॥ अथ श्रीकल्पः ॥ (बो.गृ.शे.सू. ३-५) अथातश्श्रीकल्पं व्याख्यास्यामः - शुक्लपक्षस्य पञ्चम्यां पौर्णमास्यामपि वा श्रियं कदम्बमयीं बिल्वसारमयीं स्थण्डिले वा निधायाऽहोरात्रोपोषितश्शुचिः कृतशौचस्समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य गन्धसुमनसस्सम्प्रकीर्य हिरण्मयेन पात्रेणोदकं पूरयित्वा गन्धान् सुमनसः, तस्मिन् ‘हिरण्यवर्णां हरिणीम्’ इति द्वाभ्यां
ॐ भूः श्रियमावाहयामि, ॐ भुवः श्रियमावाहयामि, ॐ सुवः श्रियमावाहयामि, ॐ भूर्भुवस्सुवः श्रियमावाहयामि
इत्यावाह्य ‘कर्दमेन’ इति द्वाभ्यां प्रसिद्धं प्रोक्ष्य ‘अश्वपूर्वाम्’ इति स्नापयित्वा ‘गन्धद्वाराम्’ इति गन्धं ददाति ‘कां सोस्मिताम्’ इति पुष्पं ददाति ‘उपैतु मां’ इति धूपं ददाति ‘चन्द्रां हिरण्मयीम्’ इति दीपं ददाति ‘चन्द्रां प्रभासाम्’ इति नैवेद्यं ददाति ॥ अथ देव्या दक्षिणतोऽग्निमुपसमाधाय सम्परिस्तीर्य महाव्रीहिभिस्तण्डुलैः पायसं चरुं श्रपयित्वा हविर्द्विधा कृत्वा ‘मनसः कामम्’ इत्यभिप्रेत्य काममन्नं वाऽऽज्यमिश्रं श्रीसूक्तेन पञ्चदशर्चेन हविर्जुहोति ॥ तेन सूक्तेन
श्रियै नमः पुष्ट्यै नमो धात्र्यै नमस्सरस्वत्यै नमः
इति बलिमुपहरति ॥ पद्मपुष्पाणि यथालाभं गृहीत्वा प्रत्यङ्गं निमार्ष्टि - ‘क्षुत्पिपासाम्’ इत्यलक्ष्मीं निर्णुदति ॥ एवमेवाऽहरहर्मासिमासि वा महान्तं पोषं पुष्यति धन्यं यशस्यमारोग्यमायुष्यं पुत्र्यं पशव्यं तस्य महत्स्वस्त्ययनमित्याह भगवान् बोधायनः ॥
संस्कारकौस्तुभे -
चौले च व्रतबन्धे च विवाहे यज्ञकर्मणि ।
भार्या रजस्वला यस्य प्रायस्तस्य न शोभनम् ॥
(आपदि)
श्रियं सम्पूज्य विधिवत्ततो मङ्गलमारभेत् ॥
अलाभे सुमुहूर्तस्य रजोदोष उपस्थिते ।
श्रियं सम्पूज्य तत्कुर्यात्पाणिग्रहणमङ्गलम् ॥
हैमीं माषमितां पद्मां श्रीसूक्तविधिनार्चयेत् ।
प्रत्यृचं पायसं हुत्वाऽभिषिच्य शुभमाचरेत् ॥
प्रयोगः
अथ प्रयोगः ॥ पुष्टिकामो धनकामो यशस्काम आरोग्यकाम आयुष्यकामः पुत्रकामः पशुकामः स्वस्तिकामो वा मासि मासि शुक्लपक्षस्य पञ्चम्यामपि वा पौर्णमास्यां चौलोपनयनविवाहयज्ञकर्मस्वारम्भात्पूर्वं मध्ये वा पत्न्यां रजस्वलायां रजोदोषसूचितसकलाऽनिष्टनिरसनपूर्वकशुभफलप्राप्तिकामो वा श्रीशान्तिं कुर्यात् ॥ कर्ता पूर्वेद्युरहोरात्रोपोषितोऽपरेद्युः प्रातस्स्नानादि नित्यकर्म कृत्वाऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य कुमारकस्योपनयने (कन्याया विवाहे वा) संस्कारात्पूर्वं (मध्ये वा)
मातृरजोदोषोपस्थितिसूचितसकलाऽनिष्टनिरसनद्वारा शुभफलप्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थं श्रीशान्तिं करिष्ये,
इति सङ्कल्प्य । आदौ निर्विघ्नतासिद्ध्यर्थं गणपतिं सम्पूज्य ‘श्रीः प्रीयताम्’ इति पुण्याहं वाचयित्वाऽऽचार्यं वृणुयात् ॥ अथाऽऽचार्यः समे देशे गोमयेन गोचर्ममात्रं चतुरस्रं स्थण्डिलमुपलिप्य तत्र गन्धसुमनसः सम्प्रकीर्य व्रीह्यादिनिर्मिते स्थण्डिले ‘मही द्यौः’ इत्यादि हिरण्मयं कलशं प्रतिष्ठाप्य, तस्मिन्गन्धपुष्पाणि निक्षिप्य वरुणपूजान्तं कृत्वा, अग्न्युत्तारणपूर्वकं सौवर्णप्रतिमायां
हिरण्यवर्णा॰, ताम्म आवह॰
इति द्वाभ्यां
ॐ भूः श्रियै नमः श्रियमावाहयामि, ॐ भुवः श्रियै नमः श्रियमावाहयामि,ओं सुवः॰ श्रियमावाहयामि, ॐ भूर्भुवः सुवः॰ श्रियमावाहयामि
इत्यावाह्य, ‘कर्दमेन॰, आपस्स्रजन्तु॰’ इति द्वाभ्यां शुद्धोदकेन प्रोक्ष्य, ‘अश्वपूर्वाम्’ इति स्नापयित्वा, ‘गन्धद्वारां॰’ इति गन्धं ददाति । ‘कां सोस्मितां॰’ इति पुष्पं॰, ‘उपैतु मां॰’ धूपं॰,
आर्द्रां यः करिणीं॰ चन्द्रां हिरण्मयीं॰
दीपं, ‘चन्द्रां प्रभासां॰’ इति नैवेद्यं ददाति ॥ अथ देवीदक्षिणतः स्थण्डिलोल्लेखनाऽद्यग्निं प्रतिष्ठाप्य, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्या
अस्य कुमारकस्य उपनयने॰ श्रीपरमेश्वरप्रीत्यर्थं श्रीशान्तिहोमं करिष्ये, श्रीशान्तिहोमः कर्म, वरदो नामाग्निः, श्रीर्देवता, पायसश्चरुर्हविः,
इत्याद्यन्वाधाय, प्रोक्षणीसंस्कारादि प्रणीताप्रणयने ‘ब्रह्मन्पयः प्रणेष्यामि’ इति पयः प्रणीय देवस्य त्वेत्यादिना महाव्रीहितण्डुलान् ‘श्रियै जुष्टं निर्वपामि’ इति निरुप्य प्रोक्ष्य पयसि चरुं श्रपयेत् । अथाऽऽज्यसंस्कारादि प्रतिष्ठिताभिघारणान्तं कृत्वा ‘जुषस्व नः’ इत्याद्यग्निमुखान्तं कृत्वा, चरुं द्विधा कृत्वाऽवदानधर्मेणावदाय
मनसः काममाकूतिं॰, कर्दमेन॰
इति द्वाभ्यां पक्वं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधाय, चरौ प्रभूतमाज्यमानीय मेक्षणेनोपहत्य जुहोति -
हिरण्य वर्णा॰ आवह स्वाहा ॥१॥ (सर्वत्र, श्रिया इदं॰ इति त्यागः)
ताम्म आवह॰ पुरुषानहं स्वाहा ॥ २ ॥
अश्वपूर्वा॰ जुषतां स्वाहा ॥३॥
कां सोस्मितां श्रियं स्वाहा ॥४॥
चन्द्रां प्रभासां॰ त्वां वृणे स्वाहा ॥५॥
आदित्यवर्णे॰ अलक्ष्मीः स्वाहा ॥६॥
उपैतु मा॰ ददातु मे स्वाहा ॥७॥
क्षुत्पिपासामलां॰ गृहात्स्वाहा ॥८॥
गन्धद्वारां॰ श्रियं स्वाहा ॥ ९ ॥
मनसः॰ यशः स्वाहा ॥१०॥
कर्दमेन॰ पद्ममालिनीं स्वाहा ॥ ११ ॥
आपः स्रजन्तु॰ मे कुले स्वाहा ॥१२॥
आर्द्रां पुष्करिणीं॰ चन्द्रां॰ आ वह स्वाहा ॥१३॥
आर्द्रां यः॰ सुवर्णां हेम॰ सूर्यां॰ आ वह स्वाहा ॥१४॥
ताम्म आ वह॰ यस्यां हिरण्यं प्रभूतं॰ पुरुषानहं स्वाहा ॥१५॥
अथ स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वा, ‘हिरण्यवर्णा॰ विन्देयं पुरुषानहम्’ इति श्रीसूक्तं पठित्वा श्रियै नमः’ इति प्रथमं बलिमुपहरति । पुनः श्रीसूक्तं पठित्वा ‘पुष्ट्यै नमः’ इति द्वितीयं, पुनः श्रीसूक्तं पठित्वा ‘धात्र्यै नमः’ इति तृतीयं, पुनः श्रीसूक्तं पठित्वा ‘सरस्वत्यै नमः’ इति चतुर्थम् ॥ ततो यजमानः पद्मपुष्पाणि हस्ते गृहीत्वा ‘क्षुत्पिपासां॰’ इति मन्त्रेण शिरःप्रभृति सर्वाण्यङ्गानि निमार्ष्टि, प्रत्यङ्गं मन्त्रावृत्तिः ॥ अथोत्तरपरिषेकादि होमशेषं समाप्य आवाहितदेवतां श्रीसूक्तेन पुनः सम्पूज्याऽऽचार्यः कलशोदकेन सकुटुम्बं यजमानमभिषिञ्चेत् । देवतमुद्वास्याचार्याय सपीठं कलशं गां यथाशक्ति दक्षिणाश्च दत्वा कर्मेश्वरार्पणं कृत्वा यथाशक्ति ब्राह्मणान्भोजयेत्, तेभ्य आशिषो गृह्णीयात् ॥