॥ पुनराधानम् ॥ ( बो. गृ. प. सू. १. १६)
अथ यदि द्वादशाहं विच्छिन्नः पुनराधेयः स्यात् या प्रकृतिस्तत् आहरणं प्रणवेनाहरति । ब्रह्मा प्रणवेन प्रसौति । व्याहृतिभिः सिकतोपोप्ते यथोपपादमग्न्याधेयिकान्सम्भारानाहृत्य व्याहृतिभिर्नियुप्योपसमाधायोपतिष्ठते - ‘जुष्टो दमूना’ इति । अथैनं प्रदक्षिणमग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्यग्नौ परिश्रिते पूर्णाहुतिं जुहोत्यपरिश्रिते वा ‘सप्त ते अग्ने’ इति । पूर्णाहुतौ वरं ददातिधेनुमृषभमनड्वाहं कंसं हिरण्यं वासो वेति । अपरं चतुर्गृहीतं गृहीत्वा तिस्रस्तन्तुमतीर्विग्राहं जुहोति । अपरं चतुर्गृहीतं गृहत्विा चतस्रोऽभ्यावर्तिनीर्विग्राहं जुहोति । अपरं चतुर्गुहीतं गृहीत्वा मनस्वतीं जुहोति । अपरं चतुर्ग्रहीतं गृहीत्वा प्राजापत्यां जुहोति । अपरं चतुर्गृहीतं गृहीत्वाऽनुख्यां जुहोति । अपरं चतुर्गृहीतं गृहीत्वा प्रायश्चित्तं जुहोति - ‘अयाश्चाग्ने’ इति । अपरं चतुर्गृहीतं गृहीत्वा ज्योतिष्मतीं जुहोति - ‘उद्वयं तमसस्परि’ इति । अपरं चतुर्गृहीतं गृहीत्वाऽऽयुर्दां जुहोति - ‘आयुर्दा अग्ने’ इति । अपरं चतुर्गृहीतं गृहीत्वा द्वे मिन्दाहुती जुहोति । अपरं चतुर्गृहीतं गृहीत्वा व्याहृतीर्व्यस्ताः समस्ताश्च जुहोति ।
कारिकायाम् -
द्वादशहप्रभृत्यग्नेर्नाशो यस्य भवेत्तदा । प्राजापत्यं चरेत्कृच्छ्रं होमद्रव्यं त्यजेद्बुधः । कृच्छ्रस्थाने हिरण्यादि दत्वा वाधेय उत्तमैः ॥
पुनराधानप्रयोगः
अथ पुनराधानप्रयोगः ॥ शुचौ समे देशे गोमयेनोपलिप्योद्धत्यावोक्ष्य व्याहृतिभिः सिकतान्युप्य स्थण्डिलं कृत्वा यथोपपादमग्न्याधेयिकान्साम्भारानाहृत्य1 व्याहृतीभिर्नियुप्य तत्र प्रणवेन लौकिकाग्निं प्रतिष्ठाप्य प्राणानायम्य देशकालौ सङ्कीर्त्य
नष्टमग्निं पुनस्सन्धास्ये, पुनस्सन्धानहोमः कर्म, अपूर्वं तन्त्रं, मृडो नामाग्निः, अग्न्यादयो देवताः, आज्यं हविः,
इत्यादि ‘सद्यो यक्ष्ये’, इति सङ्कल्प्यान्वाधाय “जुष्टो दमूनाः" इत्यग्निमुपस्थाय प्रदक्षिणं परिसमूह्य पर्युक्ष्य परिस्तीर्य आज्यस्थालीं स्रुवं स्रुचं प्रोक्षणीं बर्हिश्चेत्यासाद्याऽज्यसंस्कारस्रुक्स्रुवसम्मार्जनान्तं कृत्वा स्रुचि चतुर्गृहीतं गृहीत्वाग्निं परिषिच्य समिधमाधाय परिश्रितेऽग्नौ पूर्णाहुतिं जुहोत्यपरिश्रिते वा
स॒प्त ते॑ अग्ने॰ घृ॒तेन॒ स्वाहा॑
इति । (अग्नये सप्तवत इदं॰) ॥ अथ धेनुमृषममनड्वाहं कांस्यं हिरण्यं वासो वेति यथासम्भवं वरं दत्वा
आवयोरौपासनविच्छित्तिदोषपरिहारार्थं विच्छित्तिदिनादारभ्यैतावत्कालपर्यन्तमतिक्रान्तहोमानामाहुतिपरिमितद्रव्यं ब्राह्मणाय दातुमहमुत्सृजे
इति सङ्कल्पपूर्वकमतिपन्नहोमद्रव्यं तन्निष्क्रयहिरण्यं वा दत्वा
औपासनविच्छित्तिदोषपरिहारोऽस्तु
इति वाचयेत् ॥ अथापरं चतुर्गृहीतं गृहीत्वा तिस्रस्तन्तुमतीर्विग्राहं जुहोति -
ॐ तन्तुं तन्वन्॰ जनँ स्वाहा ॥ ॐ उद्बुध्यस्व॰ तन्तुमेतँ स्वाहा ॥ ॐ त्रयस्त्रिँ शत्तन्तवो ये वितत्निरे य इमं यज्ञँ स्वधया ददन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहा धर्मो देवाँ अप्येतु स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ (अग्नये तन्तुमत इदं॰), इति त्रयाणां त्यागः ॥ अपरं चतुर्गृहीतं गृहीत्वा चतस्रोऽभ्यावर्तिनीर्विग्राहं जुहोति -
ॐ अग्नेऽभ्यावर्तिन्नभि न आवर्त स्वायुषा वर्चसा सन्या मेधया प्रजया धनेन स्वाहा ॥ ॐ अग्ने अङ्गिरः शतं ते सन्त्वावृतः सहस्रं त उपावृत्तः । तासां पोषस्य पोषेण पुनर्नो नष्टमाकृधि पुनों रयिमाधि स्वाहा ॥ ॐ पुनरुर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः स्वाहा ॥ ॐ सह रय्या निवर्तस्वाग्ने पिन्व॑स्व धारया । विश्वस्निया विश्वतस्परि स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ (अग्नयेऽभ्यावर्तिन इदं॰), इति चतुर्णां त्यागः ॥ पुनश्चतुर्गृहीतं गृहीत्वा मनस्वतीं जुहोति -
ॐ मनो॒ ज्योतिः॑॰ घृ॒तेन॒ स्वाहा॑
इति ॥ (मनसे ज्योतिष इदं॰) ॥ अपरं चतुर्गृहीतं गृहीत्वा प्राजापत्यां जुहोति -
ॐ प्रजा॑पते॒ न॰ रयी॒णाँ स्वाहा॑
इति ॥ (प्रजापतय इदं॰) ॥ अपरं चतुर्गृहीतं गृहीत्वाऽनुख्यां जुहोति -
ॐ अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननुद्यावापृथिवी आतनात स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ (अनूख्याऽग्नय इदं॰) ॥ पुनश्चतुर्ग्रहीतेन प्रायश्चितं जुहोति -
ॐ अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽयानो धेहि भेषजँ स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ (अग्नये अयस इदं॰) ॥ पुनश्चतुर्गृहीतेन ज्योतिष्मतीं जुहोति -
ॐ उद्व॒यं॰ रुत्त॒मँ स्वाहा॑
इति ॥ (सूर्याय ज्योतिष इदं॰) ॥ पुनश्चतुर्गृहीतेनाऽऽयुर्दां जुहोति -
ॐ आयु॒र्दा अ॑ग्ने॰ र॑क्षतादि॒मँ स्वाहा॑
इति ॥ (आयुर्दाग्नय इदं॰) ॥ अपरं चतुर्गृहीतं गृहीत्वा द्वे मिन्दाहुती विग्राहं जुहोति -
ॐ यन्म आत्मनः, पुनरग्निः
इति द्वाभ्याम् ॥ पुनः चतुर्गृहीतेन सावित्रीं2 जुहोति - “तत्सवितुर्वरेण्यम्" इति ॥
अपरं चतुर्गृहीतं गृहीत्वा व्याहृतीर्व्यस्ताः समस्ताश्च विग्राहं जुहोति - “ॐ भूः स्वाहा॑” इत्यादि चतसृभिः ॥ ततः स्रुवेण
ॐ अ॒ग्नये॑ स्विष्ट॒कृते॒ स्वाहा॑
इति हुत्वोत्तरपरिषेकादि होमशेषं समापयेत् ॥ तत्रैव तद्दिनसायंप्रभृति यथापूर्वमौपासनहोमं कुर्यात् ॥ ॥ इति पुनराधानप्रयोगः ॥
सद्यः सन्धानम्
अथ सद्यः सन्धानम् ॥ अथात्र ( बो. गृ. प. सू. १. १६. ४३ )
एकाहुत्या वा प्रतिसन्धानम् - पुनस्त्वदित्याः इति ॥
इत्येतद्गृह्यवचनेन विच्छिन्नाग्नेर्गृह्याग्निसाध्यकर्मणः सद्यःकरणप्रसङ्गे तात्कालिकाग्निसिद्धये विधानान्तरमप्युक्तं प्रयोगमालायाम् -
अमुककर्म कर्तुं नष्टमग्निं सद्यः सन्धास्ये
इति संकल्प्य स्थण्डिलोल्लेखनादिलौकिकाऽग्निं प्रतिष्ठाप्याज्यसंस्कारादि ‘सप्त ते अग्ने’ इति पूर्णाहुतिवरदानान्तं कृत्वा “पुनस्त्वादित्याः” इति समिधं हुत्वा पुनस्तथैव चतुर्गृहीतमाज्यं जुहुयात् ॥ ततो होमशेषं समाप्य तत्रैव ह्यस्तनसायमौपासनमद्यतनप्रातरौपासनञ्च तन्त्रेण हुत्वोद्दिष्टं कर्म कुर्यात् । अपवृत्ते कर्मण्यग्निर्लौकिकः सम्पद्यते ॥ अतो नास्य समारोपणादिकं विद्यत इति ॥