॥ अथ निरीक्षणम् ॥ (बो. गृ. सू. १. १. २४-२७)
स्नातोऽहतवासोगन्धानुलिप्तः स्रग्वी भुक्तवान् प्रतोदपाणिरपदातिर्गत्वा वधूज्ञातिभिरतिथिवदर्चितः स्नातामहतवाससां गम्धानुलिप्तां स्त्रग्विणीं भुक्तवतीमिषुहस्तां दत्तां वधूं समीक्षते - ‘अभ्रातृघ्नीं॰’ इति ॥ तयेक्ष्यमाणो जपति - ‘अषोरचक्षुः॰’ इति । अथैमामन्तरेण भ्रूमुखे दर्भेण सम्मार्ष्टि - ‘इदमहं॰’ इति ॥ दर्भं निरस्याप उपस्पृश्य ॥
तत्र विशेष उक्तः प्र॰ पारिजाते -
स्नातालंकृतकन्यायाः प्राङ्मुख्याः प्रत्यमाननः ।
ईक्षेत तण्डुलस्थाया वरस्तस्य मुखं च सा ॥
मुहूर्ते शोभने सम्यक् क्षिपेतां मुखयोर्मिथः ।
सगुडं जीरकं कन्यां वृणुयादथ तां वरः
इति ॥ तण्डुलमानमाह तत्रैव यमः -
आरुह्य तण्डुलप्रस्थमीक्षेत्प्रत्थङ्मुखो वधूम्
इति ॥ स्मृत्यन्तरे तु -
द्रोणप्रमाणे सिततण्डुलानां चारुह्य राशौ वरयेत्कुमारीम्
इत्युक्तम् ॥
प्रयोगः
अथ प्रयोगः ॥ यथाचारमलंकृते मण्डपे पूर्वापरभागयोर्हस्तान्तरालौ द्वौ सितमण्डुलराशी कृत्वा मध्ये कुङ्कुमादिकृतस्वस्तिकाङ्कितमन्तःपटमुदग्दशं धारयेयुः ॥ तत्र पूर्वराशौ तण्डुलगुडजीरकप्रतोदहस्तो वरः प्रत्यङ्मुखस्तिष्टेत् ॥ अथ कन्यादाता पत्नीसहितोऽलंकृतां तण्डुलगुडजीरकेषुहस्तां कन्यां
दे॒वीं वाच॑मजनयन्त॰ ॥ ध्रु॒वं ते॒ राजा॒॰ ॥ स्व॒स्ति नो॑ मिमीतां॰
इत्यादि मङ्गलमन्त्रगीततूर्यादिनिर्घोषपुरस्सरं मण्डपमानीय पश्चिमतण्डुलराशौ प्राङ्मुखीमवस्थापयति ॥ तौ वधूवरौ मनसेष्टदेवतां ध्यायन्तौ समाहितौ तिष्ठेताम् । तदानीं ब्राह्मणा मङ्गलसूक्तं पठेयुर्ज्योतिर्विदो1 मङ्गलाष्टकपठनपूर्वकं तदेव लग्नं सुदिनमिति सुमुहूर्तं ब्रूयुः ॥ अथ ज्योतिर्विदादिष्टे सुमुहूर्तेऽन्तःपटमुदगपसार्य कन्यावरौ परस्परं कण्ठे पुष्पमालां2 प्रतिमुच्य तण्डुलगुडजीरकाश्चावकिरेताम् ॥ ततो वरः कन्यामीक्षते -
अभ्रा॑तृघ्नीं॒ वरु॒णाप॑तिघ्नीं बृहस्पते । इन्द्रापु॑त्रघ्नीं ल॒क्ष्म्य॑न्ताम॒स्यै स॑वि॒तुः सुव॑
इति ॥ तया वध्या वीक्ष्यमाणो जपति -
अघोरचक्षुरपतिघ्न्योधि शिवा पशुभ्यः सुमनाः सुवर्चाः । जीवसूर्देवकामाः स्योना शं नो भव द्विपदे शं चतुष्पदे [[TODO: परिष्कार्यम्]]
इति ॥ अथास्या भ्रुवोर्मध्यं दर्भेण सम्मार्ष्टि -
इ॒दम॒हं या त्वयि॑ पति॒घ्न्य॑ल॒क्ष्मीस्तां निर्दि॑शामि
इति ॥ दर्भं निरस्याप उपस्पृश्य प्रदक्षिणमावृत्य पश्चिमतण्डुलराशिस्थपीठे प्राङ्मुख उपविशति ॥ एवमेव वधूः पूर्वराशिस्थपीठे प्रत्यइमुख्युपविशति, दक्षिणतः पुरोधाः इति ॥ ॥ इति निरीक्षणम् ॥
मङ्गलाष्टकम्
अथ मङ्गलाष्टकम् ॥
देवो विघ्नविनाशनो गणपतिर्ध्यातश्च चित्तापहृ
द्यन्नत्या हृतविघ्नका अपि सुरा जाता हराजादयः ।
योऽत्राविघ्नसुसंज्ञया च कलशे संस्थापितो मण्डपे
सिध्याश्लेषणहर्षितः स उभयोः कुर्यात्सदा मङ्गलम् ॥ १ ॥
वात्सल्यात्पितरौ कपोलयुगलं स्वस्याऽऽगतौ चुम्बितुं
दृष्ट्वाऽऽकुञ्चितमास्यपद्मममलं सेषत्स्मितं सत्वरम् ।
अन्योन्यं शिवयोस्ततः सुवदने युक्ते अभूतां तयो
रित्थं येन विनोदितौ स भगवान्कुर्यात्सदा मङ्गलम् ॥ २ ॥ विघ्नेशो विबुधर्षिभिर्गणपतिर्दैतेयजोपद्रवा
द्भीतैः प्रार्थित ईश्वरोऽपि कुतुकाद्धृत्वा वपुः शैशवम् ।
पार्वत्योकसि शैशवानि चरितान्यत्युत्कटान्याचर
न्देवो हर्षयतीश्वरौ स भगवान्कुर्यात्सदा मङ्गलम् ॥ ३ ॥ योऽपर्णाङ्कसुतल्पके स्थित उभौ पीत्वा स्तनौ सत्वरं
शुण्डाग्रेण मुखेन चाऽऽशु युगपद्बालो विभुर्विघ्नराट् ।
स्मेरास्यः कुतुकाद्धिमाचलसुतोत्सङ्गाद्धरोत्सङ्गके
गच्छन्नाशु हरन्मनः स शिवयोः कुर्यात्सदा मङ्गलम् ॥ ४ ॥ यो देवस्य शिवस्य ताण्डवविधौ हर्षामदायाऽऽगतैः
कूजद्भिर्भ्रमरैर्युतं कममलं स्वीयं धुनानो विभुः ।
कुर्वन्वल्गु सुभाषणं स्खलदथो हास्यं तनोतीश्वरो
नाट्यं चैव मुदावहं स भगवान्कुर्यात्सदा मङ्गलम् ॥ ५ ॥ यो विघ्नोडुपनायनाभिधविधौ दत्तेऽद्रिपुत्र्या शुभे
पात्रे भिक्षितुमाहृतेषु विबुधैर्ब्रह्मारविन्द्वादिभिः ।
नानोपायनकेषु तत्र सुरराड्दर्पं वि(व्य) पास्य क्रमा
द्धर्मान्वर्णिन आचरत्यहरहः कुर्यात्सदा मङ्गलम् ॥ ६ ॥
श्रीमान्काश्यपगोत्रजोऽरुणरुचिर्यः सिंहराशीश्वरः
षट्त्र्याशास्थसुशोभनो गुरुकुजाब्जानां च मित्रं रविः ।
दैत्येण्मन्दरिपुः कलिङ्गजननश्चाग्नीश्वरौ देवते
मध्ये वर्तुलगैन्द्रिकासुवदनः कुर्यात्सदा मङ्गलम् ॥ १ ॥ चंद्रः कर्कटकप्रभुः सितरुचिश्चात्रेयगोत्रोद्भव
श्चाग्नेय्यां चतुरस्रगोऽप्पतिदिशास्यश्चावुमादैवतः ।
षट्सप्ताग्निदशैकशोभनकलो ज्ञारिः कुजार्कप्रियः
कालिन्दीतटदेशजो हिमकरः कुर्यात्सदा मङ्गलम् ॥ २ ॥ भौमो यामिमुखोऽरुणो यमदिशि त्र्यस्रे स्थितोऽवन्तिजः
स्वामी वृश्चिकमेषयोः सुरगुरोरर्कस्य चेन्दोः प्रियः ।
ज्ञारिः षट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्दैवते
भारद्वाजकुलोद्भवः क्षितिसुतः कुर्यात्सदा मङ्गलम् ॥ ३ ॥ ज्ञः पीतो मगधेश उत्तरमुखश्चात्रेयगोत्रोद्भवो
बाणस्थोत्तरगः प्रियौ रविसितौ शत्रुः स वै शीतगोः ।
कन्यायुग्मपतिर्दशाष्टगचतुःषण्नेत्रगः शोभनो
विष्णू द्वावधिदेवते च शशिजः कुर्यात्सदा मङ्गलम् ॥ ४ ॥ जीवः सिन्धुपतिर्विधिः सुरपतिर्देवौ धनुर्मीनयोः
स्वामी त्वाङ्गिरसस्तथोत्तरमुखो दीर्घे स्थितश्चोत्तरे ।
सूर्येन्दुक्षितिजप्रियौ बुधसितौ शत्रू च पीतप्रभो
बाणद्व्यद्रिषु चाङ्कके च शुभदः कुर्यात्सदा मङ्गलम् ॥ ५ ॥ शुको भार्गवगोत्रजः सितरुचिः प्राचीमुखः पूर्वतः
पञ्चास्रे वणिजो वृषस्य च पतिर्भोजाख्यदेशोद्भवः ।
इन्द्राणीन्द्रसुदैवतो ज्ञरविजौ राती अरातिः शशी
सूर्यः सप्तदशर्तुके च शुभदः कुर्यात्सदा मङ्गलम् ॥ ६ ॥ मन्दः कृष्णरुचिश्च वारुणिमुखः सौराष्ट्रजः काश्यपः
स्वामी वै मृगकुम्भयोर्भृगुबुधौ मित्रे रविन्दू रिपू ।
स्थानं पश्चिमदिक्प्रजापतियमौ देवी स्थितः कार्मुके
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मङ्गलम् ॥ ७ ॥ राहू राठिनपूर्भवोऽथ दितिजः कृष्णश्च शूर्पासनो
यः कालाहिसुदैवतो यमदिशावक्रश्च नीलप्रभः ।
रक्षोदिक्स्थकरालरुक्कुटिलहृत्पैठीनसेर्वंशजः
षट्त्रिस्थश्शुभकृच्च बर्बरपतिः कुर्यात्सदा मङ्गलम् ॥ ८ ॥ केतुर्जैमिनिगोत्रजोऽनिलदिशासंस्थाः कुजेन्दुप्रिय
श्चित्रत्विड्ध्वजपीठगो यमदिशावकः करालास्यकः ।
ब्रह्मा चैव तु चित्रगुप्तसहितो यस्याधिदेवः कदः
षट्त्रिस्थश्च सुवेदिदेशजननः कुर्यात्सदा मङ्गलम् ॥९॥