४१ विवाहहोमः

॥ अथ विवाहहोमः ॥ (बो. गृ. सू. १. ४ )

अथास्या उपोत्थाय दक्षिणेन हस्तेन दक्षिणमंसं प्रतिबाहुमन्ववहृत्य हृदयदेशमभिमृशति -

मम हृदये हृदयं ते अस्तु॰

इति । अथास्यै दक्षिणे कर्णे जपति - ‘मां ते मनः प्रविशतु॰’ इति (सप्तभिः)॥ अथास्यै दाक्षिणेन नीचा हस्तेन दक्षिणमुत्तानं हस्तं साङ्गुष्ठमभीव लोमानि गृह्णाति - ‘गृभ्णामि ते॰ देवाः’ इति । अथैनां प्रदक्षिणमग्निं पर्याणयति - ‘परि त्वाग्ने॰ भङ्गुरावतः’ इति ॥ अथ तथोपविश्यान्वारब्धायामुपयमनीर्जुहोति -

अग्ने शर्ध॰ पाशँ स्वाहा’

(इत्येकादशभिः) इति ॥ अथैनामुत्थाप्योत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयति - ‘आतिष्ठेमं॰ पृतनायतः’ इति । अथास्या अञ्जलावुपस्तीर्य तस्यास्सोदर्यो द्विर्लाजानावपति । तानभिघार्य जुहोति -

इयं नार्युप॰ शतँ स्वाहा ।

अथैनां प्रदक्षिणमग्निं पर्याणयति- ‘तुभ्यमग्ने॰ सह’ इति ॥ तथाऽऽस्थापयति तथा जुहोति । अथैनां पुनः प्रदक्षिणमग्निंपर्याणयति - ‘पुनः पत्नी॰ शतम्’ इति । तथैवाऽऽस्थापयति तथा जुहोति । अथैनां पुनरेवं पर्याणयति - ‘विश्वा उत॰ द्विषः’ इति । अथ तथोपविश्यान्वारब्धायां जयानभ्यातानान् राष्ट्रभृत इति हुत्वा अथामात्यहोमान्जुहोति ॥ अथ प्राजापत्यान् जुहोति - ‘प्रजापते॰’ इति ॥ अथ सौविष्टकृतं जुहोति - ‘यदस्य॰’ इति । अथ स्रुवेण परिधीननक्ति । अथ परिस्तरात्समुल्लिप्याज्यस्थाल्यां प्रस्तरवत् बर्हिरक्त्वा तृणं प्रच्छाद्याग्नावनुप्रहरति। अथ शम्या अपोह्य तथैव परिषिञ्चति । ‘अन्वमँस्थाः, प्रासावीः,’ इति मन्त्रान्तान्सन्नमयति । अथ प्रणीताभ्यो दिशो व्युन्नीय ब्रह्मणे वरं ददामीति गां ब्राह्मणेभ्यः ॥

(बो. गृ. शे. सू. ५. २. ६-९)

लाजमाज्यं स्रुवं चैव प्रणीताश्मानमेव च ।
सर्वमभ्यन्तरं कृत्वा ब्रह्मैवैको बहिर्भवेत् ॥
दक्षिणां दिशमाश्रित्य यमो मृत्युश्च तिष्ठति ।
दम्पत्यो रक्षणार्थाय ब्रह्मैवैको बहिर्भवेत् ॥
अङ्गुळ्यग्रैर्न होतव्यं न कृत्वाऽञ्जलिभेदनम् ॥
अञ्जलेर्वामभागेन लाजहोम इति स्मृतः ॥
आद्यं प्रदक्षिणं कुर्याद्ब्रह्मणा सह मानवः ।
प्रदक्षिणत्रयं पश्चाद्विना तमिति केचन ॥

प्रयोगः

अथ प्रयोगः ॥ वरः शुचौ समे देशे स्थण्डिलोल्लेखनादि कृत्वा काष्ठान्मथितं श्रोत्रियागारादाहृतं वाग्निं प्रतिष्ठाप्य तस्मिन्नात्मसमारोपितमग्निं “उपावरोह जातवेदः” इत्यवरोह्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

प्रतिगृहीतायामस्यां भार्यात्वसिद्धये गृह्याग्निसिद्धये च विवाहहोमं करिष्ये, विवाहहोमः कर्म, आघारवत्तन्त्रम्, पञ्चदश दारुरिध्मः, अग्नीषोमावाज्यभागौ, योजको नामाग्निः, अग्निर्देवता, लाजा हविः, अग्निः स्विष्टकृत्

इत्यादि सङ्कल्प्यान्वाधाय पात्रासादनकाले आज्यस्थालीं स्रुवं प्रणीतां प्रोक्षणीं शूर्पमिध्माबर्हिरिध्मप्रव्रश्चनानि स्फ्यं मेक्षणमश्मानं चेत्यासाद्य पवित्रकरणादि प्रणीतासादनान्त कृत्वाग्नेः पश्चाच्छूर्पे प्रागग्रे पवित्रे निधाय लाजान्निर्वपति -

दे॒वस्य॑ त्वा॰ हस्ता॑भ्याम॒ग्नये॒ जुष्टं॒ निर्व॑पामि

इति त्रिर्यजुषा सकृत्तूष्णीं निरुप्य

दे॒वस्य॑ त्वा॰ हस्ता॑भ्याम॒ग्नये॑ वो॒ जुष्टं॒ प्रोक्षा॑मि

इति सकृन्मन्त्रेण द्विस्तूष्णीं प्रोक्ष्याज्यनिर्वापादि परिधानान्तं कृत्वान्वारब्धायां वध्वां प्रदक्षिणमग्निं परिषिञ्चति - “अदितेऽनुमन्यस्व” इत्यादि ॥ अथाग्निमुखान्तं कृत्वोपोत्थायोत्थिताया वध्वा दक्षिणेंऽसे स्वदक्षिणबाहुं निधायाश्लिष्यन्निव दक्षिणेन हस्तेन तस्या हृदयमभिमृशति -

मम हृदये हृदयन्ते अस्तु मम चित्ते चित्तमस्तु ते । मम वाचमेकमनाः शृणु मामेवानुव्रता । सहचर्या मया भव [[TODO: परिष्कार्यम्]]

इति ॥ अप उपस्पृश्यास्या दक्षिणे कर्णे जपति -

मां ते मनः प्रविशतु मां चक्षुर्मामुते भगः । मयि सर्वाणि भूतानि मयि प्रज्ञानमस्तु ते ॥ मधुहे मध्वगाहे जिह्वा मे मधुवादिनी । मुखे मे सारघं मधु दत्सु संवननं कृतम् ॥ चाक्रवाकँ संवननं यन्नदीभ्य उदाहृतम् । यद्वित्तौ देवगन्धर्वौ तेन संवनिनौ स्वः ॥ स्पृशामि तेऽहमङ्गानि वायुरापश्च मा परः । मां चैव पश्य सूर्यं च मा चान्येषु मनः कृथाः ॥ सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥ सोमोऽददद्गन्धर्वाय गन्धर्वोऽदददग्नये । रयिं च पुत्राँ श्वादादग्निर्मह्यमथो इमाम् ॥ सरस्वति प्रेदमव सुभगे वाजिनीवति । तां त्वा विश्वस्य भूतस्य प्रगायामस्यग्रतः [[TODO: परिष्कार्यम्]]

इति ॥ अथास्या दक्षिणमुत्तानं हस्तं साङ्गुष्टं स्वस्य दक्षिणेन नीचा हस्तेन लोमाभिमुखं गृह्णाति -

गृभ्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथासः । भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः [[TODO: परिष्कार्यम्]]

इति ॥ अथैनां प्रदक्षिणमग्निं1 पर्याणयति -

परि त्वाग्ने पुरं वयं विप्रँ सहस्य धीमहि । धृषद्वर्णं दिवे दिवे भेत्तारं भङ्गुरावतः [[TODO: परिष्कार्यम्]]

इति ॥ अथ यथापूर्वमुपविश्यान्वारब्धायां पत्न्यामाज्यस्थाल्याः स्रुवेणोपहत्योपयमनीर्जुहोति-

ॐ अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । सञ्जास्पत्यँ सुयममा कृणुष्व शत्रूयतामभितिष्ठा महाँसि स्वाहा ॥ (अग्नये शर्धायेदं॰) ॥ १ ॥ ॐ सोमाय जनिविदे स्वाहा ॥ (सोमाय जनिविद इदं॰) ॥ २ ॥ ॐ गन्धर्वाय जनिविदे स्वाहा ॥ (गन्धर्वाय जनिविद इदं॰) ॥ ३ ॥ ॐ अग्नये जनिविदे स्वाहा ॥ (अग्नये जनिविद इदं॰) ॥ ४ ॥ ॐ कन्यला पितृभ्यो यती पतिलोकमव दीक्षामदास्थ स्वांहा ॥ (अग्नय इदं॰) ॥ ५ ॥ ॐ प्रेतो मुञ्चाति नामुतः सुबद्धाममुतस्करत् । यथेयमिन्द्र मीढ्वस्सुपुत्रा सुभगा सती स्वाहा ॥ (इन्द्राय मीढुष इदं॰) ॥ ६ ॥ ॐ इमान्त्वमिन्द्र मीढ्वस्सुपुत्राँ सुभगां कृणु । दशास्यां पुत्रानाधेहि पतिमेकादशं कृधि स्वाहा ॥ (इन्द्राय मीढुष इदं॰) ॥ ७ ॥ ॐ अग्निरैतु प्रथमो देवतानाँ सो ऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयँ राजा वरुणोऽनुमन्यतां यथेयँ स्त्रीपौत्रमघं न रोदात्स्वाहा ॥ (अग्नये वरुणाय राज्ञ इदं॰) ॥ ८ ॥ ॐ इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुध्यतामियँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं॰) ॥ ९ ॥ ॐ मा ते गृहे निशि घोष उत्थादन्यत्र त्वदुदत्यः संविशन्तु । मा त्वं विकेश्युर आवधिष्ठा जीव पत्नी पतिलोके विराज पश्यन्ती प्रजाँ सुमनस्यमानाँ स्वाहा ॥ (प्रजापतय इदं॰) ॥ १० ॥ ॐ अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाघम्। शीर्ष्णस्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाशँ स्वाहा ॥ (अग्नय इदं॰) ॥ ११ ॥ [[TODO: परिष्कार्यम्]]

इत्येकादशभिर्हुत्वाथैनां वधूमुत्थाप्यात्माग्न्योः पश्चान्नीत्वोत्तरेणाग्निं दक्षिणेन पदाश्मानमास्थापयति -

आतिष्टेममश्मानमश्मेव त्वँ स्थिरा भव । अभितिष्ठ पृतन्यतः सहस्व पृतना यतः [[TODO: परिष्कार्यम्]]

इति ॥ यथेतमानीय यथास्थानं तिष्ठन्त्या अस्या अञ्जलावुपस्तृणीते । तस्मिंस्तस्याः सोदर्यो भ्राता भ्रातृस्थानीयो वा गन्धवस्त्रादिभिरभ्यर्चितः शूर्पस्थांल्लाजान् पूर्वार्धादपरार्धाच्च क्रमेण द्विरावपति (पञ्चावत्तिनां तु मध्यात्पूर्वार्धादपरार्धादिति त्रिरावपेत्) ॥ वरस्तानभिघार्यावत्तशेषान्प्रत्यज्य पुरस्तातत्स्रुवाहुतिं हुत्वा तदञ्जलिं हस्ताभ्यां गृहीत्वाञ्जलिवामपार्श्वेन2 दर्व्येव जुहोति -

ॐ इयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिर्जीवातु शरदः शतो ३ मियं नार्युपं॰ शतँ स्वाहा

इति ॥ (अग्नय इदं॰) ॥ उपरिष्टात्स्रुवाहुतिं हुत्वाथैनां प्रदक्षिणमग्निं पर्याणयति -

तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह । पुनः पतिभ्यो जायान्दा अग्ने प्रजया सह [[TODO: परिष्कार्यम्]]

इति ॥ अथैनां पूर्ववदश्मानमास्थापयति - “आति॑ष्ठे॒मं॰ पृतनाय॒तः" इति ॥ पुनस्तथैव यथास्थानं तिष्ठन्त्या अञ्जलावुपस्तृणीते । तथैव सोदर्योऽपरार्धात्पूर्वार्धाच्चेति क्रमेण द्विर्लाजानावपति । वरस्तथैवाऽभिघार्य प्रत्यज्य पुरस्तात्स्रुवाहुतिं हुत्वा जुहोति -

ॐ इ॒यं ना॒र्युप॑॰ श॒तो ३ मि॒यं ना॒र्युप॑॰ श॒तँ स्वाहा॑

इति ॥ (अग्नय इदं॰) ॥ उपरिष्टात्स्रुवाहुतिं हुत्वा तथैव प्रदक्षिणमग्निं पर्याणयति -

पुनः पत्नीमाग्निरदादायुषा सह वर्चसा । दीर्घायुरस्या यः पतिस्स एतु शरदश्शतम् [[TODO: परिष्कार्यम्]]

इति ॥ पुनः पूर्ववदेनामश्मानमास्थापयति - “आति॑ष्ठे॒मं॰ य॒तः” इति ॥ तथैवोपस्तरणादि कृत्वा लाजानवदाय जुहोति -

ॐ इ॒यं ना॒र्युप॑॰ श॒तो ३ मि॒यं ना॒र्युप॑॰ श॒तँ स्वाहा॑

इति ॥ (अग्नय इदं॰) ॥ तथैवोपरिष्टात्स्रुवाहुतिं हुत्वा प्रदक्षिणमग्निं पर्याणयति -

ॐ विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः [[TODO: परिष्कार्यम्]]

इति ॥ अथ3 तथैवोपस्तीर्णे वध्वञ्जलौ सोदर्य उत्तरार्धात्सकृल्लाजानावपति ।

वरस्तान्द्विरभिघारयति । (पञ्चावत्ती चेद्द्विरवदाय द्विरभिघारयेत् सकृदवदाय वा त्रिरभिघारयेत्) न प्रत्यनक्ति ॥ व्याहृतिभिराज्याहुतीरुपहुत्य पुरस्तात् स्रुवाहुतिं हुत्वा स्विष्टकृतमुत्तरार्धपूर्वार्धे जुहोति -

ॐ ह॒व्य॒वाह॑मभि॰ हु॑वेमों३स्वि॑ष्टमग्ने॰ आयुः॒ स्वाहा॑

इति ॥ (अग्नये स्विष्टकृत इदं॰) ॥ उपरिष्टात्स्रुवाहुतिं हुत्वा मेक्षणमग्नौ प्रहृत्य वध्वञ्जलावुदकं पूरयित्वान्तःपरिधि बहिःपरिधि निनीयानूयाजसमिधमभ्याधायेध्मसन्नहनेन परिधीनग्निं च सकृत्सकृत्सम्मृज्येध्मसन्नहनं विस्रस्याद्भिः सँस्पृश्याग्नावनुप्रहृत्य तथैवान्वारब्धायां पत्न्यां जयप्रभृति ब्रह्मोद्वासनान्तं कृत्वाग्निमुपस्थाय, अनेन विवाहहोमकर्मणा श्रीपरमेश्वरः प्रीयतामिति कर्मेश्वराय समर्पयेत् ॥ ॥ इति विवाहहोमः ॥


  1. “लाजमाज्यं स्रुवं चैव प्रणीताश्मानमेव च ।
    सर्वमभ्यन्तरं कृत्वा ब्रह्मैवैको बहिर्भवेत् ॥
    आद्यं प्रदक्षिणं कुर्याद्ब्रह्मणा सह मानवः ।
    प्रदक्षिणत्रयं पश्चाद्विना तमिति केचन”

    इति गृह्यशेषे ॥ ↩︎

  2. “निर्वपणसंस्रवणलाजहोमनित्यहोमान्कायतीर्थेन कुर्यात्” इति सं॰ मालायां बोधायनः ।

    अंगुल्यग्रैर्न होतव्यं तथा नाञ्जलिभेदतः ।
    अञ्जलेर्वामपार्श्वेन लाजहोमो विधीयते ।
    वामभागस्तु नारीणां देवभाग इति स्मृतः” इति तत्रैव मैत्रायणीयपरिशिष्टोक्तिः ॥ ↩︎

  3. “ पक्वादेव स्विष्टवतीभ्यां सौविष्टकृतं जुहोति लाजैरितरत्र" इति सत्रम् ॥ “केचित्स्विष्टवतीभ्यां तु लाजाञ्जुह्वति नापरे” इति गृ॰ संग्रहे ॥ ↩︎