॥ अथानेयस्थालीपाकः ॥ (बो. गृ. सू. १. ५)
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति - ‘अग्निर्मूर्धा, भुवः’ इति द्वाभ्याम् । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् । स एष पार्वणो भवति ॥
प्रयोगः
अथ प्रयोगः ॥ सपत्नीको वरो दर्भेष्वासीनः प्राणानायम्य देशकालौ सङ्कीर्त्य
पञ्चमेऽहन्याग्नेयस्थालीपाकं करिष्ये
इति सङ्कल्प्य गणपतिं सम्पूज्य “अग्निः प्रीयताम्" इति पुण्याहं वाचयित्वा स्थंडिलोल्लेखनाद्यौपासनाग्निं प्रतिष्ठाप्यान्वादध्यात् ॥ तत्र
अग्निर्मूर्धा नामाग्निः, अग्निर्देवता, चरुर्हविः, अग्निः स्विष्टकृत्,
इति संकल्पे विशेषः ॥ आप्रणीताभ्यः कृत्वा तण्डुलान्निर्वपति -
दे॒वस्य॑ त्वा॰ हस्ता॑भ्याम॒ग्नये॒ जुष्टं॒ निर्व॑पामि
इति त्रिर्यजुषा तूष्णीं चतुर्थम् ॥ अथ
दे॒वस्य॑ त्वा॰ हस्ता॑भ्याम॒ग्नये॑ वो॒ जुष्टं॒ प्रोक्षा॑मि
इति सकृन्मंत्रेण द्विस्तूष्णीं प्रोक्ष्य त्रिः प्रक्षाळ्य स्थाल्यां तिरः पवित्रमप पयो वा निनीयाग्नावधिश्रित्य तिरः पवित्रं तण्डुलानावपेत् ॥ अथाज्यसंस्काराद्यग्निमुखांतं कृत्वा पक्वाज्जुहोति -
अ॒ग्निमू॒र्धा दि॒वः॰ जिन्वतों३ भुवो॑ य॒ज्ञस्य॒॰ हव्य॒वाहँ॒ स्वाहा॑
इति ॥ (अग्नय इदं॰) ॥ अथ स्विष्टकृतमवदायांतःपरिधौ निधाय व्याहृतीरुपहुत्य स्विष्टकृदादि होमशेषं समापयेत् ॥ ॥
समारोपणम्
अथ समारोपणम् ॥ पालाशीमाश्वत्थीमौदुम्बरीं खादिरीं वा समिधमादाय पत्न्यान्वारब्धोऽग्नौ प्रतापयति -
अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ॥ तं जानन्नग्न आरोहाथा नो वर्धया रयिम् [[TODO: परिष्कार्यम्]]
इत्येवं समिध्यग्निं समारोप्य तां समिधं पुनरौपासनकाले -
आजुह्वानः सुप्रतीकः पुरस्तादग्ने स्वां योनिमासीद साध्या ॥ अस्मिन्त्सधस्थे अध्युत्तरस्मिन्विश्वेदेवा यजमानश्च सीदत ॥ उद्बुध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्ते सँ सृजेथामयं च ॥ पुनः कृण्वँस्त्वा पितरं युवानमन्वाताँसी त्वयि तंतुमेतम् [[TODO: परिष्कार्यम्]]
इति द्वाभ्यां लौकिकाग्नावभ्याधाय तत्रौपासनं हुत्वा पुनस्तथैव समारोपयेत् ॥
अथ पंचमेऽहनि सायमौपासनहोमान्ते वधूवरावन्योन्यमलंकृत्य शय्यामधिरोहतः ॥ तत्र वरो वधूमभिमंत्रयते -
सुमंगलीरियं वधूरिमाँ समेत पश्यत ॥ सौभाग्यमस्यै दत्वा याथास्तं विपरेतन [[TODO: परिष्कार्यम्]]
इति ॥ अथैनां सर्वसुरभिगंधया मालया युनक्ति -
सन्नाम्नः सँहृदयानि सन्नाभिः सन्तनु त्वचः ॥ सन्त्वा कामस्य योक्त्रेण युंजाम्यविमोचनाय [[TODO: परिष्कार्यम्]]
इति ॥ ॥ इति पंचमेऽहनि कर्तव्यविधिः ॥