॥ अथ प्रजार्थिहोमः ॥ (बो. गृ. शे. सू. २. ४) पूर्वपक्षे पुण्ये नक्षत्रेऽमावास्यायां विषुवेऽयने वा नदीतीरेऽश्वत्थच्छायायां वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा ब्राह्मणानन्नेन परिविष्य ‘पुण्याहं स्वस्त्यृद्धिम्’ इति वाचयित्वा प्राच्यां दिशि ब्रह्माणं प्रतिष्ठाप्य पार्श्वयोर्धातारं विधातारम् । दक्षिणतो धातारमुत्तरतो विधातारम् ॥ ततस्तानर्चयेत्पूर्व —
ब्रह्माणं प्रजापतिं परमेष्ठिनं हिरण्यगर्भमावाहयामि
इत्यावाह्य सावित्र्या पाद्यं ददाति सावित्र्या निवेदयेदेतैरेव नामधेयैस्शुक्लान्नं ब्रह्मणे मुद्गानं धातुः पीतान्नं विधातुः ॥ ततस्सावित्र्या अप आचम्य प्रणवेनाष्टशतं हुत्वा ब्रह्माणमुपतिष्ठते -
नमो वाचे नमो वाचस्पतये नमो ब्रह्मणे बृहते करोमि
इत्येवं
नमो धात्रे नमो विधात्रे
इति । अग्निमुपतिष्ठते -
नमोऽग्नये सप्तार्चिः सप्तजिह्वः सप्तधाऽग्निः प्रतिष्ठितः । सप्तैव विश्वा भूतानि को ह्यग्निः प्रतितिष्ठति । तत्त्वमसि विश्वमसि योनिरसि
इति ॥ अथ स्त्रियमाहूय सावित्र्या पलाशपर्णैरष्टोत्तरसहस्रैः स्नापयित्वा पुरुषसूक्तेन जुहुयात्तत्सम्पातेन मूर्ध्नि जुहुयात्प्रणवेन नमस्कुर्यात् ॥ अध्वर्युं वस्त्रकुण्डलाभ्यामलङ्करोति ॥
ततस्सा गर्भिणी भवति
इत्याह भगवान्बोधायनः ॥
प्रयोगः
अथ प्रयोगः ॥ पूर्वपक्षे पुण्यनक्षत्रे वाऽमायां विषुवदिने दक्षिणोत्तरायणारम्भदिने वा कुर्यात् ॥ ॥ कर्ता स्नानादिनित्यकर्म निर्वर्त्य सपत्नीको नदीतीरमश्वत्थमूलं वा प्राप्य गोमयेन गोचर्ममात्रं चतुरस्रं स्थण्डिलमुपलिप्य, प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,
ममाऽपुत्रत्वदोषनिवृत्याऽस्यां भार्यायामायुष्मत्सुरूपसुगुणसम्पन्नसुपुत्रप्राप्त्यर्थं श्रीपरमेश्वर प्रीत्यर्थं प्रजार्थिहोमं करिष्ये
इति सङ्कल्प्य, तदङ्गं गणपतिपूजनं, नान्दीसमाराधनं, ‘ब्रह्मा प्रीयताम्’ इति पुण्याहवाचन्ञ्च कुर्यात् ॥ अथ स्थण्डिलोल्लेखनप्रभृत्यग्निं प्रतिष्ठाप्य, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य ममाऽपुत्रत्वदोषनिवृत्या॰ सुपुत्रप्राप्त्यर्थं प्रजार्थिहोमं करिष्ये, होमः कर्म, बलवर्धनो नामाऽग्निः, ब्रह्मा देवता, चरुर्हविः, उपहोमश्च प्रणवेनाऽष्टोत्तरशतवारमाज्येन पुरुषसूक्तेन च प्रत्यृचमाज्येन यक्ष्ये, अग्निः स्विष्टकृदित्याद्यन्वाधाय, प्रतिष्ठिताऽभिघारणान्तं कृत्वाऽग्रेणाऽग्निं व्रीहिभिस्स्थण्डिलं कृत्वा, तत्र मध्यदक्षिणोत्तरक्रमेण सुदृढमव्रणं तन्तुवेष्टितं कलशत्रयं प्रतिष्ठाप्य, ‘मही द्यौः’ इत्यादि वरुणपूजान्तं कृत्वा, तदुपरि सुवर्णनिर्मितं प्रतिमात्रयमग्न्युत्तारणपूर्वकं संस्थाप्य देवता आवाहयेत् - मध्यमे कलशे -
ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणमावाहयामि, ॐ भूर्भुवः स्वः प्रजापतये नमः॰, ॐ भूर्भुवः स्वः परमेष्ठिने नमः॰, ॐ भूर्भुवः स्वः हिरण्यगर्भाय नमः॰
इत्यावाह्य, दक्षिणे कलशे -
ॐ भूर्भुवः स्वः धात्रे नमः धातारमावाहयामि
उत्तरे कलशे -
ॐ भूर्भुवः स्वः विधात्रे नमः विधातारमावाहयामि
इत्यावाह्य षोडशोपचारैः सम्पूजयेत् । (पूजने विशेषः - ‘तत्सवितुः’ इति गायत्र्या पाद्यं दद्यात् । सावित्र्या ‘ब्रह्मणे नमः, प्रजापतये॰, परमेष्ठिने॰, हिरण्यगर्भाय नमः’ इति शुद्धोदनं, ‘धात्रे नमः’ इति मुद्गोदनं, ‘विधात्रे नमः’ इति हरिद्रोवनञ्च निवेदयेत्) ततः परिधानप्रभृत्यग्निमुखान्तं कृत्वा पक्वाज्जुहोति -
ब्रह्म जज्ञानं॰, पिता विराजां॰
इति द्वाभ्यां (ब्रह्मण इदं॰) स्विष्टकृतमवदायान्तःपरिधौ निधायाऽऽज्याहुतीरुपजुहोति - प्रणवेनाष्टोत्तरशतवारमाज्यं (ब्रह्मण इदं॰ इति त्यागः) पुरुषसूक्तेन प्रत्यृचमाज्येन (सर्वत्र, पुरुषाय नारायणायेदं॰ इति त्यागः) जुहुयात् । होमकाले पात्रान्तरे सम्पातमाज्यं गृह्णीयात् ॥ स्विष्टकृत्प्रभृति प्रागुत्तरपरिषेकात्कृत्वा देवता उपतिष्ठते -
नमोवाचे नमो वाचस्पतये नमो ब्रह्मणे बृहते करोमि
इति ब्रह्माणं,
नमो वाचे नमो वाचस्पतये नमो धात्रे बृहते करोमि
इति धातारं,
नमो वाचे नमो वाचस्पतये नमो विधात्रे बृहते करोमि
इति विधातारञ्च । ततोऽग्निमुपतिष्ठते -
नमोऽग्नये सप्तार्चिः सप्तजिह्वः सप्तधाऽग्निः प्रतिष्ठितः । सप्तैव विश्वा भूतानि को ह्यग्निः प्रतितिष्ठति । तत्त्वमसि विश्वमसि योनिरसि
इति ॥ अथ पत्नीं सावित्र्याष्टोत्तरसहस्रैः पालाशपर्णैरद्भिर्मार्जयित्वा सम्पाताज्येन ‘ॐ स्वाहा’ इति तस्या मूर्ध्निं जुहुयात् ॥ अथोत्तरपरिषेकादि होमशेषं समाप्य देवताः पुनः सम्पूज्य नमस्कृत्य, आचार्याय स्वर्चितप्रतिमायुतं कलशं वस्त्रकुण्डले च दत्वा कर्मेश्वराय समर्प्य यथाशक्ति ब्राह्मणान् सम्भोज्याशिषो गृह्णीयात् । ततः सा गर्भिणी भवति ॥