( बो. गृ. शे. सू. ४. ८. २)
अथ गृहस्थस्यौपासनम् - षण्मासान्नाजुहवुर्यथोपपादमाहृत्याग्निं प्रतिष्ठाप्य परिस्तीर्य द्वादशाहप्रायश्चित्तं हुत्वा तदानीमेव संपरिस्तीर्याऽऽप्रणीताभ्यः कृत्वा चतुःशरावमोदनं श्रपयित्वाभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघार्य परिधानप्रभृत्याऽग्निमुखात्कृत्वा मेक्षणेनोपघातं पक्वाज्जुहोति -
अग्नये स्वाहा सोमाय स्वाहाऽग्नयेऽन्नवते स्वाहाऽग्नयेऽन्नादाय स्वाहाऽग्नयेऽन्नपतये स्वाहाऽग्नये पवमानाय स्वाहाऽग्नये पावकाय स्वाहाऽग्नये शुचये स्वाहाऽग्नये ज्योतिष्मते स्वाहाऽग्नये व्रतपतये स्वाहाऽग्नये पथिकृते स्वाहाऽग्नये तन्तुमते स्वाहाऽग्नये वैश्वानराय स्वाहा सूर्याय स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा भूः स्वाहा भुवः स्वाहा सुवः स्वाहा भूर्भुवः सुवः स्वाहा ॥ अग्नये स्विष्टकृते स्वाहा
इत्युत्तरार्धपूर्वार्धे ॥ तूष्णीं मेक्षणमभ्याधाय जयप्रभृति सिद्धमाधेनुवरप्रदानात् ॥
प्रयोगः
अथ प्रयोगः ॥ षाण्मासादूर्ध्वमौपासनविच्छेदे पूर्वोक्तप्रकारेण नष्टाग्नेः पुनस्सन्धानं कृत्वा तमेवाऽग्निमुपसमाधाय प्राणानायम्य देशकालौ सङ्कीर्त्य
आवयोः पाण्मासपर्यन्तमौपासनविच्छित्तिदोषपरिहारार्थं षाण्मासप्रायश्चित्तहोमं करिष्ये, प्रायश्चित्तहोमः कर्म, आघारमापूर्विकं वा तन्त्रं, चित्तिर्नामाग्निः, सविता अग्न्यादयश्च देवताः, चरुर्हविः
इत्यादि सङ्कल्प्यान्वाधानाद्यग्निमुखान्ते सावित्र्या पक्वं हुत्वा पक्वादेव मेक्षणेनोपहत्य (हस्तेन) जुहोति -
ॐ अग्नये स्वाहा ॥ (अग्नय इदं॰ इत्यादि यथालिङ्गमुद्देशत्यागः) ॐ सोमाय स्वाहा ॥ ॐ अग्नयेऽन्नवते स्वाहा ॥ ॐ अग्नयेऽन्नादाय स्वाहा ॥ ॐ अग्नयेऽन्नपतये स्वाहा ॥ ॐ अग्नये पवमानाय स्वाहा ॥ ॐ अग्नये पावकाय स्वाहा ॥ ॐ अग्नये शुचये स्वाहा ॥ ॐ अग्नये ज्योतिष्मते स्वाहा ॥ ॐ अग्नये व्रतपतये स्वाहा ॥ ॐ अग्नये पथिकृते स्वाहा ॥ ॐ अग्नये तन्तुमते स्वाहा ॥ ॐ अग्नये वैश्वानराय स्वाहा ॥ ॐ सूर्याय स्वाहा ॥ ॐ प्रजापतये स्वाहा ॥ ॐ ब्रह्मणे स्वाहा ॥ ॐ भूः स्वाहा ॥ ॐ भुवः स्वाहा ॥ ॐ सुवः स्वाहा ॥ ॐ भूर्भुवस्सुवः स्वाहा [[TODO: परिष्कार्यम्]]
इत्येकोनविंशत्याहुतीर्हुत्वा स्विष्टकृत्प्रभृति होमशेषं समापयेत् ॥ अथास्तमित आदित्ये तत्रैव सायमौपासनहोमं कुर्यात् ॥