अथ मङ्गलाचरणम् यो निर्ममे विश्वमिदं श्रुतिभ्यो निश्वासभूता निगमाश्च यस्य । यः कर्मिणामिष्टफलप्रदाता तस्मै नमः श्रीपरमेश्वराय ॥ बोधायनं सूत्रकृतं प्रणम्य सङ्कीर्णसंज्ञेऽत्र तृतीयकाण्डे । केषाञ्चिदिष्टार्थदकाम्यकर्मणां नैमित्तिकानामपि संग्रहः कृतः॥