॥ अथ विवाहे संभाव्यानि प्रायश्चित्तानि ॥ विवाहहोमानन्सरमौपासनाऽऽरम्भात्प्रागग्निरुद्वातश्चेत्पुनर्विवाहः कार्यः ॥ विवाहवतमध्येऽग्निरुद्वातश्चेदुपनयनप्रकरणोक्तमग्न्युद्वातप्रायश्चितं कुर्यात् ॥ ॥ (बो. गृ. सू. ४. १) अथ यदि कन्योपसाधमाना वोह्यमाना वा पतेत्तामुत्थापयेयुः -
उदस्थाद्देव्यदितिर्विश्वरूपी । आयुर्यज्ञपतावधात् ॥ इन्द्राय कृण्वती भागम् । मित्राय वरुणाय च [[TODO: परिष्कार्यम्]]
इति ॥ ॥ अथ यदि कन्योपसाद्यमाना वोह्यमाना वाऽश्रु कुर्यात्तामनुमन्त्रयते -
जीवां रुदन्ति विमयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः ।
वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे
इति ॥ ॥ अथ यदि कन्योपसाद्यमाना वोह्यमाना वा रजस्वला स्यात्तामनुमन्त्रयते -
पुमाँसौ मित्रावरुणौ पुमँसावश्विनावुभौ । पुमानिन्द्रश्च सूर्यश्च पुमाँसं वर्धयताम् [[TODO: परिष्कार्यम्]]
इति ॥ (बो. गृ. शे. सू. ५.२) अथ विवाह्य कन्यारजस्वलाप्रायश्चित्तादिविधिं व्याख्यास्यामः -
विवाहे वितते यज्ञ होमकाल उपस्थिते ।
कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः ॥
यजुः पवित्रैस्सावित्र्या प्रोक्षयेत्पूतवारिभिः ।
अनेन चानुवाकेन पवमानस्सुवादिना ॥
स्नापयित्वाऽथ विद्वद्भिरन्यवस्त्रादलङ्कृताम् ।
पूर्णाहुत्यथ मिन्दाभ्यां महाव्याहृतिभिस्सह ॥
हुत्वा तन्तुमतीं चैव व्याहृतीभिस्तथैव च ।
अनाज्ञातं च विद्वद्भिश्शेषं कार्यं समाचरेत् ॥
प्रधानहोमे निर्वृत्ते मलवद्वाससी भवेत् ।
त्रियहे पर्यवेतेऽथ शेषकार्यं समाचरेत्
इति ॥ अत्र विशेष उक्तः प्र॰ तिलके -
पाणिग्रहणतः पश्चाद्धोमकाल उपस्थिते ।
यदि पुष्पवती नारी कर्म कुर्यात्कथं बुधः ॥
वस्त्रपूतेन तोयेन स्नापयित्वोदके स्थिताम् ।
वस्त्रमन्यत्परीधाय स्नापयेयुः पुनर्बुधाः ॥
यजुः पवित्रैरब्लिङ्गैस्सावित्र्या पूतवारिणा ।
पावमान्या च तां शुद्धां वासोभूषाद्यलङ्कृताम् ॥
निवेश्य कक्ष्याऽन्तरे तां शेषं कर्म समापयेत् ।
रजोदोषादिदुष्टायां पत्न्यां कर्म पतिश्चरेत् ॥
पूर्णाहुत्या तु होमस्स्यान्महाव्याहृतिभिस्तथा ।
श्रद्धापत्नीति वचनात्तया कार्यं पतिश्चरेत् ॥
अग्निस्थापनतः पूर्वं पत्नी यदि रजस्वला ।
तथैव वर्तमानं तत्कर्म संस्थाप्यतां बहिः ॥
निस्सार्य काले शुद्धायां तदारभ्य पुनश्चरेत् ।
लाजहोमात्परं पत्नी यदि पुष्पवती भवेत् ॥
तदा संस्थाप्य तत्कर्म निर्गमय्य च तां बहिः ।
सायंप्रातर्हुनेद्विद्वानौपासनविधानतः ॥
तस्यां काले विशुद्धायां कर्म कुर्यात्तदादितः
इति ॥ ॥ शय्यास्थापितदण्डनाशे प्रायश्चित्तमुक्तं स्मृतिसङ्ग्रहे -
शरसङ्ख्यादिनादन्तः कटमध्ये स्थितेन्धनम् ।
नश्यते दह्यते चैव भज्यते यदि वा परैः ॥
तत्र कर्म कथं कुर्यात्तस्मिन्नग्नौ वरस्स्वयम् ।
प्रायश्चित्ताहुतिं दद्यान्मन्त्रैरेतैः स्रुवाज्यतः ॥
आभिगीर्भिरनाज्ञातं यत्पाकत्रा मनस्वती ।
पाहिनस्तन्तुमत्याद्या महाव्याहृतिभिः परम् ॥
मिन्दाद्वयादिभिर्मन्त्रैर्यजेदष्टादशाहुतीः ॥
यज्ञाङ्गमिन्धनं चान्यं नवं पूर्वोक्तलक्षणम् ॥
कार्पाससूत्रेणावेष्ट्य कटमध्ये क्षिपेत्पुनः ।
तद्दण्डन्तु समादाय कर्म कुर्याद्यथाविधि
इति ॥ ॥ धृतमङ्गलवस्त्रादीनां दाहादौ प्रायश्चित्तमुक्तं तत्रैव -
व्रतमध्ये तु दम्पत्योरुष्णीयं युग्मचैलकम् ।
शुभिकं चेन्धनं वासः परिधानीयवाससी ॥
छेदे नाशे प्रदग्धे च दुःखं शोको मृतिर्भवेत् ।
तद्दोषशमनार्थाय लाजाऽज्यक्षीरदूर्वकान् ॥
श्रीसूक्तेन हुनेद्विद्वान् यावत्पञ्चदशाहुतीः ।
स्वर्णगोभूतिलान्दद्यात्कांस्यं वस्त्रमथाऽपि वा ॥
अन्यानि पूर्ववद्धृत्वा शेषं कर्म समाचरेत्
इति ॥
व्रतमध्ये सूतकप्राप्ते विशेष उक्तो विश्वामित्रकारिकायाम् -
विवाहव्रतमध्ये तु मातापित्रोर्मृतिं विना ।
अन्यस्मिन् सूतके प्राप्ते चतुर्थ्यवभृतात्पुरा ॥
दम्पत्योः सूतकं नास्ति शुभकर्म समाचरेत्
इति ॥ वरपित्रोर्मरणे -
मातापित्रोर्मृतौ यद्यद्व्रतमोक्षादधो वरः ।
तत्र कर्म कथं कुर्यात्तस्मिन्नग्नौ तथा पुनः ॥
पूर्ववस्त्रादि सन्त्यज्य परिधायान्यवाससी ।
होमयेदसगोत्रैस्तु सायं प्रातर्यथाविधि ॥
तदानीमेव सर्वाङ्गं वापयित्वा समाहितः ।
दहनादि तयोः कार्यं वरः कुर्यान्न संशयः ॥
दीक्षाव्रतसमाप्तेः प्राग्व्रतमोक्षं न कारयेत् ।
वह्निं संरक्ष्य तत्रान्यैर्दशाहं होमयेत्स तु ॥
ततः स्वयं प्रकुर्वीत नित्यमौपासनाहुतीः ।
पित्रोरब्दान्तपर्यन्तं1 दीक्षां सम्यक्समापयेत् ॥
ततस्तद्वह्निमादाय व्रतशेषं समापयेत् ।
प्रायश्चित्तं प्रकुर्वीत पुण्याहं वाचयेत्ततः ॥
पूर्ववस्त्रं परीधाय कालातिक्रमणं हुनेत् ।
मम नामादिमन्त्रैस्तु हुनेन्नव घृताहुतीः ॥
यः पावभानीरित्यादि हुनेदष्ट घृताहुतीः ।
मिन्दाहुतीर्व्याहृतीश्च महाव्याहृतिभिस्तथा ॥
पाह्यादिपञ्चभिर्मन्त्रैर्हुनेत्स्विष्टकृतं ततः ।
व्रतशेषं चरेद्विद्वांश्चतुर्थ्यन्तं विधिं ततः ॥
पञ्चमेऽहनि होमश्च परेद्युः क्रियतामिति ।
वैश्वदेवविधानञ्च होमं कुर्याद्यथाविधि ॥
ब्राह्मणेभ्यो यथाशक्ति गोभूतिलहिरण्यकम् ।
कांस्यं वस्त्रं च दद्यात्तु सर्वदोषोपशान्तये
इति ॥ कन्यापित्रोर्मरणे -
कन्यापित्रोर्मृतिस्स्याचेत्तत्र कर्म कथं भवेत् ॥
सायं प्रातश्च होमन्तु पतिः कुर्यादसंशयः ॥
तच्छावान्ते शुचिर्भूत्वा सा कन्या स्वगृहं व्रजेत् ।
अतिक्रान्तविधिं कुर्यात्प्रायश्चित्तन्तु पूर्ववत्
इति ॥
पुनर्विवाहः
अथ पुनर्विवाहः ॥ ( बो. गृ. शे. सू. २. १२)
यथो एतद्ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणामेवं विवाहं कुर्वन्त्यपरपक्षेऽशुभे दिने वाऽशुचिना विवाहं कुर्वन्ति विवाहेन नर्ध्नोतीति मन्येत वाऽऽवसथात्पुनर्विवाहं कुर्वीत ॥ अथ चेदौपासनाऽऽरम्भात्प्राग्ज्वलनस्य नाशः पुनर्विवाहं कुर्वीत
इति ॥ प्र॰ पारिजाते नृसिंहोऽपि -
पुनर्विवाहं वक्ष्यामि दम्पत्योः शुभवृद्धिदम् ।
लग्नेन्दुलग्नयोर्दोषे ग्रहतारादिसम्भवे ॥
अन्येष्वशुभकालेषु दुष्टयोगादिसम्भवे ।
विवाहे त्वथ दम्पत्योराशौचादिसमुद्भवे ॥
तस्य दोषस्य शान्त्यर्थं पुनर्वैवाहमिष्यते ॥
अत्राऽऽशौचादिशब्देन तद्गृहे मृताशौचोत्पाता गृह्यन्ते, वरेणाऽऽचरितगुरुमृताशौचविषयं वा, अन्यत्र सामान्याऽऽशौचे नान्दीश्राद्धादूर्ध्वमाशौचाऽभावात् इति ॥ तत्र कालमप्याह स एव –
अयनं चोत्तरं श्रेष्ठं वर्धयेत्तु विशेषतः ।
आषाढमार्गशीर्षौ द्वौ वर्ज्यौ शेषाः शुभावहाः ॥
विवाहोक्तर्क्षतिथ्यंशराशिवारादिवर्गकाः ।
करणं योगसंज्ञानि ग्रहगोचरयोगकाः ॥
तस्मिन्विवाहसमये शुभदाश्च तथैव च ।
पूर्वाह्ने पूर्वरात्रौ च विवाहः शुभदो भवेत्
इति ॥ (बो. गृ. शे. सू. २. १२)
अथ पुनर्विवाहं व्याख्यास्यामः ॥ उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे पूर्वेद्युर्नान्दीमुखं कृत्वोपवसति ॥ अथ श्वोभूते ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वोभौ शुची स्नातौ शुक्लवाससावलङ्कृत्य (सर्वाऽनिष्टनिरसनपूर्वकं सर्वाभीष्टसिद्धिद्वारा आवयोः स्थिरदाम्पत्यप्राप्त्यर्थं पुनर्विवाहं करिष्ये, इति सङ्कल्प्य) वरो जायां समीक्षते - “अभ्रातृघ्नीम्” इति प्रतिपद्य2 सप्तपदान्तं कृत्वाऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वाऽथाऽस्या उपोत्थाय हृदयदेशमभिमृशतीति सिद्धमाधेनुवरप्रदानादत ऊर्ध्वं नाद्रियेत ॥ अथ पुनर्विवाहेष्वेतानुत्सीदन्ति - प्रतिसरं स्नानं वासः प्रतोदमिषुञ्च पूर्वं भोजनमर्घ्यं व्रतं त्रिरात्रमित्यादि विवाहशेषान् वर्जयेत्
इति ॥
द्वितीयादिविवाहः
अथ द्वितीयादिविवाहः ॥ (तै. सं. ६.५.१ )
तस्मादेको बह्वीर्जाया विन्दत
इति ॥ श्रुत्यन्तरमपि -
तस्मादेकस्य बह्वो जाया भवन्ति नैकस्यै बहवः सहपतयः
इति ॥ तस्य नियममाह प्र॰ पारिजाते आपस्तम्बः -
धर्मप्रजासम्पन्ने दारे नान्यां पत्नीं कुर्वीताऽन्यतराऽभावे कार्या प्रागग्न्याधानात्
इति ॥ (बो. गृ. शे. सू. ४. ११)
अथ वै भवति
जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः
इति ‘प्रजातन्तुं मा व्यवच्छेत्सीः’ इत्येतस्माद्ब्राह्मणादाहिताग्नेर्दशवर्षाणामूर्ध्वं यदि प्रजा नोत्पद्येत कथं तत्र कुर्यादिति ॥ पुनरेव कुमारीं संस्कृत्य दशमेऽहन्येकादशाहे वारण्योरग्नीन्समारोप्योदवसाय मथित्वाग्नीन् विहृत्योद्वासन्येष्यद्वा ॥ तदानीमेवारण्योरग्नीन् समारोप्यौपासने ब्रह्मौदनं श्रपयित्वोपवसथहविःप्रभृति सिद्धमग्न्याधेयं कुर्वन्ति ॥ तस्मिन्संस्थिते पवित्रेष्ट्या यजेत तस्यां संस्थितायां तन्तुमतीं निर्वपेत् ॥ तस्यां संस्थितायां त्रैधातवीयां निर्वपेत् ॥ अपि वैन्द्राग्नेन पशुना यजेत पुनराधेयं वा कुर्यात् ॥ अथ यद्येको बह्वीर्जायाः प्रयुञ्जान एवमेवैतत्कुर्यात्
तस्मादेको बह्वीर्जाया विन्दते
इति ब्राह्मणम् ॥
निमित्तान्तराण्याह याज्ञवल्क्यः -
सुरापी व्याधिता धृता वन्ध्यार्थघ्न्यप्रियंवदा ।
स्त्रीप्रसूश्चाऽधिवेत्तव्या पुरुषद्वेषिणीतथा ॥
अधिविन्नाऽपि भर्तव्या महदेनोऽन्यथा भवेत्
इति ॥ (अधिवेदनं-भार्यान्तरपरिग्रहः) अधिवेदने प्रतीक्षाकालमप्याह मनुः -
वन्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा ।
एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी
इति ॥ (बो. ध. सू. २. ४. ६) सूत्रे तु -
अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत् ।
मृतप्रजां पञ्चदशे सद्यस्त्वप्रियवादिनीम्
इति ॥ रत्यर्थं विवाहान्तरकरणे विशेष उक्तः प्र॰ पारिजाते -
एकामुत्क्रम्य कामार्थमन्यां वोढुं य इच्छति ।
समर्थस्तोषयित्वार्थैः पूर्वोढामपरां वहेत्
इति ॥ याज्ञवल्क्योऽप्याह -
आज्ञासम्पादिनीं दक्षां वीरतूं प्रियवादिनीम् ।
त्यजन्दाप्यस्तृतीयांशमद्रव्योभरणं स्त्रियै
इति ॥ मृतभार्यस्य द्वितीयविवाहे कालविशेष उक्तः सङ्ग्रहे -
प्रमदामृतिवत्सरादितः पुनरुद्वाहविधिर्वरस्य च ।
विषमे परिवत्सरे शुभो युगले चेत्तु मृतिप्रदो भवेत्
इति ॥ तृतीयमानुषीविवाहनिषेधमाह प्र॰ पारिजाते काश्यपः -
एकान्तु पितृदेवार्थं रत्यर्थमपरान्तु वा ।
तृतीयां मानुषीं नैव चतुर्थीन्तु समुद्हेत्
इति ॥ सङ्ग्रहे च –
यद्युद्वहेत्तृतीयान्तु तर्हि सा विधवा भवेत् ॥
चतुर्थादि विवाहार्थं तृतीयेऽर्कं समुद्वहेत् ॥
आदित्यदिवसे वाऽपि हस्तर्क्षे वा शनैश्चरे ।
शुभे दिने वा पूर्वाह्णे कुर्यादर्कविवाहकम्
इति ॥
अग्निद्वयसंसर्गविधिः
अथोक्तनिमित्तेषु केनाऽपि निमित्तेन सत्यामप्याद्यायां जायायां यदि द्वितीयां परिणयेत्तदा लौकिकाग्नौ विवाहहोमं कृत्वा विवाहकर्म सर्वमपि यथोक्तं निर्वर्त्यैकादशे द्वादशे वा दिवसेऽग्निद्वयसंसर्गं कुर्यात् ॥ ॥ तद्विधिः -(बो. गृ. शे. सू. ४. १० )
अथ गृहस्थस्तु द्वे भार्ये विन्देत कथं तत्र कुर्यादिति ॥ यस्मिन्काले विन्देतोभावग्नी परिचरेत् ॥ अपराग्निमुपसमाधाय सम्परिस्तीर्याऽज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वाऽन्वारब्धायां (नवोढायां) यजमानो जुहोति -
ॐ नमस्त ऋषे गद । अव्यथायै त्वा स्वधायै त्वा ॥ मा न इन्द्राभितस्त्वदृष्वारिष्टासः । एवा ब्रह्मन्तवेदस्तु स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ (ऋषय इन्द्राय ब्रह्मण इदं॰) ॥ अथ समारोपयति - “अयं ते योनिर्ऋत्वियः" इति समिधि समारोप्य पूर्वाग्निमुपसमाधाय ‘आजुह्वानः, उद्बुध्यस्वाग्ने’ इति द्वाभ्यां समिधमाधाय सम्परिस्तीर्याऽज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा द्वयोर्भार्ययोरन्वारब्धयोर्यजमानो जुहोति - “ॐ यो ब्रह्मा ब्रह्मणः" इत्येतेन सूक्तेनैकैकं चतुर्गृहीतं गृहीत्वा जुहुयात् ॥ (ततो गृह्याग्निसाध्यानां कर्मणां तन्त्रेणानुष्ठानसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ गृह्याग्निद्वयसंसर्गहोमं करिष्ये, बलवर्धनो नामाग्निः, पुरीष्याग्निर्देवता, चरुर्हविः, अग्निः स्विष्टकृत् इत्यादि सङ्कल्पपूर्वकमन्वाधाय) प्रसिद्धमाग्निमुखात्कृत्वा पक्वाज्जुहोति -
समितँ सङ्कल्पेथाँ सं प्रियो रोचिष्णू सुमनस्यमानौ । इषमूर्जमभिसंवसानौ सं वां मनाँसि सं व्रता समुचित्तान्याकरो ३ मग्ने पुष्यिाधिपा भवा त्वन्नः । इषमूर्जं यजमानाय धेहि स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ (अग्नये पुरीष्यायेदं॰) ॥ अथ स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -
ॐ पुरीष्यस्त्वमग्ने रयिमान्पुष्टिमाँ असि । शिवाः कृत्वा दिशः सर्वाः स्वां योनिमिहासदः स्वाहा ॥ (पुरीष्याग्नय इदं॰) ॥ ॐ भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञँ हिँसिष्टं मा यज्ञप॑तिं जातवेदसौ शिवौ भवतमद्य नः स्वाहा ॥ (जातवेदोभ्यामिदं॰) ॥ ॐ मातेव पुत्रं पृथिवी पुरीष्यमग्निँ स्वे योनावभारुखा । तां विश्वैर्देर्ॠतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चतु स्वाहा ॥ (पृथिव्यादिभ्य इदं॰) ॥ ॐ यदस्य पारे रजसः शुकं ज्योतिरजायत । तन्नः पर्षदतिद्विषोऽग्ने’ वैश्वानर स्वाहा ॥ (अग्नये वैश्वानरायेदं॰) ॥ ॐ नमः सुते निर्ऋते विश्वरूपेऽयस्मयं विचृता बन्धमेतम् । यमेन त्वं यम्या संविदानोत्तमं नाकमधि रोहयेमँ स्वाहा ॥ (निर्ऋतय इदं॰) ॥ ॐ यत्ते देवी निर्ॠतिराबबन्ध दाम ग्रीवास्वविचर्त्यम् । इदन्ते तद्विष्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः स्वाहा ॥ (निर्ऋतय इदं॰) ॥ ॐ यस्यास्ते अस्याः क्रूर आसं जुहोम्येषां बन्धानामवसर्जनाय । भूमिरिति त्वा जना विदुर्निर्ॠतिरिति त्वाहं परि वेद विश्वतः स्वाहा ॥ (निर्ऋतय इदं॰) ॥ ॐ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यां तस्करस्यान्वेषि । अन्यमस्मदिच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यमस्तु स्वाहा ॥ (निर्ऋतय इदं॰) ॥ ॐ देवीमहं निर्ॠतिं वन्दमानः पितेव पुत्रं दसये वचोभिः । विश्वस्य या जायमानस्य वेद शिरःशिरः प्रतिसूरी विचष्टे स्वाहा ॥ (निर्ऋतय इदं॰) ॥ ॐ निवेशनस्सङ्गमनो वसूनां विश्वा रूपाऽभिचष्टे शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाँ स्वाहा ॥ (इन्द्रायेदं॰) ॥ ॐ संवरत्रा दधातन निराहावान्कृणोतन । सिञ्चामहा अवटमुद्रिणं वयं विश्वाहादस्तमक्षितँ स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ निष्कृताहावमवटँ संवरत्र सुषेचनम् । उद्रिणँ सिञ्चे अक्षितँ स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक् । धीरा देवेषु सुम्नया स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ युनक्त सीरा वियुगा तनोत कृते योनौ वपतेह बीजम् । गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्या पक्वमायत्स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ लाङ्गलं पवीरवँ सुशेवँ सुमतित्सरु । उदित्कृषति गामविं प्रफर्व्यं च पीवरीम् । प्रस्थावद्रथवाहनँ स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ शुनं नः फाला वितुदन्तु भूमिँ शुनं कीनाशा अभियन्तु वाहान् । शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तँ स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ कामं कामदुघे धुक्ष्व मित्राय वरुणाय च । इन्द्रायाग्नये पूष्ण ओषधीभ्यः प्रजाभ्यः स्वाहा ॥ (कामदुह इदं॰) ॥ ॐ घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः । ऊर्जस्वती पयसा पिन्वमानास्मान्सीते पयसाभ्याववृत्स्व स्वाहा ॥ (सीताया इदं॰) [[TODO: परिष्कार्यम्]]
इत्यष्टादशभिरुपहुत्य स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाग्रेणाग्निं दर्भस्तम्भेषु हुतशेषं निदधाति - ‘ब्रह्मजज्ञानं, पिता विराजाम्’ इति द्वाभ्याम् ॥ (अथोत्तरपरिषेकादिहोमशेषं समाप्य तमग्निं समिधि समारोपयेत्) प्रसिद्धमौपासने पार्वणानि कुर्यात्सन्तिष्ठत औपासनतन्त्रम् ॥ ॥
-
सपिण्डीकरणान्तं कुर्यादिति ज्ञेयम् ॥ स्मृ॰ सङ्ग्रहे -
“निर्वृत्य द्वादशाहे तु सपिण्डीकरणं तथा ।
त्रयोदश दिने दीक्षां समाप्य ब्राह्मणाज्ञया ॥
चतुर्दशदिने प्रातः कृत्वा च स्वस्तिवाचनम् ।
माङ्गल्यसूक्तं श्रीसूक्तं प्रायश्चित्तं हुनेत्तथा ॥
चर्वाज्यसमिधश्चैव अष्टोत्तरशतं हुनेत् ।
पूर्णाहुतिं ततः कृत्वा शेषं कर्म समाचरेत्"इति ॥ ↩︎
-
कन्याया दानप्रतिग्रहौ न स्तः
“अङ्कुरञ्च प्रतिसरं वरणञ्च प्रतिग्रहम् ।
वाससा परिधानञ्च कर्माण्येतानि वर्जयेत्"इति वै॰ नाथीये ॥ ↩︎