०२ विनायककल्पः

॥ अथ विनायककल्पः ॥ (बो. गृ. शे. सू. ३.१०) अथातो विनायककल्पं व्याख्यास्यामः - मासिमासि चतुर्थ्यां शुक्लपक्षस्य पञ्चम्यां वाऽभ्युदयादौ सिद्धिकामः ऋद्धिकामः पशुकामा वा भगवतो विनायकस्य बलिं हरेत् ॥ पूर्वेद्युः कृतैकभुक्तश्शुचिराचम्याथ देवयजनोल्लेखनप्रभृत्याऽऽग्निमुखात्कृत्वा दक्षिणामुखं हस्तिमुखं दक्षिणतो ब्राह्मणमुपवेश्योपोत्थाय दैवतमावाहयति –

विघ्न विघ्नेश्वरागच्छ विघ्नेत्येव नमस्कृत ।
अविघ्नाय भवान् सम्यक्सदाऽस्माकं भव प्रभो

इति ॥ अथ दूर्वाक्षतसुमनोमिश्रमर्घ्यं ददाति -

इमा आपश्शिवाश्शिवतमाश्शान्ताश्शान्ततमाः पूताः पूततमाः पुण्याः पुण्यतमा मेध्या मेध्यतमा जुष्टा जुष्टतमा अमृता अमृतरसाः पाद्या अर्घ्या अर्हणीया अभिषेचनीया आचमनीया मार्जनीयाश्च प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान्विनायको विनायकाय नमः

इति ॥ अथ तूष्णीं वा गन्धपुष्पधूपदीपैरभ्यर्च्योपतिष्ठते -

भूपतये नमो भुवनपतये नमो भूतानां पतये नमः

इति ॥ उपस्थाय तिस्रो विनायकाहुतीर्जुहोति -

विनायकाय भूपतये नमो विनायकाय स्वाहा ।
विनायकाय भुवनपतये नमो विनायकाय स्वाहा ॥
विनायकाय भूतानां पतये नमो विनायकाय स्वाहा

इति । जयप्रभृतिसिद्धमाधेनुवरप्रदानात् ॥ अपूपं करम्भमोदकं सक्तून्पायसमित्यथास्मा उपहरति -

विघ्नाय स्वाहा, विनायकाय॰, वीराय॰, शूराय॰, उग्राय॰, भीमाय॰, हस्तिमुखाय॰, वरदाय॰, विघ्नपार्षदेभ्यः॰, विघ्नपार्षदीभ्यस्स्वाहा

इति ॥ अथ भूतेभ्यो बलिमुपहरेत् – ‘ये भूताः प्रचरन्ति’ इति ॥ अथ पञ्चसूत्रं कङ्कणं हस्ते व्याहृतिभिर्बध्नाति –

विनायक महाबाहो विघ्नेश भवदाज्ञया ।
कामा मे साधितास्सर्वे इदं बध्नामि कङ्कणम् ॥

इति ॥ अथ साग्निकं विनायकं प्रदक्षिणं कृत्वा प्रणम्याभिवाद्य विनायकं विसर्जयति -

कृतं यदि मया प्राप्तं श्रद्धया वा गणेश्वर ।
उत्तिष्ठ सगणस्साधो याहि भद्र प्रसीदतोम् ॥

इति ॥ तस्मिन्याते द्वादशेध्मसमिद्धेनोपरि मध्यमं चैव दक्षिणोर्ध्वं समिधं तथा दधि मधु पय आज्यं सम्मिश्र्य परिषेचनं विसर्जनं कल्पयति ॥

मेधातिथिः -

सङ्कटे समनुप्राप्ते याज्ञवल्क्येन योगिना ।
शान्तिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् ॥
अकृत्वा शान्तिकं यस्तु निषिद्धे सति दारुणे ।
प्रकरोति शुभं कर्म विघ्नस्तस्य पदे पदे ॥

ज्योतिःप्रकाशे -

प्रतिकूलेऽपि कर्तव्यो विवाहो मासतः परम् ।
शान्तिं (विनायकशान्तिं) विधाय गां दत्वा वाग्दानादि चरेत्पुनः ॥

विष्णुधर्मे -

हस्तपुष्याश्वयुक्सौम्यवैष्णवान्यतमे शुभे ।
नक्षत्रे च मुहूर्ते च मैत्रे वा ब्रह्मदैवते ॥

प्रयोगः

अथ प्रयोगः ॥ ऋद्धिसिद्ध्यादिकामो मासिमासि शुक्लपक्षस्य चतुर्थ्यां पञ्चम्यां वा विवाहाद्यभ्युदयकर्मसु दारुणे सङ्कटे प्राप्ते तन्निवृत्तिकामश्च विनायकशान्तिं कुर्यात् ॥ कर्ता पूर्वेद्युः कृतैकभुक्तोऽपरेद्युर्नित्यकर्म कृत्वा देशकालौ सङ्कीर्त्य

समस्तमनोरथसिद्ध्यर्थम् (अमुककर्मणि निर्विघ्नतासिद्ध्यर्थं) श्रीविनायकप्रीत्यर्थं विनायकशान्तिं करिष्ये,

इति सङ्कल्प्य । तदङ्गतया गणेशपूजन-नान्दीसमाराधन-पुण्याहवाचनानि कुर्यात् । पुण्याहवाचने ‘विनायकः प्रीयताम्’ इति विशेषः ॥ देवयजनोल्लेखनप्रभृत्यग्निं प्रतिष्ठाप्य,

विनायकशान्तिहोमः कर्म, वरदो नामाऽग्निः, सविता देवता, चरुर्हविः,

इत्याद्यन्वाधाय प्रोक्षणीसंस्कारादि सवित्रे सिद्धमोदनं निरुप्य प्रोक्ष्य प्रतिष्ठिताभिघारणान्तं कुर्यात् ॥ अग्रेणाऽग्निमष्टदलोपरि स्वस्तिके कलशं प्रतिष्ठाप्य, तस्मिन् (बिल्वसार) सुवर्णादिनिर्मितां दक्षिणावर्तशुण्डलयुतां विनायकप्रतिमां, पूर्णपात्रे-सूत्रपञ्चकनिर्मितं कङ्कणञ्च विन्यस्योपोत्थाय

विघ्न विघ्नेश्वरागच्छ विघ्नेत्येव नमस्कृत ।
अविघ्नाय भवान्सम्यक्सदाऽस्माकं भव प्रभो ॥
ॐ भूर्भुवः सुवः विनायकमावाहयामि

इत्यावाह्य ॥

इमा आपः शिवाः शिवतमाः शान्ताः शान्ततमाः पूताः पूततमाः पुण्याः पुण्यतमा मेध्या मेध्यतमा जुष्टा जुष्टतमा अमृता अमृतरसाः पाद्याः प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान्विनायको विनायकाय नमः

इति पाद्यम्॰ ॥

इमा आपः॰ अमृतरसा अर्घ्याः प्रतिगृह्यतां० नमः

इत्यर्घ्यम् ॥ एवमेव

अर्हणीयाः॰, अभिषेचनीयाः॰, आचमनीयाः॰, मार्जनीयाः॰

दत्वाऽथ ‘विनायकाय नमः’ इति मन्त्रेण गन्ध-पुष्प-धूप-दीपांश्च तूष्णीं वा दद्यात् ॥ अथ विनायकमुपतिष्ठते -

भूपतये नमो भुवनपतये नमो भूतानां पतये नमः

इति ॥ अथ ‘जुषस्व नः’ इत्याद्यग्निमुखान्तं कृत्वा सावित्र्या पक्वं हुत्वा, स्विष्टकृतमवदायान्तः परिधौ निधाय सुवेणोपघातमाज्यस्य तिस्रो विनायकाहुतीरुपजुहोति -

ॐ विनायकाय भूपतये नमो विनायकाय स्वाहा, विनायकाय भुवनपतये नमो विनायकाय स्वाहा, विनायकाय भूतानां पतये नमो विनायकाय स्वाहा

(सर्वत्र यथालिङ्गं त्यागः) ॥ स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वा, अपूप-करम्भ-मोदक-सक्तु-पायसानेकीकृत्याऽग्नेरुत्तरतो बलिमुपहरति -

विघ्नाय स्वाहा, ॥ विनायकाय॰, वीराय॰, शूराय॰, उग्राय॰, भीमाय॰, हस्तिमुखाय॰, वरदाय॰, विघ्नपार्षदेभ्यः॰, विघ्नपार्षदीभ्यः॰

इति ॥ अथ भूतेभ्यो बलिं दद्यात् -

ये भूताः प्रचरन्ति॰ दधातु स्वाहा

इति ॥ अथाऽऽचार्यः -

ॐ भूर्भुवः सुवः, विनायक महाबाहो विघ्नेश भवदाज्ञया ।
कामा मे साधिताः सर्वे इदं बध्नामि कङ्कणम् ॥

इति यजमानस्य दक्षिणहस्ते बध्नीयात् ॥ अथ पयोदधिमध्वाज्यानि सम्मिश्र्योत्तरपरिषेकादि होमशेषं समाप्याऽऽवाहितं विनायकं पुनः सम्पूज्य साग्निकं विनायकं प्रदक्षिणीकृत्य प्रणमेत्-

कृतं यदि मया प्राप्तं श्रद्धया वा गणेश्वर ।
उत्तिष्ठ सगणः साधो याहि भद्रं प्रसीदतो३म् ॥

इति ॥ अथ विनायकमुद्वास्याऽऽचार्यः कलशोदकेन सपरिवारं यजमानमभिषिञ्चेत् । आचार्याय प्रतिमायुतं कलशं गोदानं, ऋत्विग्भ्यो यथाशक्ति दक्षिणाश्च दत्वा ब्राह्मणान्सम्भोज्याऽऽशिषो गृह्णीयात् ॥