३७ मधुपर्कः

॥ अथ मधुपर्कः ॥ ( बो. गृ. सू. १.२)

आवेद्यार्घ्यं कुर्यात् । मध्येऽगारस्योदीचीनप्रतिषेवणा एरका उपस्तृणाति । तास्वहतानि बहुगुणान्युत्तरदशानि वासांस्यास्तीर्य तेष्वृत्विजः प्राङ्मुखा उपविशन्ति । उत्तरपूर्वे देशेऽगारस्य प्राक्तूलान्दर्भान् संस्तीर्य तेष्वर्घ्यद्रव्याणि स्रंसादयति । यावन्त ऋत्विजस्तावन्ति कांस्यानि पात्राणि सापिधानानि तावतः कूर्चान् । द्वावन्यौ परिग्रहणीयौ कूचौं । दधि मधु घृतमापः पयो वस्त्रयुगानि कुण्डलयुगानि । यस्यै गोः पयश्चमसः स्रगलङ्करणीयं चेति पवित्रे कृत्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा प्रोक्ष्य कूर्चे कांस्यं निधाय तिरः पवित्रं मध्वानयति । दधि पयो वा द्वितीयं स द्विवृत् । घृतं तृतीयं स त्रिवृत् । यद्द्वितीयं तञ्चतुर्थं स चतुर्वृत् । आपः पञ्चमीः स पाङ्तः । वर्षीयसा तेजोमयेनापिधाय नानापुरुषा अर्घ्यद्रव्याण्याददते अन्वगनुसंव्रजंतः। ‘कूर्चः’ इति कूर्चं प्राह । तत् ‘सुकूर्चः’ इतीतरः प्रतिगृह्णाति । तं प्रदक्षिणं पर्यस्योदगावृत्त उपविशति । पुरस्ताद्वैनं प्रत्यञ्चमुपोहते - राप्रभृत्॰ द्योषम्’ इति । अथास्मा उदपात्रमादाय कूर्चाभ्यां परिगृह्य ‘पाद्या आपः’ इति प्राह । ता अभिमन्त्रयते –‘आपः पादा॰ सानि’ इति । दक्षिणं पादं पूर्वं ब्राह्मणाय प्रसारयति । सव्यं शूद्राय । स्त्री प्रक्षाळयति पुमानभिषिञ्चति । विपरीतमित्येके । नियमात् पत्नीयजमानौ जङ्घे धावयतः । अवनेक्तुः पाणी सम्मृशति - ‘मयि महो॰ यशः’ इति । अथाप उपस्पृश्य ‘मयीन्द्रियं वीर्यम्’ इत्युरः प्रत्यात्मानं प्रत्यभिमृशते ॥ अपो व्रीहिभिर्यवैर्वा समुदायुत्य तथैव कूर्चाभ्यां परिगृह्य ‘अर्हणीया आपः’ इति प्राह । ता अभिमन्त्रयते - ‘आ म आगात्॰ पशूनाम्’ इति । एकदेशमञ्जलावानीयमानमनुमन्त्रयते - ‘विराजोसि॰ विराजः’ इति । अतिशिष्टाः पराचीर्नीयमाना अनुमन्त्रयते - ‘समुद्रं वः॰ चिमत्पयः’ इति । अथ तथैव कूर्चाभ्यां परिगृह्य ‘उपस्तरणीया आपः’ इति प्राह । ताः पिबति - ‘अमृतोपस्तरणमसि’ इति । त्रिराचामेत् त्रिः परिमृजेत् । द्विरित्येके ॥ आचान्तायापावृत्ताय तथैव कूर्चाभ्यां परिगृह्य ‘अर्घ्यः’ इति प्राह ‘मधुपर्कः’ इति वा । मधुपर्कं प्रोक्तमनुमन्त्रयते - ‘त्रय्यै विद्यायै॰ पशूनाम्’ इति । तमुभाभ्यां हस्ताभ्यां प्रतिगृह्णाति - ‘देवस्य त्वा॰ प्रतिगृह्णामि’ इति । तस्मिंश्चित् किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्न्या चोपसंगृह्येमां दिशं निरस्यति - ‘नेष्टा॰ वयं द्विष्मः’ इति । अथाप उपस्पृश्य सर्वाभिरङ्गुलीभिस्समुदायुत्य प्राश्नाति - ‘यन्मधुनो॰’ इति । त्रिः प्राश्य त्रिरनुपिबेच्छेषं च कुर्यात् । यमात्मनः श्रेयांसमिच्छेत्तस्मै शेषं दद्यादिति । आचान्तायापावृत्ताय तथैव कूर्चाभ्यां परिगृह्य ‘अपिधानीया आपः’ इति प्राह । ताः पिबति - ‘अमृतापिधानमसि’ इति । त्रिराचामेत् त्रिः परिमृजेत् । द्विरित्येके । आचान्तायापावृत्ताय ‘गौः’ इति गां प्राह । तामनुमन्त्रयते -

गौरस्यपहतपाप्माऽप पाप्मानं नुद मम चामुष्य च

इत्युपवेत्तुर्नाम गृह्णाति ॥ नाना महर्त्विग्भ्यो गाः प्राह । एकां होतृकेभ्यः । सर्वेभ्यो वैकामविभवत्वात् ॥ वः प्राह तस्मा उपाकरोत्येकदेशं वपायै जुहोति -

अग्निः प्रथमः प्राश्नातु॰ चर्षणिः

इति । एकदेशमुपहरति तत्प्राश्नाति -

अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः ।
अरिष्टमस्माकं कृणोत्वसौ ब्राह्मणो ब्राह्मणेषु

इति । अथ यदुत्स्रक्ष्यन् भवति तामनुमन्त्रयते - ‘गौर्धेनुर्भव्या॰ ओमुत्सृजत’ इति । तस्यामुत्सृष्टायां मेषमजं वाऽऽलभते । आरण्येन वा मांसेन । नत्वेवामांसोऽर्ध्यः स्यात् । अशक्तौ पिष्टान्नं संसिध्येत् । सिद्धे ‘भूतम्’ इति प्राह ॥ तत् ‘सुभूतम्’ इति वरः प्राह ॥ तदभिमन्त्रयते - ‘भूतं सुभूतं॰ ओंकल्पयत’ इति । ‘चतुरो नानागोत्रान्ब्राह्मणान्भोजयत’ इत्येव ब्रूयात् । तेषु भुक्तवत्स्वन्नमस्मा उपहरति । तत्प्राश्नति - ‘विराडसि॰ धेहि’ इति । भुक्तवद्भ्यो वस्त्रयुगानि कुण्डलयुगानि यस्यै गोः पयश्चमसः स्रगलङ्करणीयमिति च दद्यात् ॥ एकधनं पष्ठौहीं दद्यादित्येके ॥ प्राङ्मधुपर्कादलङ्करणमेके समामनन्ति । महयेदृत्विजमाचार्यं चात्मानं वा । एष महयति यस्स्वमृत्विजमाचार्यं च महयत्येवमेवंव्रता वा आत्यन्तिकास्स्युः पतितोऽननूचान इति निमित्तानि । वरणेऽग्न्याधेयप्रभृतिषु चैषामृत्विजं स्मरेत् । तथैते अर्घ्या ऋत्विक् श्वशुरः पितृव्यो मातुल आचार्यो राजा वा स्नातकः प्रियो वरोऽतिथिरिति । संवत्सरपर्यागतेभ्य एवं कुर्यात् विवाहे वराय । अथर्त्विग्भ्यः कर्मणिकर्मणि ददाति ॥

मधुपर्को वरशाखया कर्तव्य इत्युक्तमाश्वलायनेन -

वरस्य या भवेच्छाखा तच्छाखा गृह्यचोदितः ।
मधुपर्कः प्रदातव्यो ह्यन्यशाखेऽपि दातरि

इति ॥ अत्र वर इत्यर्च्यस्योपलक्षणम् ॥ मधुपर्के विनियोजकः श्लोकः संगृहीतो विष्णुभट्टेन -

कूर्चपाद्यार्हणीयोपस्तरणीयाः क्रमेण तु ।
मधुपर्कोऽपिधानीयं गौर्भूतं वस्त्रकुण्डले

इति ॥ अत्र विनियोज्यकूर्चमाह सिङ्गाभट्टः -

कूर्चं तु त्रिविधं प्रोक्तमुत्तमाधममध्यमम् ।
नवभिः पञ्चभिर्दर्भैः सप्तभिर्ग्रन्थिसंयुतम्

इति ॥

प्रयोगः

अथ प्रयोगः ॥

कन्यादाता आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य कन्यार्थिनमागतमिमं स्नातकं1 वरं मधुपर्केणार्हयिष्ये,

इति सङ्कल्प्यागारस्योत्तरपूर्वे देशे प्रागग्रान् दर्भानास्तीर्य तेष्वर्घ्यद्रव्याण्यासादयति -

कांस्यपात्रं सापिधानमासनार्थमेकं कूर्चं द्वावन्यौ परिग्रहणीयौ कूर्चौ दधि मधु घृतमापः पयो वस्त्रयुगं कुण्डलयुगं स्रगलङ्करणीयं

चेति ॥ अथ पवित्रे कृत्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा त्रिः प्रोक्ष्य कूर्चे कांस्यपात्रं निधाय तस्मिंस्तिरः पवित्रं मध्वानयति । दधि पयो वा द्वितीयं स द्विवृत् । घृतं तृतीयं स त्रिवृत् । यद्द्वितीयं तच्चतुर्थं स चतुर्वृत् । दिवा दधि पयो नक्तं द्वितीयन्तु निनीय च । आपः पञ्चमीस्स पाङ्क्तः ॥ एवं मध्वादीनि संयोज्य वर्षीयसा तेजोमयेन पात्रेणापिधाय वरसमीपं गच्छति ॥ नानापुरुषा अर्घ्यद्रव्याण्यादाय कर्तारमनुगच्छेयुः । अथ कर्ता वरायासनार्थं “कूर्चः” इति कूर्चं ददाति । वरो द्विराचम्य “सुकूर्चः" इति तं ॥ प्रतिगृह्य प्रदक्षिणं परिभ्राम्योदगग्रमासने निधायोपविशति -

रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दीमात्वद्यो॑षम्

इति ॥ अथ कर्तोदपात्रं कूर्चाभ्यामधस्ताच्चोपरिष्टाच्च संगृह्य “पाद्या आपः" इति प्राह ॥ ता वरोऽभिमन्त्रयते -

आपः॑ पादाव॒नेज॑नीर्द्वि॒षन्तं॑ नाशयन्तु मे । अ॒स्मिन् कुले॑ ब्रह्मवर्च॒स्य॑सानि

इति ॥ दक्षिणं पादं पूर्वं प्रसारयति । तं स्त्री प्रक्षालयति पुमानभिषिञ्चति ॥ विपरीतमित्येके ॥ नियमात्पत्नीयजमानौ जङ्घे धावयतः ॥ वरोऽवनेजकस्य पाणी सम्मृशति -

मयि॒ महो॒ मयि॒ भगो॒ मयि॒ भर्गो॒ मयि॒ यशः॑

इति ॥ अप उपस्पृश्यात्मन उरोऽभिमृशति - “मयी॑न्द्रि॒यं वी॒र्य॑म्” इति ॥ अत्रोभाभ्यामप्याचमनं कार्यम् ॥ अथ कर्ता व्रीहिभिर्यवैर्वाऽपः समुदायुत्य तथैव कूर्चाभ्यां परिगृह्य “अर्हणीया आपः” इति प्राह ॥ वरस्ता अभिमन्त्रयते -

आम आगाद्वर्चसा यशसा सँ सृज पयसा तेजसा च । तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनाम् [[TODO: परिष्कार्यम्]]

इति ॥ तदेकदेशमञ्जलावानीयमानमनुमन्त्रयते -

वि॒राजो॑ऽसि वि॒राजो॒ दोह॑मशीय॒ मम॒ पद्या॑य॒ विरा॑जः

इति ॥ अतिशिष्टाः पराचीर्निनीयमाना अनुमन्त्रयते -

समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपि गच्छत । अच्छिद्रः प्रजया भूयासं मापरासेचिमत्पयः [[TODO: परिष्कार्यम्]]

इति ॥ ततः कर्ता तथैवोदपात्रं कूर्चाभ्यां परिगृह्य “उपस्तरणीया आपः" इति प्राह ॥ वरस्ताः पिबति - “अ॒मृ॒तो॒प॒स्तर॑णमसि" इति ॥ त्रिराचम्य मुखं त्रिः परिमृजेद्द्विरित्यके ॥ अथ कर्ता मधुपर्कपात्रं तथैव कूर्चाभ्यां परिगृह्य “अर्घ्यः” इति प्राह “मधुपर्कः" इति वा ॥ वरो मधुपर्कं प्रोक्तमनुमन्त्रयते -

व्रय्यै विद्यायै यशोऽसि यशसो यशोऽसि ब्रह्मणो दीप्तिरसि ॥ तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनाम् [[TODO: परिष्कार्यम्]]

इति ॥ तमुभाभ्यां हस्ताभ्यां प्रतिगृह्णाति -

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽ श्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्यां॒ प्रति॑गृह्णामि

इति ॥ तस्मिन्यत्किञ्चित्पतितं तृणादिकमङ्गुष्ठानामिकाभ्यामुपसंगृह्य नैर्ऋत्यां दिशि निरस्यति -

नेष्टा॑ वि॒द्धिं कृ॑न्तामि॒ या ते॑ घो॒रा त॒नूस्तया॒ तमावि॑श॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मः

इति ॥ अथाप उपस्पृश्य सर्वाभिरङ्गुलीभिः समुदायुत्य प्राश्नाति -

यन्मधुनो मधव्यं परममन्नाद्यं वीर्यम् । तेनाहं मधुनो मधव्येन परमेणान्नाद्येन वीर्येण परमोऽन्नादो मधव्योऽसानि [[TODO: परिष्कार्यम्]]

इति सकृन्मन्त्रेण द्विस्तूष्णीं प्राश्य पुनः पात्रेण त्रिस्तूष्णीं पीत्वा शेषमात्मनः प्रियाय दद्यात् ॥ ततः कर्तोदपात्रं तथैव कूर्चाभ्यां परिगृह्य “अपिधानीया आपः” इति प्राह ॥ वरस्ताः पिबति - “अ॒मृ॒ता॒पि॒धा॒नम॑सि” इति ॥ तथैव त्रिराचम्य त्रिर्द्विर्वा मुखं परिमृजेत् ॥ अथ कर्ता “गौः” इति गां दर्शयति । वरस्तामनुमन्त्रयते -

गौर॒स्यप॑हतपा॒प्माप॑पा॒प्मानं॑ नुद॒ मम॑ च अ॒मुष्य॑ च

इति दातुर्नाम षष्ठ्यन्तं गृह्णाति ॥ ततस्तामुत्सृजति -

गौर्धेनुर्भव्या माता रुद्राणां दुहिता वसूनाँ स्वसादित्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ पिबतूदकं तृणान्यत्तु । ओमुत्सृजत [[TODO: परिष्कार्यम्]]

इति ॥ अथ कर्तास्मै सिद्धं पिष्टान्नं “भूतम्" इति प्राह ॥ वरः “सुभूतम्" इत्युक्त्वा तदभिमन्त्रयते -

भू॒तँ सा वि॒राट् तन्माक्षा॑यि॒ तन्मेऽशी॑य॒ तन्म॒ ऊर्जं॑ धाः । ओं कल्प॒यत

इत्यभिमंत्र्य

चतुरो नामागोत्रान् ब्राह्मणान् भोजयत

इति ब्रूयात् ॥ तेषु भुक्तवत्सु तदन्नशेषमस्मै वरायोपहरति ॥ वरस्तत्प्राश्नाति -

वि॒राड॑सि वि॒राडन्नं॑ वि॒राड्वि॒राजो॒ मयि॑ धेहि

इति ॥ ततः कर्ता वराय वस्त्रयुगं कुण्डलयुगं यस्या गोः पयस्ता गां चमसं स्रजमलङ्करणीयमुपवीतं2 फलं चेति यथासम्भवं दत्वा कर्मेश्वराय समर्पयेत् ॥ ॥ इति मधुपर्कः ॥


  1. द्वितीयादिविवाहे तु स्नातकपदं वर्जनीयम् ॥ ↩︎

  2. “उपवीतं फलं पुष्पं वासांसि विविधानि च ।
    देयं वराय वरणे कन्याभ्रात्रा द्विजेन वा”

    इति निर्णयसिन्धौ चण्डेश्वरः ॥ ↩︎