५१ अथार्कविवाहः

॥ अथार्कविवाहः ॥ (बो. ग. शे. सू. ५.५)

अथातोऽर्कोद्वाहं व्याख्यास्यामः । मूकान्धबधिरादीनां जडानाञ्च तृतीयविवाहितानाञ्च ॥ पूर्वपक्षे पुण्ये नक्षत्रे पूर्वाह्णे ब्रह्मसमूहे (तार्तीयविवाहकस्यार्कार्किवारे हस्तर्क्षे वा शुभेऽहनि क्रियेत) ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रैका बालोऽर्को भवति तस्योत्तरत उपलिप्य स्वयं स्नात्वाऽर्कञ्च स्नापयित्वा पादौ प्रक्षाल्याऽऽचम्यालङ्क्रत्य तन्त्रेण नान्दीमुखं कृत्वा स्वस्तिसूक्तं वाचयित्वा यत्किञ्चिद्धिरण्यं गृहीत्वा ‘आसत्येन’ इति जपित्वा तं ब्राह्मणेभ्यो दत्वा पुरस्तात्प्रत्यङ्मुखोऽर्कं प्रार्थयते -

त्रिलोकवासिन्सप्ताश्व छायया सहितो रवे ।
तृतीयोद्वाहजं दोषं निवारय सुखं कुरु

इति ॥ ततोऽलङ्क्रत्याऽर्कं स्पृष्ट्वाऽऽदित्यमुपतिष्ठते –

सूर्यो देवीमुषसँ रोचमानामर्यः । न योषामभ्येति पश्चात् । यत्रा नरो देवयन्तो युगानि । वितन्वते प्रतिभद्राय भद्रम् ॥१॥ भद्रा अश्वा हरितः सूर्यस्य । चित्रा एदग्वा अनुमाद्यासः॥ नमस्यन्तो दिव आ पृष्ठमस्थुः । परिद्यावापृथिवी यन्ति सद्यः ॥२॥ तत्सूर्यस्य देवत्वं तन्महित्वम् । मध्या कर्तोर्विततँ सञ्जभार ॥ यदेदयुक्त हरितः सधस्थात् । आद्रात्री वासस्तनुते सिमस्मै ॥३॥ तन्मित्रस्य वरुणस्याभिचक्षे । सूर्यो रूपं कृणुते द्यौरुपस्थे । अनन्तमन्यदुशदस्य पाजः । कृष्णमन्यद्धरितः सम्भरन्ति ॥४॥ अधो देवा उदिता सूर्यस्य । निरँ हसः पिपृतां निरवद्यात् ॥ तन्नो मित्रो वरुणो मामहन्ताम् । अदितिः सिन्धुः पृथिवी उत द्यौः ॥५॥ [[TODO: परिष्कार्यम्]]

इति पञ्चभिः ॥ अथ वस्त्रं माङ्गल्यसूत्रं चार्के बध्वा - ‘पुण्याहं स्वस्ति ऋद्धिम्’ इति वाचयेदादित्योऽत्र देवता ॥ पूर्वोक्तविधिनाऽग्निमुपसमाधाय सम्परिस्तीर्याज्यं संस्कृत्य स्रुक्स्रुवं सम्मृज्यादित्यं ध्यायन्नर्कं गृह्णाति -

हस्तः प्रयच्छत्वमृतं वसीयः । दक्षिणेन प्रतिगृभ्णीम एनत् ॥ दातारमद्य सविता विदेय । यो नो हस्ताय प्रसुवाति यज्ञम् [[TODO: परिष्कार्यम्]]

इति ॥ अथाग्निं प्रदक्षिणं करोति -

परि त्याग्ने पुरं वयम्

इति ॥ अथार्कमूलं स्पृष्ट्वाऽऽदित्यमुदीक्षते -

अभीवृतं कृशनैर्विश्वरूपम् । हिरण्यशम्यं यजतं बृहन्तम् ॥ आस्थाद्रथँ सविता चित्रभानुः । कृष्णा रजाँ सि तविषीदं दधानः [[TODO: परिष्कार्यम्]]

इति ॥ अथ व्याहृतीर्हुत्वा स्रुचि चतुर्गृहीतं गृहीत्वा विग्राहं जुहोति -

उद्वयं, उदुत्यं, चित्रं देवानाम्

इति ॥ अपरं चतुर्गृहीतं गृहीत्वा मनस्वतीं जुहोति - “मनो ज्योतिः” इति ॥ अपरं चतुर्गृहीतं गृहीत्वा लाजमन्त्रेण (‘इयं नार्युप’) द्विरावर्त्य जुहोति ॥ अथ व्याहृतीर्हुत्वा (ततः स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥) अथादित्यं व्रतऋग्भ्यामुपतिष्ठते -

अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताऽभिरक्षते । प्रास्राग्बाहू भुवनस्य प्र॒जाभ्यो धृतव्रतो महो अज्मस्य राजसि ॥ त्रिरन्तरिक्षँ सविता महित्वना त्री रजाँ सि परिभूस्त्रीणि रोचना । तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्व्रतैरभि नो रक्षति त्मना” [[TODO: परिष्कार्यम्]]

इति द्वाभ्याम् ॥ अथ गोक्षीरमर्कं स्पृष्ट्वा आयुष्यसूक्तमुक्त्वा प्राश्याऽऽचम्य पुनरादित्यमुपतिष्ठते -

अचित्ती यच्चकृमा दैव्ये जने दीनैर्दक्षैः प्रभूती पूरुषत्वा । देवेषु च सवितर्मानुषेषु च त्वन्नो अत्र सुवतादनागसः [[TODO: परिष्कार्यम्]]

इति ॥ अथार्काधिदैवतमुद्वास्यार्कमुत्पाट्य व्याहृतीभिरग्नौ दग्ध्वा स्नात्वा यत्किञ्चिद्दत्वा शुद्धो भवति सद्यः ॥ एवं कदळीविवाहं कुर्यात् ॥ कदळीं छित्वा त्रिरात्रमशुचिर्भवति ॥ अथाप्युदाहरान्ति -

अर्कोद्वाहो जडादीनामुच्यते तु यवीयसः ।
विवाहार्थं मुनिश्रेष्ठैस्तमुत्पाट्य दहेत्तदा ।
व्याहृतीभिस्तदा दत्वा यथाशक्ति हिरण्यकम् ।
स्नात्वा सद्यश्शुचिर्भूयादुद्वाहे च तृतीयके ॥
तृतीया स्त्री म्रियेच्छीघ्रं तस्मादेवं चरेद्बुधः ।
रम्भोद्वाहं तथा कुर्याच्छित्वा तत्रैव मानवः ॥
त्रिरात्रं सूतकं भूयादिति बोधायनोऽब्रवीत्

इति ॥ ॥ इति विवाहः ॥