॥ अथ प्रत्यवरोहणम् ॥ (बो. गृ. सू. २. १० )
वसन्तादौ – ‘मधुश्च माधवश्च’ इति हुत्वा वासन्तिकैरलङ्कारैरलङ्कृत्य वासन्तिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान्सगणः प्राश्नाति ॥ अथ ग्रीष्मादौ – ‘शुक्रश्च शुचिश्च’ इति हुत्वा ग्रैष्मिकैरलङ्कारैरलङ्कृत्य ग्रैष्मिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान्सगणः प्राश्नाति ॥ अथ वर्षादौ - ‘नभश्च नभस्यश्च’ इति हुत्वा वार्षिकैरलङ्कारैरलङ्कृत्य वार्षिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान्सगणः प्राश्नाति ॥ अथ शरदादौ - ‘इषश्चोर्जश्च’ इति हुत्वा शारदिकैरलङ्कारैरलङ्कृत्य शारदिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान्सगणः प्राश्नाति । अथ हेमन्तादौ - ‘सहश्च सहस्यश्च’ इति हुत्वा हैमन्तिकैरलङ्कारैरलङ्कृत्य हैमन्तिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान्सगणः प्राश्नाति । अथ शिशिरादौ - ‘तपश्च तपस्यश्च’ इति हुत्वा शैशिरिकैरलङ्कारैरलङ्कृत्य शैशिरिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान्सगणः प्राश्नाति ॥ अथाधिमासे - ‘सँ सर्पोऽस्यँहस्पत्याय त्वा’ इति हुत्वा चैत्रिकैरलङ्कारैरलङ्कृत्य चैत्रिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान्सगणः प्राश्नाति । स एष आघारवान्वा स्यादाग्निहोत्रिको वाऽप्यापूर्विको वा ॥
प्रयोगः
अथ प्रयोगः ॥ वसन्तादौ (चैत्रशुक्लप्रतिपदि) कर्ता सपत्नीकः कृतस्नानादिचतुष्टयो गणपतिं सम्पूज्य ‘सविता प्रीयताम्’ इति पुण्याहं वाचयित्वा देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य, देशकालौ सङ्कीर्त्य
मम समस्तजरारोगनिवारणद्वारा श्रीपरमेश्वरप्रीत्यर्थं वासन्तिकं प्रत्यवरोहणं करिष्ये, प्रत्यवरोहणहोमः कर्म, पचनो नामाऽग्निः, सविता देवता, चरुर्हविः, अग्निः स्विष्टकृत्,
इत्यादि सङ्कल्प्याऽग्निमुखान्ते सावित्र्या पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधौ निधायाऽऽज्याहुती उपजुहोति -
मधु॑श्च॒ स्वाहा॑ ॥ (मधव इदं॰) ॥ माध॑वश्च॒ स्वाहा ॥ (माधवायेदं॰)
इति हुत्वा स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथ वसन्तोद्भवैः पुष्पादिभिरलङ्कृत्य कालोद्भवफलपक्वादीनि ब्राह्मणेभ्यो दत्वा हविशेषान्त्सगणः प्राश्नीयात् ॥ ॥ ग्रीष्मादौ (ज्येष्ठशुक्लप्रतिपदि) ग्रैष्मं प्रत्यवरोहणं कुर्यात् ॥ तत्र विशेषः -
शु॒क्रश्च॒ स्वाहा॑ ॥ (शुक्रायेदं॰) ॥ शुचि॑श्च॒ स्वाहा॑ ॥ (शुचय इदं॰)
इति ॥ अथ ग्रैष्मोद्भवैः पुष्पादिभिरलङ्कृत्य कालोद्भवफलपक्वादीनि ब्राह्मणेभ्यो दत्वा हविश्शेषान्सगणः प्राश्नीयात् ॥ ॥ वर्षादौ (श्रावणशुक्लप्रतिपदि) वार्षिकं प्रत्यवरोहणं कुर्यात् ॥ तत्र विशेषः -
नभ॑श्च॒ स्वाहा॑ ॥ (नभस इदं॰) ॥ न॒भ॒स्य॑श्च॒ स्वाहा॑ ॥ (नभस्यायेदं॰)
इति ॥ अथ वर्षोद्भवैः पुष्पादिभिरलङ्कृत्य कालोद्भवफलपक्वादीनि ब्राह्मणेभ्यो दत्वा हविश्शेषान्सगणः प्राश्नीयात् ॥ ॥ शरदादौ (आश्विनशुक्लप्रतिपदि) शारदिकप्रत्यवरोहणं कुर्यात्॥ तत्र विशेषः -
इ॒षश्च॒ स्वाहा॑ ॥ (इषायेदं॰) । ऊ॒र्जश्च॒ स्वाहा॑ ॥ (ऊर्जायेदं॰)
इति ॥ अथ शारदिकैः पुष्पादिभिरलङ्कृत्य कालोद्भवफलपक्वादीनि ब्राह्मणेभ्यो दत्वा हुतशेषान्सगणः प्राश्नीयात् ॥ ॥ अथ हेमन्ते (मार्गशीर्षशुक्लप्रतिपदि) हैमन्तिकप्रत्यवरोहणं कुर्यात् ॥ तत्र विशेषः -
सह॑श्च॒ स्वाहा॑ ॥ (सहायेदं॰) ॥ स॒ह॒स्य॑श्च॒ स्वाहा॑ ॥ (सहस्यायेदं॰)
इति ॥ अथ हेमन्तोद्भवैः पुष्पादिभिरलङ्कृत्य कालोद्भवफलपक्वादीनि ब्राह्मणेभ्यो दत्वा हुतशेषान्सगणः प्राश्नीयात् ॥ ॥ अथ शिशिरे (माघशुक्लप्रतिपदि) शैशिरिकप्रत्यवरोहणं कुर्यात्॥ तत्र विशेषः -
तप॑श्च॒ स्वाहा॑ ॥ (तपायेदं॰) ॥ त॒प॒स्य॑श्च॒ स्वाहा॑ ॥ (तपस्यायेदं॰)
इति ॥ अथ शिशिरोद्भवैः पुष्पादिभिरलङ्कृत्य कालोद्भवफलपक्वादीनि ब्राह्मणेभ्यो दत्वा हुतशेषान्सगणः प्राश्नीयात् ॥ ॥ अधिमासे (शुक्लप्रतिपदि) अधिमासप्रत्यवरोहणं कुर्यात् ॥ तत्र विशेषः -
सँ॒सर्पो॑ऽस्यँहस्प॒त्याय॑ त्वा॒ स्वाहा॑ ॥ (सँसर्पायाँऽहस्पत्यायेदं॰)
इति ॥ अथ चैत्रिकैः पुष्पादिभिरङ्कृत्य चैत्रिकान्यन्नानि ब्राह्मणेभ्यो दत्वा हुतशेषान्सगणः प्राश्नीयात् ॥