॥ अथ कन्यादानम् ॥ तत्र नियमविशेष उक्तः सं॰ मालायाम् -
भुक्त्वा समुद्वहेत्कन्यां सावित्रीग्रहणं तथा ॥
उपोषितः सुतां दद्यादर्चिताय द्विजाय तु ॥
कन्यादानं निशीथे चेद्दिवा भोजनमिष्यते ॥
काले स्नानं प्रकुर्वीत कन्यां दद्याद्वराय तु
इति
वरगोत्रं समुच्चार्य प्रपितामहपूर्वकम् ।
नाम सङ्कीर्तयेद्विद्वान् कन्यायाश्चैवमेव हि
इति च ॥ तद्विधिरुक्तः गृ॰ संग्रहे -
ततः कन्याप्रदातृभ्यां द्विः प्रक्षाळितपादयोः ।
क्षीराज्याभ्यां च तूष्णीं वा तत आचान्तयोस्तयोः ॥
कृताञ्जली द्वयोर्हस्तौ तण्डुलैर्द्विः प्रपूरयेत् ।
ससुवर्णे वधूहस्ते वरहस्तोपरिस्थिते ॥
इडादि जप्त्वोदकुम्भधरः कृत्वा प्रदक्षिणम् ।
प्रदाता सन्ततां धारामों कन्या तारयत्विति ॥
प्रदद्यात् त्रिस्तथैवान्ते सह धर्मः प्रचर्यताम् ।
इति द्वयोः करासक्ततण्डुलारोपणे कृते ।
पितरौ तौ वरायैनां वधूमर्पयतस्तथा
इति ॥ कारिकान्तरे -
वरस्तु प्राङ्मुखास्तष्ठेद्वधूः प्रत्यङ्मुखी भवेत् ।
उदङ्मुखी च जननी कन्यादाने त्वयं विधिः ॥
तिष्ठन् दाता हिरण्याद्भिः सह दद्याद्वराय ताम्
इति ॥
प्रयोगः
अथ प्रयोगः ॥ कन्यादाता वधूवरयोर्दक्षिणतस्सपत्नीकः उदङ्मुख उपविश्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
अमुकप्रवरान्वितामुकगोत्रोत्पन्नामुकशर्माहं मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादि कन्यादानकल्पोक्तफलप्राप्तये अनेन वरेणास्यां कन्यायामुत्पादायिष्यमाणसन्तत्या द्वादशावरान् द्वादशपरांश्च पुरुषान्पवित्रीकर्तुमात्मनश्च श्रीलक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना यथाशक्त्यलङ्कृतकन्यादानमहं करिष्ये
इति कुशाक्षतजलहस्तः सङ्कल्प्य तत्र जलशुध्यर्थं प्रागग्रानुदगग्रान् वा दर्भानास्तीर्य तेषु तैजसं जलपूर्णं कलशं निधाय व्रीहियवानोप्य गन्धपुष्पादिभिरलङ्कृत्य दूर्वापल्लवैर्मुखमवस्तीर्य “आपो हि ष्ठा" इति त्रिभिरभिमंत्र्य “गङ्गे च यमुने चैव” इति प्रार्थयेदिति शिष्टाचारः ॥ अथ दाता वधूवरौ लक्ष्मीनारायणस्वरूपिणौ भावयित्वा पयसा घृतेनाद्भिरिति प्रत्येकं तयोः पादौ प्रक्षालयति -
अस्मिन् राष्ट्रे श्रियमावेशयाम्यतो देवीः प्रतिपश्याम्यापः ।
दक्षिणं पादमवनेनिजेऽस्मिन् राष्ट्र इन्द्रियं दधामि ॥
सव्यं पादमवनेनिजेऽस्मिन् राष्ट्र इन्द्रियं वर्धयामि ।
पूर्वमन्यमपरमन्यं पादाववनेनिजे ॥
देवा राष्ट्रस्य गुप्त्या अभयस्यावरुध्यै ।
आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे
इति वा तूष्णीं वा ॥ उभावप्याचामेताम् ॥ अथ गन्धमाल्यादिभिर्वधूवरौ समभ्यर्च्य तैजसपात्रे आज्यमिश्रं क्षीरं पात्रान्तरे क्षालितसिततण्डुलांश्च निदधाति ॥ ततो वरः प्रक्षालितपाणिः प्रक्षालितवध्वञ्जलौ स्वहस्तद्वयमध्यमानामिकाङ्गुलिभिस्तैजसपात्रस्थसाज्यक्षीरेण द्विरुपस्तीर्य द्विवारं पात्रान्तरस्थतण्डुलानोप्य तथैव द्विरभिघारयति ॥ अथ दाता वराञ्जलिमप्येवमेव पूरयित्वा वराञ्जल्युपरि कन्याञ्जलिं कृत्वा कन्याञ्जलौ सुवर्णं निधाय तयोरञ्जल्योरधः कांस्यपात्रं च निधाय पूर्वमभ्यर्चितं कलशं “इडा देवहूः" इति मन्त्रेणादाय स्वदक्षिणस्थितभार्याहस्ते दत्वा
कन्यां कनकसम्पन्नां कनकाभरणैर्युताम् ।
दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥
विश्वम्भरः सर्वभूताः साक्षिणः सर्वदेवताः ।
इमां कन्यां प्रदास्यामि पितॄणां तारणाय च ॥
श्रीरूपैषा मया दत्ता तुभ्यं श्रीधररूपिणे ॥
नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे । भागं देवेभ्यो विदधात्यायन् प्र चन्द्रमास्तिरति दीर्घमायुः [[TODO: परिष्कार्यम्]]
इत्युक्त्वा कन्याञ्जलौ कलशोदकधारामाविच्छिन्नां प्रवर्तयन् वदेत् -
ॐ कन्या तारयतु । पुण्याहं दीर्घमायुरस्तु । शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु । पुण्यं वर्धताम् । शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । शिवं कर्मास्तु । ॐ पुण्याहं भवन्तो ब्रुवन्तु । ॐ स्वस्ति भवन्तो ब्रुवन्तु । ॐ ऋद्धिं भवन्तो ब्रुवन्तु । ॐ श्रीरस्त्विति भवन्तो ब्रुवन्तु । अमुकप्रवरान्वितामुकगोत्रोत्पन्नामुकशर्माहं मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादि कन्यादानकल्पोक्तफलप्राप्तये अनेन वरेणास्यां कन्यायामुत्पादयिष्यमाणसन्तत्या द्वादशावरान्द्वादशपरांश्च पुरुषान्पवित्रीकर्तुमात्मनश्च श्रीलक्ष्मीनारायणप्रीतये, अमुकप्रवरान्वितामुकगोत्रोद्भवायामुकशर्मणः प्रपौत्रायामुकशर्मणः पौत्रायामुकशर्मणः पुत्रायामुकशर्मणे श्रीधररूपिणे कन्यार्थिने वराय, अमुकप्रवरान्वितामुकगोत्रोद्भवाममुकशर्मणः प्रपौत्रीममुकशर्मणः पौत्रीममुकशर्मणः पुत्रीममुकनाम्नीं श्रीरूपिणीं प्रजापतिदैवत्यां कन्यां प्रजासहत्वकर्मभ्यः (प्रजोत्पादनार्थं) तुभ्यमहं संप्रददे श्रियै
इत्येवं त्रिवारमुक्त्वा “कन्यां प्रतिगृह्णातु भवान्” इति वरहस्ते सकुशाक्षतजलं क्षिपन् “प्रजापतिः प्रीयताम्” इति मनसा स्मरेत् ॥ वरः “ॐ स्वस्ति” इति ब्रूयात् ॥ अथ वधूवरावञ्जलिस्थानक्षतानन्योन्यं शिरस्यारोपयतः ॥ ततो वरो दक्षिणेंऽसे कन्यामभिमृश्य
देवस्य त्वा॰ हस्ताभ्यां प्रतिगृह्णामि ॥ राजा त्वा वरुणो नयतु दोवि दक्षिणे ॥ प्रजापतये कन्याम् ॥ तयामृतत्वमश्याम् ॥ वयो दात्रे ॥ मयो मह्यमस्तु प्रतिग्रहीत्रे ॥ क इदं कस्मा अदात् ॥ कामः कामाय ॥ कामो दाता ॥ कामः प्रतिग्रहीता ॥ कामँ समुद्रमाविश ॥ कामेन त्वा प्रतिगृह्णामि ॥ कामैतत्ते ॥ एषा ते कामदक्षिणा ॥ उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु ॥ [[TODO: परिष्कार्यम्]]
धर्मप्रजासिध्यर्थमिमां कन्यां प्रतिगृह्णामि
इति प्रतिगृह्णाति ॥ ततो दाता
गौरीं कन्यामिमां विप्र यथाशक्तिविभूषिताम् ।
गोत्राय शर्मणे तुभ्यं दत्तां विप्रसमाश्रय ॥
कन्ये ममाग्रतो भूयाः कन्ये मे देवि पृष्ठतः ।
कन्ये मे पार्श्वयोर्भूयास्त्वद्दानान्मोक्षमाप्नुयाम् ॥
मम वंशकुले जाता पालिता वत्सराष्टकम् ।
तुभ्यं विप्र मया दत्ता पुत्रपौत्रप्रवर्धिनी ॥
(न्यूनवयस्कायां ‘पालिता वर्षसप्तकम्’ इत्याद्यूहः कार्यः)
धर्मे चार्थे च कामे च नातिचरितव्या त्वयेयम्
इति वदेत् ॥ वरो “नातिचरामि” इति प्रतिवदेत् ॥ दाता “सह धर्मश्चर्यताम्" इति वदेत् ॥ “चरिष्यामि” इति वरः ॥ ततो दाता
कृतस्य कन्यादानस्य प्रतिष्ठासिध्यर्थमिदं हिरण्यमग्निदैवत्यं लक्ष्मीनारायणस्वरूपिणे तुभ्यमहं सम्प्रददे
इति सुवर्णं दत्वा ‘न मम’ इति वदेत् । एवं भोजनपात्रमुदपात्रं दोहनपात्रं गोमहिषी दासदासी गृहभूवाहनादि यथाविभवं वराय दद्यात् ॥ वरो देवस्य त्वेत्यादिना तत्तत्प्रतिग्रहमन्त्रेण ‘उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु’ इति मन्त्रेण वा प्रतिगृह्णीयात् ॥
दाता कन्यादानकर्मणः साङ्गतासिध्यर्थं ब्राह्मणेभ्यः सुवासिनीभ्यश्च (यथावकाशं भोजनं) भूयसीं दक्षिणां च दत्वा अनेन कन्यादानकर्मणा श्रीपरमेश्वरः प्रीयताम्,
इति कर्मेश्वराय समर्पयेत्, इति ॥ ॥ इति कन्यादानम् ॥
अक्षतारोपणम्
अथाऽक्षताऽऽरोपणम्1 ॥ वरः स्वाञ्जलिना वध्वञ्जलौ साज्यक्षीरेण द्विरुपस्तीर्य द्विवारं तण्डुलानोप्य द्विरभिघारयति ॥ दाता वराञ्जलावेवमेव कृत्वा तयोरञ्जल्योः सुवर्णं निधाय कन्याञ्जल्युपरि वराञ्जलिं कृत्वा कलशोदकधारां सिञ्चन्वदेत् -
ॐ शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु ॥
प्रजापतिः स्त्रियां यशः । मुष्कयोरदधात्सपम् । कामस्य तृप्तिमानन्दम् । तस्याग्ने भाजयेह मा । मोदः प्रमोदा आनन्दः । मुष्कयोर्निहितः सपः । सृत्वेव कामस्य तृप्याणि । दक्षिणानां प्रतिग्रहे । मनसश्चित्तमाकूतिम् । वाचस्सत्यमशीमहि । पशूनाँ रूपमन्नस्य ॥ यशः श्रीः श्रयतां मयि । यथाहमस्या अतृपँ स्त्रियै पुर्मान् । यथास्त्री तृप्यति पुँसि प्रिये प्रिया ॥ एवं भगस्य तृप्याणि ॥ यज्ञस्य॒ काम्यः प्रियः ॥ ददामीत्यग्निर्वदति । तथेति वायुराह तत् । हन्तेति सत्यं चन्द्रमाः । आदित्यः सत्यमोमिति ॥ आपस्तत्सत्यमाभरन् । यशो यज्ञस्य दक्षिणाम् ॥ प्रजा मे कामः समृध्यताम् [[TODO: परिष्कार्यम्]]
इत्युक्त्वा वरः स्वाञ्जलिस्थतण्डुलान् वधूशिरस्यावपेत् ॥ पुनः पूर्ववदञ्जलिं पूरयित्वैवमेव शान्तिरस्तु इत्यादि
यशो॑ य॒ज्ञस्य॒ दक्षि॑णाम्, इत्यन्ते प॒शवो॑ मे॒ कामः॒ समृ॑ध्यताम्,
इत्युक्त्वा वधूपूर्वकं तण्डुलानावपेताम् ॥ तृतीयपर्याये एवमेव कृत्वा
य॒ज्ञो मे॒ कामः॒ समृ॑ध्यताम्,
इत्युक्त्वा वरपूर्वकमावपेताम् ॥ चतुर्थपर्यायेऽपि
सर्वो॑ मे॒ कामः॒ समृ॑ध्यताम्,
इत्युक्त्वा वधूपूर्वकमन्योन्यं शिरसि तण्डुलानावपेताम् ॥ ॥ इत्यक्षताऽऽरोपणम् ॥
मङ्गलसूत्रबन्धनादि
अथ मङ्गलसूत्रबन्धनादि ॥ तदुक्तं सं॰ मालायां स्मृतिसङ्ग्रहे -
वस्त्रद्वयं कञ्चुकं च सूत्रं मङ्गलसंज्ञकम् ।
अर्पयेयुः सुवासिन्यो वध्वै तां च वधूं वरः ॥
कृतवस्त्रपरीधानां संस्मरन्निष्टदेवताम् ।
सूत्रेण मङ्गलाख्येन कण्ठदेशे विभूषयेत् ॥
माङ्गल्यतन्तुनेत्येष मन्त्रोऽत्र कथितो बुधैः ।
इतरैर्भूषणैः पश्चात्तत्तदङ्गेषु भूषयेत् ॥
वधूवरौ प्रकुर्यातां गणेशस्य तु पूजनम् ।
सौभाग्याद्यभिवृध्यर्थं महालक्ष्म्यास्तथैव च ॥
पार्वत्याश्च तथा शच्याः पूजनं तु समाचरेत् ।
सौभाग्यार्थं वायनानि प्रदद्यात्सुसमाहिता ॥
दिनत्रयं प्रकुर्यातां व्रतस्याचरणं ततः
इति ॥
तद्विधानक्रमः
अथ तद्विधानक्रमः ॥ वरो मङ्गलसूत्रं2 गन्धपुष्पादिभिरभ्यर्च्येष्टदेवतां स्मरन् वधूकण्ठे बध्नाति -
माङ्गल्यतन्तुनानेन भर्तृ (मम) जीवनहेतुना ।
कण्ठे बन्धामि सुभगे त्वं जीव शरदां शतम्
इति ॥
अन्यैरपि भूषणैर्यथाविभवं भूषयित्वा यथाचारं गुडजीरकाक्षतहरिद्राखण्डयुतानि पञ्च पञ्च पूगीफलानि पात्रे निधाय मम विवाहव्रतस्य निर्विघ्नतासिध्यर्थं गणेश पूजनं करिष्ये,
इति सङ्कल्प्य
गणानां त्वा, आ तू न इन्द्र
इति मन्त्राभ्यां गणेशमावाह्य गन्धादिभिरभ्यर्चयेत् ॥ ततः पुरोधास्ताभ्यामेव मन्त्राभ्यां पूगीफलादीनि पृथक्पृथग्वधूवरयोरुत्तरीयवस्त्रप्रान्तयोर्बध्वा
नी॒ल॒लो॒हि॒ते भ॑वतः कृ॒त्यास॒क्तिर्व्य॑ज्यते । एध॑न्तेऽस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते
इति मन्त्रेण तयोरुत्तरीयवस्त्रान्तावपि मिथो बध्नीयात् । तद्ग्रंथिं व्रतसमाप्तिपर्यन्तं न विसृजेत् ॥ ततः सभार्यो दाता वृद्धाः पुरन्ध्र्यो ज्ञातयो बान्धवाश्च यथाचारं मङ्गलाशीर्भिरार्द्राक्षतारोपणं कुर्युः ॥ अथ वधूवरौ सौभाग्याद्यभिवृध्यर्थं तण्डुलपुञ्जेषु नाममन्त्रैर्महालक्ष्मीं गौरीं शचीं चावाह्य षोडशोपचारैरर्चयित्वा सुवासिनीभ्यो वायनानि (सौभाग्यद्रव्ययुतफलानि) दद्याताम् ॥ पुरन्ध्र्यो मङ्गळार्तिक्यं कुर्युर्ब्राह्मणा मन्त्राक्षतान् दद्युः ॥ ॥ इति मङ्गलसूत्रबन्धनादि ॥