०६ पुत्रार्थिहोमः

॥ अथ पुत्रार्थिहोमः ॥ (बो.गृ.प.सू. २.७)

षष्ठेऽहनि शुची स्नातौ शुक्लवस्त्रौ स्वलङ्कृतौ ।
हविष्यमन्नमादाय ब्राह्मणान्सुसमाहितान् ॥
भोजयित्वोपसगृह्य सुसन्तृप्तेषु तेष्वथ ।
पुण्याहं वाचयित्वा तानभिवाद्य प्रणम्य च ॥
श्वेतायाश्श्वेतवत्सायाः स्थालीपाकन्तु पाचयेत् ।
गायत्र्याष्टसहस्रन्तु सम्पाताऽभिहुतो भवेत् ॥
उभौ तु तद्भुतं प्राश्य कुर्वीत प्रतिमन्त्रणम् ।
जघन्ये रात्रिपर्याये सर्वत्रोपगमस्स्मृतः॥
प्रागग्रेषु तु दर्भेषु प्राक्शिरान्तु निपातयेत् ।
चतुर्होतारं मनसाऽनुदुत्य प्रणवेनाहुतिर्भवेत् ॥
एवमुत्पादिताः पुत्रा न लुप्यन्ते कदाचन ।
न लुप्यन्ते कदाचनेति ॥

प्रयोगः

अथ प्रयोगः ॥ कृतेऽपि गर्भाधाने - अपुत्रत्वं मृतपुत्रत्वं स्त्रीप्रजात्वं वा तदा प्रतिबन्धनिवृत्याऽऽयुष्मत्सुपुत्रप्राप्त्यर्थं पुत्रार्थिहोमं कुर्यात् ॥ ॥ पत्न्या रजोदर्शनात्षष्ठेऽह्नि कर्ता प्रातर्नित्यकर्म कृत्वा,पत्न्या सह स्नात्वा श्वेतवाससी परिधायाऽलङ्कृत्य, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

आवयोरपुत्रत्व-मृतपुत्रत्व-स्त्रीप्रजात्वेत्यादि समस्तदोषनिवृत्याऽऽयुष्मत्सुपुत्रप्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थं सावित्रस्थालीपाकं करिष्ये,

इति सङ्कल्प्य गणपतिं सम्पूज्य ब्राह्मणानन्नेन परिविष्य

सविता प्रीयताम्

इति पुण्याहं वाचयित्वा, स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

आवयोरपुत्रत्व॰ सावित्रस्थालीपाकहोमं करिष्ये, बलवर्धनो नामाऽग्निः, सविता देवता, चरुर्हविः, उपहोमश्च-सावित्र्याष्टसहस्रमाज्येन, अग्निः स्विष्टकृत्,

इत्यादि सङ्कल्प्याऽन्वाधाय प्रोक्षणीः संस्कृत्य, पयः प्रणयनं कृत्वा,

देवस्य त्वा० सवित्रे जुष्टं निर्वपामि

इति निरुप्य,

देवस्य त्वा॰ सवित्रे वो जुष्टं प्रोक्षामि

इति त्रिः प्रोक्ष्य, श्वेतायाः श्वेतवत्सायाः पयसि स्थालीपाकं श्रपयित्वा प्रतिष्ठिताभिघारणाद्यग्निमुखान्तं कृत्वा, ‘सावित्र्या’ पक्वं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधाय, अग्निश्चाज्यस्थालीश्चान्तरेण चरुस्थालीं निधायाऽन्वाधानोक्तक्रमेण जुहुयात् ॥ (अष्टसहस्रसम्पाताभिहुतं करोति) स्विष्टकृदाद्युत्तरपरिषेकात्प्राक्कृत्वाऽग्रेणाऽग्निं दर्भस्तम्बेषु सावित्र्या हुतशेषं निधायाऽपरेणाऽग्निं दम्पती प्राङ्मुखावुपविश्य वाग्यतौ हविः शेषं प्राश्नीयाताम् ॥ उत्तरपरिषेकादि होमशेषं समाप्य, आचार्याय गोदानं यथाशक्ति दक्षिणाञ्च दत्वा ब्राह्मणान्भोजयित्वाऽऽशिषो गृह्णीयात् ॥ ततस्त्रेधाविभक्तनिशाया अन्तिमे भागे प्रागग्रेषु दर्भेषु शय्यायां - ऋतुसंवेशनवत् ‘विष्णुर्योनिं कल्पयतु’ इति प्रतिमन्त्रणादि कृत्वा

पृथिवी होता॰ इन्द्रियाय स्वाहा ॐ

इत्युपगच्छेत् ॥ शेषं समानम् ॥ ॥