४३ व्रतचर्या

॥ अथ व्रतचर्या ॥ (बो. ग. सू. १. ५)

अथ विवाहस्यारुन्धत्युपस्थानात्कृत्वा व्रतमुपैति -

अग्ने व्रतपत उपयमनं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपत उपयमनं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्

इति । उभौ जायापती व्रतचारिणौ ब्रह्मचारिणौ भवतोऽधश्शयाते । तयोः शय्यामन्तरेणोदुंबरदण्डो गन्धानुलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठत्यापक्वहोमात् ॥

(बो. गृ. सू. १. ७. १-२१)

ब्राह्मणेन ब्राह्मण्यामुत्पन्नः प्रागुपनयनाज्जात इत्यभिधीयते । उपनीतमात्रो व्रतानुचारी वेदानां किञ्चिदधीत्य ब्राह्मणः । एकां शाखामधीत्य श्रोत्रियः । अङ्गाध्याय्यनूचानः । कल्पाध्यायी ऋषिकल्पः । सूत्रप्रवचनाध्यायी भ्रूणः । चतुर्वेदादृषिः । अत ऊर्ध्वं देवः । अथ यदि कामयेत श्रोत्रियं जनयेयमित्याऽरुंधत्योपस्थानात्कृत्वा त्रिरात्रमक्षारलवणाशिनावधःशायिनौ ब्रह्मचारिणावासाते । अहतानां च वाससां परिधानं सायंप्रातश्चालङ्करणमिषुप्रतोदयोश्च धारणमग्निपरिचर्या च । चतुर्थ्यां पक्वहोम उपसंवेशनं च। अथ यदि कामयेतानूचानं जनयेयामिति द्वादशरात्रमेतद्व्रतं चरेत् । व्रतान्ते पक्वहोम उपसंवेशनं च । अथ यदि कामयते ऋषिकल्पं जनयेयमिति मासमेतद्व्रतं चरेत् । व्रतांते पक्वहोम उपसंवेशनं च । अथ यदि कामयेत भ्रूणं जनयेयमिति चतुरो मासानेतद्व्रतं चरेत् । व्रतांते पक्वहोम उपसंवेशनं च । अथ यदि कामयते ऋषिं जनयेयमिति षण्मासानेतद्व्रतं चरेत् । व्रतांते पक्वहोम उपसंवेशनं च । अथ यदि कामयेत देवं जनयेयामितिसंवत्सरमेतद्व्रतं चरेत् । व्रतांते पक्वहोम उपसंवेशनं च ॥

व्रतचर्याप्रयोगः

अथ व्रतचर्याप्रयोगः ॥

जघनेनाऽग्निमुपविश्य प्राणानायम्य देशकालौ सङ्कीर्त्याऽनया नवोढया वध्वा सह विवाहव्रतग्रहणं करिष्ये,

इति सङ्कल्प्याऽन्वारब्धायां पत्न्यामाग्निं परिषिच्याऽलङ्कृत्य चतस्रो यज्ञियवृक्षसमिधो घृतान्वक्ता अभ्यादधाति -

ॐ अग्ने व्रतपत उपयमनं व्रतं चरिष्यामि तच्छेकेयं तन्मे राध्यताँ स्वाहा ॥ (अग्नये व्रतपतय इदं॰) ॥ ॐ वायो व्रतपत उपयमनं॰ राध्यताँ स्वाहा ॥ (वायवे व्रतपतय इदं॰) ॥ ॐ आदित्य व्रतपत उपयमनं॰ राध्यताँ स्वाहा ॥ (आदित्याय व्रतपत इदं॰) ॥ ॐ व्रतानां व्रतपत उपयमनं॰ राध्यताँ स्वाहा ॥ (व्रतानां व्रतपतय इदं॰) [[TODO: परिष्कार्यम्]]

इत्यभ्याधाय पुनः परिषिश्चेत् ॥ केवलं मन्त्रान्1 वा जपेत् ॥ अथोभौ जायापती त्रिरात्रं व्रतं चरतः॥ (गृह्ये तु १. ७. ९)

अथ यदि कामयेत श्रोत्रियं जनयेयम्

इत्यादिना कामनाभेदेन त्रिरात्रं द्वादशरात्रं मासं चतुरो मासान्षण्मासान्संवत्सरं वा व्रतं चरेद्व्रतान्ते पक्वहोम उपसंवेशनञ्चेत्युक्तम् ॥ तदानीमक्षारलवणाशनमधश्शयनं ब्रह्मचर्यमहतानाञ्च वाससां परिधानं सायं प्रातश्च गन्धमाल्यादिभिरलङ्करणमिषुप्रतोदयोश्च धारणमग्निपरिचर्या चेति कर्तव्यानि भवन्ति ॥ स्नानमपि वर्जनीयमित्युक्तं गृ॰ सङ्ग्रहे -

तौ दम्पती स्नानहीनावक्षारलवणाशिनौ ।
अधश्शय्यौ ब्रह्मचर्ययुक्तौ स्यातां चतुर्दिनम्

इति ॥ अथ तयोश्शय्यामन्तरेण पुरुषमात्रमरात्निमात्रं वौदुम्बरं दण्डं वाससा सूत्रेण वा परिवेष्ट्य गन्धादिभिरभ्यर्च्य स्थापयेत्तं व्रतविसर्जनपर्यन्तं नोद्धरेत् ॥ ॥ इति व्रतचर्या ॥

औपासनारम्भः

अथौपासनारम्भः ॥

अग्निहोत्रहविषामन्यतमेन जुहुयात्

इति ॥ अग्निहोत्रहवींषि चोक्तानि प्रायश्चित्तचन्द्रिकायाम् -

पयो दधि यवागूश्च सर्पिरोदनतण्डुलः ।
सोमो मांसं तैलमापो दशैतान्यग्निहोत्रके

इति ॥ अथौपासनारम्भे कालनिर्णय उक्तः प्र॰ पारिजाते षट्त्रिंशन्मते -

त्रिधा विभक्ते निशिपूर्वभागे भवेद्विवाहो यदि तत्र कुर्यात् ।
औपासनं तत्परतो यदि स्याच्छ्वः सायमौपासनहोम इष्टः ॥
दिवा विवाहो यदि चेत्तदानीं विवाहहोमं दिवसे तदैव ।
कृत्वाऽबलाया निशि दर्शयित्वा ध्रुवर्क्षमौपासनमारभेत

इति ॥ एतेन बोधायनानां दिवा विवाहे तदानीं गृहप्रवेशान्तं कृत्वा सूर्यास्तकालेऽहोरात्रयोः सन्धिमनुमन्त्र्य रात्रौ नक्षत्रोदये ध्रुवमरुन्धतीञ्चोपस्थाय व्रताचरणपूर्वकमौपासनारम्भं कुर्यात् ॥ रात्रौ विवाहे त्रिधा विभक्तरात्रेः पूर्वभागेऽरुन्धत्युपस्थानान्तं कृत्वा व्रताचरणपूर्वकमौपासनारम्भसम्भवे तद्दिन एवौपासनमारभेत, तदसम्भवे परेद्यू रात्रौ व्रताचरणपूर्वकमौपासनारम्भं कुर्यादित्युक्तं भवति ॥ धर्मप्रवृत्तौ त्वग्निपरिचर्यामधिकृत्य-

रात्रिं त्रिभागां कुर्वीत द्वौ भागौ पूर्ववासरे ।
अपरस्मिंस्तृतीयस्स्याद्विवाहे सूतके ऋतौ

इति रात्रेर्द्वितीयभागोऽप्युक्तः ॥ लघ्वाश्वलायनस्मृतौ च -

नित्यहोमे तु कालस्स्याद्रात्रौ नाडीनवात्मकः ।
द्विगुणः स्याद्विवाहे तु प्रवदन्ति महर्षयः

इति रात्रावष्टादशघटीपर्यन्तमौपासनारम्भकालः प्रोक्तः इति ॥

प्रयोगः

अथ प्रयोगः ॥ रात्रावुक्तकाले वरस्सपत्नीको जघनेनाग्निं प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

श्रीपरमेश्वरप्रीत्यर्थं सत्यधिकारे यावज्जीवं सायंप्रातरौपासनहोमौ होष्यामि

इति सङ्कल्प्य गणपतिं सम्पूज्य

अग्निसूर्यप्रजापतयः प्रीयन्ताम्

इति पुण्याहं वाचयित्वा । अग्निं2 परिसमूह्य पर्युक्ष्य परिस्तीर्याज्यं संस्कृत्य स्रुक्स्रुवौ सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा दशहोतारं मनसाऽनुद्रुत्य जुहोति -

ॐ चित्तिः॒ स्रुक्॰ आस्मासु॑ नृ॒म्णं धा॒त्स्वाहा॑

इति ॥ (वाचस्पतये ब्रह्मण इदं॰) ॥ अथाऽऽज्यस्थाल्याः स्रुवेणोपहत्य कूष्माण्डैः –

यद्देवा देवहेळनम्, यददीव्यन्नृणमहं बभूव, आयुष्टे विश्वतो दधत्

इति त्रिभिरनुवाकैः प्रतिमन्त्रं स्रुवाहुतीर्तुत्वा “वैश्वानराय प्रतिवेदयामः" इत्यनुवाकेनोपस्थाय वरं दद्यात् ॥ ततः आह्निककाण्डोक्तप्रकारेण सायमौपासनं, प्रातः प्रातरौपासनञ्च जुहुयात् ॥ ॥ इत्यौपासनारम्भः ॥


  1. “वदेद्व्रतस्याऽचरणाय मन्त्रान् हुनेच्च तैर्वा समिधश्चतस्रः” इति प्र॰ चिन्तामणौ ॥ ↩︎

  2. दशहोत्रा कूष्माण्डैश्च हवनं श्रुतिसूत्रयोः सम्मतत्वाद्युक्तत्वाच्चात्रोल्लिखितम् ॥ तथा च सूत्रम् (बो. गृ. प. सू. २. १. ४६) ‘सायंप्रातर्दशहोतारं जुहुयात्’ ॥ (बो. ध. सू. ३. ५. १६) ‘विज्ञायते कर्मादिष्वेतैर्जुहुयात्’ इति । सायंप्रातरिति शब्देन सायंप्रातः क्रियमाणमौपासनमुपलक्ष्यते, तदारम्भे दशहोतारं जुहुयादित्यर्थः ॥ ↩︎