॥ आयुष्यचरुशान्तिः ॥ (हुतानुकृतिः) (बो.गृ.सू. ३.७) अथायुष्यचरुः ॥ संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासिमासि वा कुमारस्य जन्मनक्षत्रे क्रियेत ॥ अथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा ब्रीहीन्निर्वपति -
अग्नय आयुष्मते वो जुष्टं निर्वपामि
इति । तूष्णीं वा ॥ धान्यान्निर्वपति -
प्राणाय वो जुष्टं निर्वपामि
इति । तूष्णीं वा ॥ तानभ्युक्ष्यावहत्य त्रिष्फलीकृत्य त्रिःप्रक्षाळ्य निदधाति ॥ तण्डुलान्वा निर्वपति ॥ तानभ्युक्ष्य त्रिः प्रक्षाळ्यैव निदधातीति ॥ अथ तिरः पवित्रं स्थाल्यामपः पयो वाऽऽनीयाधिश्रित्य तिरःपवित्रं तण्डुलानावपति ॥ अथाज्यं निर्वपत्यथाज्यमधिश्रयत्युभयं पर्याग्नि कृत्वा मेक्षणं स्रुवञ्च सम्मार्ष्टि ॥ अथैतं चरुं श्रपयित्वाऽभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति । एवमेव सर्वेषां स्थालीपाकानां चरुकल्पः ॥ परिधानत्प्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति -
आयुष्टे विश्वतो दधत्
इति पुरोनुवाक्यामनूच्य
आयुर्दा अग्ने हविषो जुषाणः
इति याज्यया जुहोति ॥ अथाज्याहुतीरुपजुहोति ॥ अथान्तरेणाग्निं चाज्यस्थालीं च पाकस्थालीं निधाय तत्सम्पाताभिहुतं करोति ॥
यो ब्रह्मा ब्रह्मण
इत्यष्टभिर्मन्त्रैः षड्विंशतिशतकृत्वस्तदाहुतीनां अष्टसहस्रं सम्पद्यते ॥ इतरस्मात्पक्वात्सौविष्टकृतं जुहोति ॥ जयप्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति -
मा नो महान्तं, मा नस्तोके
इति द्वाभ्याम् ॥ अपरेणाग्निं प्राङ्मुख उपविश्य वाग्यतः स्थालीपाकं सगणः प्राश्नााति । तस्य प्राशनमन्त्रः-
आयुरसिविश्वायुरसि । सर्वायुरसि सर्वमायुरसि । सर्वं म आयुर्भूयात् । सर्वमायुर्गेषम्
इति प्राश्याप आचम्य जठरमभिमृशति-
यत इन्द्र भयामहे, स्वस्तिदा विशस्पतिः
इति द्वाभ्याम् ॥ कुमाराणां ग्रहगृहीतानां ज्वरगृहीतानां भूतोपसृष्टानां आयुष्येण घृतसूक्तेनाऽहरहस्स्वस्त्ययनार्थं स्वाध्यायमधीयीतैतैरेव मन्त्रैराहुतीर्जुहुयादेतैतैरेव मन्त्रैर्बलीन् हरेदगदो हैव भवति ॥ तदेतदृद्धमयनं भूतोपसृष्टानां राष्ट्रभृतः पञ्चचोडास्सर्पाहुतिर्गन्धर्वाहुतिरहरहस्स्वस्त्ययनार्थं स्वाध्यायमधीयीतैतैरेव मन्त्रैराहुतीर्जुहुयात् । एतैरेव मन्त्रैर्बलीन हरेदगदो हैव भवति ॥
तदेतदृद्धमयनं हुतप्रहुतानुकृतयोऽन्ये होमाः बलिहरणानुकृतीन्यभ्यर्चनान्याश्रमानुकृतयस्संश्रया
इति ॥
प्रयोगः
अथ प्रयोगः॥ संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासिमासि वा कुमारकस्य जन्मनक्षत्रे कुर्यात् ॥ कर्ता सपत्नीकः कृतस्नानादिचतुष्टयो दर्भेष्वासीनो दर्भान्धारयमाण आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,
अस्य कुमारकस्य ग्रहचारपीडापरिहारार्थं समस्तभूतोपसर्गनिवारणार्थं समस्तज्वरपीडापरिहारद्वारा दीर्घायुष्याभिवृध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं आयुष्यचरुहोमं करिष्ये
इति सङ्कल्प्य, गणपतिं सम्पूज्य
अग्निरायुष्मान्प्रीयताम्, प्राणः प्रीयताम्
इति पुण्याहं वाचयित्वा, देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
कुमारकस्य॰ दीर्घायुष्याभिवृद्ध्यर्थं आयुष्यचरुहोमं करिष्ये,
आयुष्यचरुहोमः कर्म, बलवर्धनो नामाग्निः, अग्निरायुष्मान्देवता, प्राणो देवता, चरुपायसे हविषी, उपहोमे - घृतसूक्तेन षइविंशत्युत्तरशतावृत्तेनाष्टसहस्रसङ्ख्याहुतिभिराज्येन, राष्ट्रभृत्पञ्चचोडासर्पाहुतिगन्धर्वाहुतिमन्त्रैराज्येन, अग्निः स्विष्टकृदित्यादि सङ्कल्प्यान्वाधाय, पात्रासादनकाले चरुस्थालीद्वयमासाद्याऽऽप्रणीताभ्यः कृत्वाऽग्रेणाग्निं विधिवत्कलशं प्रतिष्ठाप्य वरुणं सम्पूज्य,
आयुष्टे॰, आयुर्दा अग्ने॰
इति द्वाभ्यां
ॐ भूर्भुवः स्वः अग्नय आयुष्मते नमः अग्निमायुष्मन्तमावाहयामि
इत्यावाह्य षोडशोपचारैरभ्यर्चयेत् ॥ अथ चरुं निर्वपति-
देवस्य त्वा॰ अग्नय आयुष्मते निर्वपामि, प्राणाय॰ निर्वपामि
इति पायसञ्च निरुप्य प्रोक्ष्य अग्नावधिश्रयति । अथाज्यनिर्वापाद्यग्निमुखान्तं कृत्वा पक्वाज्जुहोति-
आयुष्टे विश्वतो दधत्॰
इति पुरोनुवाक्यामनूच्य
आयुर्दा अग्ने हविषो जुषाणः
इति याज्यया जुहोति (अग्नय आयुष्मत इदं॰ इति त्यागः) ततः स्विष्टकृतमवदायान्तःपरिधौ निधायाऽन्तरेणाग्निश्चाद्यस्थालीं पायसं निधायाज्याहुतीरुपजुहोति (सहस्रसम्पाताभिहुतं करोति)-
यो ब्रह्मा॰ घृतेन स्वाहा, (ईशानाय देवायेदं॰)॥ १ ॥
विभ्राजमानः॰ देवः स्वाहा, (ईशानाय देवायेदं॰)॥ २ ॥
ब्रह्मज्योतिः॰ घृतेन स्वाहा, (ईशानाय देवायेदं॰)॥ ३ ॥
श्रियं लक्ष्मी॰ घृतेन स्वाहा, (विद्यायै ब्रह्मयोन्यै सरूपाया इदं॰)॥४॥
दाक्षायण्यः॰ जुषन्ताँ स्वाहा, (दाक्षायणीभ्य इदं॰)॥५॥
दिव्या गणा॰ वीरान्स्वाहा, (दिव्येभ्यो गणेभ्य इदं॰)॥६॥
एकः पुरस्तात्॰ देवः स्वाहा, (देवायेदं॰)॥७॥
वसून्रुद्रान्॰ शश्वत्स्वाहा, (वसुभ्यो रुद्रेभ्य आदित्येभ्यो मरुद्भ्यः साध्येभ्य ऋभुभ्यो यक्षेभ्यो गन्धर्वेभ्यः पितृभ्यो विश्वेभ्यो भृगुभ्यः सर्पेभ्योऽङ्गिरोभ्यः सर्वेभ्य इदं॰)
एवं षड्विंशत्युत्तरशतकृत्वस्तदाहुतीनामष्टसहस्रं सम्पद्यते ॥ अथ राष्ट्रभृतो जुहोति-
ऋताषाडृतधामा
इत्यादि द्वाविंशत्याहुतीः ॥
अथ पञ्चचोडाहुतीर्जुहोति -
अयं पुरो हरिकेशः॰ दधामि स्वाहा (हरिकेशादिभ्य इदं॰) ॥ १ ॥
अयं दक्षिणा विश्वकर्मा॰ दधामि स्वाहा (विश्वकर्मादिभ्याइदं॰) ॥ २ ॥
अयं पश्चाद्विश्वव्यचाः॰ दधामि स्वाहा (विश्वव्यचादिभ्य इदं॰) ॥ ३ ॥ अयमुत्तरात्संयद्वसुः॰ दधामि स्वाहा (संयद्वस्वादिभ्य इदं॰) ॥ ४ ॥
अयमुपर्यर्वाग्वसु:॰ दधामि स्वाहा (अर्वाग्वस्वादिभ्य इदं॰) ॥ ५ ॥
अथ सर्पाहुतीर्जुहोति -
समीची नामासि॰ (अग्नय इदं॰) ॥ १ ॥
ओजस्विनी नामासि॰ (इन्द्रायेदं॰) ॥ २ ॥
प्राची नामासि॰ (सोमायेद॰) ॥ ३ ॥
अवस्थावा नामासि॰ (वरुणायेद॰) ॥ ४ ॥
अधिपत्नी नामासि॰ (बृहस्पतय इदं॰) ॥ ५ ॥
वशिनी नामासि॰ (यमायेदं॰) ॥ ६ ॥
अथ गन्धर्वाहुतीर्जुहोति –
हेतयो नाम स्थ॰ (हेतिभ्य इदं॰) ॥ १ ॥ निलिम्पा नाम स्थ॰ (निलिम्पेभ्य इदं॰) ॥ २ ॥
वज्रिणो नाम स्थ॰ (वज्रिभ्य इदं॰) ॥ ३ ॥
अवस्थावानो नाम स्थ॰ (अवस्थावभ्य इदं॰) ॥ ४ ॥
अधिपतयो नाम स्थ॰ (अधिपतिभ्य इदं॰) ॥ ५ ॥
क्रव्या नाम स्थ॰ (क्रव्येभ्यः पार्थिवेभ्य इदं॰) ॥ ६ ॥
इति ॥ स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाऽग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति -
मा नो महान्तं॰, मा नस्तोके॰
इति द्वाभ्यां, राष्ट्रभृत्पञ्चचोडासर्पाहुतिगन्धर्वाहुतिमन्त्रैश्च ॥ अथापरेणाग्निं प्राङ्मुख उपविश्य वाग्यतः सम्पाताऽभिहुतं पायसं सगणः प्राश्नाति-
आयुरसि विश्वायुरसि । सर्वायुरसि सर्वमायुरसि । सर्वम्म आयुर्भूयात् ॥ सर्वमायुर्गेषम् [[TODO: परिष्कार्यम्]]
इति प्राश्याप आचम्य जठरमभिमृशति -
यत इन्द्र भयामहे॰, स्वस्तिदा विशस्पतिः॰
इति द्वाभ्याम् ॥ अथोत्तरपरिषेकादि होमशेष समाप्य, आवाहितदेवताः पुनः सम्पूज्य ऋत्विजः कलशोदकेन यजमानं सगणं प्रोक्षयेयुः । यजमान आचार्याय कलशं सपीठं गां ऋत्विग्भ्यो यथाशक्ति दक्षिणाञ्च दत्वा कर्मेश्वराय समर्प्य ब्राह्मणान्भोजयेत्, तेभ्यश्चाशिषो गृह्णीयात् ॥
अहरहः प्रातः पठनीया मन्त्राः
॥ अहरहः प्रातः पठनीया मन्त्राः ॥ (कौषीतकी गृ. सू. १.४) उत्थाय प्रातराचम्याऽहरहः स्वाध्यायमधीयीताऽद्या नो देव सवितरिति द्वे, अपेहि मनसस्पत इति सूक्तम्, ऋतश्च सत्यश्चेति सूक्तमादित्या अव हि ख्यतेति सूक्तशेषः, इन्द्र श्रेष्ठानि इत्येका, हंसः शुचिषदित्येका, यत इन्द्र भयामह इत्येकाऽधस्वप्नस्यत्येका, यो मे राजन्नित्येका, ममाग्ने इति सूक्तं, स्वस्ति नो मिमीतामिति च पञ्च ॥
अद्या नो देव सवितः प्रजावत्सावीः सौभगम् । परा दुःष्वप्न्यं सुव ॥ १ ॥ विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं सन्म आ सुव ॥ २ ॥ अपेहि मनसस्पतेऽप क्राम परश्चर । परो निर्ऋत्या आ चक्ष्व बहुधा जीवतो मनः ॥ ३ ॥ भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । भद्रं वैवस्वते चक्षुर्बहुधा जीवतो मनः ॥ ४ ॥ यदाशसा निःशसाभिशसो पारिम जाग्रतो यत्स्वपन्तः। अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥ ५ ॥ यदिन्द्र ब्रह्मणस्पतेऽभिद्रोहं चरामास । प्रचेता न आङ्गिरसो द्विषतां पात्वहसः ॥ ६ ॥ अजैष्माद्यासनाम चाभूमानागसो वयम् । जाग्रत्स्वनः सङ्कल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥ ७ ॥ ऋतञ्च सत्यञ्चाभीद्धात्तपसोऽध्य जायत । ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥ ८ ॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥ ९ ॥ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवञ्च पृथिवीञ्चान्तरिक्षमथो स्वः ॥१०॥ आदित्या अव हि ख्यताधि कूलादिव स्पशः । सुतीर्थमवतो यथा नु नो नेषथा सुगमनेहसो व ऊतयः सुऊतयों व ऊतयः ॥ ११ ॥ नेह भद्रं रक्षस्विने नावयै नोपया उत । गवे च भद्रं धेनवे वीराय च श्रवस्यते्ऽनेहसो व ऊतयः॰ ॥ १२ ॥ यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतम् । त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व॰ ॥ १३ ॥ यच्च गोषु दुष्ष्वप्न्यं यच्चास्मे दुहितर्दिवः । त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व॰ ॥ १४ ॥ निष्कं वा घा कृणवते स्रज वा दुहितर्दिवः । त्रिते दुष्ष्वप्न्यं सर्वाप्त्ये परि दद्मस्यनेहसो व॰ ॥ १५ ॥ तदन्नाय तदपसे तं भागमुपसेदुषे । त्रितायं च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व॰ ॥ १६ ॥ यथा कलां यथा शफं यथ ऋणं सन्नयामसि । एवा दुष्ष्वप्न्यं सर्वमाप्त्ये सन्नयामस्यनेहसो व॰ ॥ १७ ॥ अजैष्माद्यासनाम चाभूमानागसो वयम् । उषो यस्माद्युष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व॰ ॥१८॥ इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे । पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् ॥ १९ ॥ हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरस्दृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ २० ॥ नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ॥ २१ ॥ यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्घि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि ॥ २२ ॥ अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः । उभा ता वस्त्रि नश्यतः ॥ २३ ॥ यो में राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह । स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान् ॥ २४ ॥ ममाग्ने वर्चो विहवेवस्तु वयं त्वेन्धानास्तन्धं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥ २५ ॥ मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ २६ ॥ मयि देवा द्रविणमा यजन्तां मय्याशीरस्तु मयि देवहूतिः । दैव्या होतारो वनुषन्त पूर्वेऽरिष्टाः स्याम तन्वा सुवीराः ॥ २७ ॥ मह्यं यजन्तु मम यानिहव्याऽऽकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमञ्चनाहं विश्वे देवासो अधि वोचता नः ॥ २८ ॥ देवी: षळुर्वीरुरु नः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥ २९ ॥ अग्ने मन्युं प्रतिनुदन्परेषामदब्धो गोपाः परि पाहि नसत्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस्ते मैषां चित्तं प्रबुधां वि नेशत् ॥ ३० ॥ धाता धातृणां भुवनस्य यस्पतिर्देवं त्रातारमभिमातिषाहम् । इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमान न्यर्थात् ॥ ३१ ॥ उरुव्यचा नो महिषः शर्म यंसदस्मिन्हवे पुरुहूतः पुरुक्षुः । स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परादाः ॥ ३२ ॥ ये नः सपत्ना अपते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशं मो्ग्रं चेत्तारमधिराजमकन् ॥ ३३ ॥ स्वस्ति नौ मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः । स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥ ३४ ॥ स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः । बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥ ३५ ॥ विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये । देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ॥ ३६ ॥ स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति स्वस्ति न इन्द्रश्चाऽग्निश्च स्वस्ति नो अदिते कृधि ॥ ३७ ॥ स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव। पुनर्ददताघ्नता जानता समेमहि ॥ ३८ ॥ [[TODO: परिष्कार्यम्]]
कूष्माण्डहोमविधिः
॥ कूष्माण्डहोमविधिः ॥ (बो.ध.सू. ३.७. १ - १३) अथ कूष्माण्डैर्जुहुयाद्योऽपूत इव मन्येत ॥ यथा स्तेनो यथा भ्रूणहैवमेष भवति योऽयोनौ रेतस्सिञ्चति ॥ यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यत इति ॥ अयोनौ रेतस्सिक्त्वाऽन्यत्र स्वप्नात् ॥ अरेपा वा पवित्र कामो वा । अमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमनखानि वापयित्वा ब्रह्मचारिकल्पेन व्रतमुपैति ॥ संवत्सरं मासं चतुर्विंश्त्यहो द्वादश रात्रीः षट् तिस्रो वा ॥ न मांसमश्नीयान्न स्त्रियमुपेयान्नोपर्यासीत जुगुप्सेताऽनृतात् ॥ पयो भक्ष इति प्रथमः कल्पः ॥ यावकं वोपयुञ्जानः कृच्छ्रं द्वादशरात्रं चरेद्भिक्षेद्वा तद्विधेषु यवागूं राजन्यो वैश्य आमिक्षाम् ॥ पूर्वाह्ने पाकयज्ञिकधर्मेणाऽग्निमुपसमाधाय सम्परिस्तीर्याऽऽग्निमुखात् कृत्वा
यद्देवा देवहेळनं ।
यददीव्यन्त्रणमहं बभूव ।
आयुष्टे विश्वतोदधत् ।
इत्येतैत्रिभिरनुवाकैः प्रत्यृचमाज्यस्य हुत्या
सिंहे व्याघ्र उत या पृदाकौ
इति चतस्रः स्रु्वाहुतीः जुहोति ।
अमेऽभ्यावर्तिन्, अग्ने अङ्गिरः, पुनरूर्जा, सहरय्या
इति चतस्रोऽभ्यावर्तिनीर्हुत्वा समित्पाणिर्यजमानलोकेऽवस्थाय
वैश्वानराय प्रतिवेदयाम
इति द्वादशर्चेन सूक्तेनोपस्थाय
यन्मे मनसा वाचा कृतमेनः कदाचन । सर्वस्मात्तस्मान्मेळितो मोग्धि त्वं हि वेत्थ यथातथँ स्वाहा
इति समिधमाधाय वरं ददाति ॥ जयप्रभृति सिद्धमाधेनुवरप्रदानात् ॥
विज्ञायते कर्मादिष्वेतैर्जुहुयात् पूतो देवलोकान् समश्नुते
इति हि ब्राह्मणमिति हि ब्राह्मणम् ॥