॥ अथ पाणिग्रहणम् ॥ (बो. सू. १. १. २७-२८ )
अथैनां दक्षिणे हस्ते गृह्णाति - ‘मित्रोऽसि’ इति । अथैनां देवयजनमुदानयति -
एकमिषे विष्णुस्त्वान्वेतु॰ सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्यान्वेतु
इति । सप्तमं पदमुपसङ्गृह्य जपति – ‘सखायः॰ मा योष्ठाः’ इति ।
अत्र प्र॰ चिन्तामणिः –
तामर्पयेतां पितरौ सुलग्ने वराय धर्मस्त्वनया सहैव ।
प्रचर्यतां चेति ततः स बध्या मित्रोऽसि गृह्णाति च दक्षहस्तम् ॥
उदानयेदेकमिषेति कन्यां वरः क्रमात्साक्षतमण्डलेषु ।
सखासि जप्त्वा पदसप्तकान्ते स्पृशेच्च भूमि विसृजेत् करं च ॥
उदग्दशास्तीर्णवराम्बराढ्ये वरासने होमभुवः प्रतीच्याम् ।
उदग्वरो दक्षिणतश्च कन्या निषीदतः प्राग्वदनौ प्रहृष्टौ
इति ॥
प्रयोगः
अथ प्रयोगः ॥ वरः सुलग्ने पितृभ्यामर्पितामेनां वधूं दक्षिणे हस्ते गृह्णाति - “मित्रोऽसि” इति ॥ अथैनां देवयजनमुदानयन् प्राक्संस्थेषूदक्संस्थेषु वा हरिद्राखण्डपूगीफलहिरण्यादियुतेषु सप्तस्वक्षतपुञ्जेषु वध्वा दक्षिणपादं क्रमेण निधापयति -
एकमिषे विष्णुस्त्वान्वेतु ॥ १ ॥ द्वे ऊर्जे विष्णुस्त्वान्वेतु ॥ २ ॥ त्रीणि व्रताय विष्णुस्त्वान्वेतु ॥ ३ ॥ चत्वारि मायो भवाय विष्णुस्त्वान्वेतु ॥ ४ ॥ पञ्च पशुभ्यो विष्णुस्त्वान्वेतु ॥ ५ ॥ षड्रायस्पोषाय विष्णुस्त्वान्वेतु ॥ ६ ॥ सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु ॥ ७ ॥ [[TODO: परिष्कार्यम्]]
इति ॥ सप्तमं पदमुपसङ्गृह्य जपति -
सखायः सप्तपदा अभूम । सख्यं ते गमेयम् ॥ सख्यात्ते मा योषम् । सख्यान्मे मा योष्ठाः [[TODO: परिष्कार्यम्]]
इति ॥ अथ मङ्गलघोषपुरस्सरं देवयजनं गत्वा देवयजनस्य पश्चादुदग्दशेन वाससास्तीर्णे शुभासने उत्तरतो वरो दक्षिणतो वधूरिति क्रमेण प्राङ्मुखावुपविशेताम् ॥ ॥ इति पाणिग्रहणम् ॥