०४ बृहस्पतिशान्तिविधिः

॥ बृहस्पतिशान्तिविधिः ॥ मदनरत्ने-

कन्याविवाहकाले तु शुद्धिर्यस्या न विद्यते ।
ब्राह्मणस्योपनयने यस्य स्यादुत्थितो गुरुः ॥
एभिः पूजा गुरोः कार्या विधिवद्भक्तिभावितैः ।
मदन्ती (यूथिका) काम (दमनं) पुष्पाणि पत्रं पालाशसर्षपाः ॥
गुडीची वान्यपामार्गं विडङ्गी शंखिनी वचा ।
सहदेवी विष्णुकान्ता सर्वोषध्यः शतावरी ॥
कुष्ठं मांसी हरिद्रे द्वे मुरा शैलेयचन्दनम् ।
वचाकचोरमुस्ताश्च सर्वोषध्यः प्रकीर्तिताः॥
तथैवाऽश्वत्थभङ्गाश्च पञ्चगव्यं जलन्तथा ।
नूतनं सोदकुम्भश्च प्रीतवस्त्रसमन्वितम् ॥
पञ्चरत्नैः समायुक्तमीशान्यां स्थापितेऽनलात् ।
या ओषधी इति मन्त्रेण सर्वास्त्वस्मिन्विनिक्षिपेत् ॥
कुम्भस्योपरिभागे तु स्थापयित्वा बृहस्पतिम् ।
सुवर्णपात्रे सौवर्णी प्रतिमान्तु युधिष्ठिर ॥
कारयेत्तु यथाशक्त्या वित्तशाठ्यविवर्जितः।
पीतवस्त्रयुगच्छन्नां पीतयज्ञोपवीतिनीम् ॥
पूजयेद्गन्धपुष्पाद्यैस्ततो होम समाचरेत् ।
समिधोऽश्वस्थवृक्षस्य होतव्याष्टोतरं शतम् ॥
तिलैर्व्रीहियवैर्मिश्रं होतव्यश्च यथाक्रमम् ।
ब्रह्मस्पतेति मन्त्रेण ऋषिच्छन्दसमन्वितम् ॥
मन्त्रेणानेन जुहुयाद्धान्यपूर्वञ्च यत्नतः ।
ततो होमावसाने तु पूजयेच्च वृहस्पतिम् ॥
पीतगन्धैस्तथा पुष्पैधूपदीपैश्च भक्तितः।
दध्योदनञ्च नैवेद्यं फलं ताम्बूलसंयुतम् ॥
मन्त्रेणानेन कौन्तेय नमितव्यः पुनः पुनः ।
नमस्ते गिरिजानाथ वाक्पतेऽथ बृहस्पते ॥
क्रूरग्रहैः पीडितानाममृताय नमो नमः ।
पूजयित्वा सुराचार्य पश्चादर्घ्यं निवेदयेत् ॥
गम्भीरदृढरूपाङ्ग देवेज्य सुमते प्रभो ।
नमस्ते वाक्पते शान्त गृहाणार्य नमोऽस्तुते ॥
अर्घ्यं दत्त्वा सुरेज्यस्य जपहोमं समापयेत् ।
भक्त्या यत्ते सुराचार्य होमपूजादिसत्कृतम् ॥
तत् त्वं गृहाण शान्त्यर्थं बृहस्पते नमो नमः ।
मन्त्रेणानेन सङ्कल्प्य पश्चात्सम्प्रार्थयेत्पुनः ।
जीवो बृहस्पतिस्सूरिराचार्यो गुरुरङ्गिराः ॥
वाचस्पतिर्देवमन्त्री शुभं कुर्यात्सदा मम ।
एवं सम्प्रार्थयेद्देवमाचार्यश्च प्रपूजयेत् ॥
सर्वोपचारसंयुक्तां प्रतिमां तां युधिष्ठिर ।
प्रणम्य च गवायुक्तामाचार्याय निवेदयेत् ॥
अथाचार्यस्तु नियतो वेदवेदाङ्गपारगः ।
यजमानं सपत्नीकं शान्तचित्तं जितेन्द्रियम् ॥
कुम्भोदकं गृहीत्वा तु मन्त्रैरेतैः प्रसिञ्चयेत् ।
इदमापोऽयमन्त्रेण तामाग्निमित्यूचा तथा ॥
या ओषधीरश्वावतीकूष्माण्डैश्चाभिषेचयेत् ।
पश्चात्सम्भोजयद्विप्रान्यथाशक्त्या युधिष्ठिर ॥
एवं कृत्वा गुरोः पूजां सर्वान् कामानवाप्नुयात् ॥
सक्रान्तावपि कौन्तेय तथा स्वाभ्युदयेषु च ।
कुर्वन्बृहस्पतेः पूजामभीष्टं फलमश्नुयात् ॥

प्रयोगः

अथ प्रयोगः ॥ यजमानः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

अस्य कुमारकस्योपनयनकाले (कन्याया विवाहकाले वा) बृहस्पत्यानुकूल्यसिध्दिद्वारा श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां बृहस्पतिशान्तिं करिष्ये,

इति सङ्कल्प्य, गणपतिं सम्पूज्य पुण्याहं वाचयित्वाऽऽचार्यादीन्वृणुयात् ॥ अथाचार्यः स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य

यजमानेन वृतोऽहमस्य कुमारकस्योपनयनकाले बृहस्पत्यानुकूल्यसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां गुरुशान्तिं करिष्ये,

‘शान्तिहोमः कर्म’ इत्यादि नवग्रहकीर्तनान्ते, बृहस्पतिशान्तिहोमे - शिखी नामाऽग्निः, बृहस्पतिर्देवता, चरुर्हविः, उपहोमे - अश्वत्थसमिदाज्य - सर्पिर्मिश्रपायससाज्ययवव्रीहितिलद्रव्यैः ‘बृहस्पते’ इति मन्त्रेण प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिः, अधिदेवतां प्रत्यधिदेवताञ्च तैरेव द्रव्यैरष्टाष्टसङ्ख्याकाहुतिभिश्च, स्विष्टकृतः अर्यमादयो देवता इत्याद्यन्वाधाय, परिसमूहनादि प्रतिष्ठिताभिघारणान्तं कृत्वा अग्नेरीशानदिग्भागे ग्रहमण्डले ‘मही द्यौः’ इत्यादि वरुणपूजान्ते आदित्यादिनवग्रहानावाह्य । उत्तरे - हरिताक्षतनिर्मितचतुरस्रपीठे विधिवत्कलशं प्रतिष्ठाप्य, पञ्चगव्यं पञ्चामृतं पञ्चरत्नं सर्वौषधीश्च निक्षिप्य पीतवस्त्रेणावेष्ट्य पूर्णपात्रं निधाय वरुणमावाह्य, हैमीं बृहस्पतिप्रतिमामग्न्युत्तारणपूर्वकं प्रतिष्ठाप्य बृहस्पतिमावाह्य षोडशोपचारैः पूजयेत् ॥ (पूजने विशेषः - पीतवस्त्रयुग्मं, पीतयज्ञोपवीतं, पीतचन्दनं, चम्पकादिपीतपुष्पं, विल्वमज्जाधूपो. घृतदीपो, नैवेद्यार्थे दध्योदनं, माणिक्यं सुवर्णं वा दक्षिणा) अथ सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिश्च कलशमभिमन्त्रयेत् ॥ ततः परिधानप्रभृत्यग्निमुखान्ते ग्रहाणां बृहस्पतेश्च पक्वं हुत्वाऽन्वाधानक्रमेणोपहोमं कुर्यात् । ततः स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वा, होमशेषेण बलिमुपहृत्योत्तरपरिषेकादि होमशेषं समापयेत् ॥ आवाहितदेवताः पुनः सम्पूज्य

गम्भीरदृढरूपाङ्ग देवेज्य सुमते प्रभो ।
नमस्ते वाक्पते शान्त गृहाणाऽर्घ्यं नमोऽस्तु ते

इति पीतगन्धाक्षतपुष्पयुतताम्रपात्रस्थजलेनार्घ्यं दत्वा -

नमस्ते गिरिजानाथ वाक्पतेऽथ बृहस्पते ।
क्रूरग्रहैः पीडितानाममृताय नमो नमः

इति नमस्कृत्य प्रार्थयेत् -

भक्त्या यत्ते सुराचार्य होमपूजादि सत्कृतम् ।
तत् त्वं गृहाण शान्त्यर्थं बृहस्पते नमो नमः ॥
जीवो बृहस्पतिः सूरिराचार्यो गुरुरङ्गिराः।
वाचस्पतिर्देवमन्त्री शुभं कुर्यात्सदा मम ॥
धर्मशास्त्रार्थतत्त्वज्ञ ज्ञानविज्ञानपारग ।
विबुधाऽर्तिहराऽचिन्त्य देवाचार्य नमोऽस्तु ते

इति ॥ तत आचार्यादयः कलशोदकेन सकुटुम्बं सपरिवारं यजमानं ‘आपो हिष्ठा’ इति तिसृृभिः

तत्त्वा यामि॰ प्रमोषीः ॥ तदिम्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे । शुनःशेपो यमह्वद्गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु ॥ शुनः शेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं दुपदेषु बद्धः । अवैनं राजा वरुणः स मृज्याद्विद्वाँ अदब्धो वि मुमोक्तु पाशान् [[TODO: परिष्कार्यम्]]

इति तिसृभिः,

स्वादिष्ठया मर्दिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुतः ॥ रक्षोहा विश्वचर्षणिरभि योनिमयोहतम् । दुणा सधस्थमासदत् ॥ वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः । पर्षिराधो मघोनाम् [[TODO: परिष्कार्यम्]]

इति तिसृभिः,

समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः । इन्द्रो या बज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥ या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयञ्जाः । समुद्रार्था याः शुचयः पावकास्ता आपो॰ ॥ यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् । मधुश्चुतः शुचयो याः पावकास्ता आपो॰ ॥ यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानां । मधुश्चुत: शुचयो या: पावकास्ता आपो यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मर्दन्ति । वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो॰ [[TODO: परिष्कार्यम्]]

इति चतसृभिः ॥

इदमापः प्रवहत यत्किञ्च दुरितं मयि । यद्वाहमभिदुद्रोह यद्वाशेप उतानृतम्, तामग्निवर्णां तपसा तरसे नमः, या ओषधीः॰, अश्वावतीर्गोमतीः॰ [[TODO: परिष्कार्यम्म]]

इति चतसृभिः ‘यद्देवा देवहेळनं’ इति त्रिभिरनुवाकैश्चाऽभिषिञ्चेयुः ॥ यजमान आचार्याय गां प्रतिमां सपीठं कलशं, ऋत्विग्भ्यश्च ग्रहोक्तदक्षिणां दत्वा कर्मेश्वराय समर्प्य यथाशक्ति ब्राह्मणान्सम्भोज्य तेभ्य आशिषो गृह्णीयात् ॥