५२ पार्वणस्थालीपाकविधिः

॥ अथ पार्वणस्थालीपाकविधिः ॥ तत्रेदं गृह्यम् (बो. गृ. शे. सू. ४. ८)

पर्वणि पर्वणि चाऽऽग्नेयस्थालीपाकेन यजेत ॥ उपवास एव कालान्तरे भोजनमतृप्तिश्चान्नस्य च ॥

(बो. गृ. शे. सू. ४. ९)

कथमु खल्वनाहिताग्नेर्दर्शपूर्णमासौ भवत इति ॥ अथ श्वोभूतेऽग्निमुपसमाधाय सम्परिस्तीर्य दक्षिणतो ब्राह्मणमुपवेशयति ॥ उत्तरत उदपात्रमिति निधाय जघनेऽग्निं कृष्णाजिने व्रीहीनिर्वपति ॥ प्रथमे स्थालीपाक आज्यं संस्कृत्य कूष्माण्डैर्जुहुयात् –

कर्मादिष्वेतैर्जुहुयात्पूतो देवलोकान्तसमश्नुते

इति ब्राह्मणम् ॥

( बो. गृ. सू. २.१०)

स एष आघारवान्स्यादाग्निहोत्रिको वाऽप्यापूर्विको वा ॥

तदारम्भकालमाह प्र॰ पारिजाते शौनकः –

पौर्णमासी तु सम्प्राप्ता या विवाहादनन्तरम् ।
ततः प्रक्रम्य कुर्वीत स्थालीपाकं तु पर्वसु ॥
तत्र यद्यप्यमावास्या विवाहानन्तरं पतेत् ।
तथापि पौर्णमास्यादि स्थालीपाकक्रिया स्मृता

इति ॥ बोधायनोऽपि -

सायं प्रातः क्रियाणां तु सायमारभ्भ इष्यते ।
पूर्णमासस्य दर्शस्य प्रारम्भः पूर्णमासतः ॥
चतुर्थीहोममध्ये तु प्राप्यते यदि पूर्णिमा ।
प्रक्रम्य यागः कर्तव्यस्त्वन्वाधानपुरस्सरः

इति ॥ तेन विवाहात्परंभाविप्रथमपौर्णमास्यां स्थालीपाकारम्भः कार्यो न तु दर्शे इत्युक्तं भवति ॥ तत्र मलमासपौषमासगुरुशुक्रास्तादिसत्त्वेऽप्यारम्भः कार्यः ।

उपरागोऽधिमासश्च यदि प्रथमपर्वणि ।
तथा मलिम्लुचे पौषे नान्यारम्भणमिष्यते ॥
गुरुभार्गवयोर्मोढ्ये चन्द्रसूर्यग्रहे तथा

इत्यादि सङ्ग्रहवचनानि तु आलस्यादिना स्वकालानुपक्रान्तस्थालीपाकादिप्रारम्भनिषेधविषयाणि -

नामकर्म च दर्शेष्टिं यथाकालं समाचरेत् ।
अतिपाते सति तयोः प्रशस्ते मासि पुण्यभे

इति गर्गोक्तरित्येवं प्रयोगपारिजातादिषूक्तम् ॥ त्रिकाण्डमण्डने तु याज्ञिकसम्प्रदायमनूद्य उक्तसङ्ग्रहवचनैर्वचनान्तरैश्च मलमासादिदोषरहितपौर्णमास्यामेव दर्शपूर्णमासाद्यारब्धव्यमिति सिद्धान्तितम् ॥ तत्र यागकालमाह प्र॰ पारिजाते वृद्धशातातपः -

पर्वणो यश्चतुर्थोंऽश आद्याः प्रतिपदस्त्रयः ।
यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः

इति । अत्र प्रातरिति विशेषणात्सूर्योदयादुपरि मुहूर्तत्रयं मुख्यकाल इत्युक्तं भवति ॥ निर्णयसिन्धौ गोभिलोऽपि -

पक्षान्ता उपवस्तव्याः पक्षादयोऽभियष्टव्याः

इति । उपवासश्चान्वाधानम् ॥ अनेन पर्वण्यन्वाधानं प्रतिपदि यागः इत्यवसीयते ॥ तत्र तिथिद्वैधे पर्वप्रतिपदोः सन्धिमनुलक्ष्य यागकालो निर्णतव्यः ॥ तद्विवेकमाह पारिजाते गोभिलः -

आवर्तने यदा सन्धिः पर्वप्रतिपदोर्भवेत् ।
तदहर्याग इष्येत परतश्चेत्परेऽहनि ॥
पर्वप्रतिपदोः सन्धिरर्वागावर्तनाद्यदि ।
तस्मिन्नहनि यष्टव्यं पूर्वेद्युस्तदुपक्रमः ॥
आवर्तनात्परः सन्धिर्यदि तस्मिन्नुपक्रमः ।
परेद्युरिष्टिरित्येष पर्वद्वयविनिर्णयः

इति ॥ आवर्तन शब्देनाह्नो मध्यतनसन्धिरूपः काल उच्यते

आवर्तनात्तु पूर्वाह्णो ह्यपराह्णस्ततः परः ।
मध्याह्नस्तु तयोः सन्धिर्यदावर्तनमुच्यते

इति वचनात् ॥ लौगाक्षिरपि -

पूर्वाह्णे वाथ मध्याह्ने यदि पर्व समाप्यते ।
उपोष्य तत्र पूर्वेद्युस्तदर्याग इष्यते ॥
अपराह्णेऽथवा रात्रौ यदि पर्व समाप्यते ।
उपोष्य तस्मिन्नहनि श्वोभूते याग इष्यते

इति ॥ अत्रापराह्णशब्देनाऽवर्तनादुपरितनकालो विवक्षितः ॥ सन्धिनिर्णये तिथिह्रासवृद्ध्यो समीकरणमाह सं॰ मालायां माधवः -

वृद्धिः प्रतिपदो यास्ति तदर्धं पर्वणि क्षिपेत् ।
क्षयस्यार्धं तथा त्यक्त्वा सन्धिर्निर्णीयतां सदा

इति ॥ पौर्णमास्यां विशेषमाह तत्रैव कात्यायनः -

सधिः चेत्सङ्गवादूर्ध्वं प्राक्पर्यावर्तनाद्रवेः ।
सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथिः

इति ॥ सङ्गवावर्तनयोरन्तरा सन्धिश्चेत्तद्दिन एव सद्योऽन्वाधानं कृत्वा यागं कुर्यान्न पूर्वेद्युरन्वाधानमित्यभिप्रायः ॥ अमावास्यायां विशेषमाह बोधायनः –

द्वितीया त्रिमुहूर्ता चेत्प्रतिपद्यापराह्णिकी ॥
अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात्

इति ॥ प्रतिपद्यस्तमयात्पूर्वं त्रिमुहूर्तद्वितीयाप्रवेशे चन्द्रदर्शनसम्भवात्तत्पूर्वदिने यागं चतुर्दश्यामन्वाधानं च कुर्यादिति तदर्थो ज्ञेयः ॥ कात्यायनश्च –

यजनीयेऽह्नि सोमश्चेद्वारुण्यां दिशि दृश्यते ।
तत्र व्याहृतिभिर्तुत्वा दण्डं दद्याद्विजातये

इति ॥ यागदिने चन्द्रदर्शनराहित्यमेवाभिप्रेत्य बोधायनकारिकामुदाजहार विष्णुभट्टः -

इष्टेरलं सा प्रतिपत्स्वनाड्यः सप्ताष्ट यस्या दिवसे भवन्ति ।
क्षीणासु तत्कर्म तिथेरिहाद्यः कल्पोऽथ वृद्धासु भवेद्द्वितीयः

इति ॥ एतदर्थप्रतिपादकश्लोकान्तरमपि सञ्जग्राह -

प्रतिपत्पर्वयोगार्धे हीने वा पर्वणोऽधिके ।
सप्ताष्टावरनाड्यह्नि प्रतिपच्चेदलं यजेत्

इति ॥ एवं चन्द्रदर्शनदोषसम्भावनायां प्रतिपाद्युतामावास्यायामिष्टिकरणे विशेषमाह निर्णयसिन्धौ गार्ग्यः -

प्रतिपद्यप्रविष्टायां यदि चेष्टिः समाप्यते ।
पुनः प्रणीय कृत्स्नेष्टिः कर्तव्या यागवित्तमैः

इति ॥ गृह्याग्नेर्नायं नियम इति मदनपारिजातः ॥

एवमुक्तप्रकारेण निर्णीते यागदिने पार्वणस्थालीपाकमारभमाणः प्रथमप्रयोगे पूर्वेद्युरन्वारम्भणीयहोमं कुर्यात् ॥ अन्वारम्भणीयविधिरुक्तः प्र॰ चितामणौ -

इष्टिं यदैवारभते तदान्वारम्भेष्टिहोमं विधिवद्विघ्यात् ।
कृत्वा तदौपासनकर्म पश्चात्सङ्कल्प्य कृत्वाऽऽप्रणिधानतश्च ॥
संस्कृत्य सर्पिः पृथिवीति होत्रा चतुर्गृहीतं मनसा जुहोतु ।
पूर्णा च पश्चादनुद्रुत्य चाग्नीषोमादिकाभ्यामपरं तथैव ।
निवेशनी सङ्गमनी च यत्ते देवादिकाभ्यां च हुनेत्तृतीयम् ।
ततो हविर्निर्वपणादिकर्म हुताशनास्यान्तमथ प्रकुर्यात् ॥
पक्वं कृशानौ जुहुयादथाग्नाविष्ण्वादिकाभ्यां प्रथमं मनुभ्याम् ।
ततः पुरोऽनूच्य मनुं प्रणो देव्यानो दिवश्चेति हुनेद्द्वितीयम् ॥
अन्यच्च पक्वं त्विह पीपिवांसं ये ते सरस्वेति मनुद्वयेन ।
ततो घृतं व्याहृतिभिश्च हुत्वा स्विष्टं वरान्तं सकलं विधाय ॥
इध्मानि सन्नह्य दिने च तस्मिन् श्वो यक्ष्य इत्यागुरमप्युदीर्य ।
वह्नेर्व्रती चोपवसेत्समीपे श्वः प्रातरिष्टिं विधिवद्विध्यात्

इति ॥

अन्वारम्भणीयपार्वणस्थालीपाकयोः प्रयोगः

अथान्वारम्भणीयपार्वणस्थालीपाकयोः प्रयोगः ॥ कर्ता पौर्णमास्यां प्रातरौपासनान्तं नित्यकर्म कृत्वा कृतस्नानादिचतुष्टय आचम्य प्राणानायम्य देशकालौ सङ्कीर्य

श्रीपरमेश्वरप्रीत्यर्थं सत्यधिकारे यावञ्जीवं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्ये

इति सङ्कल्प्य गणपतिं सम्पूज्य नान्दीसमाराधनं1 कृत्वा “आग्निः प्रीयताम्" इति पुण्याहं वाचयित्वा पुनः प्राणानायम्य देशकालौ सङ्कीर्त्य

दर्शपूर्णमासावारप्स्यमाणोऽन्वारम्भणीयस्थालीपाकहोमं करिष्ये

इति सङ्कल्प्य

अन्वारम्भणीयस्थालीपाकहोमः कर्म, आघारवत्तन्त्रम्, पञ्चदश दारुरिध्मः, अग्नीषोमावाज्यभागौ, पचनो नामाग्निः, अग्नाविष्णू सरस्वती सरस्वांश्च प्रधानदेवताः चरुर्हविः, अग्निःस्विष्टकृत्,

इत्याद्यन्वाधायाऽप्रणीताभ्यः कृत्वाऽज्यं संस्कृत्य स्रुक्स्रुवौ सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा तूष्णीं समिधमाधाय चतुर्होतारं मनसानुद्रुत्य जुहोति -

ॐ पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता । वाचस्पते वाचो वीर्येण । सम्भृततमेनाऽयक्ष्यसे । यजमानाय वार्यम् । आसुवस्करस्मै । वाचस्पतिस्सोमम्पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (वाचस्पतये ब्रह्मण इदं॰) ॥ अथ स्रुवेण कूष्माण्डैर्हुत्वा “वैश्वानराय" इत्युपस्थाय वरं दत्वा पुनस्स्रुचि चतुर्गृहीतं गृहीत्वा सारस्वतहोमौ जुहोति -

ॐ पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधिसंवसन्त उत्तमेनाक इह मादयन्तो३मनीषोमौ प्रथमौ वीर्येण वसून्रुद्रानादित्यानिह जिन्वतम् । माध्यँ हि पौर्णमासं जुषेथां ब्रह्मणा वृद्धौ सुकृतेन सातावथाऽस्मभ्यँ सहवीराँ रयिं नियच्छतँ स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (पौर्णमास्या इदं॰) ॥ अथापरं चतुर्गृहीतं गृहीत्वा जुहोति -

ॐ निवेशनी सङ्गमनी वसूनां विश्वा रूपाणि वसून्यावेशयन्ती । सहस्रपोषँ सुभगा रराणा सा न आगन्वर्चसा संविदानो३यत्ते देवा अधुर्भागधेयमावास्ये संवसन्तो महित्वा । सा नो यज्ञं पिपृहि विश्वबारे रयिन्नो धेहि सुभगे सुवीरँ स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (अमावास्याया इदं॰) ॥ अथ शूर्पे प्रागग्रे पवित्रे निधाय तण्डुलान्निर्वपति –

दे॒वस्य॑ त्वा॰ हस्ता॑भ्याम॒ग्नाविष्णु॑भ्यां जुष्टं॒ निर्व॑पामि

इति त्रिर्यजुषा सकृत्तूष्णीम्

सर॑स्वत्यै॒ जुष्टं॒ निर्व॑पामि, सर॑स्वते॒ जुष्टं॒ निर्व॑पामि

इति निरुप्य

दे॒वस्य॑ त्वा॰ हस्ता॑भ्याम॒ग्नाविष्णु॑भ्यां वो॒ जुष्टं॒ प्रोक्षा॑मि॒ सर॑स्वत्यै॒ सर॑स्वते

इति सकुन्मन्त्रेण द्विस्तूष्णीं प्रोक्ष्य त्रिः प्रक्षाल्यैकस्यां स्थाल्यां तिरः पवित्रमप आनीय तण्डुलान्प्रास्य चरुश्रपणाद्यग्निमुखान्तं कृत्वा

अ॒ग्ना॒विष्णुभ्यां॑ त्वा, सर॑स्वत्यै त्वा, सर॑स्वते त्वा

इति ॥ चरुं विभज्य पक्वादवदानधर्मेणावदाय जुहोति -

ॐ अग्नाविष्णू महितद्वां महित्वं वीतं घृतस्य गुह्यानि नाम । दमे दमे सप्तरत्ना दधाना प्रतिवां जिह्वा घृतमाचरण्यो३मग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमे दमे सुष्टुतीर्वावृधाना प्रति वां जिह्वा घृतमुच्चरण्येत्स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (अग्नाविष्णुभ्यामिदं॰) ॥ अथ द्वितीयपक्वमवदानधर्मेणावदाय जुहोति -

ॐ प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतो३मा नो दिवो बृहतः पर्वतादा सरस्वती यजतागन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मान्नो वाचमुशती शृणोतु स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (सरस्वत्या इदं॰) ॥ पुनस्तथैवाऽवदाय तृतीयपक्वं जुहोति -

ॐ पीपिँवासँ सरस्वतस्तनं यो विश्वदर्शतः । धुक्षीमहि प्रजामिषों ३ ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । तेषान्ते सुम्नमीमहे स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (सरस्वत इदं॰) ॥ अथ स्विष्टकृतं त्रयाणामप्युत्तरार्धात्सकृत्सकृदवदाय द्विरभिघार्य व्याहृतीरुपहत्य पुरस्तात्स्रुवाहुतिं हुत्वा “हव्यवाहं, स्विष्टमग्ने” इति द्वाभ्यां स्विष्टकृतं हुत्वा, मेक्षणप्रहरणादि होमशेषं समापयेत् ॥

अथ तदानीमेव प्राणानायम्य देशकालौ सङ्कीर्त्य

श्रीपरमेश्वरप्रीत्यर्थं पौर्णमासस्थालीपाकहोमं करिष्ये, पचनो नामाऽग्निः, अग्निर्देवता, चरुर्हविः, अग्निस्स्विष्टकृत्

इत्यादि

एवं साङ्गेन कर्मणा श्वो यक्ष्ये

इति सङ्कल्प्य व्याहृतीभिस्तिस्रस्समिधोऽन्वाधायेध्माबर्हिषी सन्नह्य दम्पती तस्मिन्नहन्यक्षारलवणाऽशनादिव्रतचारिणावुपवसेताम् ॥ अथ श्वोभूते प्रातरौपासनं हुत्वा “जुष्टो॒ दमू॑नाः॒” इत्यग्निमुपस्थाय प्रदक्षिणं परिसमूह्य पर्युक्ष्य परिस्तीर्य शूर्पेण सह प्राकृतपात्राण्यासाद्याऽऽप्रणीताभ्यः कृत्वा

दे॒वस्य॒ त्वा॰ अ॒ग्नये॒ जुष्टं॒ निर्वा॑पामि

इति तण्डुलान्निरुप्य प्रोक्ष्य चरुं श्रपयित्वाऽऽज्यसंस्काराद्यग्निमुखान्तं कृत्वा पक्वाज्जुहोति

ॐ अ॒ग्निर्मू॒र्धा॰ जिन्वतों३ भुवो॑ य॒ज्ञस्य॒॰ हव्य॒वाहँ॒ स्वाहा॑

इति ॥ (अग्नय इदं॰) ॥ अथ स्विष्टकृतमवदायान्तःपरिधौ निधाय स्रुवेणाऽऽज्याहृतिमुपजुहोति –

ॐ ऋषभं वाजिनं वयम् । पूर्णमासं यजामहे । स नो दोहताँ सुवीर्यम् । रायस्पोषँ सहस्रिणम् । प्राणाय सुराधसे । पूर्णमासाय स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (पूर्णमासायेदं॰) ॥ अथ स्विष्टकृत्प्रभृति प्रागुत्तरपरिषेकात्कृत्वा हुतशेषादामलकप्रमाणमुपस्तीर्णाऽभिघारितं हविरुपादाय प्राश्नाति –

आयुरसि विश्वायुरसि । सर्वायुरसि सर्वमायुरसि ॥ सर्वं म आयुर्भूयात् । सर्वमायुर्गेषम् [[TODO: परिष्कार्यम्]]

इति ॥ प्राश्याऽऽचम्य जठरमभिमृशति - “यत इन्द्र, स्वस्तिदा" इति द्वाभ्याम् ॥ अथोत्तरपरिषेकादि होमशेषं समापयेत् ॥ ॥ अथाऽमावास्यायां “दर्शस्थालीपाकहोम करिष्ये” इति सङ्कल्प्य सर्वं पूर्ववत्कुर्यात् । स्विष्टकृदवदानान्ते -

ॐ अमावास्या सुभगा सुशेवा । धेनुरिव भूय आप्यायमाना । सा नो दोहताँ सुवीर्यम् । रायस्पोषँ सहस्रिणम् । अपानाय सुराधसे । अमावास्यायै स्वाहा ॥ [[TODO: परिष्कार्यम्]]

(अमावास्याया इदं॰) ॥ इति स्रुवाहुतिमुपजुहुयादिति विशेषः ॥

दर्शपूर्णमासस्थालीपाकयोरतिपाते प्रायश्चित्तम्

अथ दैवाद्दर्शपूर्णमासस्थालीपाकयोरतिपाते प्रायश्चित्तम् ॥ गृ॰ सङ्गृहे -

दर्शे च पूर्णमास्याञ्च स्थालीपाकव्यतिक्रमे ।
अग्ने नयेत्यादेवानामित्याभ्यां स्रुचि सर्पिषा ॥
चतुर्गृहीतमाज्यञ्च जुहुयात्पक्ववद्बुधः ।
दर्शव्यतिक्रमे पूर्णमास्यां वैश्वानरादिना ॥
पृष्टो दिवीति जुहुयात्पार्वणाऽतिक्रमे विधिः ।
द्वयोरतिक्रमे स्थालीपाकयोः स्यादयं विधिः ॥
स्थालीपाकत्रयाऽतीते प्रारम्भः स्यात्पुनर्ध्रुवम्

इति ॥ अत्र मुख्यकालाऽतिपत्तिर्गौणकालातिपत्तिरिति द्विविधा ह्यतिपत्तिः, अनापदि मुख्यकालाऽतिक्रमेऽपि प्रायश्चित्तं कार्यम् । आपदि गौणकालस्याऽप्यतिपत्तौ प्रायश्चित्तं कार्यं नाऽन्यथा । तदाह गोपालः -

आपत्सु गौणकाले स्यादिष्टिर्नैव त्वनापदि ।
गौणकालेऽप्यतिक्रान्ते प्रायश्चित्तानि मन्वते

इति ॥ गौणकालञ्चाऽऽह - “गौणा अर्वाक्तु पर्वणः” इति आगामिपर्वणः प्रागित्यर्थः ॥

अथ तद्विधानक्रमः ॥ दर्शेऽतिपन्ने

दर्शकालाऽतिक्रमणप्रायश्चित्तपूर्वकं दशस्थालीपाकहामं करिष्ये

इति सङ्कल्प्याऽग्निमुखान्तं कृत्वा स्रुचि चतुर्गृहीतं गृहीत्वा पथिकृत्प्रधानमन्त्राभ्यां जुहुयात् -

ॐ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नमउक्तिं विधेमो ३ मा देवानामपिपन्थामगन्म यच्छक्नवाम तदनु प्रवोढुम् । अग्निर्विद्वान्त्स यजात्सेदु होता सो अध्वरान्त्स ऋतून् कल्पयाति स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (अग्नये पथिकृत इदं॰) ॥ अथ पक्वहोमादि सर्वं कुर्यात् ॥

अथ पौर्णमास्यामतिपन्नायां

पौर्णमासकालाऽतिक्रमप्रायश्चित्तपूर्वकं पौर्णामासस्थालीपाकहोमं करिष्ये

इति सङ्कल्प्याऽग्निमुखान्ते स्रुचि चतुर्गृहीतं गृहीत्वा ॐ वैश्वानरीप्रधानमन्त्राभ्यां जुहुयात् -

वै॒श्वा॒न॒रो न॑॰ वाह॑सों ३ पृ॒ष्टो दि॒वि॰ नक्तँ॒ स्वाहा॑

इति ॥ (अग्नये वैश्वनरायेदं॰) इति ॥ उभयोरप्यतिपन्नयोः पथिकृद्वैश्वानर्यौ कृत्वाऽन्तिमस्थालीपाकमेव कुर्यात् । आदिमस्य तु गौणकालस्याऽप्यतीतत्वाल्लोप एव ॥ ॥ त्र्यादिष्वतीतेषु पुनरन्वारम्भणीयपूर्वकं स्थालीपाकं कुर्यात् ॥ अथोक्तपार्वणव्रतलोपे ‘व्रतलोपप्रायश्चित्तं करिष्ये’ इति सङ्कल्प्य पूर्ववदग्निमुखान्ते स्रुचि चतुर्गृहीतं गृहीत्वा -

ॐ त्वमग्ने व्रतपा असि देव आ मर्त्र्येष्वा । त्वं यज्ञेष्वीड्यों ३ यद्वो वयं प्रमिनामव्रतानि विदुषां देवा अविदुष्टरासः । अग्निष्टद्विश्वमापृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति स्वाहा ॥ (अग्नये व्रतपतय इदं॰) ॥ [[TODO: परिष्कार्यम्]]

इति जुहुयात् ॥ ॥ अथ ग्रहणसन्निपाते प्रायश्चित्तमुक्तं प्र॰ तिलके -

प्रायश्चित्तन्तु जुहुयाद्ग्रहणे चन्द्रसूर्ययोः ।
उद्वयञ्च तथोदुत्यं चित्रञ्च व्याहृतीरपि ॥
नवो नवो यमादित्या मिन्दा व्याहृतिभिस्तथा ।
सोमोऽपरागे जुहुयादिति केचिद्वदन्ति च

इति ॥ ॥ अथ भार्यायां रजस्वलायां विशेषमाह कात्यायनः -

प्रक्रान्तमग्निहोत्रादि कर्म यच्छ्रुतिचोदितम् ।
आर्तवाऽभिप्लुतां नारीं विहाय कुरुते द्विजः

इति ॥ आरम्भोत्तरं रजस्वलायां स्थालीपाकादिकं तां विहायैव कुर्यादित्यर्थः ॥ ॥ एवं जायामवाप्य दौर्ब्राह्मण्यपरिहारायाऽनुकूले सत्यग्न्याधेयञ्च कुर्यात् । तथा चेयं गृह्यपरिभाषा (बो. गृ. प. सू. १. १०)

यथाश्रद्धमत ऊर्ध्वं जीवति पितर्यग्नीनादधीतेति बोधायनः ॥ जीवति मृते वा जायामवाप्य दशमेऽहनीति शालिकिः ॥ मा दुर्ब्राह्मणो भवति ॥ अथाप्युदाहरन्ति -

यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः

इति ॥ औपासनो वा नित्यो धार्य इति न दुर्ब्राह्मणो भवति

इति ॥ एतेनाऽशक्तस्यौपासनेनाऽप्यजस्रधृतेन दौर्बाह्मण्यपरिहारो भवतीत्यवगम्यते ॥


  1. “अथान्वारम्भमादध्यात्पौर्णमास्यां विधानतः ।
    नान्दीमुखं तु पूर्वेद्युरपरेद्युस्तथाशिषः”

    इति प्र॰ तिलके ॥ ↩︎