४४ कूष्माण्डहोमविधिः

॥ अथ कूष्माण्डहोमविधिः ॥ निर्णयसिन्धौ आश्वलायनः –

दद्यात्तदृतुसङ्ख्या गाश्शक्तः कन्यापिता यदि ।
दातव्यैकाऽपि निस्स्वेन दाने तस्या यथाविधि ॥
दद्याद्वा ब्राह्मणेष्वन्नमतिनिस्स्वस्सदक्षिणम् ।
तस्याऽतीतर्तुसङ्ख्येषु वराय प्रतिपादयेत् ॥
उपोष्य त्रिदिनं कन्या रात्रौ पीत्वा गवां पयः ।
अदृष्टरजसे दद्यात्कन्यायै रत्नभूषणम् ॥
तामुग्रहन्वरश्चाऽपि कूष्माण्डैर्जुहुयाद्द्विजः

इति ॥

प्रयोगः

अथ प्रयोगः ॥

कर्ता आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्याऽस्याः कुमार्या विवाहात्माक्सम्भावितरजोदर्शनजनितसमस्तदोषनिबर्हणद्वारा पाणिग्रहणयोग्यतासिध्यर्थं मम च वृषलीपतित्वादि समस्तदोषपरिहारार्थं श्रीपरमेश्वरप्रीत्यर्थं कूष्माण्डहोमं करिष्ये,

इति सङ्कल्प्य शरीरशुध्यर्थं स्नानपवनमन्त्राचमनमन्त्रप्रोक्षणानि कृत्वा गणपतिं सम्पूज्य ‘सविता प्रीयताम्’ इति पुण्याहं वाचयित्वा, देवयजनोल्लेखनप्रभृत्यग्निं प्रतिष्ठाप्य, अन्वाधाने -

कूष्माण्डहोमः कर्म, आघारवत्तन्त्रं, चित्तिर्नामाग्निः, सविता देवता, चरुर्हविः उपहोमश्च- कूष्माण्डमन्त्रैराज्येन यक्ष्ये, अग्निस्स्विष्टकृत्,

इत्यादि सङ्कल्प्याऽन्वाधायाऽपरिधानात्कृत्वा पूर्वेणाऽग्निं अष्टदलपद्मोपरि कलशं प्रतिष्ठाप्य महीद्यौरित्यादि वरुणपूजान्तं कृत्वा ‘तत्सवितुः’ इति गायत्र्या सवितारमावाह्य षोडशोपचारैस्सम्पूजयेत् । परिधानप्रभृत्यग्निमुखान्तं कृत्वा पक्वाज्जुहोति -

‌ ॐ भूर्भुवस्सुवरोम् ३ तत्स॑वि॒तुर्वरे॑ण्यं॒॰ प्रचो॒दया॒त् स्वाहा॑ ॥ (सवित्र इदं॰) ॥

इति हुत्वा । स्विष्टकृतमवदायान्तःपरिधौ निधायाऽज्याहुतीरुपजुहोति आदौ

ॐ नमो॒ ब्रह्म॑णे॒॰ क॑रोमि ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑

इति शान्तिं पठित्वा -

ॐ यद्देवा देव हेळनं देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चतर्तस्यर्तेन मामित स्वाहा ॥ (देवेभ्य आदित्येभ्य इदं॰) ॥१॥ ॐ देवा जीवनकाम्या यद्वाचाऽनृतमूदिम । तस्मान्न इह मुञ्चत विश्वेदेवाः सजोषसः स्वाहा ॥ (विश्वेभ्यो देवेभ्य इदं॰) ॥२॥ ॐ ऋतेन द्यावापृथिवी ऋतेन त्वँ सरस्वति । कृतान्नः पाह्येनसो यत्किञ्चाऽनृतमूदिम स्वाहा ॥ (द्यावापृथिवीभ्याँ सरस्वत्या इदं॰) ॥३॥ ॐ इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः । तेनो मुञ्चत्वेनसो यदन्यकृतमारिम स्वाहा ॥ (इन्द्राग्निभ्यां मित्रावरुणाभ्याँ सोमाय धात्रे बृहस्पतय इदं॰) ॥४॥ ॐ सजातशँ सात जामिशँसाज्ज्यायसः शँसादुत वा कनीयसः । अनाधृष्टं देवकृतं यदेनस्तस्मात्त्वमस्माञ्जातवेदो मुमुग्धि स्वाहा ॥ (जातवेदस इदं॰) ॥५॥ ॐ यद्वाचा यन्मनसा बाहुभ्यामरुभ्यामष्ठीवद्भ्या शिश्नैर्यदर्दृतं चकमा वयम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु चकृम यानि दुष्कृता स्वाहा ॥ (अग्नये गार्हपत्यायेदं॰) ॥६॥ ॐ येन त्रितो अर्णवानिर्बभूव येन सूर्य तमसो निर्मुमोच । येनेन्द्रो विश्वा अर्जहादरातीस्तेनाहं ज्योतिषा ज्योतिरानशान आक्षि स्वाहा ॥ (ज्योतिष इदं॰) ॥७॥ ॐ यत्कुत्सीमप्रतीत्तं मयेह येन यमस्य निधिना चरामि । एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रतितत्तं दधामि स्वाहा ॥ (अग्नय इदं॰) ॥८॥ ॐ यन्मयि माता गर्भे सत्येनश्चकार यत्पिता । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु । मामनेनसँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं॰) ॥९॥ यदा पिपेष मातरं पितरं पुत्रः प्रमुदितो धयन् । अहिँ सितौ पितरौ मया तत्तदग्ने अनृणो भवामि स्वाहा ॥ (अग्नय इदं॰) ॥१०॥ ॐ यदन्तरिक्षं पृथिवीमुत यां यन्मातरं पितरं वा जिहिँसिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं॰) ॥११॥ ॐ यदाशसा निशसा यत्पराशसा यदेनश्चकमा नूतनं यत्पुराणम् । अग्निर्मा॰ नेनसँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं॰) ॥१२॥ ॐ अतिक्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नाऽपि दुष्कृतस्तमारोहामि सुकृतान्नु लोकँ स्वाहा ॥ (अग्नय इदं॰) ॥१३॥ ॐ त्रिते देवा अमृजतैतदेनस्थित एतन्मनुष्येषु मामृजे । ततो मा यदि किञ्चिदानशेऽग्निर्मा तस्मादेमसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं॰) ॥१४॥ ॐ दिवि जाता अप्सु जाता या जाता ओषधीभ्यः । अथो या अघ्निजा आपस्ता नः शुन्धन्तु शुन्धनीः स्वाहा ॥ (अद्भ्यः शुन्धनीभ्य इदं॰) ॥१५॥ ॐ यदापो नक्तं दुरितं चराम यद्वा दिवा नूतनं यत्पुराणम् । हिरण्यवर्णास्तत उत्पुनीत न स्वाहा ॥ (अद्भ्यो हिरण्यवर्णाभ्य इदं॰) ॥१६॥ ॐ इमं मे वरुण श्रुधी हव॑मद्या च मृडय । त्वामवस्युराचके स्वाहा ॥ (वरुणायेदं॰) ॥१७॥ ॐ तत्वा यामि॰ आयुः प्रमोषीः स्वाहा ॥ (वरुणायेदं॰) ॥१८॥ ॐ त्वन्नो अग्ने वरुणस्य॰ प्रमुमुग्ध्यस्मत्स्वाहा ॥ (अग्नीवरुणाभ्यामिदं॰) ॥१९॥ ॐ स त्वन्नो अग्नेऽवमोभवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणँ रराणो वीहि मृडीकँ सुहयो न पधे स्वाहा ॥ (अग्नीवरुणाभ्यामिदं॰) ॥२०॥ ॐ त्वमग्ने अयास्य॰ धेहि भेषजँ स्वाहा ॥ (अयसेऽग्नय इदं॰) ॥२१॥ ॐ यददीव्यं नृणमहं बभूवाऽदित्सन्यासनगर जनेभ्यः । अग्निर्मा तस्मादिन्द्रश्च संविदानौ प्रमुञ्चताँ स्वाहा ॥ (अग्नय इन्द्रायेदं॰) ॥२२॥ ॐ यद्धस्ताभ्यां चकर किल्बिषाण्यक्षाणां वग्नुमुपजिनमानः । उग्रंपश्या च राष्ट्रभृच्च तान्यप्सरसाव दत्तामृणानि स्वाहा ॥ (उग्रंपश्यायै राष्ट्रभृतेऽप्सरोभ्यामिदं॰) ॥२३॥ ॐ उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तम दत्तमेतत् । नेन्न ऋणाऽनृणव इसमानो यमस्य लोके अधिरज्जुराय स्वाहा ॥ (उग्रंपश्यायै राष्ट्रभृते यमायेदं॰) ॥२४॥ ॐ अवते हेडो॰ कृतानि स्वाहा ॥ (वरुणायेदं॰) ॥२५॥ ॐ उदुत्तमं वरुणपाश॰ अदितये स्याम स्वाहा ॥ (वरुणायेदं॰) ॥२६॥ ॐ इमम्मे वरुण॰ राचके स्वाहा ॥ (वरुणायेदं॰) ॥२७॥ ॐ तत्त्वा यामि॰ प्रमोषीः स्वाहा ॥ (वरुणायेदं॰) ॥२८॥ ॐ त्वन्नो अग्ने॰ प्रमुमुग्ध्यस्मत्स्वाहा ॥ (अग्नीवरुणाभ्यामिदं॰) ॥२९॥ ॐ स त्वन्नो॰ एधि स्वाहा ॥ (अग्नीवरुणाभ्यामिदं॰) ॥३०॥ ॐ सङ्कुसुको विकुसुको निर्ऋथो यश्च निस्स्वनः । ते येऽस्मद्यश्ममागसो दूराइदूरमचीचतँ स्वाहा ॥ (सङ्कसुकाय विकुसुकाय निर्ऋथाय निस्स्वनायेदं॰) ॥३१॥ ॐ निर्यक्ष्ममचीचते कृत्यां निक्रतिञ्च । तेन यो १ स्मत्समृच्छातै तमस्मै प्रसुवामसि स्वाहा ॥ (कृत्यायै निर्ऋतय इदं॰) ॥३२॥ ॐ दुश्शँसानुशँसाभ्यां घणेनाऽनुघणेन च । तेनाऽन्यो१स्मत्समृच्छातै तमस्मै प्रसुवामसि स्वाहा ॥ (दुश्शँसायाऽनुशँसाय घणायाऽनुघणायेदं॰)॥३३॥ ॐ संवर्चसा पयसा सन्तनूभिरगन्माहि मनसा सँ शिवेन । त्वष्टा नो अत्र विदधातु रायोऽनुमार्ष्टु तन्वो१ यद्विलिष्टँ स्वाहा ॥ (त्वष्ट्र इदं॰) ॥३४॥ ॐ आयुष्टे विश्वतो॰ सुवामिते स्वाहा ॥ (आयुर्देऽग्नय॰) ॥३५॥ ॐ आयुर्दा अग्ने॰ रक्षतादिमँ स्वाहा ॥ (आयुर्देऽग्नय इदं॰) ॥३६॥ ॐ इममग्न॰ जरैदष्टियथासत्स्वाहा ॥ (अग्नये वरुणायाऽदितये विश्वेभ्यो देवेभ्य इदं॰) ॥३७॥ ॐ अग्न आयूँषि॰ दुच्छुनाँ स्वाहा ॥ (अग्नये पवमानायेदं॰) ॥३८॥ ॐ अग्ने पवस्व॰ मयि पोषँ स्वाहा ॥ (अग्नये पवमानायेदं॰) ॥३९॥ ॐ अग्निर्ऋषिः॰ महागयँ स्वाहा ॥ (अग्नये पवमानायेदं॰) ॥४०॥ ॐ अग्ने जातान्प्रणुदा नः सपत्नान्प्रत्यजाताजातवेदो नुदस्व । अस्मे दीदिहि सुमना अहेळन्छर्मन्ते स्याम त्रिवरूथ उद्भौ स्वाहा ॥ (अग्नये जातवेदस इदं॰) ॥४१॥ ॐ सहसा जातान्प्रणुदा नः सपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयँ स्याम प्रणुदा नस्सपत्नान्त्स्वाहा ॥ (अग्नये जातवेदस इदं॰) ॥४२॥ ॐ अग्ने यो नोऽभितो जनो वृको वारो जिघाँ सति । ताँ स्त्वं वृत्रहनहि वस्वस्मभ्यमाभर स्वाहा ॥ (अग्नये वृत्रघ्न इदं॰) ॥४३॥ ॐ अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः । तं वयँ समिधं कृत्वा तुभ्यमग्नेऽपिदध्मसि स्वाहा ॥ (अग्नय इदं॰) ॥४४॥ ॐ यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापँ समूहताँ स्वाहा ॥ (उषसे निम्रुच इदं॰) ॥४५॥ ॐ यो नस्सपनो यो रणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किञ्चन स्वाहा ॥ (देवेभ्य इदं॰) ॥४६॥ ॐ यो मां द्वेष्टि जातवेदो यं चाऽहं द्वेष्मि यश्च माम् । सर्वाँ स्तानग्ने सन्दह याँ श्चाऽहं द्वेष्मि ये च माँ स्वाहा ॥ (जातवेदसेऽग्नय इदं॰) ॥४७॥ ॐ यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः । निन्दाद्यो अस्मान्दिप्साच्च सर्वाँ स्तान्मष्मषा कुरु स्वाहा ॥ (अग्नय इदं॰) ॥४८॥ ॐ सँशितं मे ब्रह्म सँशितं वीर्यं१बलम् । सँ शितं क्षत्रं मे जिष्णु यस्याऽहमास्मि पुरोहितः स्वाहा ॥ (ब्रह्मण इदं॰) ॥४९॥ ॐ उदेषां बाहू अतिरमुद्वर्चो अथो बलम् । क्षिणोमि ब्रह्मणा मित्रा नुन्नयामि स्वाँ अहँ स्वाहा ॥ (ब्रह्मण इदं॰) ॥५०॥ पुनर्मनः पुनरायुर्म आगात्पुनश्चक्षुः पुनः A श्रोत्र म आगात्पुनः प्राणः पुनराकृतं म आगात्पुनश्चित्तं पुनराधीतं म आगात् । वैश्वानरो मेऽदधस्तनूपा अब बाधतां दुरितानि विश्वा स्वाहा ॥ (अग्नये वैश्वानरायेदं॰) ॥५१॥ ॐ सिँ हे व्याघ्र उत या पदाकौ । त्विषिरग्नौ ब्राह्मणे सूर्ये या ॥ इन्द्र या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना स्वाहा ॥ (इन्द्राण्या इदं॰) ॥५२॥ ॐ या राजन्ये दुन्दुभावायतायाम् । अश्वस्य क्रन्द्ये पुरुषस्य मायौ ॥ इन्द्र या॰ । सा न आग॰ दाना स्वाहा ॥ (इन्द्राण्या इदं॰) ॥५३॥ ॐ या हस्तिनि द्वीपिनि या हिरण्ये ॥ त्विषिरश्वेषु पुरुषेषु गोषु ॥ इन्द्रं॰ संविदाना स्वाहा ॥ (इन्द्राण्या इदं॰) ॥५४॥ ॐ रथे अक्षेषु वृषभस्य वाजे । वाते पर्जन्ये वरुणस्य शुष्मे ॥ इन्द्रं॰ संविदाना स्वाहा ॥ (इन्द्राण्या इदं॰) ॥५५॥ ॐ अग्नेऽभ्यावर्तिन्नभि न आवर्त स्वायुषा वर्चसा सन्या मेधया प्रजया धनेन स्वाहा ॥ (अभ्यावर्तिनेऽग्नय इदं॰) ॥५६॥ ॐ अग्ने अङ्गिरः शतन्ते सन्त्वावृतः सहस्रं त उपावृतः । तासां पोषस्य पोषण पुनर्नो नष्टमाकृधि पुनर्नो रयिमाकृधि स्वाहा ॥ (अभ्यावर्तिनेऽग्नय इदं॰) ॥५७॥ ॐ पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः स्वाहा ॥ (अभ्यावर्तिनेऽग्नय इदं॰) ॥५८॥ ॐ सहरय्या निवर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस्परि स्वाहा ॥ (अभ्यावर्तिनेग्नय इदं॰) ॥५९॥ [[TODO: परिष्कार्यम्]]

ततश्चतस्रो व्याहृतीर्हुत्वा समित्पाणिर्यजमानायतनेऽवस्थाय -

वैश्वानराय प्रतिवेद यामो यदी नृणँ सङ्गरो देवतासु । स एतान्पाशान्प्रमुचन्प्रवेद स नो मुञ्चातु दुरितादवद्यात् ॥ वैश्वानरः पवयान्नः पवित्रैर्यत्सङ्गरमभिधावाम्याशाम् । अना जानन्मनसा याचमानो यदत्रैनो अवतत्सुवामि ॥ अमी ये सुभगे दिवि विचूतो नाम तारके । प्रेहामृतस्य यच्छतामेतद्वद्धकमोचनम् ॥ विजिहीर्ष्व लोकान्कृधि बन्धान्मुञ्चासि बद्धकम् । योनेरिव प्रच्युतो गर्भः सर्वान्पथो अनुष्व ॥ स प्रजानन्प्रतिगृभ्णीत विद्वान्प्रजापतिः प्रथमजा ऋतस्य । अस्माभिर्दत्तं जरसः परस्तादछिन्नं तन्तुमनुसञ्चरेम ॥ ततन्तन्तुमन्वेके अनुसञ्चरन्ति येषान्दत्तं पित्र्यमायनवत् । अबन्ध्येके ददतः प्रयच्छादातुश्चेच्छक्नवाँसः स्वर्ग एषाम् ॥ आरभेथा मनुसँरभेथा समानं पन्थामवथो घृतेन । यद्वी पूर्त परिविष्टं यद्ग्नौ तस्मै गोत्रायेह जायापती सभेथाम् ॥ यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिँसिम। अग्निर्मा तस्मादेनसो गार्हपत्य उन्नो नेषदुरिता यानि चकृम ॥ भूमिर्माताऽदितिनों जनित्रं भ्रातान्तरिक्षमभिशस्त एनः । द्यौर्नः पिता पितृयाच्छम्भवासि जामि मित्वा मा विवित्सि लोकात्॥ यत्र सुहादः सुकृतो मदन्ते विहाय रोगं तन्व१ँ स्वायाम् । अश्लोणार्केर ताः स्वर्गे तत्रं पश्येम पितञ्च पुत्रम् ॥ यदन्नमम्यते न देवा दास्यन्नदास्यन्नुत वा करिष्यन् । यद्देवानाञ्चक्षुष्यागो अस्ति यदेव किञ्च प्रतिजग्राहमग्निर्मातस्मादऋणं कृणोतु ॥ यदन्नमद्मि बहुधा विरूपं वासो हिरण्यमुत गामजामविम् । यद्देवानाञ्चक्षुष्यागो अस्ति यदेव किञ्च प्रतिजग्राहमग्निर्मातस्मादनृणं कृणोतु [[TODO: परिष्कार्यम्]]

इति द्वादशर्चेन सूक्तेनोपस्थाय उपविश्य -

न्मया मनसा वाचा कृतमेनः कदाचन । सर्वस्मात्तस्मान्मेळितो मोग्धि त्वँ हि वेत्थं यथातथँ स्वाहा ॥ [[TODO: परिष्कार्यम्]]

(अग्नये वैश्वानरायेदं॰) ॥ ततस्विष्टकृत्प्रभृति उत्तरपरिषेकात्प्राक्कृत्वाऽग्रेणाऽग्निमश्वत्थपर्णेषु हुतशेषं निदधाति - ‘ॐ तत्स॑वि॒तुर्वरे॑ण्यं॒॰’ इति ॥ उत्तरपरिषेकादि होमशेषं समापयेत् ॥ ॥ इति कूष्माण्डहोमः ॥ अशक्तौ - अपूर्वविधिना आज्यं संस्कृत्य कूष्माण्डहोमोपस्थानवरदानानि कुर्यात् ॥

चतुर्थीदिनकृत्यम्

॥ अथ चतुर्थीदिनकृत्यम् ॥ ( बो. गृ. सू. १. ६ )

अथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा पक्वमोदनं पायसं वा याचति । तमभ्युक्ष्याग्नावधिश्रयति । आज्यं निर्वपति । अथाज्यमधिश्रयति । उभयं पग्नि कृत्वा मेक्षणं स्रुवं च सम्मार्ष्टि । अथैतं चरुं श्रपयित्वाऽभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति । परिधानप्रभृत्यग्निमुखात्कृत्वा पक्वाज्जुहोति । स एवमेव सर्वेषां स्थालीपाकानां चरुकल्पः । ‘यस्त्वा हृदा’ इति पुरोनुवाक्यामनूच्य ‘यस्मै त्वं’ इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति -

अग्ने प्रायश्चित्ते॰ कृणोमि स्वाहा । वायो प्रायश्चित्ते॰ । आदित्य प्रायश्चित्ते॰ । प्रजापते प्रायश्चित्ते॰ ।

पक्वादेव स्विष्टवतीभ्यां सौविष्टकृतं जुहोति । लाजैरितरत्र । (“यत्रैकाम्नाता स्यात्तां द्विरभ्यावर्तयेत् तथा लाजेष्विति ‘तत्सवितुर्वरेण्यम्’ इत्यनुदुत्याऽऽम्नातया जुहोति" पुस्तकान्तरे अधिकः पाठः)

हव्यवाहं॰ आहुवेमों३ स्विष्टमग्ने॰ आयुः स्वाहा

इति । जयप्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाज्यशेषेण हिरण्यमन्तर्धाय मूर्ध्निं संस्रावं जुहोति -

भूः स्वाहा, भुवः॰, सुवः॰, भूर्भुवः सुवः॰

इति । अथैनां प्रदक्षिणमग्निं पर्याणयति - ‘अर्यम्णो अग्निं देवराश्च’ इति ॥

(बो. गृ. सू. १. ५)

चतुर्थ्यां निशायां हुते पक्वहोमे व्रतं विसृज्य दण्डमुत्थापयति - ‘ऊर्जः॰ मदेम’ इति । अथैनं वध्वै प्रयच्छति - ‘प्रजया त्वा॰’ इति । तं वधूः प्रतिगृह्याति - ‘प्रजावती भूयासम्’ इति । अथैनं वराय प्रयच्छति - ‘प्रजया त्वा पशुभिः॰’ इति । तं वरः प्रतिगृह्णाति - ‘प्रजावान्पशुमान्भूयासम्’ इति । अथैनं स्थूणादेशे निधायान्तिकन प्रतिपद्यते । प्रसिद्धमुपसंवेशनम् । श्वोभूते दण्डमादाय पुण्याहं वाचयित्वाऽप्सु विसर्जयति ॥ अथास्तमित आदित्येऽन्योन्यमलङ्कृत्योपरिशय्यां शयाते ॥ अथ वधूमभिमन्त्रयते - ‘सुमङ्गलीरियं॰ विपरेतन’ इति ॥ अथैनां सर्वसुरभिगन्धया मालया युनक्ति -

सन्नौ मनः संहृदयानि नौ सन्नाऽभिः सं तनु त्वचः ।
सं त्वा कामस्य योक्त्रेण युञ्जत्यविमोचनाय

इति ॥

(बो. गृ. सू. १. ६ )

अथ श्रीमन्तमगारं सम्मृष्टोपलिप्तं गन्धवन्तं पुष्पवन्तं धूपवन्तं दीपवन्तं तल्पवन्तं साधिवासं दिक्षु सर्पिस्सूत्रेन्धनप्रद्योतितमुदकुम्भादर्शोच्छिरसं प्रपाद्य तस्मिन्नेनां संवेश्य तस्या अन्तिके जपति - ‘उदीर्ष्वातो॰ विद्धि’ इति । अथैनामुपसंवेशयति - ‘प्रजापतिः स्त्रियां यशः’ इत्येतया । अथास्यास्स्तोकोतिं विवृणोति - ‘प्रजायै त्वा’ इति । सा यद्यश्रु कुर्यात्तामनुमन्त्रयते - ‘जीवां॰ परिष्वजे’ इति ॥

प्रयोगः

अथ प्रयोगः ॥ अथ चतुर्थ्यां पक्वहोमादि ॥ एवं त्रिरात्रमग्निपरिचर्याक्षारलवणाशनब्रह्मचर्यादि व्रतं चरित्वा चतुर्थ्यां सायमौपासनं हुत्वा रात्रेरपरभागे1 सपत्नीको वरो हस्तपादं प्रक्षाल्यासने प्राङ्मुख उपविश्याचम्य देवयजनोल्लेखनादि तमेव विवाहाग्निं प्रतिष्ठाप्य देशकालौ संकीर्त्य

श्रीपरमेश्वरप्रीत्यर्थमनया नवोढया वध्वा सह पक्वहोमं करिष्ये ॥

पक्वहोमः कर्म ॥ आघारवत्तंत्रम् ॥ पंचदश दारुरिध्मः ॥ अग्नीषोमावाज्यभागौ ॥ जातवेदा नामाग्निः ॥ पक्वमोदनं (पायसं वा) हविः ॥ जातवेदोऽग्निर्देवता ॥ अग्निः स्विष्टकृत्,

इत्यादि संकल्प्यान्वाधायाप्रणीताभ्यः कृत्वा पक्वमोदनं पायसं वा निर्वपति ॥

दे॒वस्य॑ त्वा॰ हस्ता॑भ्याम॒ग्नये॑ जा॒तवे॑दसे॒ जुष्टं॒ निर्व॑पामि

इति त्रिर्यजुषा सकृत्तूष्णीं निरुप्य

दे॒वस्य॑ त्वा॰ हस्ता॑भ्याम॒ग्नये॑ जा॒तवे॑दसे॒ वो॒ जुष्टं॒ प्रोक्षा॑मि

इति सकृन्मंत्रेण द्विस्तूष्णीं प्रोक्ष्याज्यसंस्काराद्यग्निमुखांतं कृत्वा पक्वाज्जुहोति -

ॐ यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि ॥ जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्यों ३ यस्मै त्वँ सुकृते जातवेद उ लोकमग्ने कृणवः स्योनम् ॥ अश्विनँ स पुत्रिणं वीरवंतं गोमंतँ रयिं नशते स्वस्ति स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (जातवेदसेग्नय इदं॰) ॥ उपरिष्टात्स्रुवाहुतिं हुत्वा स्विष्टकृतमवदायांतःपरिधौ निधायाज्याहुतीरुपजुहोति -

ॐ अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये यास्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यैतां कृणोमि स्वाहा ॥ (अग्नये प्रायश्चित्तय इदं॰) ॥ ॐ वायो प्रायश्चित्ते त्वं देवानां॰ कृणोमि स्वाहा ॥ (वायवे प्रायश्चित्तय इदं॰) ॥ ॐ आदित्य प्रायश्चित्ते त्वं देवानां॰ कृणोमि स्वाहा ॥ (आदित्याय प्रायश्चित्तय इदं॰) ॥ ॐ प्रजापते प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये यास्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यैतां कृणोमि स्वाहा ॥ (प्रजापतये प्रायश्चित्तय इदं॰) ॥ [[TODO: परिष्कार्यम्]]

व्याहृतीश्च हुत्वा पुरस्तात्स्रुवाहुतिं हुत्वा स्विष्टकृतमुत्तरार्धपूर्वार्धे जुहोति -

ॐ ह॒व्य॒वाह॑मभि॰ माहु॑वेमों ३ स्वि॑ष्टमग्ने॰ आयुः॒ स्वाहा॑

इति ॥ (अग्नये स्विष्टकृत इदं॰) ॥ उपरिष्टात्स्रुवाहुतिं हुत्वा मेक्षणमग्नौ प्रहृत्य संक्षाळननिनयनादि प्रागुत्तरपरिषेकात्कृत्वा वधूमूर्ध्नि हिरण्यमंतर्धायाज्यशेषेण सँस्रावं जुहोति -

ॐ भूः स्वाहा ॥ (अग्नय इदं॰) ॥ भुवः स्वाहा ॥ (वायव इदं॰) ॥ सुवः स्वाहा ॥ (सूर्यायेदं॰) ॥ भूर्भुवः सुवः स्वाहा ॥ (प्रजापतय इदं॰) ॥ ॐ ओँ स्वाहा2 ॥ (ब्रह्मण इदं॰) ॥ [[TODO: परिष्कार्यम्]]

अथैनां प्रदक्षिणमग्निं पर्याणयति -

अ॒र्य॒म्णो अ॒ग्निं परि॑यंतु क्षि॒प्रं प्रती॑क्षंताँ॒ श्वश्रुवो॑ दे॒वरा॑श्च

इति ॥ अथोत्तरपरिषेकादि होमशेषं समापयेत् ॥ ॥ अथात्र व्रतविसर्जनं कुर्यात् ॥

प्राणानायम्य देशकालौ संकीर्त्यानया नवोढया वध्वा सहाचरितविवाहव्रतविसर्जनं करिष्ये,

इति संकल्प्याग्निं परिषिच्य

ॐ अग्ने व्रतपत उपयमनं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा ॥ वायो व्रतपते॰ ॥ आदित्य व्रतपते॰ ॥ व्रतानां व्रतपत उपयमनं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा [[TODO: परिष्कार्यम्]]

इति चतस्रो घृतान्वक्ताः समिधोऽभ्याधाय पुनः परिषिंचेत् ॥ केवलं मत्रान्वा जपेत् ॥ अथैनं शय्यांतर्हितमौदुंबरं दंडमुत्थापयति -

ऊर्जः पृथिव्या अध्युत्थितोऽसि ॥ वनस्पते शतवल्शो विरोह ॥ त्वया वयमिषमूर्ज मदतः ॥ रायस्पोषण समिषा मंदेम [[TODO: परिष्कार्यम्]]

इति ॥ अथैनं वध्वै प्रयच्छति -

प्र॒जया॑ त्वा॒ सँसृ॑जामि॒ मास॑रेण सु॒रामिव॑

इति ॥ तं वधूः प्रतिगृह्णाति -“प्र॒जाव॑ती भूयासम्” इति ॥ अथैनं वराय प्रयच्छति -

प्र॒जया॑ त्वा प॒शुभिः॒ सँसृ॑जामि॒ मास॑रेण सु॒रामिव॑

इति ॥ तं वरः प्रतिगृह्णाति-“प्र॒जावा॑न्पशु॒मान् भू॑यासम्” इति ॥ अथैनं स्थूणादेशे सुरक्षितं निदध्यात् ॥ ॥ अथोपसंवेशनम् ॥ चतुर्थ्यां रात्रौ व्रतविसर्जनांते ब्राह्मणसुवासिनीर्गंधादिभिः सम्पूज्य फलहिरण्याद्युपायनानि दत्वा ताम्बूलचर्वणयोग्यतासिध्यर्थं

तांबूलं श्रीकरं भद्रं ब्रह्मविष्णुशिवात्मकम् ॥
तस्मादस्य प्रदानेन अतः शान्तिं प्रयच्छ मे

इति ताम्बूलानि च दत्वा तेभ्यश्चाशिषो गृहीत्वाथ वरः सम्मृष्टोपलिप्तं गंधपुष्पधूपादिभिः सुवासितं तल्पवंतं साधिवासं वृतदीपदीपितमुदकुम्भादर्शोच्छिरसं श्रीमंतमगारं वध्वा सह प्रविश्य तस्मिन्नेनां वधूं शय्यायां संवेश्य तदंतिके स्वयमुपविश्य जपति -

उदीर्वातो विश्रावसो नमसेडामहे त्या ॥ अन्यामिच्छ प्रफर्व्यँसं जायां पत्या सृज ॥ उदीर्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीट्टे ॥ अन्यामिच्छ पितृषदं व्यक्ताँस ते भागो जनुषा तस्य विद्धि [[TODO: परिष्कार्यम्]]

इति ॥ अथास्यास्तोकोतिं (योनिं) विवृणोति - “प्र॒जायै॑ त्वा” इति ॥ अथैनामुपसंवेशयति -

प्रजापतिः स्त्रियां यशः ॥ मुष्कयोरदधात्सपम् ॥ कामस्य तृप्तिमानंदम् ॥ तस्याग्ने भाजयेह मा [[TODO: परिष्कार्यम्]]

इति ॥ सा यद्यश्रु कुर्यात्तामनुमन्त्रयते -

जीवाँ रुदन्ति विमयंते अध्वरे दीर्घामनुप्रसितिं दीधियुर्नरः । वामं पितृभ्यो य इदँ समेरिरे मयः पतिभ्यो जनयः परिष्वजे [[TODO: परिष्कार्यम्]]

इति ॥ ततः पुरन्ध्र्यो मंगलार्तिक्यं कुर्युः ॥ शिष्टास्त्विदानीमुपसंवेशनं केवलमन्त्रजपेनैव निर्वतयंति ॥ तथा प्रयोगरत्नेऽपि –

जपेदुदीर्ष्वात इति प्रजापतिः स्त्रियां च जीवानिति च क्रमादृचः

इति जपमात्रं विहितम् ॥ ॥ इति चतुर्थीविधिः ॥

उदुम्बरपूजा

॥ अथ उदुम्बरपूजा ॥ ( बो. गृ. सू. १. ८ )

अथाभ्यां पञ्चमेऽहनि नापितं कर्म कुर्वन्ति । (एवं पत्नीकेशवर्जं) नापिताय पयोदनं दत्त्वा ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रैकमुदुम्बरमूलं पश्यन्ति तं प्रदक्षिणं परिसमूह्य प्रदक्षिणं गन्धैरनुलिम्पन्जपति – ‘यथा त्वं वनस्पते॰ रुहेम’ इति । सुमनोभिः प्रच्छादयति – ‘यथा त्वं वनस्पते॰ भवानि’ इति । अत्रैव त्रिवृताऽन्नेन बलिमुपहरति । मन्त्रं चोदाहरन्ति – ‘ऊर्जस्वान्॰ वृत्स्व’ इति । अन्नं संस्कृत्य ब्राह्मणान्संपूज्याशिषो वाचयित्वा जानुदघ्नमुदकमवतीर्य प्राचीनदशेनाहतेन वाससा मत्स्यान्गृह्णते ब्रह्मचारिणं पृच्छतः -‘ब्रह्मचारिन् किं पश्यसि’ इति । स पृष्टः प्रतिब्रूयात् - ‘पुत्रांश्च पशूंश्च’ इति । अथैनान्मत्स्यानुदुम्बरमूले बकानां बलिमुपहरति — ‘दीर्घायुत्वाय वर्चसे’ इति । अत्रैव निर्माल्यानि परिभुक्तानि वासांसि प्रतिसरांश्च प्रतिमुच्योदुम्बरशाखायां संसृज्याथावगाह्यान्योन्यस्य पृष्ठे धावयित्वोदकान्तं प्रतियौति - ‘प्रतियुतो॰ पाशः’ इति । अन्योन्यमलङ्कृत्य रक्तानि वासांसि परिधायाहतेन वाससावैति । यानेन पद्भ्यां वा गृहं गत्वा प्रक्षाळितपाणिपादावप आचम्य वाग्यतौ शयनमारभेते ॥

प्रयोगः

अथ प्रयोगः ॥ सपत्नीको वरः पञ्चमेऽह्नि प्रातरौपासनं हुत्वा (केशश्मश्रुलोमनखानि वापयित्वा स्नात्वाऽलङ्कृत्य) औदुम्बरं दण्डं गन्धपुष्पाक्षतादिकञ्चादाय ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्योदुम्बरतरुमूलं गत्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

विवाहाङ्गतया विहितमुदुम्बरपूजनादि करिष्ये,

इति सङ्कल्प्य गणपतिं सम्पूज्योदुम्बरतरुमीशान्यमारभ्य प्रदक्षिणं परिसमूह्यासनाद्युपचारैरभ्यर्च्य प्रदक्षिणं गंधैरनुलिंपति -

यथा त्वं वनस्पत ऊर्जाभ्युत्थितः शतवल्शो विरोहस्येवमहं पुत्रैश्च पशुभिश्च सहस्रवल्शा विवयँ रुहेम [[TODO: परिष्कार्यम्]]

इति ॥ सुमनोभिः प्रच्छादयति -

यथा त्वं वनस्पते फलवानस्येवमंह पुत्रैश्च पशुभिश्च फलवान् भवानि [[TODO: परिष्कार्यम्]]

इति ॥ त्रिवृतान्नेन बलिमुपहरति - (भक्ष्यं भोज्यं च पेयं चेत्येतत्समुदितं त्रिवृत)

ऊर्जस्वान्पयस्वान्पयसा पिन्वमानोऽस्मान्वनस्पते पयसाभ्याववृत्स्व [[TODO: परिष्कार्यम्]]

इति ॥ अथ ब्राह्मणान्संपूज्य “उदुंबरः प्रीयताम्" इति पुण्याहं वाचयित्वा 3अथाचारादुदुम्बरमूलेऽष्टदलपद्मं विलिख्य तत्र हरिद्राकुंकुमोदकपूर्णं कलशं निधाय

कनकारुणमासुरं प्रपन्नं हयवक्त्रं मदनस्य साहचर्यम् ॥
द्विभुजं धृतपल्लवप्रसूनं भजतामिष्टदमर्चयेद्वसंतम्

इति कलशे वसन्तं ध्यात्वावाह्य -“वसन्ताय नमः” इत्यासनाद्युपचारैरभ्यर्च्य तत्कलशजलं बन्धुभिः सहान्योन्यं जायापती अभिषेकं कुरुतः3 ॥ अथोदुम्बरं प्रदक्षिणीकृत्य जलसमीपं गत्वा औदुंबरं दंडमप्सु प्रास्योभौ दम्पती जानुदघ्ने जले स्थित्वा प्राचीनदशेनाहतेन वाससा मत्स्यान्4 गृह्णीतः ॥

अथ ब्रह्मचारिणं पृच्छेताम् - “ब्रह्मचारिन् किं पश्यसि” इति ॥ अथैवं पृष्टो ब्रह्मचारी “पुत्राँश्च पशूँश्च पश्यामि” इति प्रतिबूयात् ॥ अथैतान्मस्थानुदुम्बरमूले बकानां बलिमुपहरति - “दी॒र्घा॒यु॒त्वाय॒ वर्च॑से” इति ॥ अत्रैव निर्माल्यानि परिभुक्तानि वासांसि प्रतिसरांश्च प्रतिमुच्यौदुम्बरशाखायां संसृज्य जलमवगाह्यान्योन्यस्य पृष्ठे धावयित्वा स्नात्वोदकांतं प्रतियौति -

प्रति॑युतो॒ वरु॑णस्य॒ पाशः॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑

इति ॥ अथाहतवाससी परिधायान्योन्यमलंकृत्य यानेन पद्भ्यां वा गृहं गत्वा हस्तपादं प्रक्षाल्याचम्य स्थालीपाकं कुर्यात् ॥ ॥ इत्युदुम्बरपूजा ॥


  1. “निशायाः पश्चिमे भागे पूर्वभागेऽथवा हुनेत् ।
    जायापती दिवोपोष्य कुर्यातां शेषहोमकम्”

    इति कारिकांतरे रात्रिपूर्वभागेऽपिपक्वहोमोऽभिहितः ॥ ↩︎

  2. “आज्यशेषेण जुहुयाद्व्याहृतिप्रणवैः क्रमात् ॥
    हिरण्यमंतर्धायैव मूर्ध्नि वध्वा अथोत्थितः”

    इति गृ॰ संग्रहे ॥ ↩︎

  3. इदं शौनकोक्तमिति प्र॰ मालायां ॥ ↩︎ ↩︎

  4. “गृहीतः पैष्टिकानत्र मत्स्यान् प्राग्दशवाससा” इति कुमारस्वामिकारिका ॥ ↩︎