॥ अथाग्निसमारोपणम् ॥ (बो. गृ. शे. सू. ४. १३)
अथ लौकिकौपासन-ग्रहण-धारणोपावरोहण-विधिं व्याख्यास्यामः - त्रिविधं समारोपणम् - आत्मन्य् अरण्योः समिधीति ॥
समिधि समारोपयति - पालाशीम् आश्वत्थीं खादिरीम् औदुम्बरीं शमीमयीं वा समिधम् आदाय समारोपयति - ‘अयम् ते योनिर् ऋत्वियः’ इति ॥
अरण्योर् वा समारोप्य मथित्वा जुहुयात् ॥
अपि वाऽऽत्मनि समारोपणं भवति -
या ते अग्ने यज्ञिया तनूः
इति ॥
अथैनम् उपावरोहयति - ‘उपावरोह जातवेदः’ इति ॥
यत्र गच्छेत्, तत्र नो हरेत्
तत्र प्राप्य लौकिकम् अग्निम् आहृत्य
न्युप्योपसमाधाय
तां समिधम् आदधाति।
यस्याऽऽत्मनि समारूढो भवति
‘आजुह्वानः, उद्बुध्यस्वाग्नेः’ इति द्वाभ्याम् ॥
(बो. गृ. प. सू. १. १६)
अथाऽस्याऽध्वनि समारोपणम् -
‘अयम् ते योनिर् ऋत्वियः’ इति ॥ अरण्योर् वा समारोप्य मथित्वा जुहुयात् ॥
अपि वाऽऽत्मनि समारोपणं भवति -
या ते अग्ने यज्ञिया तनूः
इत्य् आत्मनि समारोप्य ‘उपावरोह जातवेदः’ इति लौकिकेऽग्नावुपावरोह्य जुहुयात् ॥
अपि वा -
‘अयम् ते योनिर् ऋत्वियः’ इति समिधि समारोप्य
‘आजुह्वानः, उद्बुध्यस्वाग्ने’
इति द्वाभ्यां लौकिकेऽग्नौ समिधम् अभ्याधाय जुहुयात् ॥
आत्मनि समारूढेष्व् अग्निषु
न खादेन् न पिबेन् नोपरि शय्यायां शयीत नाऽप्सु निमज्ज्यान् न मैथुनं व्रजेत् ॥
कामम् खादेत्
कामम् पिबेत् कामम् त्व् एवोपरि शय्यायां शयीत
पालाशीम् आश्वत्थीं खादिरीम् औदुम्बरीं वा ॥ +++(5)+++
तेषाम् एतेन प्रसिद्धं समारोपणम् ॥