॥ अथ वैश्वदेवारम्भः ॥ (बो. गृ. प. सू. १. ८. २)
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति - ‘विश्वेदेवाः, विश्वेदेवा’ इति द्वाभ्याम् ॥
गृ॰ सङ्ग्रहे -
दशमेऽहनि सम्प्राप्तो वैश्वदेवन्तु नैत्यकम् ।
आरभेत तथा श्राद्धं मत्स्यस्यानन्तरेऽह्नि वा ॥
षष्ठेऽह्नि वैश्वदेवं चेत्कृष्णपक्षे पितृक्रिया
इति ॥ पञ्चमदिनकृत्यान्ते (बो. गृ. सू १. ८ )
श्वोभूते वैश्वदेवेन प्रतिपद्यते ॥ मासि श्राद्धेन चापरपक्षे
इत्युक्तम् ॥ प्र॰ चिन्तामणौ तु -
षष्ठेऽष्टमे वा दशमेऽह्नि विप्रान् निमन्त्र्य योग्यानथ वैश्वदेवम् ।
कुर्याद्वरो वह्निमुखञ्च विश्वेदेवादिकाभ्यां जुहुयाच्च पक्वम्
इति षष्ठाऽष्टमदशमदिनेष्वन्यतमे कार्यमित्यभिहितम् ॥ अनेन दशदिनात्परं स्वगृहप्रवेशकरणे श्वशुरगृहेऽपि वा वैश्वदेवं कुर्यादिति प्रतीयते ॥
प्रयोगः
अथ प्रयोगः ॥ उक्तदिने सपत्नीको वरः प्रातरौपासनादि नित्यकर्म कृत्वा दर्भेषु प्राङ्मुख उपविश्वाऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
वैश्वदेवारम्भं कर्तुमादौ शान्त्यर्थं॰ स्वस्तिपुण्याहवाचनं करिष्ये,
इति सङ्कल्प्य गणपतिं सम्पूज्य “विश्वेदेवाः प्रीयन्ताम्” इति पुण्याहं वाचयित्वा स्थण्डिलोल्लेखनाद्यौपासनाग्निं प्रतिष्ठाप्य प्राणानायम्य देशकालौ सङ्कीर्त्य
अनया नवोडया वध्वा सह वैश्वदेवारम्भहोमं करिष्ये, आवसथ्यो नामाऽग्निः, विश्वेदेवा देवता, चरुर्हविः, अग्निः स्विष्टकृत्
इत्यादि संकल्प्यान्वाधायाग्निमुखांतं कृत्वा पक्वाज्जुहोति -
विश्वदेवा ऋतावृध ऋतुभिर्हवनः श्रुतः ॥ जुषन्तां युज्यं पयों ३ विश्वेदेवाः शृणुतेमँ हवं मे ये अन्तरिक्ष य उप द्यविष्ठ ॥ ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बहिर्षि मादयध्वँ स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ (विश्वेभ्यो देवेभ्य इदं॰) ॥ अथ स्विष्टकृतमवदायांतःपरिधौ1 निधाय वैश्वदेवादि पंचयज्ञं कुर्यात् ॥ सर्वेष्वायतनेषु पाणिना परिसमूह्योभयतः परिषेकं गंधादिभिरलंकरणं च कुर्यात् ॥ (पत्नी वालंकुर्यादिति कारिकाकाराः) अथ चरुशेषं पात्रान्तरे कृत्वा तस्मिन्प्रभूतमाज्यमानीय हस्तेनावग्राहशोऽग्नौ जुहोति -
ॐ अग्नये स्वाहा ॥ (अग्नय इदं॰, इत्यादि यथालिंगं त्यागः) सोमाय स्वाहा ॥ धुवाय स्वाहा ॥ ध्रुवाय भूमाय स्वाहा ॥ ध्रुवक्षितये स्वाहा ॥ अच्युतक्षितये स्वाहा ॥ ईशानाय स्वाहा ॥ जयंताय स्वाहा ॥ धर्माय स्वाहा ॥ धर्मरुचये स्वाहा ॥ धन्वंतरये स्वाहा ॥ विद्यायै स्वाहा ॥ अम्बिकायै स्वाहा ॥ हरये स्वाहा ॥ गणेभ्यः स्वाहा ॥ गणपतिभ्यः स्वाहा ॥ परिषद्भ्यः स्वाहा ॥ विश्वेभ्यो देवेभ्यः स्वाहा ॥ साध्येभ्यो देवेभ्यः स्वाहा ॥ सर्वेभ्यो देवेभ्यः स्वाहा ॥ सर्वाभ्यो देवताभ्यः स्वाहा ॥ भूः स्वाहा ॥ भुवः स्वाहा ॥ सुवः स्वाहा ॥ भूर्भुवः सुवः स्वाहा [[TODO: परिष्कार्यम्]]
इति पंचविंशत्याहुतीर्तुत्वा तथैव “ॐ अ॒ग्नये॑ स्विष्ट॒कृते॒ स्वाहा॑” इत्युत्तरार्धपूर्वार्धे जुहोति ॥ अथाग्नेः पश्चाद्भूमौ2 चतुरश्रमंडलं कृत्वा प्रागादिचतुर्दिक्षु क्रमेण चतुरो बलीन् दद्यात् -
धर्माय स्वाहा ॥ अर्धाय स्वाहा ॥ कद्रुवे नागमात्रे स्वाहा ॥ सर्पेभ्यः स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ अथ तत्रैवेशानमारभ्य प्रदक्षिणाकारेणैकविंशतिं -
अचलायै देव्यै स्वाहा ॥ वास्तुपाल्यै सगणायै स्वाहा ॥ अद्भ्यः स्वाहा ॥ वरुणाय स्वाहा ॥ प्रजापतये स्वाहा ॥ परमेष्ठिने स्वाहा ॥ ऋषभाय स्वाहा ॥ रुद्राय स्वाहा ॥ रुद्राण्यै स्वाहा॥ ओषधिवनस्प तिभ्यः स्वाहा ॥ रक्षोदेवजनेभ्यः स्वाहा ॥ कामाय स्वाहा ॥ भगाय स्वाहा ॥ श्रियै स्वाहा ॥ विष्णवे स्वाहा ॥ गृहाय स्वाहा ॥ गृहराजाय स्वाहा ॥ धनधान्याभ्याँ स्वाहा ॥ वैश्रवणाय स्वाहा ॥ श्रियै स्वाहा ॥ पुष्ट्यै स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ पुनरीशानादि पूर्ववत्पंचदश -
उलूखलमुसलाभ्याँ स्वाहा ॥ दृषदुपलाभ्याँ स्वाहा ॥ समूहन्यै देव्यै स्वाहा ॥ गृह्याभ्यः स्वाहा ॥ अवसानेभ्यः स्वाहा ॥ अवसानपतिभ्यः स्वाहा ॥ सर्पदेवजनेभ्यः स्वाहा ॥ सर्वभूतेभ्यः स्वाहा ॥ अंतरिक्षाय स्वाहा ॥ अवान्तरिक्षाय स्वाहा ॥ धात्रे स्वाहा ॥ विधात्रे स्वाहा ॥ भूत्यै स्वाहा ॥ प्रभूत्यै स्वाहा ॥ यदेजति जगति यञ्च चेष्टति नाम्नो भागोऽयं नाम्ने स्वाहा॥ [[TODO: परिष्कार्यम्]]
इति ॥ अथ मण्डलमध्ये प्रागपवर्गाश्चतुस्त्रिंशत् -
ज्येष्ठाभ्याँ स्वाहा ॥ करस्कराभ्याँ स्वाहा ॥ श्रियै स्वाहा ॥ विष्णवे स्वाहा ॥ रुद्राय स्वाहा ॥ पशुभ्यः स्वाहा ॥ पशुपतये स्वाहा ॥ वास्तोष्पतये स्वाहा ॥ पृथिव्यै स्वाहा ॥ अंतरिक्षाय स्वाहा ॥ दिवे स्वाहा ॥ सूर्याय स्वाहा ॥ चंद्रमसे स्वाहा ॥ नक्षत्रेभ्यः स्वाहा ॥ अद्भ्यः स्वाहा ॥ ओषधीभ्यः स्वाहा ॥ बनस्पतिभ्यः स्वाहा ॥ चराचरेभ्यः स्वाहा ॥ परिप्नुवेभ्यः स्वाहा ॥ सरीसृपेभ्यः स्वाहा ॥ देशेभ्यः स्वाहा ॥ कालेभ्यः स्वाहा ॥ लोकेभ्यः स्वाहा ॥ वेदेभ्य स्वाहा ॥ देवेभ्यः स्वाहा ॥ ऋषिभ्यः स्वाहा ॥ वसुभ्यः स्वाहा ॥ रुद्रेभ्यः स्वाहा ॥ आदित्येभ्यः स्वाहा ॥ इंद्राय स्वाहा ॥ बृहस्पतये | स्वाहा ॥ प्रजापतये स्वाहा ॥ ब्रह्मणे स्वाहा ॥ आयतनवते स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ अथ दक्षिणतः प्राचीनावीती -
पितृभ्यः स्वधा नमः स्वाहा ॥ पितामहेभ्यः स्वधा नमः स्वाहा ॥ प्रपितामहेभ्यः स्वधा नमः स्वाहा ॥ मातृभ्यः3 स्वधा नमः स्वाहा ॥ पितामहीभ्यः स्वधा नमः स्वाहा ॥ प्रपितामहीभ्यः स्वधा नमः स्वाहा ॥ मातामहेभ्यः स्वधा नमः स्वाहा ॥ मातुः पितामहेभ्यः स्वधा नमः स्वाहा ॥ मातुः प्रपितामहेभ्यः स्वधा नमः स्वाहा ॥ मातामहीभ्यः स्वधा नमः स्वाहा ॥ मातुः पितामहीभ्यः स्वधा नमः स्वाहा ॥ मातुः प्रपितामहीभ्यः स्वधा नमः स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ अथाप उपस्पृश्योत्तरतो यज्ञोपवीती - “ननमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑” इति ॥ अथ दिक्षु -
प्राच्यै दिशे स्वाहा ॥ दक्षिणायै दिशे स्वाहा ॥ प्रतीच्यै दिशे स्वाहा ॥ उदीच्यै दिशे स्वाहा ॥ ऊर्ध्वायै दिशे स्वाहा ॥ अधरायै दिशे स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ अथावान्तरदिक्षु -
अग्नये स्वाहा ॥ निर्ऋतये स्वाहा ॥ वायवे स्वाहा ॥ ईशानाय स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ अथाकाशे उत्क्षिपति -
ॐ ये भूताः प्रचरंति दिवा बलिमिच्छंतो वितुदस्य प्रेष्याः ॥ तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ (रात्रौ चेद्दिवा स्थाने नक्तं उभयोस्तंत्रैक्ये दिवानक्तं इति च योज्यम् ) ततः संक्षाळनं प्रागुदीच्यां दिशि निनयति - “नमो॑ रु॒द्राय॑ भौ॒माय॒ स्वाहा॑” इति ॥ एवं वैश्वदेवबलिहरणानि कृत्वातिथिमाकांक्षेदागोर्दोहनकालम् ॥ आगतमातिथिं भोजयेत् ॥ अग्रं वोद्धृत्य दद्यात् ॥ ॥ अथ प्रक्षालितपाणिपादोऽप आचम्याग्नेः पश्चाद्दर्भेष्वासीनो दर्भान्धारयमाणस्त्रीन्प्राणायामान्धारयित्वा सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वो दशवारं वा ॥ अथ वेदादींश्छन्दांसि कूष्माण्डानि चाधीयीत - “अग्निमीळे पुरोहितम्” इति ऋग्वेदस्य ॥ “इषे त्योर्जे त्वा” इति यजुर्वेदस्य ॥ “अग्न आ याहि वीतये” इति सामवेदस्य ॥ “शन्नो देवीरभिष्टये" इत्यथर्ववेदस्य ॥ “अग्निर्मूर्धा दिवः” इति च्छंदांसि ॥ “यद्देवा देवहेडनम्" इति कूष्माण्ड्यः ॥ “नमो ब्रह्मणे" इति त्रिरनूच्याप उपस्पृशेत् ॥ एतैः पंच महायज्ञाः संपद्यंते इत्येकः पक्षः ॥ अथवा “देवयज्ञेन यक्ष्ये”, इति संकल्प्य “विद्युदसि" इत्यपः स्पृष्ट्वाग्निं परिसमूह्य परिषिच्य “दे॒वेभ्यः॒ स्वाहा॑” इत्यन्नं समिधं वा हुत्वा पुनः परिषिच्य “वृष्टिरसि" इत्यपः स्पृशेत्, स देवयज्ञः ॥ अथ प्राचीनावीती “पितृयज्ञेन यक्ष्ये”, इति संकल्प्य “विद्युदसि" इत्यपः स्पृष्ट्वाग्नेर्दक्षिणतोऽपसव्यं परिषिच्य दर्भेषु “पि॒तृभ्यः॑ स्व॒धास्तु॑" इति पिंडमपो वा दत्वा पुनः परिषिच्य “वृष्टिरसि" इत्यपः स्पृशेत्, स पितृयज्ञः ॥ अथ यज्ञोपवीती “भूतयज्ञेन यक्ष्ये”, इति संकल्प्य “विद्युदसि" इत्यपः स्पृष्ट्वाग्नेरुत्तरतः परिषिच्य दर्भेषु “भू॒तेभ्यो॒ नमः॑" इत्यन्नं फलं पुष्पं वा दत्वा पुनः परिषिच्य “वृष्टिरसि" इत्यपः स्पृशेत्, स भूतयज्ञः ॥ अथ “मनुष्ययज्ञेन यक्ष्ये”, इति संकल्प्य “विद्युदसि" ॰ स्पृष्ट्वा “म॒नु॒ष्ये॑भ्यो॒ हन्ता॑" इत्यतिथयेऽन्नं दद्यादभावे भूमौ वा परिषिच्य दत्वा “वृष्टिरसि" इत्यपः स्पृशेत्, स मनुष्ययज्ञः ॥ अथ “ब्रह्मयज्ञेन यक्ष्ये”, इति संकल्प्य “विद्युदसि" इत्यपः स्पृष्ट्वा पूर्वोक्तप्रकारेणाधीत्यैकामृचं वा पठित्वा “नमो ब्रह्मणे" इति त्रिरनूच्य “वृष्टिरसि" इत्यपः स्पृशेत्, स ब्रह्मयज्ञः ॥ एवमेते पंच महायज्ञा वैश्वदेवबलिहरणांते पृथगेव कर्तव्या इति पक्षान्तरम् ॥ एवं पंचयज्ञान्समाप्य “इ॒ष्टेभ्यः॒ स्वाहा॑” इत्यष्टभिराज्याहुतीरुपहुत्य स्विष्टकृदादि होमशेषं समाप्य
अनेन वैश्वदेवारम्भहोमकर्मणा श्रीपरमेश्वरः प्रीयताम्
इति कर्मेश्वराय समर्पयेत् ॥ (दशमेऽह्नि वैश्वदेवारम्भः कृतश्चेद्धोमान्ते श्राद्धं च कुर्यात् ॥ षष्ठेऽह्नि वैश्वदेवारम्भे श्राद्धमपरपक्षे कुर्यात् ॥ कुमारस्वामिकारिकायान्तु- “श्राद्धं कुर्वीत वा न वा” इति श्राद्धमेव विकल्पितम्) ततो ग्रामाधिदेवताः सम्पूज्य ब्राह्मणान्भोजनादिना सन्तोष्य प्रतोदमिषुं च दत्वा प्रणम्याशिषो गृह्णीयात् ॥ इति वैश्वदेवप्रकरणम् ॥
-
“स्विष्टं तदन्तःपरिधौ निधाय कृत्वा ततः पंचमखान्यथावत् ॥
इष्टेभ्य इत्यष्टभिराज्यमग्नौ हुनेत्ततः स्विष्टकृतं च सिद्धम् ॥
पूर्वं च पश्चात्परिषिच्य वह्निं देवेभ्य उक्त्वा हविषा च वह्नौ ॥
कृतोऽग्निपूर्वैरिह पंचविंशन्मन्त्रैश्च होमः सुरयज्ञ उक्तः ॥
भूतेभ्य उक्त्वा परिषिच्य पूर्वं वह्नेरुदग्दर्भयुते स्थळेऽन्नैः ॥
एकत्र वा पश्चिमतस्तदग्नेः क्षिप्तो बलिर्भूतमखः स उक्तः ॥
धर्मादिकानां च ततः पितॄणां ततो दिशां चेह बलिक्रियायाम् ॥
सप्तोत्तराशीतिसिताश्च मंत्रास्तत्तत्प्रदेशे बलिमाहुरेतैः”इत्यादिना प्र॰ चिन्तामणौ वैश्वदेवबलिहरणैस्त्रयो महायज्ञा उक्ताः । धर्मसूत्राख्यानेऽपि एते देवपितृभूतयज्ञास्त्रयो वैश्वदेवबलिहरणैरेव सम्पादिताः केचित्तु पृथक्कर्तव्या इत्याहुः इत्युक्तम् ॥ ↩︎
-
सूत्रे पृथक्पृथक्स्थानेषु बलिहरणान्युक्तानि ॥ अत्रानुष्ठानसौकर्यार्थमेव कारिकोक्तः पक्षः समादृतः ॥ ↩︎
-
मात्रादीनां बलिदानं कारिकान्तरोक्तम् ॥ ↩︎