॥ अथ गृहप्रवेशविधिः॥ ( बो. गृ. सू. १. ५)
अनुनयन्त्येतमग्निम् । अथैनां पितुरङ्गादुद्वहति गुरोर्वा - ‘ये वध्वः॰ आगताः’ इति । अथैनां दक्षिणे हस्ते गृहीत्वा स्वरथमारोप्य स्वान् गृहानानयति - ‘पूषा त्वेतो॰ मावदासि’ इति । पन्थानमनुमन्त्रयते - ‘सुगं पन्थानं॰ वसु’ इति । ओषधिवनस्पतयो नद्यो वनान्यनुमन्त्रयते - ‘या ओषधयः॰ अँहसः’ इति । अथ जायामानीय स्वान् गृहान् प्रपादयति - ‘भद्रान् गृहान्॰ संविशानि’ इति । अथैनामानडुहे चर्मण्युपवेशयति - ‘इह गावः॰ निषीदतु’ इति । अत्राभ्याममात्यास्स्तोक्माण्यारोपयन्ते । अथ वाचं यच्छतः आनक्षत्राणामुदयात् ॥ अथाहोरात्रयोः सन्धिमनुमन्त्रयते - ‘नीललोहिते॰ बध्यताम्’ इति । अथोदितेषु नक्षत्रेषूपनिष्क्रम्य ध्रुवमरुन्धतीं च दर्शयति - ‘ध्रुवोऽसि॰ पृतन्यतः’ इति ध्रुवम् । ‘सप्त ऋषयः॰ अरुन्धती’ इत्यरुन्धतीम् ।
गृ॰ संग्रहे च -
अथासीनां वधूमङ्के पितृभ्रात्रादिकस्य तु ।
हस्ते गृहीत्वा निष्क्रामेद्ये वध्वश्चन्द्रमीरयन् ॥
अथ कश्चित्तमग्निं तु प्रत्यक्षं सन्तमाहितम् ।
आदाय वरवध्वोस्तु पृष्ठतोऽनुव्रजेत्सह ॥
अनेन विवाहदिन एव विवाहहोमानन्तरं स्वगृहं प्रविश्य व्रतचर्यादिकं सर्वं स्वगृहे कार्यमिति विहितं भवति ॥ शिष्टास्त्विदानीं क्रमप्राप्तं गृहप्रवेशं केवलमन्त्रपठनेन सम्पाद्य व्रतचर्यादि पञ्चमेऽह्नि स्थालीपाकपर्यन्तं प्रायः श्वशुरगृह एव कृत्वा स्मृत्यन्तरोक्तपञ्चमादिदिनेषु स्वगृहप्रवेशमाचरन्ति ॥
प्रयोगः
अथ प्रयोगः ॥
वरः प्राणानायम्य देशकालौ सङ्कीर्त्यानया नवोढया वध्वा सह गृहप्रवेशनं करिष्ये,
इति सङ्कल्प्य पित्राद्यङ्कस्थितां वधूं दक्षिणे हस्ते गृह्णन्नुद्वहति -
ये वध्वश्चन्द्रं वहतुं यक्ष्मायन्ति जनाँ अनु । पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः [[TODO: परिष्कार्यम्]]
इति ॥ अथैनां यानमारोप्य स्वान् गृहानानयति1 -
पूषा त्वेतो नयतु हस्तगृह्याश्विनौ त्वा प्रवहताँ रथेन । गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमावदासि" [[TODO: परिष्कार्यम्]]
इति ॥ पन्थानमनुमन्त्रयते -
सुगं पन्थानमारुक्षमरिष्टँ स्वस्ति वाहनम् । यस्मिन् वीरो नरिष्यत्यन्येषां विन्दते वसु [[TODO: परिष्कार्यम्]]
इति ॥ ओषधिवनस्पतिनदीवनान्यनुमन्त्रयते -
या ओषधयो या वनस्पतयो या नद्यो यानि धन्वानि ये वना । ते त्वा वधु प्रजावतीं प्र त्वे मुञ्चन्त्वँहसः [[TODO: परिष्कार्यम्]]
इति ॥ अथ जायां दक्षिणपादनिधापनपूर्वकं स्वगृहान् प्रवेशयति -
भद्रान् गृहान्सुमनसः प्रपद्येऽवीरघ्नी वीरवतस्सुवीरान् । इरां वहतो धृतमुक्षमाणास्तेष्वहँ सुमनाः संविशानि [[TODO: परिष्कार्यम्]]
इति ॥ अथैनां कल्याणीं2 वाचं वाचयति -
प्रजावती पशुमती रयिमती पुष्टिमती तेजस्विनी गृहमेधिनी यशस्विनी ब्रह्मवर्चस्विनी भूयासम् [[TODO: परिष्कार्यम्]]
इति ॥ अथागारस्य मध्ये लोहितमानडुहं चर्म प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन् वधूमुपवेशयति -
इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो रायस्पोषो निषीदतु [[TODO: परिष्कार्यम्]]
इति ॥ अत्रामात्याः (पित्रादयः) दम्पतीभ्यामङ्कुरार्पणकृतान् व्रीह्यङ्कुराण्यारोपयन्ते । ततस्तौ नक्षत्रोदयपर्यन्तं वाचं यच्छतः । अथाहोरात्रयोः सन्धिमनुमन्त्रयेत -
नी॒ल॒लो॒हि॒ते भ॑वतः॰ बध्यताम्
इति ॥ अथोदितेषु नक्षत्रेषु वाचं विसृज्य प्राचीमुदीचीं वा दिशमुपनिष्कम्य नक्षत्राणि ध्रुवमरुन्धतीं च वध्वा दर्शयन्नुपतिष्ठते -
उदायुषा3 स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अनु [[TODO: परिष्कार्यम्]]
इति नक्षत्राणि ।
ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवमसि ध्रुवतः स्थितः । त्वं नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यतः [[TODO: परिष्कार्यम्]]
इति ध्रुवम् ॥
सप्त ऋषयः प्रथमां कृत्तिकानामरुन्धतीं यद्ध्रुवताँह निन्युः । षट्कृत्तिकामुख्ययोगं वहन्तीयमस्माकमेधत्वष्टम्यरुन्धतीम् [[TODO: परिष्कार्यम्]]
इत्यरुन्धतीं चोपस्थाय व्रतं4 चरेत् ॥ ॥ इति गृहप्रवेशविधिः ॥
-
इदानीं गृहगमनपक्षे विवाहाग्निमप्यनयोः पश्चादव्यवधानेन कश्चिन्नयेत् । ↩︎
-
“गत्वा गृहान् प्रजेत्यादि कल्याणीं वाचयेद्वधूम्" इति गृ॰ संग्रहे ॥ ↩︎
-
“उदायुषेति ताराणां ध्रुवोसीति ध्रुवस्य च । उपस्थानमरुन्धत्याः सप्तर्षय इति क्रमात्” इति प्र॰रत्ने । ↩︎
-
प्रयोगरत्ने सायमौपासनं हुत्वा व्रतमुपेयादित्युक्तम् ॥ ↩︎