॥ अथ कन्यासमर्पणम् ॥ अथाचारप्राप्तं कन्यासमर्पणम् ॥ तदुक्तं ग्रन्थान्तरे -
कन्यासमर्पणं कुर्याद्विवाहदिवसेऽपि वा ॥
षष्ठे वाप्यष्टमे वापि दशमेऽहनि मङ्गले
इति ॥ अथाचार्यः सभायां वधूवरौ प्राङ्मुखावुपवेश्य लक्ष्मीविवाहसम्बंधं क्षीराब्धिमथनादिकथानकं यथाचारं कथयित्वा
एष ब्रह्मातिवृद्धस्त्रिदशपतिरसौ गर्वितः क्षीयतेऽब्जो
दिग्वासा नीलकण्ठस्तपति दिनकरश्चञ्चलो मातरिश्वा ॥
इत्थं संचिन्त्य लक्ष्म्या भ्रमरकलकलारावगीतप्रफुल्ला
माला दत्ता मुरारेः सुरतरुकुसुमालंकृता पातु युष्मान् ॥
उत्तुंगस्तनमंडलोपरिलसत्प्रालम्बमुक्तामणे
रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारघुति ॥
लज्जाव्याजमुपेत्य नम्रवदनाऽस्पष्टं मुरारेर्वपुः
पश्यन्ती मुदिता मुदेऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे
इत्याशिषं प्रयुज्य
कुलं च शीलं च वपुर्वयश्च वित्तं च विद्यां च समाथतां च ॥
एतान्गुणान्सप्त परीक्ष्य कन्या देया बुधैः शेषमचिंतनीयम्
इति वरगुणान्,
अनुकूलां विमलांगीं कुलजां कुशलां सुशीलसंपन्नाम् ॥
पंचलकारां भार्यां पुरुषः पुण्याधिको लभते ॥
कार्येषु मन्त्री करणेषु दासी भोज्येषु माता शयनेषु वेश्या ॥
शुचीषु गंगा क्षमया धरित्री षट्कर्मयुक्ता च कुलांगना स्यात्
इति वधूगुणान्,
कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ॥
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥
ययोरेव समं वित्तं ययोरेव समं बलम् ॥
विवाहश्च विवादश्च तयोरेव प्रशस्यते
इति मात्रादिगुणांश्चोक्त्वा कन्यापितृभ्यां,
अनया सहधर्मचर्यया पुरुषार्थत्रयसाधनार्हया ॥
मुदमाप्नुहि शाश्वतीः समा भज धर्मं त्वमनन्यमानसः ॥
वसनाभरणान्नदानपानैर्भरणीयानुदिनं सुरक्षणीया ॥
मृदुभिर्वचनैः सुभाषणीया गृहकृत्येष्वखिलेषु योजनीया ॥
मम बाला न जानाति व्यापारं सर्वमेव वा ॥
काले काले तु सन्देशं वक्तुमर्हसि मानव
इति वरमादेश्य
अष्टवर्षा त्वियं कन्या पुत्रवत्पालिता मया ॥
इदानीं तव पुत्राय दत्ता स्नेहेन पाल्यताम्
इति कन्यां वरपित्रोर्हस्ते दापयेत् ॥ अथ वधूवरयोः पितरावाचार्यं वस्त्रादिना सम्पूज्य तोषयित्वाशिषो गृह्णीयाताम् ॥ ततः पुरन्ध्र्यो मंगलार्तिक्यं कुर्युः ॥ इति ॥ ॥ इति कन्यासमर्पणम् ॥
देवकोत्थानमण्डपोद्वासनयोर्विधिः
अथ देवकोत्थापनमण्डपोद्वासनयोर्विधिः ॥ तत्र काल उक्तः सं॰ मालायाम् -
समे च दिवसे कुर्याद्देवकोत्थापनं बुधः ।
षष्ठन्तु विषमं नेष्टं मुक्त्वा पञ्चमसप्तमौ
इति समेषु षष्ठं दिनं विषमेषु पञ्चमसप्तमाऽतिरिक्तदिनानि च नेष्टानीत्यर्थः ॥ ज्योतिर्निबन्धेऽपि -
प्रतिष्ठादिनमारभ्य यावत्षोडश वासराः ।
देवकोत्थापनं कार्यमुद्वाहे च व्रते दश
इति ॥
प्रयोगः
अथ प्रयोगः ॥
सपत्नीकः कर्ता प्राङ्मुख उपविश्य प्राणानायम्य देशकालौ संकीर्त्य
विवाहांगत्वेन स्थापितकुलदेवताया उत्थापनं मण्डपोद्वासनं च करिष्ये
इति संकल्प्य गणपतिं संपूज्य पुण्याहं वाचयित्वा कुलदेवतां मण्डपदेवताश्च सम्पूज्य प्रणम्य
उत्ति॑ष्ठ ब्रह्मणस्पते॰ सचा॑ ॥ यान्तु देवगणाः॰ पुनरागमनाय च
इत्युद्वास्य ब्राह्मणान्नमस्कृत्याशिषो गृह्णीयात् ॥ इति ॥