॥ आग्रयणस्थालीपाकः ॥ (बो. गृ. प. सू. २. १)
अथ व्रीहिभ्यो यवेभ्यश्च नवानामनिरुप्तं स्थालीपाकं श्रपयित्वाऽग्निमुपसमाधाय सम्परिस्तीर्याघारावाघार्याज्यभागाविष्ट्वाऽऽग्रयणदेवताभ्य इन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यां सोमाय स्विष्टकृच्चतुर्थीभ्यो जुहुयात् । कामं पुरस्तात्स्विष्टकृतोऽज्यानीरुपजुहोति । प्रसिद्धौ प्राशनमन्त्रौ । वैश्वदेवं कृत्वा ब्राह्मणेभ्यो दत्वा प्राशनम् । तेन सर्वासामोषधीनामाग्रयणं व्याख्यातमन्यत्र श्यामाकवेणुयवेभ्यश्च ॥ सौम्यः श्यामाकश्चरुराग्नीन्द्रो वेणुयवानां वैश्वदेवो वा । समानौ प्राशनमन्त्रौ । अथ फलानां मूलानां भक्षणानां ब्राह्मणेभ्यो दत्वा प्राशनमेव । पुष्पाणामन्येषां च नवानां ब्राह्मणेभ्यो दत्वोपयोगः ॥
कथमुखल्वनाहिताग्नेराग्रयणं भवतीति । अनिरुप्तँ स्थालीपाकँ श्रपयित्वाऽग्निमुपसमाधाय सम्परिस्तीर्याऽऽघारावाघार्याऽऽज्यभागाविष्ट्वाऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यो जुहुयात् । कामं पुरस्तात्स्विष्टकृतोऽज्यानीरुपजुहुयात् । तस्यैतेनैव मन्त्रेण प्राश्नीयात्
भद्रान्नः श्रेयः समनैष्ट देवाः
इति ॥ अपि वा श्रुतवतो ब्राह्मणस्य हुतोच्छेषणाल्लिप्सेत । समानः प्राशनमन्त्रः ॥ आव्रीह्याग्रयणस्य कालाच्छ्यामाकाग्रयणस्य कालो नाऽतीयात् । आयवाग्रयणस्य कालाद्व्रीह्याग्रयणस्य । आश्यामाकाग्रयणाद्यवाग्रयणस्य ॥ अपि वा देवनक्षत्रे रेवत्यां वाऽऽग्रयणं कुर्वीत इति ॥
शरदि व्रीह्याग्रयणं तस्य प्रयोगः
शरदि व्रीह्याग्रयणम् ॥ तस्य प्रयोगः ॥ आश्विने कार्तिके वा मासि पौर्णमास्यां वा शुभदिने देवनक्षत्रे रेवत्यां वा कर्ता सपत्नीकः प्रातरौपासनं हुत्वाऽग्नेः पश्चादुपविश्य स्नानादिचतुष्टयं कृत्वा गणपतिं सम्पूज्य
इन्द्राग्नीविश्वेदेवाद्यावापृथिव्यः प्रीयन्ताम्
इति पुण्याहं वाचयित्वा आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम समस्तजरारोगनिवृत्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं व्रीह्याग्रयणस्थालीपाकहोमं करिष्ये, होमः कर्म, पचनो नामाग्निः, इन्द्राग्नीविश्वेदेवाद्यावापृथिवीदेवताः, (व्रीहिमयः) चरुर्हविः, अग्निः स्विष्टकृत्
इत्यादि सङ्कल्प्याऽन्वाधायाऽऽप्रणीताभ्यः कृत्वा तण्डुलान्निर्वपति -
देवस्य त्वा॰ हस्ताभ्यामिन्द्राग्निभ्यां जुष्टं निर्वपामि, देवस्य त्वा॰ विश्वेभ्यो देवेभ्यः॰, देवस्य त्वा॰ द्यावापृथिवीभ्यां॰ निर्वपामि
इति निरुप्य
देवस्य त्वा॰ इन्द्राग्निभ्यां वो जुष्टं प्रोक्षामि विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यां
इति सकृन्मन्त्रेण द्विस्तूष्णीं प्रोक्ष्य तण्डुलान् त्रिः प्रक्षाळ्य चरुस्थाल्यां तिरःपवित्रमप आनीयाऽग्नावधिश्रित्य तिरःपवित्रं तण्डुलानोप्य श्रपयति ॥ अथाऽऽज्यनिर्वापाद्यग्निमुखान्तेऽथैतं चरुं त्रेधा विभज्य
इन्द्राग्निभ्यां त्वा, विश्वेभ्यो देवेभ्यस्त्वा, द्यावापृथिवीभ्यां त्वा
इत्युदगपवर्गमभिमृश्यावदानधर्मेण पक्वत्रयं जुहोति -
ॐ इन्द्राग्नी रोचना दिवः परिवाजेषु भूषथः । तद्वाञ्चेति प्रवीर्यो३ँ श्नथद्वृत्रमुत सनोऽति वाजमिन्द्रायो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेस्सहस्तमा सहसा वाजयन्ता स्वाहा ॥ (इन्द्राग्निभ्यामिदं॰) ॥ ॐ विश्वेदेवा ऋतावृध ऋतुभिर्हवनश्रुतः । जुषन्तां युज्यं पयों३ विश्वे देवाः शृणुतेमँ हवम्मे ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्याऽ स्मिन्बर्हिषि मादयध्व स्वाहा ॥ (विश्वेभ्यो देवेभ्य इदं॰) ॥ ॐ द्यावा नः पृथिवी इमँ सिधमद्य दिवि स्पृशम् । यज्ञं देवेषु यच्छतों३ प्रपूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वँ सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथँ स्वाहा ॥ (द्यावापृथिवीभ्यामिदं॰) ॥ [[TODO: परिष्कार्यम्]]
इति पक्वत्रयं हुत्वा स्विष्टकृतमवदायाऽन्तःपरिधौ निधायाऽज्याहुतीरुपजुहोति -
ॐ शतायुधाय॰ विश्वा स्वाहा ॥ (इन्द्रायेदं॰) ॥ ॐ ये चत्वारः॰ सर्वे स्वाहा ॥ (देवेभ्य इदं॰) ॥ ॐ ग्रीष्मो हेमन्तः॰ स्याम स्वाहा ॥ (ग्रीष्महेमन्तवसन्तशरद्वर्षाभ्य इदं॰) ॥ ॐ इदुवत्सराय॰ स्याम स्वाहा ॥ (इदुवत्सरपरिवत्सरसंवत्सरेभ्य इदं॰) ॥ ॐ भद्रान्नः॰ स्योनः स्वाहा ॥ (देवेभ्य इदं॰) ॥
स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वा हविश्शेषं प्राश्नाति -
ॐ भ॒द्रान्नः॒ श्रेयः॒॰ स्यो॒नः
इति ॥ अथोत्तरपरिषेकादि कर्मशेषं समाप्याऽचार्याय गां दत्वा दशावरान्ब्राह्मणान्भोजयेत् ॥ इति व्रीह्याग्रयणस्थालीपाकः ॥
वसन्ते यवाग्रयणस्थालीपाकः
अथ वसन्ते यवाग्रयणस्थालीपाकं कुर्यात् ॥ तत्र विशेषः -
पचनो नामाऽग्निः, इन्द्राग्नीविश्वेदेवाद्यावापृथिवीदेवताः
यवमयश्चरुर्हविः, इत्यादि समानं यथा व्रीह्याग्रयणस्य ॥ तत्र प्राशनमन्त्रः -
एतमुत्यं मधुना संयुतं यवम् । सरस्वत्या अधिमनावचर्कुषुः ॥ इन्द्र आसीत्सीरपतिः शतक्रतुः । कीनाशा असन्मरुतः सुदानवः [[TODO: परिष्कार्यम्]]
इति ॥ आचार्याय गां दत्वा दशावरान्ब्राह्मणान् भोजयेत् ॥ इति यवाग्रयणस्थालीपाकः ॥
वर्षर्तौ श्यामाकाग्रयणस्थालीपाकः
एवमेव वर्षर्तौ श्यामाकाग्रयणस्थालीपाकः ॥ तत्र विशेषः- ‘सोमः प्रीयताम्’ इति पुण्याहं वाचयित्वा ॥
पचनो नामाऽग्निः, सोमो देवता, (श्यामाकः पयसि ) चरूर्हविः, अग्निः स्विष्टकृत्,
इत्यादि समानमाग्निमुखात् ॥ ‘सोमाय त्वा’ इति चरुमभिमृश्य पक्वाज्जुहोति -
ॐ आप्यायस्व॰ सङ्गथों ३ सन्ते॰ धिष्व स्वाहा ॥
(सोमायेदं॰) ॥ स्विष्टकृतमवदायान्तःपरिधौ निधाय पञ्चाज्यानीरुपहुत्य स्विष्टकृत्प्रभृति सिद्धमत ऊर्ध्वम् ॥ प्राशनमन्त्रस्तु -
अग्निः प्रथमः प्राश्नातु । स हि वेद यथा हविः ॥ शिवा अस्मभ्यमोषधीः। कृणोतु विश्वचेर्षणिः [[TODO: परिष्कार्यम्]]
इति ॥ आचार्याय वासो दत्वा दशावरान् ब्राह्मणान् भोजयेत् ॥ इत्याग्रयणस्थालीपाकप्रयोगः ॥
अशक्तौ नूतनश्यामाकान् गवे दत्त्वा तस्याः क्षीरेण सायंप्रातरौपासनहोमौ होतव्यौ । तेनैव तत्सिद्धिः । व्रीह्याग्रयणस्थालीपाककरणाऽशक्तौ नवैर्व्रीहिभिरेव पार्वणस्थालीपाकौ कार्यो । अथवा नवान्व्रीहीन् गवे दत्वा तस्याः क्षीरेण सायंप्रातरौपासनहोमौ होतव्यौ ॥ अनुकल्पान्तरमप्याह मण्डनः -
गृह्ये बोधायनेनोक्तं नवेष्टिश्चेन्न सम्भवेत् । ब्राह्मणे भोजनं दद्यात्कुर्याद्वा वैश्वदेविकम्
इति ॥ इदञ्च सूत्रोक्ताऽनुकल्पाऽसम्भवे ज्ञेयम् । आग्रयणं मलमासाऽस्तादिषु न भवति । शुद्धकालस्य सम्भवात् । पुरातनधान्याऽभावे त्वत्राऽपि भवति । यदि दैवान्मानुषाद्वा प्रतिबन्धाच्छरत्काल आग्रयणं न जायेत तदा हेमन्ते शिशिरे वाऽतीतमाग्रयणं कुर्यात् ॥