०८ प्रयोगः

अथ प्रयोगः ॥

अमावास्यायां पौर्णमास्यां वा केशश्मश्रुनखलोमानि वापयित्वा, मधु-मांसादिभक्षण-अनृतवदन-खट्वारोहण- स्त्रीगमनादिवर्जनरूपं (पयोभक्षो भैक्षाहारो वा ॥ अशक्तश्चेत् - ओदन-धाना-सक्तु-घृतान्युपभुञ्जीयात्) संवत्सरं मासं चतुविंशत्यहो द्वादश रात्रीः षट् तिस्रो वा पापतारतम्येन व्रतं चरित्वा प्रतिदिनं कूष्माण्डैर्जुहुयात् ॥ कर्ता स्नानादिनित्यकर्म कृत्वा पूर्वाह्ने आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

ब्रह्महत्या-सुरापान-स्वर्णस्तेय-गुरुतल्पगमन- तत्संसर्गरूपमहापातकानां, गुर्वधिक्षेप-वेदनिन्दा-सुहृद्वध- कौटसाक्ष्य-अधीतवेदविस्मरण-भुञ्जानेषुपात्रपरित्याग- रजस्वलान्तर्वत्न्यात्रेयी-अविज्ञातगर्भशरणागतादिहनन-अयोनौरेतस्सेक-वृषलीपतित्वेतिब्रह्महत्यासमरूपपातकानां निवृत्तिद्वारा शरीरशुध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं कूष्माण्डहोमं करिष्ये

इति सङ्कल्प्य विवाहप्रकरणोक्तप्रकारेण सर्वं कुर्यात् । द्वादशर्चेन वैश्वानरसूक्तेनोपस्थाय समिधमाधायाऽऽचार्याय वरं (चतुर्वर्षां गां) ददाति । ततो यावच्छक्ति ब्राह्मणान्भोजयेत् ॥ यः सन्दिग्धेन पापेनाऽत्मानमपूतमिति मनसि शङ्कते सोऽपि कूष्माण्डैर्जुहुयात् ॥