि समस्तदोषनिवृत्त्या शरीरशुद्ध्यर्थं (करिष्यमाण-अमुककर्मणः, आधानादि कर्मणो वा अधिकारसिद्ध्यर्थं) श्रीपरमेश्वरप्रीत्यर्थं गणहवनं करिष्ये
इति सङ्कल्प्य । गणपतिं सम्पूज्य
अग्न्यादयः प्रीयन्ताम्
इति पुण्याहं वाचयित्वा, स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य, देशकालौ सङ्कीर्त्य ममेहजन्मनि° गणहवनं करिष्ये, चित्तिर्नामाऽग्निः,सविता देवता, चरुर्हविः, उपहोमे-अग्ने नयेत्यादि गणाष्टकमन्त्रैःप्रत्यृचं घृताक्तेनान्नेन, अग्निः स्विष्टकृत् इत्यादि सङ्कल्प्यान्वाधायाऽऽप्रणीताभ्यः कृत्वा, अग्रेणाऽग्निं विधिवत्कलशं प्रतिष्ठाप्य वरुणपूजान्तं कृत्वा, तत्र सवितारमावाह्य षोडशोपचारैरभ्यर्च्य, चरुनिर्वापाद्यग्निमुखान्तं कृत्वा, सावित्र्या पक्वम् हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधाय, चरुमध्ये गर्तं कृत्वा प्रभूतमाज्यमानीय मेक्षणेनोपहत्य जुहोति -
ॐ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम-उक्तिं विधेम स्वाहा ॥ (अग्नय इदं°) ॥ १ ॥ प्र वः शुक्राय° जिगाति स्वाहा ॥ (अग्नय इदं°) ॥ २ ॥ अच्छा गिरो मतयो देवयंती:॥ अग्निं यंति द्रविणं भिक्षमाणाः ॥ सुसंदृशँ सुप्रतीकँ स्वंचम् ॥ हव्यवाहमरतिं मानुषाणाँ स्वाहा ॥ (अग्नय इदं°) ॥ ३ ॥ अग्ने त्वमस्मयोध्यमीवाः ॥ अनग्नित्रा अभ्यमन्त कृष्टीः ॥ पुनरस्मभ्यँ सुविताय देव ॥ क्षां विश्वेभिरजरेभिर्यजत्र स्वाहा ॥ (अग्नय इदं°) ॥ ४ ॥ अग्ने त्वं पारया नव्यो° शं योः स्वाहा ॥ (अग्नय इदं°) ॥ ५ ॥ प्रकारवो मनना वच्यमानाः ॥ देवद्रीचीन्नयथ देवयन्तः ॥ दक्षिणावाड्वाजिनी प्राच्येति ॥ हविर्भरत्यग्नये घृताची स्वाहा ॥ (अग्नय इदं°) ॥ ६ ॥ [[TODO: परिष्कार्यम्]]
ॐ सहस्रशीर्षा° दशांगुलँ स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ १ ॥
पुरुष एवे° तिरोहति स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ २ ॥
एतावानस्य° दिवि स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ ३ ॥
त्रिपादूर्ध्व° अभि स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ ४ ॥
तस्माद्विरा° पुरः स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ ५ ॥
यत्पुरुषेण° शरद्धविः स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ ६ ॥
सप्तास्या° पशुँ स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ ७ ॥
तं यज्ञ° ऋषयश्च ये स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ ८ ॥
तस्माद्यज्ञात्सर्वः हुतः संभृतं° श्च ये स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ ९ ॥
तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि° अजायत स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ १० ॥
तस्मादश्वा अजा° वयः स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ १९ ॥
यत्पुरुषं व्य° उच्येते स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ १२ ॥
ब्राह्मणोस्य° अजायत स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ १३ ॥
चन्द्रमा मनसो° अजायत स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ १४ ॥
नाभ्या आ° कल्पयन्स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ १५ ॥
वेदाहमेतं° न्यदास्ते स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ १६ ॥
धाता पुरस्ता° विद्यते स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ १७ ॥
यज्ञेन यज्ञं° सन्ति देवाः स्वाहा ॥ (पुरुषाय नारायणायेदं°) ॥ १८ ॥
ॐ अग्नेर्मन्वे प्रथमस्य° स नो मुंचत्वर हसः स्वाहा ॥ (अग्नयेँ होमुच इदं°) ॥१॥
यस्येदं प्राणं निमिष° स नो मुंचत्वर हसः स्वाहा ॥ (अग्नयेँ होमुच इदं°) ॥२॥
इंद्रस्य मन्ये प्रथमस्य° स नो मुंचत्वँ हसः स्वाहा ॥ (इन्द्रायाँ होमुच इदं°) ॥३॥
यस्संग्रामन्नयति सं° स नो मुंचत्वँ हसः स्वाहा ॥ (इंद्रायाँ होमुच इदं°) ॥४॥
मन्वे वां मित्रावरुणा त° ता नो मुंचतमागसः स्वाहा ॥ (मित्रावरुणाभ्यामागोमुग्भ्यामिदं°)॥५॥
यो वाँ रथ ऋजु रश्मिस्स° तौ नो मुञ्चतमागसः स्वाहा ॥ (मित्रावरुणाभ्यामागोमुग्भ्यामिदं°)॥६॥
वायोः सवितुर्विदथानि° स्तौ नो मुञ्चतमागसः स्वाहा ॥ (वायुसवितृभ्यामागोमुग्भ्यामिदं°) ॥७॥
उप श्रेष्ठा न आशिषो दे° तौ नो मुञ्चतमागसः स्वाहा ॥ (वायुसवितृभ्यामागोमुग्भ्या मिदं°) ॥८॥
रथीतमौ रथीनामह्व ऊतये° स्तौ नोमुञ्चतमागसः स्वाहा ॥ (अश्विभ्यामागोमुग्भ्यामिदं°) ॥९॥
यदयातं° तौ नो मुंचतमागसः स्वाहा ॥ (अश्विभ्यामागोमुग्भ्यामिदं°) ॥१०॥
मरुतां मन्वे अधि नो बुवन्तु° ते नो मुञ्चत्वेनसः स्वाहा ॥ (मरुद्भ्य एनोमुग्भ्य इदं°) ॥११॥
तिग्ममायुधं वीडितं° ते नो मुञ्चत्वेनसः स्वाहा ॥ (मरुद्भ्य्य एनोमुग्भ्य इदं°) ॥१२॥
देवानां मन्वे अधिनो ब्रुवन्तु° ते नो मुश्चत्वेनसः स्वाहा ॥ (विश्वेभ्यो देवेभ्य एनोमुग्भ्य इदं°) ॥ १३ ॥
यदिदं माभिशोचति° ते नो मुञ्चत्वेनसः स्वाहा ॥ (विश्वेभ्यो देवेभ्य एनोमुग्भ्य इदं°) ॥१४॥
अनु नो धानुमतिर्यज्ञंं° दाशुषे मयः स्वाहा ॥ (अनुमत्या इदं°) ॥ १५ ॥
अन्विदनुमते त्वं मन्यासैशं° तारिषः स्वाहा ॥ (अनुमत्या इदं°) ॥ १६ ॥
वैश्वानरो न ऊत्या° न वाहसा स्वाहा ॥ (अग्नये वैश्वानरायेदं°) ॥ १७ ॥
पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पातु नक्तँ स्वाहा ॥ (अग्नये वैश्वानरायेदं°) ॥ १८ ॥
ये अप्रथेताममितेभिरोजोभिः° ते नो मुञ्चतमँ हसः स्वाहा ॥ (द्यावापृथिवाभ्यामर होमुग्भ्यामिदं°) ॥ १९ ॥
उर्वी रोदसी वरिवः कृणोतं° ते नो मुञ्चतमँहसः स्वाहा ॥ (द्यावापृथिवीभ्यामँ होमुग्भ्यामिदं°) ॥ २० ॥
यत्ते वयं पुरुष° विष्वगग्ने स्वाहा ॥ (अग्नय इदं°) ॥ २१ ॥
यथा ह तद्वसवो गौर्यं चि° आयुः स्वाहा । (अग्नय इदं°) ॥ २२ ॥
ॐ या वामिन्द्रावरुणा यतव्या तनूस्तयेममँ हसो मुञ्चतँ स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ १ ॥
या वामिन्द्रावरुणा सहस्या तनूस्त° तँ स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ २ ॥
या वामिन्द्रावरुणा रक्षस्या तनूस्त° तँ स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ ३ ॥
या वामिन्द्रावरुणा तेजस्या तनूस्त° तँ स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ ४ ॥
ॐ यो वामिन्द्रावरुणावग्नौ स्रामस्तवामेतेनावयजे स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ १ ॥ यो वामिन्द्रावरुणा द्विपात्सु पशुष स्रामस्तं वामेतेनावयजे स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ २ ॥ यो वामिन्द्रावरुणा चतुष्पात्सु पशुषु स्रामस्तं वामेतेनावयजे स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ ३ ॥ यो वामिन्द्रावरुणा गोष्ठे स्रामस्तंं वामतेनावयजे स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ ४ ॥ या वामिन्द्रा वरुणा गृहेषु स्रामस्तं वामेतेनावयजे स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ ५ ॥ यो वामिन्द्रावरुणाप्सु स्रामस्तं वामेतेनावयजे स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ ६ ॥ यो वामिन्द्रावरुणौषधीषु स्रामस्तं वामेतेनावयजे स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ ७ ॥ यो वामिन्द्रा वरुणा वनस्पतिषु स्रामस्तं वामेतेनावयजे स्वाहा ॥ (इन्द्रावरुणाभ्यामिदं°) ॥ ८ ॥ [[TODO: परिष्कार्यम्]]
ॐ पवमानः सुवर्जनः° पुनातु मा स्वाहा ॥ (पवमानायेदं°) ॥ १ ॥
पुनन्तु मा° आयवः स्वाहा ॥ (देवजनमनुविश्वायुभ्य इदं°) ॥ २ ॥
जातवेदः° क्रतूँरनु स्वाहा ॥ (जातवेदसेग्नय इदं°) ॥ ३ ॥
यत्ते पवित्रमर्चिषि° पुनीमहे स्वाहा ॥ (अग्नय इदं°) ॥ ४ ॥
उभाभ्यां देव सवितः° पुनीमहे स्वाहा ॥ (देवाय सवित्र इदं°) ॥ ५ ॥
वैश्वदेवी पुनती° रयीणाँ स्वाहा ॥ (वैश्वदेव्यै देव्या इदं°) ॥ ६ ॥
वैश्वानरो° पुनीताँ स्वाहा ॥ (वैश्वानरवातेषिरद्यावापृथिवीऋतावरीभ्य इदं°) ॥ ७ ॥
बृहद्भिः सवितस्तृभिः° पुनाहि मा स्वाहा ॥ (सवित्रेऽग्नय इदं°) ॥ ८ ॥
येन देवा अपुनत° पुनीमहे स्वाहा ॥ (देवेभ्योऽभ्य इदं°) ॥ ९ ॥
यः पावमानी° मातरिश्वना स्वाहा ॥ (पावमानीभ्य इदं°) ॥ १० ॥
पावमानीर्यो° मधूदकँ स्वाहा ॥ (पावमानीभ्य इदं°) ॥ ११ ॥
पावमानीः स्व° हितँ स्वाहा ॥ (पावमानीभ्य इदं°) ॥ १२ ॥
पावमानीदिशंतु° समाभृताः स्वाहा ॥ (पावमानीभ्य इदं°) ॥ १३ ॥
पावमानीः स्वस्त्ययनीः° हितँ स्वाहा ॥ (पावमानीभ्य इद°) ॥ १४ ॥
येन देवाः पवित्रेण° पुनंतु मा स्वाहा ॥ (देवेभ्यः पावमानीभ्य इदं°) ॥ १५ ॥
प्राजापत्यं° पुनीमहे स्वाहा ॥ (ब्रह्मण इदं°) ॥ १६ ॥
इन्द्रः सुनीती° पुनातु स्वाहा ॥ (इन्द्राय सुनीत्या सहिताय सोमाय स्वस्त्या सहिताय वरुणाय समीच्या सहिताय यमाय राज्ञे प्रमृणाभिः सहिताय जातवेदस ऊर्जयन्त्या सहितायेदं°) ॥ १७ ॥
ॐ यद्देवा देवहेडनं° मामुत स्वाहा ॥ (देवेभ्य आदित्यभ्य इदं°) ॥ १ ॥
देवा जीवनकाम्या यत्° मूदिम ॥ अग्निर्मा तस्मादेनसः° सँ स्वाहा ॥ (अग्नये गार्हपत्यायेदंं°) ॥ २ ॥
ऋतेन द्यावा° कृतमारिम स्वाहा ॥ (द्यावापृथिवीभ्याँ सरस्वत्या इदं°) ॥ ३ ॥
सजातशँसादुत वा° अनाज्ञातं देव° मुमुग्धि स्वाहा ॥ (अग्नये जातवेदस इदं°) ॥ ४ ॥
यद्वाचा यन्मनसा° नेनसँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं°) ॥ ५ ॥
यद्धस्ताभ्यां चकर किल्बिषाणि° मृणानि स्वाहा ॥ (दूरेपश्यायै राष्ट्रभृतेऽप्सरोभ्यामिदं°) ॥६॥
अदीव्यन्नृणं° अग्निर्मा° स्वाहा ॥ (अग्नये गार्हपत्यायेदं°) ॥ ७ ॥
यन्मयि माता गर्भे° सँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं°) ॥ ८ ॥
यदापिपेष° भवामि स्वाहा ॥ अग्नय इदं° ॥ ९ ॥
यदन्तरिक्षं पृथिवी° नेनसँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं°) ॥ १० ॥
यदाशसानिशसा° नेनसँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं°) ॥ ११ ॥
अतिकामामि° सुकृतान्नु लोकँ स्वाहा ॥ (अग्नय इदं°) ॥ १२ ॥
त्रिते देवा अमृजतैतदेनः° नेनसँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं°) ॥ १३ ॥
दिविजाता अप्सुजाताः° शुंधनीः स्वाहा ॥ (अद्भ्यः शुंधनीभ्य इदं°) ॥ १४ ॥
यदापो नक्तं° उत्पुनीत नः स्वाहा ॥ (अद्भ्यो हिरण्यवर्णाभ्य इदं°) ॥ १५ ॥
इमम्मे वरुण° राचके स्वाहा ॥ (वरुणायेदं°) ॥ १६ ॥
तत्वा यामि° स्वाहा ॥ (वरुणायेदं°) ॥ १७ ॥
त्वन्नो अग्ने° स्वाहा ॥ (अग्नीवरुणाभ्यामिदं°) ॥ १८ ॥
सत्वन्नो अग्ने° स्वाहा ॥ (अग्नीवरुणाभ्यामिदं°) ॥ १९ ॥
त्वमग्ने अयास्ये° भेषजँ स्वाहा ॥ (अग्नये अयस इदं°) ॥ २० ॥
ॐ वैश्वानरो ने ऊत्या प्रयातु परावतः ।
अग्निरुक्थेन वाहसा स्वाहा ॥ (अग्नयेवैश्वानरायेदं°) ॥ १ ॥
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।
अजस्रं धर्ममीमहे स्वाहा ॥ सर्वत्र, (अग्नये वैश्वानरायेदं°) ॥ २ ॥
वैश्वानरस्य दँसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः ।
उभा पितरा महयन्न जायताग्निर्द्यावापृथिवी भूरि रेतसा स्वाहा ॥ ३ ॥
पृष्टो दिवि पृष्टो आग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तँ स्वाहा ॥ ४ ॥
जातो यदग्ने भुवनाव्यख्यः पशुं न गोपा इर्यः परिज्मा ।
वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सदा नः स्वाहा ॥ ५ ॥
त्वमग्ने शोचिषा शोशुचान आरोदसी अपृणा जायमानः ।
त्वं देवाँ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा स्वाहा ॥६॥
अस्माकमग्ने मघवत्सु धारयानामि क्षत्रमजरँ सुवीर्यम् ।
वयं जयेम शतिनँ सहस्रिणं वैश्वानर वाजमन्ने तवोतिभिः स्वाहा ॥ ७ ॥
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ।
इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण स्वाहा ॥ [[TODO: परिष्कार्यम]]
इत्येतैर्मन्त्रैः प्रतिमन्त्र हुत्वा स्विष्टकृदादि होमशेष समापयेत् ॥ ततो नैर्ऋत्यां दिशि चतुष्पथं गत्वोपविभ्य, पुरतो गोमयेनोपलिप्य तत्र सिकताः सम्प्रकीर्य जलपूर्णं शरावं निधाय परिस्तीर्य तज्जले आत्मनः प्रतिबिम्बमवेक्षमाणो जपति-
सिँहे मे मन्युः° । यमु द्विष्मस्तमु जहि
इति ॥
अथाऽञ्जलिनाऽप उपहन्ति –
सुमित्रा न आप ओषधयः सन्तु
इति ॥ नैर्ऋत्यां दिशि, स्ववैरिणो यस्यां दिशि निवसन्ति तस्यां वा दिशि निनयति –
दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्रेष्टि यशञ्च वयं द्विष्मः
इति ॥ उदशरावं नैर्ऋत्यां दिशि परास्याप उपस्पृश्य पृष्ठतोऽनवेक्षमाणो यथागतमागत्य हस्तपादान्प्रक्षाळ्याऽऽचामेत् ॥ एवमेकाहं, त्र्यहं, सप्ताहं,पञ्चदश दिनानि, एकं मासं, मासद्वयं, षण्मासं, संवत्सरं वा पापानुरूपं गणहोमं कुर्यात् । प्रतिदिनं कालत्रयेऽनुष्ठानम्॥ कर्मान्ते सर्पिर्मिश्रेण पायसान्नेन यथाशक्ति ब्राह्मणान्भोजयित्वा, गो-भू-तिल-हिरण्यानि यथाशक्ति दक्षिणाञ्च दत्वाऽऽशिषो गृह्णीयात् ॥