॥ अथ वैवाहिकं श्राद्धम् ॥ (बो. गृ. प. सू. १. ८. १, १०-३६)
अथ दशमेऽहन्ययुग्मा ब्राह्मणाः श्राविता भवन्ति । अथापरः - आपरिधानात्कृत्वा विश्वेभ्यो देवेभ्यो ब्राह्मणावुपवेश्य गन्धपुष्पधूपदीपैरभ्यर्च्य वैश्वदेवेन चरणानुद्दिश्य ‘विश्वेभ्यो देवेभ्यः स्वाहा’ इति । अथ प्राचीनावीतं कृत्वा सौवर्णं राजतं ताम्रायसं कांस्यं मृन्मयं वा पात्रं याचति । तद्दक्षिणाग्रेषु दर्भेषु सादयित्वा तूष्णीं संस्कृताभिरद्भिरुत्तानं पात्रं कृत्वा प्रोक्ष्य तस्मिन् तिरः पवित्रमप आनयन्नाह -
आ म आगन्तु पितरो॰ पितृभ्यो वो गृह्णामि पितामहेभ्यो वो गृह्णामि प्रपितामहेभ्यो वो गृह्णामि
इति । अथोद्धृत्य पवित्रं तिलानावपति - ‘तिलोऽसि॰’ इति । अथ तिरः पवित्रं मध्वानयति - ‘मधु वाता ऋतायते’ इति तिसृभिरनुच्छंदसम् । अथैनत्सर्वाभिरङ्गुलीभिः समुदायुत्याभिमृशति - सोमस्य त्विषिरसि॰’ इति । तस्मिंश्चित् किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्न्या चोपसंगृह्येमां दिशं निरस्यति – ‘अवेष्टाः॰’ इति । अथाप उपस्पृश्य पुनरेवाभिमृशति - ‘शं नो देवीः॰’ इति । अथैनद्गन्धपुष्पधूपदीपैरभ्यर्च्य दक्षिणाग्रैर्दर्भैः प्रतिच्छाद्य भोजनस्थानेष्वासनेषु च तिलान्सिकताश्च संप्रकिरति - ‘अपहता असुराः॰’ इति । अथैनदद्भिरवोक्षति - ‘उदीरतामवरे॰’ इति । अथ पितॄनावाहयति - ‘आ यात पितरः॰’ इति । अथ ब्राह्मणानाहूय सदर्भोपक्लृप्तेष्वासनेषूपवेश्य प्रसिद्धमग्नौ कृत्वा श्राद्धं पञ्च स्रुवाहुतीर्जुहोति -
याः प्राचीः॰, अन्तर्दधे पर्वतैः॰, अन्तर्दध ऋतुभिः॰, यन्मे माता॰, यद्वः क्रव्यादं॰
इति । त्रेधा वपां विभज्य औदुम्बर्या दर्व्या जुहोति -
सोमाय पितृमते॰, अङ्गिरस्वन्तमूतये॰, यदग्ने कव्यवाहन॰’
इति । अथापूपमष्टधा विभज्य त्रीण्यवदानानि वपायाः कल्पेन हुत्वाऽथेतराणि ब्राह्मणेभ्यो दृत्वाऽत्रैतान्यवदानानीडसूने प्रच्छिद्यौदनं मांसं यूषमित्याज्येन समुदायुत्यौदुम्बर्या दर्व्योपघातं दक्षिणार्धे जुहोति -
पितृभ्यः स्वधा नमः स्वाहा
इत्यादि
सर्वाभ्यः स्वधा नमः स्वाहा
इत्यन्तो मन्त्र ऊह्यः ।
अग्नये कव्यवाहनाय स्वधा नमः स्वाहा
इति । परिवेष्य भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्यैतेनैव यथेतमेत्यान्नशेषेण तिस्र आहुतीर्जुहोति -
यन्मे माता॰, यन्मे पितामही॰, यन्मे प्रपितामही॰
इति । दक्षिणेनाग्निं दक्षिणाग्रान्दर्भान्संस्तीर्य तेष्वन्नशेषैः त्रीन् पिण्डान् ददाति-
एतत्ते ततासौ ये ते मातामहा ये ते आचार्या ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये तेऽमात्या ये तेऽन्तेवासिनस्तेभ्यश्च पत्नयस्तेभ्यस्ताभ्यश्च स्वधा नमः
इति । द्वितीयं ददाति - ‘एतत्ते पितामहासौ॰’ इति । तृतीयं ददाति - ‘एतत्ते प्रपितामहासौ॰’ इति । अत्र भूमौ लेपं निमार्ष्टि -
येनः पतिताः॰, य आमा ये पक्वाः॰, ये कुमाराः॰
इति । अथैनान्संक्षाळनेनाभिषिञ्चति – ‘ये समानाः, ये सजाताः’ इति द्वाभ्याम् । अथ ये बर्हिषि पिण्डास्तेषां तथैव संक्षाळनेन त्रिरपसलैः परिषिञ्चति - ‘ऊर्जं वहन्तीः’ इति । जयप्रभृति सिद्धमत ऊर्ध्वम् ॥
(बो. गृ. प. सू. १.९)
अथ वै भवति किञ्चिद्यज्ञस्य वातिवेलं वा श्रद्धायुक्तस्य तत्त्वविदः । पात्रमासाद्य नक्षत्रे वा ब्राह्मणानाहूय सदर्भोपक्लृप्तेष्वासनेषूपवेश्यामन्त्रयते -
भवत्स्वेवाग्नौ करणं पिण्डाश्च
इत्येव ब्रूयात् । तथेत्युक्तः तेषां सपवित्रेषु पाणिषु तिलोदकं ददाति । तथाऽलङ्कृत्य ददाति तथैव भुक्तवत्सु च ददाति । नोच्छिष्टं परिसमूहति । अत्र त्रीन्पिण्डान्ददाति ब्राह्मणेभ्यो दक्षिणतः । विज्ञायते च -
ब्राह्मणो वै सर्वा देवताः, एष वा अग्निवैश्वानरो यद्ब्राह्मणः
इति । हुतमेवास्य भवति । अथ यद्यग्नौ कुर्यादौपासने पचने वाऽन्नस्य तिस्त्र आहुतीर्जुहोति-
सोमाय पितृपीताय स्वधा नमः स्वाहा । यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा
इति । हुतमेवास्य भवति ॥ अपि वा सङ्कल्पेन ब्राह्मणान्भोजयेत् - ‘सङ्कल्पसिद्धिरस्तु’ इति वाचयित्वा ॥ एवमापत्सु कुर्वीत न च नित्यं तु कारयेत् । ये नित्या उपासते श्राद्धानि च हवींषि च ॥ गामत्रकुर्यादिति बोधायनः । आमिक्षया वैतत्क्रियत इति शालीकिः । अपूपेनेत्यौपमन्यवः । चरुणा वेत्यौपमन्यवीपुत्रः । ‘पितृणामनृणो भवति’ इति विज्ञायते । अथोपनिष्क्रम्य बाह्यानि चित्रियाण्यभ्यर्च्य त्रिवृतान्नेन ब्राह्मणान्संपूज्याशिषो वाचयित्वा प्रतोदमिषुं च ब्राह्मणेभ्यो दत्वा प्रदक्षिणीकृत्य गृहानेत्य अध्वर्युं वृणीते अकुनखिनमांगिरसमिति ॥ इति विवाहो व्याख्यातः ॥
प्रयोगः
अथ प्रयोगः ॥ पूर्वेद्युः सायमौपासनं हुत्वा प्राचीनावीती
श्वः वैवाहिकश्राद्धं कर्तास्मि
इति मनसा संकल्प्य
श्वः वैवाहिकश्राद्धं भविता तत्र भवद्भिः विश्वेदेवार्थे प्रसादः करणीयः
इति द्वौ विप्रौ
श्वः वैवाहिक॰ तत्र भवद्भिः पितृपितामहप्रपितामहार्थे प्रसादः करणीयः
इति त्रीन् विप्रांश्च निमंत्र्य श्वः स्नानादि नित्यकर्मान्ते विप्रान् गृहमानीय पुनर्निमंत्र्य श्मश्रुकर्मादिभिस्तान्यथोपपादमभ्यर्च्य श्राद्धारंभकाले स्नात्वा मध्याह्नसंध्यां समाप्य समस्तपितॄणामक्षयतृप्त्यर्थं सपिण्डं साग्नौकरणं वैवाहिकश्राद्धमन्नेन हविषा पार्वणविधानेन कुर्यात् । अग्नौकरणे पञ्च स्रुवाहुतीनामंते
सोमाय पितृमते शुष्मिणे जुहुमो हविः॰
इत्यादि त्रिभिर्मंत्रैरन्नेनापूपभागत्रयेण च होमः । ततः
पितृभ्यः स्वधा नमः स्वाहा
इत्यादि चतुर्विंशतिहोमांते
अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा
इति स्विष्टकृतं च जुहुयात् । ब्राह्मणभोजनान्ते अन्नशेषेण
यन्मे माता प्रलुलो॰, यन्मे पितामही प्र॰, यन्मे प्रपितामही॰
इति तिस्र आहुतीर्हुत्वा
एतत्ते ततासौ ये ते मातामहा॰ ताभ्यश्च स्वधा नमः, एतत्ते पितामहासौ ये ते मातामहाः॰, एतत्ते प्रपितामहासौ ये ते मातामहा॰
इति त्रीन्पिण्डान्दद्यात् । अन्यत्सर्वं सांवत्सरिकश्राद्धवत् । सर्वत्र प्रतिसांवत्सरिकश्राद्धपदस्थाने वैवाहिकश्राद्धपदं योज्यम् ॥ ॥ अशक्तः अग्नौकरणेन विना श्राद्धं कुर्यात् । आपत्सु केवलब्राह्मणभोजनेन वास्य सिद्धिर्भवति । श्राद्धान्ते बाह्यानि चित्रियाणि संपूज्य ब्राह्मणान्संपूज्य दक्षिणासहितं प्रतोदमिषुं च दत्वाऽऽशिषोगृह्णीयात् ॥ ॥