॥ अथ वाग्दानम् ॥ ( बो. गृ. सू. १. १. १४-१७ )
उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे युग्मान् ब्राह्मणान्वरान्प्रहिणोति - ‘प्रसुग्मन्ता॰ बुबोधति’ इति । यतोऽनुमन्त्रयते - ‘अनृक्षरा॰ देवाः’ इति । अथ यदि दक्षिणाभिः सह दत्ता स्यात् नात्र वरान् प्रहिणुयात् । तां प्रतिगृह्णीयात् - ‘प्रजापतिः स्त्रियां यशः’ इत्येताभिः षड्भिरनुच्छन्दसम् ॥
प्रयोगचिन्तामणौ -
ततः स कन्यावरणाय युग्मा
नभ्यर्च्य विप्रान् विधिवद्विशिष्टान् ।
प्रसुग्मपूर्वं समुदीर्य मंत्रं
सम्प्रेषयेत्तज्जनकं प्रतिप्राक् ॥
अनृक्षरेति प्रजपेच्च यातान् ते तस्य गोत्रप्रवरानुदीर्य ।
वरर्क्षयोगादिगणानुकूलां वृणीमहे त्वत्तनुजां वदेयुः ॥
कन्याप्रदस्तज्जननर्क्षकूटगोत्रादिकं चानुगुणं विचार्य ।
त्रिपूरुषोद्देश्यमुदीर्य कन्यां वृणीध्वमित्येव वदेत्स तेभ्यः
इति ॥ अत्र शचीपूजामाह सं॰ मालायां कश्यपः -
आदौ कृत्वा शचीपूजां पश्चात्सर्वं समाचरेत्
इति ॥ अयं वाग्दानविधिः सूत्रे विवाहारम्भात्पूर्वमेवोक्तः ॥ प्रयोगचिन्तामणौ तिलके च वधूगृहे वरगमनानन्तरं प्रोक्तस्तस्मादयं यथाचारं यथानुकूलं कार्यः ॥ विवाहात्प्राक्करणपक्षे मासार्क्षदिकं विचारणीयम् ॥ तच्चोक्तं सं॰ मालायाम् -
विश्वर्क्षपूर्वात्रयकर्णयुग्माश्विन्यग्निमैत्रैश्च विवाहभैर्वा ।
प्रत्यङ्मुखस्तां वरयेत्कुमारीं फलादिभिः प्राग्वदनां सुवेषाम्
इति ॥ स्मृत्यन्तरे च -
कुर्याद्वैवाहिके मासि वाग्दानं द्विजसत्तमः ।
धिष्ण्ये वैवाहिके चैव मण्डपादि समाचरेत्
इति ॥ धिष्ण्ये नक्षत्रे इत्यर्थः ॥
प्रयोगः
अथ प्रयोगः ॥ वरः शुभे मुहूर्ते कन्यां वरयितुं प्रशस्तान् युग्मान् ब्राह्मणान् सम्पूज्य प्रहिणोति -
प्रसुग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँ अभिषु प्रसीदत । अस्माकमिन्द्र उभयं जुजोषति यत्सौम्यस्यान्धसो बुबोधति [[TODO: परिष्कार्यम्]]
इति ॥ गच्छतस्ताननुमंत्रयते -
अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् । समर्यमा संभगो नो निनीयात्सञ्जास्पत्यँ सुयममस्तु देवाः [[TODO: परिष्कार्यम्]]
इति ॥ अथ ते ब्राह्मणा वरबन्धुभिः पुरन्ध्रीभिः सह मङ्गलवस्त्राभरणफलताम्बूलादीनि गृहीत्वा शकुनदर्शनपूर्वकं वधूगृहं गत्वासनेषूपविश्य कन्यादातारं ब्रूयुः -
अमुकप्रवरान्वितामुकगोत्रोद्भवायामुकशर्मणः प्रपौत्रायामुकशर्मणः पौत्रायामुकशर्मणः पुत्रायामुकनक्षत्रजनितायामुकशर्मणे वराय, अमुकप्रवरान्वितामुकगोत्रोद्भवाममुकशर्मणः प्रपौत्रीममुकशर्मणः पौत्रीममुकशर्मणः पुत्रीममुकनक्षत्रोत्पन्नाममुकनाम्नीं कन्यां भार्यात्वाय वृणीमहे
इति ॥ अथ दाता भार्याज्ञातिबन्ध्वाद्यनुमतिं प्राप्य “वृणीध्वम्” इति प्रतिब्रूयात् ॥ एवं पुनर्द्विः प्रयुज्य दाता “प्रदास्यामि” इति चोच्चैस्त्रिर्वदेत् ॥ ततो वरपित्रादिः कन्यां प्राङ्मुखीमुपवेश्य हस्ते फलताम्बूलादि दत्वा गन्धाक्षतमङ्गलवस्त्राभरणादिभिर्यथाचारमभ्यर्चयेत् ॥ ब्राह्मणाश्च
सुमङ्गलीरियं वधूरिमाँसमेत पश्यत । सौभाग्यमस्यै दत्वा याथास्तं विपरेतन ॥ ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥ अहेबुध्निय मन्त्रं॰ सताम् [[TODO: परिष्कार्यम्]]
इत्याद्याशिषः प्रयुञ्जीरन् ॥
अथ दाता कन्यावामतः प्राङ्मुख उपविश्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य अस्याः कुमार्याः करिष्यमाणविवाहाङ्गभूतं वाग्दानं करिष्ये,
इति सङ्कल्प्य निर्विघ्नतासिध्यर्थं गणपतिं सम्पूज्य स्वस्थाने कन्यावरयितारं (वरपित्रादिं) प्राङ्मुखमुपवेश्य स्वयं तत्पुरतः प्राङ्मुख उपविश्य तं गन्धाक्षतपुष्पताम्बूलादिभिः पूजयेत् ॥ स चैवमेव दातारं पूजयेत् ॥ ततो दाता यथाचारं हरिद्राखण्डपूगीफलताम्बूलानि गन्धाक्षतालंकृतानि गृहीत्वा
अमुकप्रवरान्वितामुकगोत्रोद्भवायामुकशर्मणः प्रपौत्रायामुकशर्मणः पौत्रायामुकशर्मणः पुत्रायामुकशर्मणे वराय, अमुकप्रवरान्वितामुकगोत्रोद्भवाममुकशर्मणः प्रपौत्रीममुकशर्मणः पौत्रीममुकशर्मणः पुत्रीममुकनाम्नीं कन्यां ज्योतिर्विदादिष्टे सुमुहूर्ते दास्ये, वाचा सम्पददे
इत्युक्त्वा
अव्यङ्गेऽपतितेऽक्लीबे दशदोषविवर्जिते ।
इमां कन्यां प्रदास्यामि देवाग्निद्विजसन्निधौ
इति कन्यावरयितुर्वस्त्रप्रान्ते तानि हरिद्राखण्डादीनि निक्षिप्य बध्वा -
नर्य॑ प्र॒जां मे॑ गोपाय
इत्यादिप्रतिष्ठामन्त्रैः प्रतिष्ठाप्य ग्रन्थिं गन्धादिभिरभ्यर्चयेत् ॥ अथ वरयिताप्येवमेव हरिद्राखण्डादीनि गृहीत्वा
अमुकप्रवरान्वितामुकगोत्रोत्पन्नामुकशर्मवरविषये भवन्तो निश्चिता भवन्तु
इत्युक्त्वा कन्यादातुर्वस्त्रप्रान्ते निक्षिप्य बध्वा तथैव ग्रन्थिं गन्धादिभिरभ्यर्चयेत्॥ ततो दाता
वाचा दत्ता मया कन्या पुत्रार्थं स्वीकृता त्वया ।
कन्यावलोकनविधौ निश्चितस्त्वं सुखी भव
इति कन्यावरयितारं प्रतिवदेत् ॥ वरयितापि
वाचा दत्ता त्वया कन्या पुत्रार्थं स्वीकृता मया ।
वरावलोकनविधौ निश्चितस्त्वं सुखी भव
इति दातारं प्रतिवदेत् ॥ (भ्रात्रादौ वरयितरि भ्रात्रर्थं मित्रार्थमित्याद्यूहः कार्यः) ॥ ततो ब्राह्मणाः -
शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु। दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु । एतद्वः सत्यमस्तु
इत्युक्त्वा
आयुराशास्ते । सुप्रजास्त्वमाशास्ते । सजातवनस्यामाशास्ते । उत्तरां देवयज्यामाशास्ते । भूयो हविष्करणमाशास्ते । दिव्यं धामाशास्ते । विश्वं प्रियमाशास्ते । यदनेन हविषाशास्ते। तस्यात्तदृध्यात् । तदस्मै देवा रासन्ताम् । तदग्निर्देवो देवेभ्यो वनते । वयमग्नेर्मानुषाः। इष्टं च वीतं च । उभे च नो द्यावापृथिवी अँहसस्पाताम् । इह गतिर्वामस्येदं च । नमो देवेभ्यः [[TODO: परिष्कार्यम्]]
इति मन्त्रं “अग्निरायुष्मान्” इति पंच मन्त्रांश्च पठेयुः ॥ ततो दाता विवाहसौभाग्याभिवृध्यर्थं शचीपूजां कुर्यात् ॥ पात्रस्थसिततण्डुलपुञ्चे
सुवर्णवर्णां कञ्जाक्षीं दिव्यस्रग्वस्त्रशोभिताम् ।
सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम् ॥
अनर्घ्यमणिमालाभिर्भासयन्तीं दिगन्तरम् ।
विलासिनीं सहस्रौघैः सेव्यमानामहर्निशम्
इति शचीं ध्यात्वाऽवाह्य षोडशोपचारैरभ्यर्चयेत् । वधूश्च तामेवं प्रार्थयेत् -
देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रियभामिनि ।
वैवाहं भाग्यमारोग्यं पुत्रलाभं च देहि मे
इति ॥ ततः पुरन्ध्र्यो नीराजनादिमाङ्गलिकं कुर्युर्विप्राश्च गन्धादिभिरर्चिता आशीर्मन्त्रान्पठेयुः ॥ दाता
अनेन वाग्दानकर्मणा श्रीपरमेश्वरः प्रीयताम्
इति कर्म समापयेत् इति ॥ ॥ इति वाग्दानप्रयोगः ॥
यक्षितमीबलिः
अथ यक्षितमीबलिः ॥ ( बो. गृ. सू. ३.११)
अथेमे देवते प्रबाधिन्यावुद्वाहकाले यक्षितम्यौ भवतस्तयोस्तदुपक्लॄप्तं भवति यत्सर्पबलौ । अपां समीपे द्वे स्त्रीप्रतिकृतीकृत्य गन्धर्माल्येन चालङ्कृत्यैवमेवाभ्यर्चयति ॥ तयोरर्चनमन्त्रः -
ते सूनवस्व पसस्सुदंससो मही जज्ञुर्मातरापूर्वचित्तये ।
स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥
ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा ।
नव्यं नव्यं तन्तुमातन्वते दिवि समुद्रे अन्तः कवयः सुदीतयःइति ॥ अथैते उपसङ्गृह्य पार्श्वे दत्वा प्रवाह्य त्रिवृतान्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा व्याख्यातो यक्षीबलिः ॥
प्रयोगः
अथ प्रयोगः ॥ विवाहे विघ्नोपशान्त्यर्थं वरो जलसमीपे द्वे स्त्रीप्रतिकृती कृत्वा “ते सूनवः, ते मायिनः” इति द्वाभ्यां क्रमेण यक्षिं तमां चावाह्य गन्धादिभिरभ्यर्च्य ॥ ताभ्यामेव मन्त्राभ्यां बलिं दत्वा “यक्षितमे प्रीयेताम्” इति पुण्याहं वाचयेत्, इति गृह्ये यक्षितमीबलिर्विहितः स च वाग्दानात्पूर्वमनन्तरं वा कार्यः ॥ ॥ इति यक्षितमीबलिः ॥