॥अथाष्टकाहोमः॥ (बो. गृ. सू. २. ११)
तैषे मास्यपरपक्षस्याष्टम्यां कियेत । एवं माघ एवं फाल्गुने यदि विहृतः । यद्यु वै समस्त उपरिष्टान्माध्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव । श्वः करिष्यामीति ब्राह्मणान्निमन्त्रयते । योनिगोत्रश्रुतवृत्तसंपन्नानसम्बन्धानित्येके । कामं सम्बन्धानपि श्रुतवृत्तसम्पन्नान्
श्रुतवृत्तयोर्हि स्वधा निधीयते
इत्युपदिशन्ति । तान् श्वोभूते श्मश्रुकर्माभ्यञ्जनस्नानैर्यथोपपादं सम्पूज्य स्वयमाप्लुत्य शुचौ समे देशे देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा बर्हिरादाय गामुपाकरोति -
पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपितामहेभ्यस्त्वा जुष्टामुपाकरोमि
इति । तूष्णीमित्येके । अथैनामद्भिः प्रोक्षति - ‘पितृभ्यस्त्वा॰ प्रोक्षामि’ इति । तूष्णीमित्येके । तामत्रैव प्रतीचीनशिरसी दक्षिणापदीं संज्ञपयन्ति । तस्यै संज्ञप्ताया अद्भिरभिषेकम् । प्राणानाप्याययति तूष्णीम् । तूष्णीं वपामुत्खिद्य हृदयमुद्धरति । प्रज्ञातानि चावदानानि । तान्येतेष्वेव शूलेषूपनिक्षिप्यैतस्मिन्नेवाग्नौ श्रपयन्ति । पृथङ्मांसं चोदनं चापूपांश्च श्रपयन्त्यन्यांश्च भक्ष्यविशेषान्त्सर्वं सिद्धं समानीयायुग्मान्ब्राह्मणान् सुप्रक्षाळितपाणिपादानप आचमय्य सदर्भोपक्लृप्तेष्वासनेषु द्वौ दैवे त्रीन्पित्र्ये एकैकमुभयत्र वा प्राङ्मुखानुपवेशयत्युदङ्मुखान् वा । स यदि प्राङ्मुखान् दक्षिणापवर्गः । यद्युङ्मुखान् प्रागपवर्गः । तेषामेवोदकं निनीय सप्रणवेन क्षणं ग्राहयति - अष्टकाश्राद्धे क्षणः क्रियतामित्योंतथेति प्रतिवचनम् ।
प्राप्नोतु भवान्, प्राप्नोतु भवान्
इति । ‘प्राप्नवानि, प्राप्नवानि’ इतीतरे प्रत्याहुः । अथैनान् तिलमिश्रा अपः प्रतिग्राहयति -
अमुष्मै स्वधा नमोऽमुष्मै स्वधा नमः
इति । त्रिस्तिलोदकमेके समामनन्ति । पुरोऽन्नं द्विस्तिलोदकं दद्यात् भुक्तवत्सु च तृतीयमिति । अथैनान्वस्त्रगन्धपुष्पधूपदीपमाल्यैर्यथोपपादं सम्पूज्य पृच्छति -
उध्द्रियतामग्नौ च क्रियताम्
काममुध्द्रियतां काममग्नौ च क्रियताम्
इतीतरे प्रत्याहुः । अपि वा - ‘अग्नौ करिष्यामि’ इति, ‘कुरुष्व’ इतीतरे प्रत्याहुः ॥ अथाभ्यनुज्ञातः परिधानप्रभृत्याग्निमुखात्कृत्वा शृतायां वपायां पञ्च स्रुवाहुतीर्जुहोति - ‘याः प्राचीः॰’ इति । त्रेधा वपां विच्छिद्यौदुम्बर्या दर्व्या जुहोति -
सोमाय पितृमते॰, अङ्गिरस्वन्तमूतये॰, यदग्ने कव्यवाहन॰
इति (तिसृभिः) । अथाष्टकाहोमं जुहोति -
इयमेव सा या प्रथमा व्यौच्छत्
इति पञ्चदश, ‘ईयुष्टे ये पूर्वतरामपश्यन् ’ इत्येकां, ‘संवत्सरस्य प्रतिमाम्’ इत्येकां, ताः सप्तदश । अथापूपमष्टधा विच्छिद्य त्रीण्यवदानानि वपायाः कल्पेन हुत्वाऽथेतराणि ब्राह्मणेभ्यो दत्वाऽत्रैतान्यवदानानीडासूने प्रतिच्छाद्यौदनं मांसं यूषमित्याज्येन समुदायुत्यौदुम्बर्या दर्व्योपघातं दक्षिणार्धे जुहोति -
पितृभ्यः स्वधा नमः स्वाहा॰
इति ॥ (चतुर्विंशतिभिः) ॥
अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा
इति दक्षिणार्धपूर्वार्धे । मांसोदनं पात्रेषूद्धृत्य विशेषानुपनिक्षिप्य हुतशेषेण संसृज्य दक्षिणाग्रेषु दर्भेषु सादयित्वा दक्षिणाग्रैर्दर्भैः प्रतिच्छाधाभिमृशति - ‘पृथिवी ते पात्रं॰’ इति । अथैतानि ब्राह्मणेभ्य उपनिक्षिप्य ब्राह्मणानामङ्गुष्ठेनाऽनखेनानुदिशति -
अमुष्मै स्वधा नमोऽमुष्मै स्वधा नमः
इति । भुञ्जानान्समीक्षते – ‘प्राणे निविष्टोऽमृतं जुहोमि’ इति पञ्चभिः । ‘ब्रह्मणि म आत्माऽमृतत्वाय’ इत्यात्मानम् । न चात ऊर्ध्वं निरीक्षते - ‘ह्रीका हि पितरः’ इति विज्ञायते। सर्वैः कामैस्तर्पयन्स्वधायुक्तानि ब्रह्माण्यभिश्रावयन् राक्षोघ्नानि च नैर्ऋतानि च तृप्त्यन्ते तृप्ताः स्थेत्युक्त्वा तृप्ताः स्म इति प्रतिवचनम् । तृप्तानप आचमय्याशयेष्वन्नशेषान्संप्रकिरति -
ये अग्निदग्धा जाता जीवा॰
इति । अथैनान्संक्षालनेन विषिञ्चन्नवकीर्य ‘स्वदितम्’ इति वाचयित्वा दक्षिणाभिराराधयति । सुवर्णहिरण्यप्राणिवस्त्रलोहभूमिभाण्डैर्गवाश्वाजाविकहस्तिदासपुरुषव्रीहियवमाषतिलदण्डोपानच्छत्रकमण्डलुयानासनशयनोपधानैः सर्वोपकरणैर्यथोपपादं सम्पूज्याक्षय्यं वाचयित्वोपसंगृह्य स्वधां वाचयित्वोत्थाप्य प्रसाद्य संसाद्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्यतेनैव यथेतमेत्यान्नशेषान्निवेदयते । यथा ब्रूयुस्तथा कुर्यात्तैस्त्वभ्यनुज्ञेयम् ॥ अथाऽभ्यनुज्ञातो दक्षिणेनाग्निं दक्षिणाग्रान्दर्भान्संस्तीर्य तेष्वन्नशेषैः पिण्डं ददाति– ‘पितृभ्यः स्वधा नमः’ इति चतुर्विंशतिः ॥ अथैनान्संक्षाळनेन त्रिरपसलैः परिषिञ्चति – ‘ऊर्जंवहन्तीः॰’ इति ॥ जयप्रभृति सिद्धमाधेनुवरप्रदानात् ॥ आचमने चाग्निमुखे चाभिश्रावणे चोपसंग्रहणे च पश्चाद्धोमेषु च यज्ञोपवीतम् । अथेतरत्र प्राचीनावीतम् । एवमेव श्वोभूते मांसशेषेणैवमेव श्वोभूते यदि त्र्यहम् । अथ यदि गां न लभते मेषमजं वा लभते । आरण्येन वा मांसेन यथोपपन्नेन खड्गमृगमहिषमेषवराहपृषतशशरोहितशार्ङ्गतित्तिरिकपोतकपिञ्जलवार्ध्राणसानामक्षय्यं तिलमधुसंसृष्टम् ॥ तथा मत्स्यस्य शतवलैः क्षीरोदनेन वा सूपोदनेन वा । यद्वा भवत्यामैर्वा मूलफलैः प्रदानमात्रम् । हिरण्येन वा प्रदानमात्रम् । अपि वा गोग्रासमाहरेत् ॥ अपि वाऽनूचानेभ्य उदकुम्भानाहरेत् ॥ अपि वा श्राद्धमन्त्रानधीयीत । अपि वाऽरण्येऽग्निना कक्षमुपोषेदेषामेकाष्टकेति ॥ नत्वेवानष्टकस्स्यात् । सिकताः श्राद्धे पवित्रं यद्यध्यवसानाय यद्यन्ववकिरणाय । कुशाः कुतपो दूर्वा इति श्राद्धे पवित्रं यद्यासनाय यदि परिस्तरणाय यद्युत्पवनाय ॥ तिलास्श्राद्धे पवित्रं यदि दानाय यदि भोजनाय यद्यपां संसर्जनाय ॥ खड्गः श्राद्धे पवित्रं यदि मांसं यद्यस्थिमयं पात्रम् । दौहित्रः श्राद्धे पवित्रं यदि भोक्ता यदि परिवेष्टा यद्यभिश्रावयिता । इत्यष्टकाहोमो व्याख्यातः ॥ एवमेव मासि श्राद्धमपरपक्षस्यान्यतमेऽहनि क्रियेत । एतावदेव नाना नात्राष्टकाहोमो भवति ॥ इत्यष्टका व्याख्याता ॥
अष्टकाश्राद्धप्रयोगः
अष्टकाश्राद्धप्रयोगः ॥ विहृतपक्षे - पुष्यमाघफाल्गुनमासेषु अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यां च कार्यम् ॥ समस्तपक्षे - माघस्यापरपक्षे सप्तम्यामष्टम्यां नवम्यां च कार्यम् ॥ अपि वा माघस्यापरपक्षस्याष्टम्यामेव । कर्ता पूर्वेद्युः सायंहोमांते प्राचीनावीती
श्वः अष्टकाश्राद्ध कर्तास्मि
इति मनसा संकल्प्य
श्वः अष्टकाश्राद्धं भविता तत्र भवद्भिः प्रसादः करणीयः
इति विश्वेदेवार्थ> द्वौ विप्रौ पित्रर्थं त्रीन्विप्रांश्च निमंत्र्यापरेद्युः प्रातः नित्यकर्मनिवर्तनांते
अद्य श्राद्धं भविष्यति
इति पुनर्निमंत्र्य श्राद्धकाले पुनः स्नात्वा
मम समस्तपितॄणामक्षयतृप्त्यर्थं सपिण्डं साग्नौकरणमष्टकाश्राद्धमन्नेन हविषा पार्वणविधानेन करिष्ये
इति संकल्पः । अग्नौकरणे पञ्चस्रुवाहुत्यंते
सोमाय पितृमते शुष्मिणे जुहुमो हविः । वाजिन्निदं जुषस्व नः
इत्यादि त्रिभिर्मंत्रैः पैतृकं चरुं हुत्वाऽऽज्येनाष्टकाहोमं जुहोति -
ॐ इयमेव सा या प्रथमा व्यौच्छंदन्तरस्यां चरति प्रविष्टा । वधूर्जजान नवगज्जनित्री त्रय एनां महिमा नः सचन्ते स्वाहा ॥ (अकाष्टकाया उषस इदं॰) इति सर्वत्र त्यागः ॥ छन्दस्वती उषसा पेपिशाने समानं योनिमर्नु संचरन्ती । सूर्यपत्नी वि चरतः प्रजानती केतुं कृण्वाने अजरे भूरिरतसा स्वाहा ॥ ऋतस्य पन्थामर्नु तिस्र आऽगुस्त्रयो धर्मासो अनु ज्योतिषाऽऽगुः । प्रजामेका रक्षत्यूर्जमेका व्रतमेका रक्षति देवयूनाँ स्वाहा ॥ चतुष्टोमो अभवद्या तुरीयां यज्ञस्य पक्षावृषयो भवन्ती । गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहद युञ्जानाः सुवराऽभरन्निदँ स्वाहा ॥ पञ्चभिर्धाता वि दंधाविदं यत् तासाँ स्वसृरजनयत् पंचपंच । तासामु यन्ति प्रयवेण पञ्च नाना रूपाणि क्रतो वसानाः स्वाहा ॥ त्रिँशत् स्वसार उप यन्ति निष्कृतँ समानं केतुं प्रति मुञ्चमानाः । ऋतूँस्तन्वते कवयः प्रजानतीमध्येछन्दसः परि यन्ति भास्वतीः स्वाहा ॥ ज्योतिष्मती प्रति मुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । वि पश्यन्ति पशवो जाय॑माना नानारूपा मातुरस्या उपस्थे स्वाहा ॥ एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून् व्यसहन्त देवा हन्साऽसुराणामभवच्छचीभिः स्वाहा ॥ अनानुजामनुजां मामकर्त सत्यं वदन्त्यन्विच्छ एतत् । भूयासमस्य सुमतौ या यूयमन्या वो अन्यामति मा प्र युक्त स्वाहा ॥ अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविवृद्धि गाधम् । भूयासमस्य सुम॒तौ यथा यूयमन्या वो अन्यामति मा प्र युक्त स्वाहा ॥ पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च । पञ्च दिशः पञ्चदशेनं क्लृप्ताः समानमूनीरभि लोकमेकँ स्वाहा ॥ ऋतस्य गर्भ ः प्रथमा व्यूषुष्यपामेका महिमानं बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु धर्मस्यैका सवितैकां नि यच्छति स्वाहा ॥ या प्रथमा व्यौच्छत् सा धेनुरंभवद्यमे । सा नः पयस्वती धुत्वोत्तरामुत्तराँ समाँ स्वाहा ॥ शुक्रर्षभा नभसा ज्योतिषाऽऽगाद्विश्वरूपा शवलीरनिकेतुः । समानमर्थँ स्वपस्यमाना बिभ्रती जरामजर उष आऽगाः स्वाहा ॥ ऋतूनां पत्नी प्रथमेयमाऽगादह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्युच्छस्यजीर्णा त्वं जरयसि सर्वमन्यत् स्वाहा ॥ ईयुष्टे ये पूर्वतरामपश्यन् व्युच्छन्तीमुषसं मर्त्यासः । अस्माभिरू नु प्रतिचक्ष्याऽभूदो ते यन्ति ये अपरीषु पक्ष्यान् स्वाहा ॥ संवत्सरस्य प्रतिमां यां त्वा रात्र्युपासते । प्रजाँ सुवीरां कृत्वा विश्वमायुर्व्यश्नवत् स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ ततोऽपूपं
सोमाय पितृमते शुष्मिणे॰
इति त्रिभिर्तुत्वा
पितृभ्यः स्वधा नमः स्वाहा
इत्यादि चतुर्विंशत्यन्नाहुतीर्तुत्वा स्विष्टकृतं हुत्वा ब्राह्मणान्संभोज्य तान् सुवर्णहिरण्यवस्त्रलोहभूमिभाण्डव्रीहियवमाषतिलदण्डोपानच्छत्रकमंडलुयानासनशय्योपबर्हणगवादिभिः यथोपपादं संपूजयेत् । पिण्डदाने - “पितृभ्यः स्वधा नमः” इत्यादि चतुर्विंशति पिण्डान्दद्यात् । अन्यत्सर्वं सांवत्सरिकश्राद्धवत् ॥ ॥ अशक्तः - आममूलफलहिरण्योदकुंभाद्यन्यतमदानेन गोग्राससमर्पणेन वा केवलं श्राद्धमंत्रपठनेन वाऽष्टकाश्राद्धफलं प्रानोति । अत्यंताशक्तः - अरण्ये लोकिकाग्निमुपसमाधाय बर्हिरुपोष्य श्राद्धफलं प्राप्नुयात् । नत्वेवाऽनष्टकः स्यात् ॥ ॥