॥ नक्षत्रहोमः ॥ ( बो. गृ. शे. सू. १. १३)
अथ संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासि मासि वा कुमारस्य जन्मनक्षत्रे क्रियेत । ब्राह्मणानन्नेन परिविष्य ‘पुण्याहं स्वस्ति ऋद्धि’ मिति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति - ‘अग्निर्मूर्धा, भुवः’ इति द्वाभ्याम् । अथ नक्षत्रदेवताभ्यो जुहोति यथानक्षत्रम् । ‘अनु नोऽद्यानुमतिः, अन्विदनुमते’ इति तृतीयम् । अथाज्याहुतीरुपजुहोति नक्षत्रदेवताभ्यो यथानक्षत्रम् ।
चन्द्रमसे स्वाहा, प्रतीदृश्यायै॰ अहोरात्रेभ्यः॰, अर्धमासेभ्यः॰, मासेभ्यः॰
इति मासिमासि । ‘ऋतुभ्यः स्वाहा’ इत्यृतावृतौ । ‘संवत्सराय स्वाहा’ इति संवत्सरे । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अन्नशेषं सगणः प्राश्नाति । अथ संवत्सरे पर्यवेते प्रसिद्धमाग्निमुखात्कृत्वा पक्वाज्जुहोत्याग्नेयं प्रधानदेवत्यम् । यथानक्षत्रं द्वितीयम् ।
अनु नोऽद्यानुमतिरन्विदनुमते त्वम्
इति तृतीयम् ।
नवोनवो भवति जायमानो, यमादित्या अँशुमाप्याययन्ति
इत्यान्तादनुवाकस्य । अथ पूर्ववदाज्याहुतीरुपजुहोति नक्षत्रदेवताभ्यो यथानक्षत्रम् ।
चन्द्रमसे स्वाहा । प्रतीदृश्यायै स्वाहा
इत्येतैः स्वाहाकारैरान्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् । नक्षत्रहोमो व्याख्यातः ॥
संग्रहे -
जन्मनक्षत्रघटिकासंगवस्मृग्यदा भवेत् ॥
वृद्धो षण्नाडिकाः प्रोक्ताः क्षये तिस्रः समे चतुः ॥
नक्षत्रहोमः ॥ संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासि मासि वा कुमारस्य जन्मनक्षत्रे - कर्ता सपत्नीकः कुमारेण सहोपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम कुमारकस्य आयुष्याभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं नक्षत्रहोमं करिष्ये
इति सङ्कल्प्य गणपतिं सम्पूज्य
अग्निः अग्निः1 कृत्तिकाः अनुमतिश्च प्रीयन्ताम्
इति पुण्याहं वाचयित्वा देवयजनोल्लेखनप्रभृत्यग्निं प्रतिष्ठाप्य
बलवर्धनो नामाऽग्निः, अग्निः अग्निः कृत्तिकाः, (प्रजापती रोहिणी, सोमो मृगशीर्षः, रुद्र आर्द्रा, अदितिः पुनर्वसू, बृहस्पतिस्तिष्यः, सर्पा आश्रेषाः, पितरो मघाः, अर्यमा फल्गुनी, भगः फल्गुनी, सविता हस्तः, त्वष्टा चित्रा, वायुर्निष्ट्या, इन्द्राग्नी विशाखे, मित्रोऽनूराधः, इन्द्रो ज्येष्ठा, प्रजापतिर्मूलं, आपोऽषाढाः, विश्वेदेवा अषाढाः, विष्णुः श्रोणा, वसवः श्रविष्ठाः, वरुणः शतभिषक्, अज एकपात्प्रोष्ठपदाः, अहिर्बुध्नियः प्रोष्ठपदाः, पूषा रेवती, अश्विनावश्वयुजौ, यमोऽपभरणीः, इत्येतासु नक्षत्रदेवतासु अग्न्यनुमत्योर्मध्ये कुमारकस्य नक्षत्रदेवता ग्राह्या) अनुमतिश्च देवताः, चरुर्हविः, अग्निस्स्विष्टकृत्
इत्यादि सङ्कल्प्यान्वाधाय निर्वापे
देवस्य त्वा॰ अग्नये जुष्टं निर्वपामि॰ अग्नये कृत्तिकाभ्यः॰ अनुमत्यैः॰
इति निरुप्य प्रोक्षणाद्यग्निमुखान्तं कृत्वा पक्काज्जुहोति –
अग्निर्मूर्धा॰, भुवो यज्ञस्य॰
इति द्वाभ्याम् ॥ (अग्नय इदं॰) ॥
अग्निर्नः पातु॰, यस्य भान्ति॰
इति द्वाभ्याम् ॥ (अग्नये कृत्तिकाभ्य इदं॰) ॥
अनु नोऽद्यानुमतिः॰, अन्विदनुमते॰
इति द्वाभ्याम् ॥ (अनुमत्या इदं॰) ॥ इति ॥ ततः स्विष्टकृतमवदायान्तःपरिधि सादयित्वाऽऽज्याहुतीरुपजुहोति -
अग्नये स्वाहा ॥ (कृतिकाभ्यः॰) ॥ अम्बायै॰ ॥ दुलायै॰ ॥ नितत्न्यै॰ ॥ अभ्रयन्त्यै॰ ॥ मेघयन्त्यै॰ ॥ वर्षयन्त्यै॰ ॥ चुपुणीकायै॰
इति ॥ (यथालिङ्गं त्यागः) ॥
मासिमासि करणपक्षे - नक्षत्रदेवताभ्य उपहुत्य
चन्द्रमसे स्वाहा ॥ प्रतीद्दश्यायै॰ ॥ अहोरात्रेभ्यः॰ ॥ अर्धमासेभ्यः॰ ॥ मासेभ्यः॰
इति ॥ (यथालिङ्गं त्यागः) इति जुहुयात् ॥ ऋतावृतौ करणपक्षे - पूर्ववदुपहुत्य ‘ऋतुभ्यः स्वाहा’ ॥ (ऋतुभ्य इदं॰) ॥ इति च जुहुयात् ॥ संवत्सरे संवत्सरे करणपक्षे - पूर्ववध्दुत्वा ‘संवत्सराय स्वाहा’ ॥ (संवत्सरायेदं॰) ॥ इति जुहुयात् ॥ संवत्सरान्ते - वक्ष्यमाणदशप्रधानदेवता उद्दिश्य होमः कार्यः ॥
अग्निः, अग्निः कृत्तिकाः (जन्मनक्षत्रदेवता), चन्द्रमाः प्रतीदृश्या, अहोरात्रे, उषाः, नक्षत्रं, सूर्यो नक्षत्राणि, अदितिः, विष्णुः, अनुमतिः,
इति दशप्रधानदेवताः ॥ तेषां पक्वमन्त्राः - ‘अग्निर्मूर्धा॰, भुवो यज्ञस्य॰’ इत्यग्नेः ।
अग्निर्नः पातु कृत्तिकाः॰, यस्य भान्ति॰
इत्यग्नेः कृत्तिकानाम् । ‘नवोनवः॰, यमादित्या॰’ इति चन्द्रमसः प्रतीदृश्यायाः । ‘ये विरूपे॰, वयं देवी॰’ इत्यहोरात्रयोः । ‘प्रत्युवदृश्या॰, उदुस्रियाः॰’ इत्युषसः । ‘तन्नो नक्षत्र॰, प्रनक्षत्राय॰’ इति नक्षत्रस्य । ‘उदु त्यं॰, चित्रं देवानां॰’ इति सूर्यस्य नक्षत्राणाम् । ‘अदितिर्नः॰, महीमूषु॰’ इत्यदित्याः । ‘इदं विष्णुः॰, प्र तद्विष्णुः॰’ इति विष्णोः ।
अनु नो द्याऽनुमतिः॰, अन्विदनुमते त्वं॰
इत्यनुमत्याः ॥ उपहोमेऽपि -
अग्नये स्वाहा, कृतिकाभ्यः स्वाहा
इत्यादि स्वनक्षत्रदेवताभ्यो हुत्वा,
चन्द्रमसे स्वाहा, प्रतीदृश्यायै स्वाहा
इत्यादि ‘प्रतिष्ठायै स्वाहा’ इत्यन्तैस्त्रयस्त्रिंशन्मन्त्रैर्जुहुयात् ॥ ततः स्विष्टकृदादि होमशेषं समाप्य अन्नशेषं सगणः प्राश्नाति । ततो ब्राह्मणान्सम्पूज्य साङ्गतासिध्यर्थं हिरण्यं वासश्च दत्वा यावच्छक्ति ब्राह्मणान् संभोज्याऽऽशिषो गृह्णीयात् ॥ ॥
शूलगवः
॥ अथ शूलगवः ॥ (बो. गृ. सू. २.७)
अथ शूलगवः संवत्सरे संवत्सरे मार्गशीर्ष्यां पौर्णमास्यां क्रियेत । अपि वाऽऽर्द्रायाम् । गोषु वोपतप्तासु गोषु गुप्तासु । अरण्येऽग्निमुपसमाधाय सम्परिस्तीर्याप्रणीताभ्यः कृत्वा बर्हिरादाय गामुपाकरोति -
ईशानाय त्वा जुष्टामुपाकरोमि
इति । तूष्णीमित्येके । अथैनामद्भिः प्रोक्षति -
ईशानाय त्वा जुष्टां प्रोक्षामि
इति । तूष्णीमित्येके । तामत्रैव प्रतीचीनशिरसीमुदीचीनपदीं संज्ञपयन्ति । तस्यै संज्ञप्ताया अद्भिराभिषेकम् । प्राणानाप्याययति तूष्णीम् ॥ तूष्णीं वपामुत्खिद्य हृदयमुद्धरति । प्रज्ञातानि चावदानानि । तान्येतेष्वेव शूलेषूपनिक्षिप्य तस्मिन्नेवाग्नौ श्रपयन्ति । अथैतानि शूलेभ्य उपनिक्षिप्य पुनः कुम्भ्यां श्रपयन्ति । अथैतान्यभिघारितान्युद्वास्य प्रतिष्ठितमभिघारयति । परिधानप्रभृत्याग्निमुखात्कृत्वा दैवतमावाहयति - ‘आ त्वा वहन्तु॰ शर्वोम्’ इति । अथ स्रुवेणोपस्तीर्णां अभिघारितां वपां जुहोति - ‘सहस्राणि सहस्रशः’ इति पुरोनुवाक्यामनूच्य
ईशानं त्वा भुवनानामभिश्रियम्
इति याज्यया जुहोति । अत्रैतान्यवदानानीडासूने प्रच्छिद्यौदनं मांसं यूषमित्याज्येन समुदायुत्य मेक्षणेनोपघातं पूर्वार्धे जुहोति -
भवाय देवाय स्वाहा, शर्वाय॰, ईशानाय॰, पशुपतये॰, रुद्राय॰, उग्राय॰, भीमाय॰, महते॰
इति । अथ मध्ये जुहोति - ‘भवस्य देवस्य पत्न्यै॰’ (इत्याद्यष्टभिः) । अथापरार्धे जुहोति - ‘भवस्य देवस्य सुताय॰’ (इत्याद्यष्टभिः) । अथाज्याहुतीरुपजुहोति - ‘नमस्ते रुद्र मन्यवे’ इत्यान्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् । अथाग्रोणाग्निमर्कपर्णेषु हुतशेषं निदधाति- ‘यो रुद्रो अग्नौ॰ अस्तु’ इति । स्थालीसंक्षालनमाज्यशेषमुदकशेषं च पात्र्यां समानीय वेतसशाखयाऽवोक्षन् सर्वतस्त्रिः प्रदक्षिणं गाः पर्येति - ‘आ गावो अग्मन् ’ इत्येतेन सूक्तेन । महत्स्वस्त्ययनमित्याचक्षते। अथ यदि गां न लभते मेषमजं वाऽऽलभते । ईशानाय स्थालीपाकं वा श्रपयन्ति तस्मादेतत्सर्वं करोति यद्गवा कार्यम् । शूलगवो व्याख्यातः । एवमेवाष्टम्यां प्रदोषे क्रियेतैतावदेव नाना । नात्रोपाकरणं पशोः ॥
प्रयोगः
अथ प्रयोगः । संवत्सरे संवत्सरे मार्गशीर्षस्य पौर्णमास्यां सम्मार्जनोपलेपनतोरणादिभिर्गृहमलङ्कृत्य पत्नीपुत्रादिभिः सह स्नात्वाऽहतं वासः परिधाय सन्ध्यौपासनादि नित्यकर्म निर्वर्त्य गृह्याग्नेः पश्चाद्दर्भेषूपविश्य दर्भान्धारयमाण आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं शूलगवप्रतिनिधिभूतमाशानस्थालीपाकं करिष्ये,
इति सङ्कल्प्य । गणपतिपूजनं ‘ईशानः प्रीयताम्’ इति पुण्याहवाचनञ्च कृत्वा । समित्रयमादाय देशकालौ सङ्कीर्त्य॰
शूलगवप्रतिनिधिभूतमीशानस्थालीपाकहोमं करिष्ये, ईशानस्थालीपाकहोमः कर्म,॰ पचनो नामाऽग्निः, ईशानो देवता, चरुर्हविः, अग्निः स्विष्टकृत्,
इत्याद्यन्वाधाय निर्वापकाले
देवस्य त्वा॰ ईशानाय जुष्टं निर्वपामि
इति निरुप्य, तण्डुलप्रोक्षणाद्यग्निमुखान्तं कृत्वा, स्थण्डिलस्येशानदिग्भागे अष्टदलपद्मं विलिख्य तदुपरि तण्डुलैः स्थण्डिलं कृत्वा ‘मही द्यौः’ इत्यादिविधिना कलशं प्रतिष्ठाप्य वरुणमावाह्य षोडशोपचारैः सम्पूज्य, उपोत्थाय गन्धपुष्पाक्षतानञ्जलौ गृहीत्वा देवतामावाहयति-
ॐ आ त्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैः सह केतुमद्भिः । वाताजवैर्बलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वोमीशानं सपत्नीकं ससुतं सगणं सपार्षत्कमावाहयामि
इति ॥ अथ स्वागतेनाऽभिनन्दयति -
स्वागतमधुना भगवत ईशानस्य सपत्नीकस्य ससुतस्य सगणस्य सपार्षत्कस्य ॥
अथासनं ददाति –
भगवत ईशानाय सपत्नीकाय ससुताय सगणाय सपार्षत्कायैतदासनमुपक्लृप्तमत्रास्तां भगवानीशानः सपत्नीकः ससुतः सगणः सपार्षत्कः
इति ॥ अथ कूर्चं ददाति -
भगवतोऽयं कूर्चो दर्भमयास्त्रिवृद्धरितः सुवर्णमयस्तं जुषस्व
इति
प्रतिगृह्णातु भगवानीशानः॰ सपार्षत्कः
इति ॥ एवमेव पाद्याऽर्घ्यादिभिरुपचारैर्यथोपपादमभ्यर्चयेत् ॥ ततः पत्नीपुत्रादिभिर्गृह्यैरन्वारब्धः अवदानधर्मेण पक्वस्यावदाय -
ॐ सहस्राणि सहस्रशः॰ तन्मसो३ (इति पुरोनुवाक्यामनूच्य) मीशानन्त्वा भुवनानामभिश्रियँ स्तौम्यग्न उरुकृतँ सुवीरम् । हविर्जुषाणः सपत्नाँ अभिभूरसि जहि शत्रूँरपमृधो नुदस्व स्वाहा [[TODO: परिष्कार्यम्]]
इति याज्यया जुहोति ॥ (ईशानायेदं॰) ॥ अथ पक्वावशिष्टं चरुं मेक्षणेनोपहत्य जुहोति -
भवाय देवाय स्वाहा । शर्वाय देवाय॰ । ईशानाय॰ । पशुपतये॰ । रुद्राय॰ । उग्राय॰ । भीमाय॰ । महते॰
इति ॥ तथा मध्ये जुहोति -
भवस्य देवस्य पत्न्यै स्वाहा । शर्वस्य देवस्य॰ । ईशानस्य देवस्य॰ । पशुपतेर्देवस्य॰ । रुद्रस्य देवस्य॰ । उग्रस्य देवस्य॰ । भीमस्य देवस्य॰ । महतो देवस्य॰
इति ॥ तथैवाऽपरार्धे जुहोति -
भवस्य देवस्य सुताय स्वाहा । शर्वस्य देवस्य॰ । ईशानस्य देवस्य॰ । पशुपतेर्देवस्य॰ । रुद्रस्य देवस्य॰ । उग्रस्य देवस्य॰ । भीमस्य देवस्य॰ । महतो देवस्य॰
इति ॥ सर्वत्र यथालिङ्गं त्यागः ॥ स्विष्टकृतमवदायाऽन्तःपरिधौ निधायाऽज्याहुतीरुपजुहोति - “नमस्ते रुद्रमन्यवे” इत्यान्तादनुवाकस्य प्रत्यृचम् ॥ सर्वत्र (रुद्रायेदं॰) इति त्यागः ॥ स्विष्टकृत्प्रभृति प्रागुत्तरपारेषेकात्कृत्वाऽग्रेणाऽग्निमर्कपर्णेषु हुतशेषं निदधाति –
यो रु॒द्रो अ॒ग्नौ॰ नमो॑ अस्तु
इति ॥ अथोत्तरपरिषेकादि होमशेषं समाप्य स्थालीसङ्क्षालनमाज्यशेषमुदकशेषञ्च पात्र्यां समानीय वेतसशाखया सर्वतः प्रोक्षन्गोष्ठं त्रिः प्रदक्षिणं पर्येति -
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन्
इत्येतेन सूक्तेन ॥ आवाहितमीशानं पुनः सम्पूज्य रौद्रीभिर्ऋग्यजुःसामाऽथर्वभिः स्तुतिभिस्स्तुन्वन्त्यार्षैः स्तोत्रैश्च ॥ ततः
प्रयातु भगवानीशानः सपत्नीकः ससुतः सगणः सपार्षत्कः ॥
ईशानः सर्वलोकानां सर्वलोकनमस्कृतः ।
अनेन हविषा तृप्तः पुनरागमनं प्रति
इत्युद्वास्य कलशं सोपस्करं आचार्याय दद्यात् ॥ ततः कर्मेश्वराय समर्प्य यथाशक्ति ब्राह्मणान्सम्भोज्य भूयसीं दद्यात् ॥ महत्स्वस्त्ययनमित्याचक्षते ॥ ॥ इति शूलगवः ।।
-
जन्मनक्षत्रस्थाने कृत्तिकानक्षत्रमाश्रित्य प्रयोगो लिखितः । रोहिण्यादिषु यथायथं ‘प्रजापती रोहिणी’ इत्याद्यूह्यम् ॥ ↩︎