४६ वधूप्रवेशः

॥ अथ वधूप्रवेशः ॥ तत्र कालनिर्णय उक्तः सं॰ मालायाम् –

विवाहमारभ्य वधूप्रवेशो युग्मे तिथौ षोडशवासरान्तात् ।
तदूर्ध्वमासेषु च पञ्चमांतात्ततः परस्तान्नियमो न चाऽस्ति

इति ॥ तत्र विशेषमाह नारदः -

समे वर्षे समे मासि यदि नारी गृहं व्रजेत् ।
आयुष्यं हरते भर्तुस्सा नारी मृतिमाप्नुयात्

इति ॥ वृद्धवसिष्ठः -

षष्ठेऽष्टमे वा दशमे दिने वा विवाहमारभ्य वधूप्रवेशः ।
पञ्चाङ्गसंशुद्धिदिनं विनाऽपि विधावसद्गोचरगेऽपि कार्यः

इति ॥ स्मृत्यन्तरे तु -

वधूप्रवेशः प्रथमे तृतीये शुभप्रदः पञ्चमकेऽथवाऽह्नि । द्वितीयके वाऽथ चतुर्थके वा षष्ठे वियोगाऽऽमयदुःखदस्स्यात्

इति ॥ ज्योतिर्निबन्धे -

वधूप्रवेशस्तु निशि प्रशस्तो नवप्रवेशस्तु दिवा प्रशस्तः ।
रात्रौ दिवा सज्जगृहप्रवेशः प्रोक्तो भरद्वाजमुनीन्द्रमुख्यैः

इति ॥ एतेन विवाहदिनादारभ्य षोडशदिनाभ्यन्तरे प्रथमतृतीयपञ्चमेष्वयुग्मदिवसेषु षष्ठाष्टमदशमादियुग्मदिनेषु चन्द्रतारादिबलरहितेऽपि वधूप्रवेशः शुभदस्तत्राऽपि रात्रावतिप्रशस्तः ॥ षोडशदिनाऽनन्तरं चेद्विषममासे विषमाब्दे पञ्चाङ्गशुद्धिं विचार्यैव वधूप्रवेशः कार्य इत्यवगम्यते ॥ तत्र नक्षत्रादिकमाह मुहूर्तमाधवीयव्याख्याने बादरायणः -

नीहारांशुवसूत्तरादितिगुरुब्रह्माऽनुराधाऽश्विनी
पूषाभास्करवायुवारुणहरित्वाष्ट्रेषु शस्ते तिथौ ।
कुम्भाऽजाऽळिगते रवौ शुभकरे प्राप्तोदये भार्गवे
जीवज्ञास्फुजितां दिने नववधूवेश्मप्रवेशः शुभः

इति ॥ ज्योतिष्प्रकाशे -

वामे शुक्रे नवोढायाः सुखं हानिश्च दक्षिणे ।
धनं धान्यञ्च पृष्ठस्थे सर्वनाशः पुरः स्थिते

इति ॥

प्रयोगः

अथ प्रयोगः ॥ विवाहदिने गृहप्रवेशाकरणपक्षे पंचमदिनेऽन्यस्मिन्वा पूर्वोक्तशुभदिने नववधूसहितो वरो बन्धुजनैः सहौपासनाग्निमादाय मंगलघोषपुरःसरं श्वशुरगृहान्निष्क्रम्य यानादिकमारुह्य स्वगृहं गत्वा तत्र यथाचारमभ्यर्चितो देहल्या बहिर्मंगलासने उपविश्याचम्य प्राणानायम्य देशकालौ संकीर्त्य

समस्तमांगल्यप्राप्त्यर्थमनया नवोढया वध्वा सह गृहप्रवेशं करिष्ये, तदंगत्वेनादौ गणपतिदुर्गाक्षेत्रपालवास्तोष्पतिपूजनं करिष्ये

इति संकल्प्य गणपतिं संपूज्य “जातवेदसे" इति दुर्गा, “क्षेत्रस्य पतिना" इति क्षेत्रपालं

वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया

इति द्वाभ्यां वास्तोष्पतिं च देहल्यां सम्पूज्य वधूं दक्षिणपादनिधापनपूर्वकं गृहं प्रवेशयति - “भ॒द्रान् गृ॒हान्॰ संवि॑शानि" इति ॥ अथैनां कल्याणीं वाचं वाचयति - “प्र॒जाव॑ती पशु॒मती॑॰ भूयासम्” इति ॥ अथैनामानडुहे चर्मण्युपवेशयति - “इ॒ह गावः॒॰ निषी॑दतु” इति ॥ ततो गणपतिस्मरणपूर्वकं लक्ष्मीं गृहदेवतां च सम्पूज्य प्राणानायम्य देशकालौ संकीर्त्य

अनया नवोढया वध्वा सह गृहप्रवेशांगभूतं स्वस्तिपुण्याहवाचनं करिष्ये,

इति संकल्प्य गणपतिं सम्पूज्य

कृतस्यास्य गृहप्रवेशकर्मणः ॐ पुण्याहं, स्वस्ति, ऋद्धिं भवंतो ब्रुवन्तु, प्रजापतिः प्रीयताम्

इति पुण्याहं वाचयित्वा ब्राह्मणेभ्यः सुवासिनीभ्यश्च फलहिरण्यादिकं दद्यात् ॥ ततः पुरंन्ध्र्यो मंगलार्तिक्यं कुर्युः, ब्राह्मणा मंत्राक्षतान् दद्युः ॥ इति ॥