५३ औपासनोपयोगिविषयाः

॥ अथौपासनोपयोगिविषयाः ॥

तत्र ( बो. गृ. प. सू. १.१० )

औपासनो वा नित्यो धार्यः

इत्यनेन औपासनाग्नेः कुण्डेऽजस्रधारणं मुख्यः कल्पः । प्रत्यहं समारोपणाऽवरोपणाभ्यां समिधि धारणमनुकल्पः ॥ होमकालश्च -

उदितेऽनुदिते चैव समयाध्युषिते तथा ।
सर्वथा वर्तते होम इतीयं वैदिकी श्रुतिः

इति मनूक्तेषु उदिताऽनुदितसमयाऽध्युषितकालेष्वन्यतमः कालो मुख्यः । गौणस्तु -

प्रदोषान्तो होमकालः सायं साङ्गवान्तः प्रातः

इत्याश्वलायनादिभिरुक्तः ॥

आसायं कर्मणः प्रातराप्रातः सायं कर्मण आहुतिर्नातिपद्येत पार्वणं पार्वणान्तरम्

इति बोधायनोक्तगौणकालस्तु महापद्विषयो ज्ञेयः ॥ ॥ अथ होमद्रव्याण्याह बोधायनः (बो. गृ. शे. सू. ४.१३)

अथाऽग्निं परिचरति व्रीहिभिर्यवैर्वा ॥ यवैर्ग्रामकामस्य तण्डुलैरोजस्कामस्य पयसा पशुकामस्य दध्नेन्द्रियकामस्याज्येन तेजस्कामस्य

इति ॥ होमस्य च सायमुपक्रमः प्रातरपवर्गो ज्ञेयः । अत एव सायंप्रातरेकजातीयमेव द्रव्यं ग्राह्यं होताप्येक एव भवेत् । तथा च सं॰ मालायां मण्डनः -

सायं होमे तु यद्द्रव्यं तदेव प्रातरिष्यते

इति ॥ मदनरत्ने -

एक एव हुनेदग्निं सायंप्रातर्द्विजोत्तमः ।
सायमन्यः प्रातरन्यो जुहुयाल्लौकिको भवेत्

इति ॥ यजमानविषये विशेष उक्तस्तत्रैव +++(मदनरत्ने)+++ गदाधरभाष्ये -

यजमानं विना नान्यो जुहुयात्प्रातराहुतिम्

इति ॥ होमञ्च स्वयमेव कुर्यात्, आशौचादिप्रतिबन्धे ऋत्विगादिभिः कारयेत् ।
ऋत्विगादीनाह दक्षः -

ऋत्विक्पुत्रो गुरुर् भ्राता
भागिनेयोऽथ विट्पतिः ।
एतैरेव हुतं यत्तु
तध्दुतं स्वयमेव तु

इति ॥ विट्पतिर्जामाता ॥ ऋत्विगादिभिः करणे त्वयं विशेषः -

असमक्षन्तु दम्पत्योर्
होतव्यं नर्त्विगादिना ।
द्वयोरप्य् असमक्षं चेद्
भवेद्+हुतम् अनर्थकम्"

इति ॥

समस्यहोमः

अथापदि समस्यहोमो विहितस्त्रिकाण्डमण्डने -

" सायं-प्रातस्तनौ होमाव्
उभौ सायं समस्य तु।
आपन्नो जुहुयात् तत्र
समिदेकाथवा द्वयम् ॥
सायं होमस्य मुख्यत्वात्
तदीयं तन्त्रमिष्यते।
चतस्र1 आहुतीः कुर्यात्
तत्र द्वे सायमाहुती॥
द्वे प्रातर्-आहुती सायं-
होमे चैका समिद् यदि ।
समित्कृता द्वितीया चेत्
सा भवेत्प्रातराहुतौ”

इत्यादि ॥ अत्र प्रयोगक्रमः स्फुटं ज्ञायत एव ॥ ॥ अथ पक्षहोमः शेषहोश्चोक्तस्तत्रैव -

आमयाव्यार्तिमानापद्गतो वाध्वगतोऽपि वा ।
राष्ट्रभ्रंशे धनाभावे गुरुहेहे वसन्नपि ॥
अन्येष्वेवंप्रकारेषु निमित्तेष्वागतेषु च ।
समासमग्निहोत्राणां यथासम्भवमाचरेत् ॥
निमित्तानामिहैतेषां निर्दिश्यैकं यदुच्यते ।
तत्सर्वेषु निमित्तेषु जानीयात्प्रतिपादितम् ॥
पक्षहोमानशेषान्वा शेषहोमानथाऽपि वा ॥
समस्य जुहुयात्तत्र प्रयोगोऽयं निरूप्यते

इत्यादि ॥

पक्षहोमप्रयोगः

अथ पक्षहोमप्रयोगक्रमः ॥ पक्षहोमकरणे प्रतिपदि सायमौपासनकाले

‘आपन्निमित्तं प्रतिपत्-सायं-कालम् आरभ्य चतुर्दशी-सायंकाल-पर्यन्तं
अमुकसङ्ख्याकान् सायमौपासनहोमान् अपकृष्य तन्त्रेण करिष्ये’

इति सङ्कल्प्य तावत्-परिमितं होम-द्रव्यं संस्कृत्य

“अग्नये स्वाहा” इति समिध्य् अपरार्धे प्रथमाहुतिं सकृदेव हुत्वा
“प्रजापतये स्वाहा” इति द्वितीयाम् अप्य् आहुतिं पूर्वार्धे समिधि सकृध्दुत्वा
होमशेषं समापयेत् ॥

एवं द्वितीयाप्रातरौपासनकाले

आपन्निमित्तं द्वितीयाप्रातःकालमारभ्य पौर्णमासीप्रातःकालपर्यन्तं (कृष्णपक्षे चेदमावास्याप्रातःकालपर्यन्तं) अमुकसङ्ख्याकान् प्रातरौपासनहोमानपकृष्य तन्त्रेण करिष्ये

इति सङ्कल्प्य

सूर्याय स्वाहा, प्रजापतये स्वाहा

इति द्वे आहुती सकृत्सकृज्जुहुयात् ॥

अत्यापदि सायमेव अमुकसङ्ख्याकान् सायन्तनान् प्रातस्तनांश्च होमानपकृष्य तन्त्रेण करिष्ये

इति सङ्कल्प्य सायमाहुतिद्वयं हुत्वा किञ्चिद्विरम्य प्रातराहुतिद्वयञ्च जुहुयात् ॥ यदा त्वनिवार्यसङ्कटेन प्रातरेवापकर्षणप्रसङ्गस्तदानीं सङ्कल्पे होमे च पूर्वं प्रातस्तनमनन्तरं सायन्तनं प्रयुञ्ज्यात् ॥

शेषहोमकरणम्

शेषहोमकरणे तु पक्षमध्ये यस्मिन्दिने सङ्कटसन्निपातस्तद्दिनमारभ्य पर्वपर्यन्तं सायंहोमान्प्रातर्होमांश्चापकृष्य पूर्वोक्तप्रकारेण सायन्तनहोमान् सायङ्काले प्रातस्तनान् प्रातःकाले, अतिसङ्कटे सर्वानप्येकदैव वा कुर्यात् ॥ पक्षद्वयेऽपि पर्वदिने सायंहोमः यागदिने प्रातर्होमश्च पृथगेव भवेन्न समासेन, इति त्रिकाण्डमण्डनः ॥ गोपालस्तु -

अमावास्यास्तिथेरर्वाक्समासः कृष्णपक्षके ।
कृष्णपक्षे समासस्स्यात्प्रतिपत्प्रातरन्तकः

इत्याह ॥ ॥

अथ प्रवासनियमस् त्रिकाण्डमण्डने सङ्गृहीतः -

“निक्षिप्याग्निं स्वदारेषु
परिकल्प्यर्त्विजं तथा।
प्रवसेत् कार्यवान्विप्रो
वृथैव न चिरं वसेत् ।।

रजोदोषे समुत्पन्ने
सूतके मृतकेऽपि वा।
प्रवसन्नग्निमान् विप्रः
पुनराधानमर्हति ॥

नाग्निकार्यस्य वेलायां प्रवसन्न च पर्वणि ।
विवाहाग्निं सभार्यश् चेत्
सीमाम् उल्लङ्घ्य गच्छति ।।
होमकालात्यये तस्य
पुनराधानमिष्यते।
यदोभाव् अप्य् अतिक्रम्य
सीमां प्रत्यागतौ पुनः॥
उदयास्तमयात् पूर्वं
न नाशोऽत्रेति केचन ।

भार्यायां प्रोषितायाञ्चेद्2
उदेत्य् अर्कोऽस्तम् एति वा॥
तत्र स्यात् पुनराधेयम्
अन्ये प्राहुर् इहान्यथा।
होमकाले ऽभिसम्प्राप्ता
न सा दोषेण युज्यते॥
ज्येष्ठा चेद् अग्निसंयुक्ता
गच्छन्त्य् अन्या यथारुचि।
यजमानेन सहिता यद्
वा ता एव केवलाः॥
सहाग्निश्चेत् सपत्नीको
गच्छेत्तीर्थानि मानवः"

प्रवासविधिः

अथ प्रवासविधिः ॥ प्रवत्स्यन्यजमानः स्वायतने तिष्ठन्

मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे । तत्त्वं बिभृहि पुनरामदैतोस्तवाहं नाम बिभराण्यग्ने [[TODO: परिष्कार्यम्]]

इत्यग्निमुपस्थाय “भूर्भुवस्सुवः” इति वाचं नियम्य गच्छेत् ।
अग्नेरसकाशे वाचं विसृजेत् ।

प्रवासादागच्छन् प्रपथे समिधं गृहीत्वा
वाचंयमो ऽग्नि-सकाशम् एत्य
व्याहृतिभिर् वाचं विसृज्याग्नौ समिधमाधाय

मम नाम तव च जातवेदो वाससी इव विवसानौ ये चरावः । आयुषे त्वं जीवसे वयं यथायथं विपरिदधावहै पुनस्ते । अयमग्निः श्रेष्ठतमोऽयं भगवत्तमोऽयँ सहस्रसातमः ॥ अस्मा अस्तु सुवीर्यम् [[TODO: परिष्कार्यम्]]

इति द्वाभ्यामुपतिष्ठेत् ॥

प्रवासकाले यजमानः प्रत्यहं सायं प्रातर्होममन्त्रान्
पर्वणि स्थालीपाकमन्त्रांश्च पठेत् ॥
यद्य् अग्निम् अनुपस्थाय प्रवसेत्
तदा प्रत्यहं होममन्त्रपठनान्ते

इहैव सन्तत्र सन्तन्त्वाग्ने । प्राणेन वाचा मनसा बिभर्मि ॥ तिरोमासन्तमायुर्मा प्रहासीत्॥ ज्योतिषा त्वा वैश्वानरेणोपतिष्ठे [[TODO: परिष्कार्यम्]]

इत्युदङ्मुख उपतिष्टेत् इति विशेषः ॥

पत्नी त्व् अग्नि-समीपे वर्तमाना
नित्य-होम–स्थाली-पाकादीन् अवसर-प्राप्तान् एव ऋत्विगादि-द्वारा कुर्यात् ॥

औपासने सम्भाव्यानि प्रायश्चित्तानि

औपासने सम्भाव्यानि प्रायश्चित्तानि ॥ प्र॰ तिलके अन्याग्निसंस्पर्शे –

प्रत्यक्षधारितो वह्निस्संस्पृष्टोऽन्येन वह्निना ।
उभौ विविच्य जुहुयादुभयत्र स्रुवाहुतीः ॥
विते त्वामादिमन्त्राभ्यां मनो मिन्दा च व्याहृतीः ।
अरण्योस्समिधोश्चैव मिथः स्पर्शेऽव्ययं विधिः ॥
एकदेशयुतस्याग्नेर्विभागो नोपपद्यते ।
पूर्वोक्तैर्जुहुयात्तत्र मन्त्रैरेतैस्स्रुवाहुतीः ॥
लौकिकाग्नियुतस्यापि वह्नेरेवं विधिः स्मृतः

इति ॥ ॥ अथ वह्वेर्नद्युत्तारणे -

नदीसन्तरणे वह्नेस्समुद्रायादिना हुनेत् ।
जातवेदा मनो मिन्दा व्याहृतीश्च महादिकाः

इति ॥ ॥ अथ जले समारोपितसमित्पतने –

समारूढोऽग्निररणिस्समिद्वा पतिता यदि । जले वा जलसिक्ते वा तमादायाग्निना विना ॥ संशोष्य लौकिकाग्नौ तामभ्याधाय विधानतः । जातवेदादिपञ्चाग्न आद्याः षट् च मनस्वती ॥ मिन्दाहुती व्याहृतीश्च जुहुयाच्च स्रुवेण तु

इति ॥ ॥ अथाग्नेरुच्छिष्टस्पर्शे -

उच्छिष्टन्तु शकृन्मूत्रमलमन्यच्छरीरजम् । स्पृष्टश्चेन्नाशमेत्याभ्यां पदमानादिभिस्तथा ॥ चतुर्भिर्जुहुयाद्विद्वान्प्रायश्चित्तार्थमादरात्

इति ॥ ॥ अथौपासनाग्नावनुगते - (बो. गृ. प. सू. १. १६)

उपवासश्चानुगतेऽन्यतरस्य भार्यायाः पत्युर्वा ॥ अपि वैकां जुहुयात् ‘अयाश्चाग्ने’ इति ॥ एकाहं मनस्वतीं द्व्यहं वारुणीं त्र्यहं तन्तुमतीं चतस्रोऽभ्यावर्तिनीराद्वादशाहात् । द्वादशाहं विच्छिन्नः पुनराधेयः ॥

(बो. गृ. शे. सू. ४. १३. ९ )

अथाऽतिपन्नाः प्रतिजुहोति

इति ॥ उपवासविषये विशेष उक्तश्चिन्तामणौ -

दशाहतः प्रागिह चैकभुक्तिमात्रिंशतोऽग्नावुपवासमेकम् । आषष्टिरात्रात् त्रिदिनोपवासं परञ्च कृच्छ्रादि चरेद्विनष्टे

इति ॥ ॥ तथा चाग्नावनुगते तद्दिन एव यथोक्तं लौकिकाग्निं प्रतिष्टाप्याऽऽज्यं संस्कृत्य “अयाश्चाग्ने” इति स्रुवाहुतिं जुहुयात् ॥ यद्येकाहं विच्छिद्येत तदा द्वितीयदिने एवमेवाग्निं प्रतिष्ठाप्य “अयाश्चाग्ने” इति हुत्वा मनस्वतीं जुहुयात् ॥ द्व्यहविच्छेदे - मनस्वतीं वारुणीं (“इमम्मे वरुण, तत्त्वा यामि" इति) च जुहुयात् ॥ त्र्यहविच्छेदे - मनस्वतीं वारुणीं तन्तुमतीं (“तन्तुन्तन्वन्, उद्बुध्यस्वाग्ने, त्रयस्त्रिँशत्तन्तवः” इति) च जुहुयात् ॥ चतुरहाद्येकादशाहपर्यन्तं विच्छेदे - तन्तुमत्यन्तं हुत्वा

अग्नेऽभ्यावर्तिन्, अग्ने अङ्गिरः, पुनरूर्जा, सहरय्या

इति चत्तस्रोऽभ्यावर्तिनीर्जुहुयात् ॥ एवं विच्छिन्नाग्निं सन्धाय तत्तदतीतहोमांश्च कुर्यात्॥ द्वादशाहप्रभृत्यग्नेर्विच्छेदे यथोक्तकृच्छ्रमुपवासमतिपन्नहोमद्रव्यदानञ्च कृत्वा वक्ष्यमाणपुनराधानविधिं कुर्यादित्यवसीयते ॥ अथात्र सत्यग्नौ होमाऽभावेऽपि अयसाहुत्यन्तं वर्जयित्वैतदेव प्रायश्चित्तमतिदिश्यते ॥ गृ॰सङ्ग्रहे -

एकाहहोमातिपत्तौ मनस्वत्याहुतिं हुनेत् । इमम्मे वरुणेत्याभ्यां द्व्यहे चाऽपि त्र्यहे तथा ॥ आभ्यान्तन्तुमतीभिश्च चतूरात्रव्यतिक्रमे । एभिः पूर्वादिकैश्चाग्नेऽभ्यावर्तिनी चतुष्टयैः । ऊर्ध्वं चतुरहादर्वाग्द्वादशाहादयं विधिः । अतो होमे व्यतीतेऽग्ने पुनराधानमिष्यते

इति ॥ एकाहमेककालं वा होमविच्छेदे सायंप्रातर्होमयोः कालातिक्रमणे द्रव्यभेदे कर्तृभेदे च मनस्वतीं जुहुयात् ॥ द्व्यहप्रभृत्याद्वादशाहाद्धोमविच्छिदे मनस्वत्या सह वारुण्यादिकं जुहुयात् ॥ द्वादशाहप्रभृत्याषण्मासाद्धोमविच्छित्तौ पूर्वोक्तकृच्छ्रादिकं कृत्वा पुनराधानं कार्यम् ॥ षण्मासादूर्ध्वं होमातिक्रमे पुनराधानं कुर्यात् ॥ ॥


  1. कारिकान्तरे तु -

    “सायं प्रातस्तु तन्त्रेण यदि होमौ समाचरेत् ।
    उभयोः स्विष्टकृत्स्थाने प्राजापत्यां सकृदुनेत्”

    इति प्रातरपि पूर्वतनसायंहोमेन सह समस्याहुतित्रयं विहितम् ॥ ↩︎

  2. “तत्राग्निर्यत्र भार्या स्यात्सा प्रधाना हि तं प्रति” इति गृ॰ सङ्ग्रहे ॥ ↩︎