॥ श्रीः ॥ अथ विधिवच्चीर्णब्रह्मचर्येण ब्रह्मचारिणा ऋष्यृणाऽपाकरणाऽनन्तरं क्रमप्राप्तदेवपित्रर्णाऽपाकरणस्य अवश्यकर्तव्यत्वात् तत्राधिकारपरिप्रापको विवाहविधिरभिधीयते ॥
( बो. 2. प. सू. १. २)
अथ वै भवति –
सर्वेण वै यज्ञेन देवास्सुवर्गं लोकमायन्
इति स एष हुतादिरासहस्रसंवत्सरान्तस्सर्वो यज्ञो यो हि यदि स्वाध्यायजपकर्ममानसेषु तेनेवास्य तद्गुणेनेष्टं भवतीति ॥ तदेतन्मन्त्रब्राह्मणं व्याख्यातम् ॥ अथ वै भवति -
देवा वै पुष्टिं नाविन्दन्तां मिथुनेऽपश्यन्'
इत्येतद्विज्ञाय दारानाहृत्य सर्वयज्ञभाजो भवन्तीति व्याख्यातो यज्ञः ॥ ‘प्रजया पितृभ्यः’ इति ॥ अथास्य प्रजा भवन्ति -
यानुत्पादयते यानुपनयते यानध्यापयते यान्याजयते
इति सर्वाऽस्यैषा प्रजा भवतीति प्रजा व्याख्याता ॥
एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी
इत्याहिताग्निरित्येवैष उक्तो भवति ॥ अथाप्युदाहरन्ति -
पुदिति नरकस्याख्या दुःखञ्च नरकं विदुः ।
पुदि त्राणात्ततः पुत्रमिहेच्छन्ति परत्र च ॥
न मांसपेशलः पुत्रो नाऽविद्वान्नाप्यकर्मकृत् ॥
स्वयं न याति यस्स्वर्गं किं पुनः पितरन्तरेत्इति ॥ विज्ञायते -
अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि ।
ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदःइति ॥ एतस्माद्गार्हपत्य उक्तो भवति ॥ गार्हपत्यादाहवनीयस्तस्मादग्न्याधेयेनाऽनृण आहवनीयादतिप्रणीतस्तस्मात् पशुबन्धयाज्यनृणश्शालामुखीयादाग्नीध्रीय आग्नीध्रीयादपरे धिष्ण्याः ॥ ‘विभूरसि प्रवाहण’ इत्येते विहरणोपस्थानीयाः ॥
एषाऽस्य दैवी प्रजा भवति
इति तस्मात्सोमयाज्यनृणः ॥ तस्माद्गृहस्थस्य सर्व एवैते यज्ञास्तस्माद्गृहाश्श्रेय इति ॥ अथाऽस्य श्रेयोऽवाप्तिरापूर्यमाणपक्ष इति पूर्वपक्ष एवैष उक्तो भवति सोमेनाऽऽपूर्यमाणेन व्याख्यातः ॥ अहोरात्राणि वा वृद्धिमन्ति ह्रासवन्ति च भवन्ति । यत्राऽह्नां वृद्धिर्भवति स एवैष उक्तो भक्तीति ॥ अथ हैकेषां विज्ञायतेऽह्नः पञ्चसु कालेषु कुर्वीतत्युदगयन इत्येवेदमुक्तं भवति ॥ संवत्सरो वै देवानामहोरात्रं तस्यैतदुदगयनमहः दक्षिणायनं रात्रिस्तस्याऽह्नः पञ्चसु कालेषु कुर्वीतेति तस्य प्रातस्सङ्गवौ शिशिरवसन्तौ मध्यन्दिनं ग्रीष्मोऽपराह्णसायाह्ने वर्षाशरदौ प्रातस्सङ्गवे सायमिति विवाहं न कुर्वन्ति । काममितराणि॥ अथाऽन्यत्राऽपि कुर्वन्भवति पुण्ये नक्षत्र इति ॥
देवनक्षत्राणि वा अन्यानि । यमनक्षत्राण्यन्यानि । यानि देवनक्षत्राणि । तेषु कुर्वीत यत्कारी स्यात्
इत्येवेदमुक्तं भवति ॥
(बो. गृ. प. सू. १. ६)
यथा सुभूमिजो वृक्षः सुमूलः सुप्रतिष्ठितः ।
बहुशाखः सुपुष्पश्च फलवानुपयुज्यते ॥
देवदानवगन्धर्वैर्ऋषिभिः पितृभिस्तथा ।
पक्षिभिः षट्पदैश्चापि मशकैश्च पिपालकैः ॥
एवं हि पाकयज्ञेषु सर्वमेतत्प्रतिष्ठितम् ।
हुतः सुभूमिर्विज्ञेया मूलं प्रहुत उच्यते ॥
आहुतोऽत्र प्रतिष्ठानं यज्ञवृक्षो महोच्छ्रयः ।
बह्व्यस्तस्य स्मृताः शाखाः सुपुष्पाः सुफलोपगाः ॥
मन्त्रब्राह्मणतत्वज्ञैः सुदृष्टास्ता उपासकैः ।
एवं हि यज्ञवृक्षस्य योऽभिज्ञः श्रोत्रियः स्मृतः ॥
दारस्याहरणं कुर्यात्कर्मेत्येवं विपश्चितः ।
सुभूमिं च सुमूलं च सुप्रतिष्ठानमेव च ॥
वृक्षं पुष्पफलोपेतं बहुशाखं स पश्यति ।
ज्ञानं सुभूमिराचारो मूलं श्रद्धा प्रतिष्टितिः ॥
क्षमाऽहिंसा दमः शाखाः सत्यं पुष्पफलोपगम् ।
ज्ञानोपभोग्यं बुद्धानां गृहिणां यज्ञपादपम् ॥
अकामहतया बुध्या त्यक्ताहंकारलोभया ।
निश्चयाध्यवसायाभ्यां चक्षुर्भ्यां स तु पश्यति ॥
तस्यैको वज्रसङ्काशः क्रोधः परशुरुच्यते ।
तेनैवमाच्छिनन्मोहात्त्याज्यः क्रोधो गृहेष्वतः ॥
गृहा मूलं हि यज्ञानां गृहा ह्यानृण्यकारणम् ।
गृहा ह्याश्रमपूजार्थं स्थित्यर्थं च गृहाः स्मृताः ॥
पाकयज्ञा हविर्यज्ञा सोमयज्ञाश्च ते त्रयः ।
स्थिता मूलेषु वृक्षेषु प्रमादी तेषु सीदति ॥
(बो. गृ. शे. सू. २. ३ )
आवृतः स्त्रीभ्यः प्रतीयेरन्निन्वकाभिः प्रसृता वरैः प्रसज्यन्ते ते वराः प्रतिनन्दिताः ॥
यां कामयेत दुहितरं प्रिया स्यादिति । तां निष्ट्यायां दद्यात् । प्रियैव भवति । नेव तु पुनरागच्छति
इति ब्राह्मणापेक्षो विधिः । इन्वकाशब्दो मृगशीर्षे निष्ट्याशब्दः स्वाताविति । सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् । दत्तां गुप्तां द्योतामृषभां विनतां शरभां विकटां मुण्डा मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वानुजां वर्षकारीं च वर्जयेत् । नक्षत्रनामा नदीनामा वृक्षनामाः पर्वतनामाः प्रेष्यनामाः पक्षिनामाः पिशाचनामाश्च गर्हिताः सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत् । शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयुः ‘उपस्पृश’ इति नानाबीजानि संसृष्टानि, वेद्याः पासून्, क्षेत्राल्लोष्ट, शकृत्, श्मशानलोष्टमिति पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिरुत्तमं परिचक्षते ॥ बन्धुशीललक्षणसंपन्नामरोगामुपयच्छेत ॥ बन्धुशीललक्षणसम्पन्नः श्रुतवानरोग इति वरसम्पत् । यस्यां मनश्चक्षुषोः निबन्धस्तस्यामृद्धिर्नेतरदाद्रियेतेत्येके ॥ अथ यद्यसम्भवेप्सुः स्यात्तां परेषां स्थूलाढारिकाजीवचूर्णानि कारयित्वा सुप्तायां सम्बाध उपवपेत् -
अवज्यामिव धन्वनो हृदो मन्युं तनोमि ते ।
इन्द्रापास्य पलिगमन्येभ्यः पुरुषेभ्योऽन्यत्र मत्इति । सिध्यर्थे बभ्रुमूत्रेण प्रक्षाळयीत ॥
तत्र विशिष्टां स्त्रियमुद्वहोदिति विधत्ते मनुः -
गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्
इति ॥ याज्ञवल्क्योऽपि -
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ।
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम्
इति ॥ लक्षण्यां -
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम्
इत्यादि मनूक्तलक्षणसम्पन्नाम् । अनन्यपूर्विकाम् - दानेनोपभोगेन वा पुरुषान्तरा गृहातामित्यर्थः ॥ अनेन पुनर्भूर्व्यावर्त्यते ॥ तथा च पराशरीये बोधायनः -
वाग्दत्ता मनोदत्ताग्निपरिगता सप्तमं पदं नीता भुक्ता गृहीतगर्भा प्रसूता चोति सप्तविधा पुनर्भूस्तां गृहीत्वा न प्रजां न धर्मं विन्देत्
इति ॥ कान्तां - सौशील्यादिभिर्मनश्चक्षुषारोनन्दकारिणीम् । अत एवापस्तम्बः - यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिः इति ॥ असपिण्डाम्- निवृत्तसापिण्ड्याम् । सापिण्ड्यमग्रे वक्ष्यते ॥ यवीयसीम् - वयसा वपुषा च न्यूनाम् । तथा च विष्णुपुराणम् -
वर्षैरेकगुणां भार्यामुद्वहेत् त्रिगुणः स्वयम्
इति ॥ अरोगिणीम्- अचिकित्स्यरोगरहिताम् । भ्रातृमतीम् - ज्येष्ठः कनिष्ठो वा भ्राता विद्यते यस्यास्ताम् । असमानार्षगोत्रजाम् - असमानप्रवरजामसमानगोत्रजां च । गोत्रप्रवरनिर्णयश्च वक्ष्यते । एतादृशीं कन्यामुग्रहेदित्यर्थः ॥
सापिण्डनिर्णयः
अथ सापिण्ड्यनिर्णयः ॥ तत्रेदं धर्मसूत्रम् (बो. ध. सू. १. ११)
सपिण्डता त्वासप्तमात्सपिण्डेषु
इति आत्मानमधिकृत्य प्रागूर्ध्वं च सप्तपुरुषेषु सापिण्ड्यमनुवर्तत इत्यर्थः ॥ मत्स्यपुराणे च -
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्
इति ॥ याज्ञवल्क्यस्तु विशेषमाह -
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा
इति ॥
मातृपक्षे पञ्चमात् पितृपक्षे सप्तमात् पुरुषाद् ऊर्ध्वं
सापिण्ड्यं निवर्तत इति तदर्थः ॥
तथा चैतदुक्तं भवति - कूटस्थमारभ्य तत्पुत्रादिपरिगणनायां वरवध्वोः पिता यदा सप्तमो भवेन्माता चेत्पञ्चमी वा स्यात्तदा तयोः सापिण्ड्यनिवृत्तेर्विवाहो न दुष्यतीति । एतदर्थप्रतिपादकः श्लोकोऽपि संगृहीतः संस्काररत्नमालायाम् -
वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः ।
पञ्चमी चेत्तयोर्माता सापिण्ड्यं विनिवर्तते
इति ॥ अयं मुख्यः कल्पः ॥ अथात्र केचित् -
आयाहीन्द्र पथिभिरीळितेभिर्यज्ञमिमं नो भागधेयं जुषस्व ।
तृप्तां जहुर्मातुलस्येव योषा भागस्ते पैतृष्वसेयी वपामिव
इति ऋङ्मन्त्रार्थानुरोधेन
तस्माद्वा समानादेव पुरुषादत्ता चाद्यश्च जायते । उत तृतीये सङ्गच्छावहै चतुर्थे सङ्गच्छावहै
इति वाजसनेयश्रुत्यर्थानुरोधेन च सापिण्ड्यं सङ्कोच्यापि तत्र तत्र विवाहमाचख्युः ॥ यथा च सं॰ मालायां पैठिनसिः -
त्रीनतीत्य मातृतः पञ्चतीत्य पितृतः
इति ॥ वैद्यनाथीये नारदः -
तृतीयां मातृपक्षाच्च पञ्चमीं पितृतस्तथा ।
विवहन्ति क्वचिद्देशे संकोच्यापि सपिण्डताम् ॥
चतुर्थीमुद्वहेत्कन्यां चतुर्थः पञ्चमीमपि ।
षष्ठीं तु नोद्वहेत्कन्यां पञ्चमो न तु पञ्चमीम् ॥
तृतीयो वरयेत्कन्यां चतुर्थी पञ्चमीं तथा
इति ॥ षट्त्रिंशन्मते -
तृतीयां मातृतः कन्यां तृतीयां पितृतस्तथा ।
विवाहयेन्मनुः प्राह पाराशर्योऽङ्गिरा यमः
इति ॥ चतुर्विंशतिमतेऽपि -
तृतीयां वा चतुर्थीं वा पक्षयोरुभयोरपि ।
विवाहयेन्मनुः प्राह पाराशर्योऽङ्गिरा यमः
इति ॥ स्मृतिसारे च -
चतुर्थः पञ्चमीं कन्यां पञ्चमीं षष्ठ उद्वहेत् ।
चतुर्थीमुद्वहेत्कन्यां पञ्चमो न तु पञ्चमीम्
इति ॥ ‘पञ्चमो न तु पञ्चमीम्’ इति निषेधस्य व्यवस्थामाह सं॰ मालायां शाकलः -
भवेतां पूर्वजात्पुत्रौ तयोरपि च सन्ततिः ॥
पञ्चमः पञ्चमीं कन्यां न तत्र वरयेद्द्विजः ॥
कन्ये द्वे पूर्वजात्स्यातां सन्ततिः स्यात्तयोरपि ।
पञ्चमः पञ्चमीं तत्र वरः कन्यां समुद्वहेत् ॥
कन्यापुत्रौ तु सम्भूतौ पूर्वजात्सन्ततिस्तयोः ।
यदि स्याद्वरयेत्तत्र पञ्चमः पञ्चमीमपि
इति ॥ वैद्यनाथीयेऽपि -
पञ्चमः पञ्चमीं कन्यां नोद्वहेदिति यद्वचः ।
पितृपक्षे निषेधोऽयं मातृपक्षे न तद्भवेत्
इति ॥ अथ मातुलसुता पितृष्वसृसुता च देशविशेषेषु विवाह्या भवतीत्युक्तं वैद्यनाथीये —
मातुलस्य सुतां केचित्पितृष्वसृसुतामपि ।
विवहम्ति क्वचिद्देशे सङ्कोच्यापि सपिण्डताम्
इति ॥ यत्तु -
मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव द्विजश्चान्द्रायणं चरेत्
इति शातातपवचनेन,
पितृमातृष्वसृदुहितरो मातुलसुताश्च धमतस्ता भगिन्यस्ता वर्जयेदिति विज्ञायते
इति पैठीनसिवचनेन,
पितृष्वसेयीं भगिनीं स्वस्त्रियां मातुरेव च ।
मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥
एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान्
इति मनुवचनेन, मातुलसुतापितृष्वसृसुतयोर्वर्ज्यता स्मर्यते तच्च -
ब्राह्मादिषु विवाहेषु या तूढा कन्यका भवेत् ।
भर्तृगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया ॥
गान्धर्वादिविवाहेषु पितृगोत्रेण धर्मवत्
इति मार्कण्डेयपुराणवचनेन, गान्धर्वादिविधिनोढानां स्त्रीणां पितृगोत्रसापिण्ड्ययोरनिवृत्तेस्तादृशमातुर्भ्रातुः सुतायास्तादृशपितृष्वसुः सुताया एव भगिनीत्वान्वयाद्विवाहो निषिध्यते न त्वितरस्याः इति पराशरीयमाधवसिद्धान्तेन, “आयाहीन्द्र" इति तदनुग्राहकश्रुत्या च परास्यते ॥ किञ्च
अब्रह्मचारिदाराद्यैः सार्धं भोजनकर्म च ॥
मातुलादिसुतायाश्च विवाहः शिष्टसम्मतः ॥
इत्येते दाक्षिणात्यानामविगीता उदाहृताः
इति वैद्यनाथीयस्मृतिरत्नवचनेन,
पञ्चधा विप्रतिपत्तिदक्षिणतस्तथोत्तरतः । यानि दक्षिणतस्तानि व्याख्यास्यामः । यथैतदनुपेतेन सह भोजनं स्त्रिया सह भोजनं पर्युषितभोजनं मातुलपितृष्वसृदुहितृगमनम्
इति धर्मसूत्रवचनेन ( बो. ध. सू. १. २) चायं मातुलपितृष्वसृसुतयोर्विवाहो दाक्षिणात्यानामेव शिष्टाचारपरिगृहीतत्वान्न निषिध्यते । उदीच्यानां तु शिष्टैरपरिगृहितत्वान्निषिद्ध एवेत्यवगन्तव्यम् ॥ मातृष्वसृसुताविवाहस्तु सर्वदेशेष्वपि वर्जनीयः ॥
मातुर्भगिन्या या पुत्री स्वसेति परिगीयते ।
न विवाह्या सर्वदेशे कृत्वा नरकमश्नुते
इति स्मृतिसारे गोभिलोक्तेः शिष्टैरनाचरितत्वाच्च ॥ शिष्टाचारस्य प्रामाण्यमाह पराशरीये देवलः -
यस्मिन् देशे य आचारो न्यायदृष्टः सुकल्पितः ।
स तस्मिन्नेव कर्तव्यो न तु देशान्तरे स्मृतः
इति ॥ आपस्तम्बोऽपि -
येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः ।
त एव तैर्न दुष्येयुराचारैर्नेतरे पुनः
इति ॥ ननु शिष्टाचारस्य प्रामाण्ये स्वदुहितृविवाहोऽपि प्रसज्येत प्रजापतिना तदाचरणात् तथा च श्रुतिः -
प्रजापतिर्वै स्वां दुहितरमभ्यध्यायत्
इति चेन्मैवम् – “न देवचरितं चरेत्” इति न्यायात्,
अनुष्ठितं तु यद्देवैर्मुनिभिर्यदनुष्ठितम् । नानुष्ठेयं मनुष्यैस्तदुक्तं कर्म समाचरेत्
इति बोधायनस्मृतेश्च तत्प्रतिषेधात् ॥ तथा चेतैर्वचनैः सापिण्ड्यसङ्कोचमाश्रित्य निर्दिष्टाः कन्यका अप्यनुकल्पेन यथाचारं विवाह्या भवेयुरित्यवगम्यते ॥ अथोक्तास्वपि मातृत्वस्वसृत्वादिव्यपदेशभाजः काश्चन नियमेन वर्जनीयाः स्मर्यन्ते यथा हि निर्णयसिन्धौ बोधायनः -
पितृव्यपत्न्या भगिनीं तत्सुतां च विवर्जयेत् ।
मातुः सपत्न्या भगिनी तत्सुतां च विवर्जयेत्
इति ॥ वैद्यनाथीयेऽपि
भ्रातुस्तु पत्नीभगिनीं तत्सुतां च विवर्जयेत् ॥
पितुस्तु पत्नीभगिनीं तत्सुतां च विवर्जयेत
इति ॥
वाङ्मात्रेण स्वसारं च मातरं च तथैव च ।
असपिण्डां मातरं च वर्जयेन्मातृवत्सदा
इति तत्रैव वसिष्ठः ॥ धर्मप्रवृत्तौ च -
तृतीयां वा चतुर्थीं वा पञ्चमीं पितृमातृतः ।
दक्षिणे तूद्वहेत्कन्यां स्वसारं मातरं विना
इति ॥
पुत्रिकामुद्वहेद्विप्रः केचिदेवं वदन्ति हि ।
भगिनीं मातरं नैव यदि चेत्पतितो भवेत्
इति च ॥ सं॰ मालायाम् -
येन केनापि सम्प्रातां स्वसारं मातरं त्यजेत् ।
अज्ञानादुद्वहेत्तां वै स चण्डालो न संशयः
इति ॥
संक्षेपतो गोत्रप्रवरनिर्णयः
अथ सङ्क्षेपतो गोत्रप्रवरनिर्णयः ॥ तत्र बोधायनः (प्रवरप्रश्ने) -
विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गोतमः ।
अत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः ॥तेषां सप्तर्षीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्याचक्षते
इति ॥ ( अत्रापत्यपदं केवलपुत्रपरं न भवति किन्तु पौत्रादिपरमपि ) गोत्राणामवान्तरभेदास्त्वसङ्ख्याकाः सन्ति तेषां गणास्त्वेकोनपञ्चाशत् । तदाह बोधायनः -
गोत्राणां च सहस्राणि प्रयुतान्यर्बुदानि च ।
ऊनपञ्चाशदेतेषां प्रवरा ऋषिदर्शनात्
इति ॥ गोत्रप्रवर्तकऋषीणां व्यावर्तका ऋषिगणाः प्रवरा इत्यभिधीयन्ते । समानगोत्रत्वं समानप्रवरत्वं च पृथक्पृथक् विवाहप्रतिबन्धकम् । तत्र प्रवरसाम्यं द्विविधम् - एकप्रवरसाम्यं द्वित्रिप्रवरसाम्यं चेति । भृग्वङ्गिरोगणेतरेषु एकप्रवरसाम्यमपि विवाहप्रतिबन्धकम् । भृग्वङ्गिरोगणेषु तु त्रिप्रवरेषु द्विप्रवरसाम्यं पञ्चप्रवरेषु त्रिप्रवरसाम्यं च विवाहप्रतिबन्धकम् । तथा च बोधायनः -
द्व्यार्षेयसन्निपातेऽविवाहस्त्र्यार्ष्येयाणां त्र्यार्षेयसन्निपातेऽविवाहः पञ्चार्षेयाणामसमानप्रवरैर्विवाहः ॥ एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसां गणात् ॥ पञ्चानां त्रिषुसामान्यादविवाहस्त्रिषु द्वयोः। भृग्वाङ्गिरोगणेष्वेवं शेषेष्वेकोऽपि वारयत्
इति ॥
अथ बोधायनोक्ता गोत्रप्रवराः ॥ तत्रादौ सप्त भृगुगणाः - वत्साः विदाः ( एतौ जामदग्न्यौ ), आर्ष्टिषेणाः यस्काः मित्रयुवः वैन्याः शुनकाः एते पञ्च केवलभृगवः, एवं सप्त ॥ तत्र वत्सानां भार्गवच्यावनाप्नवानौर्वजामदग्न्येति पंचार्षयः प्रवरो भवति ॥१॥ विदानां भार्गवच्याक्नाप्नवानौर्ववैदति पंचायः प्रवरः ॥२॥ एवं आर्ष्टिषेणानां भार्गवच्यावनार्ष्टिषेणानूपेति ॥३॥ एतेषां त्रयाणां परस्परं न विवाहः त्रिप्रवरसाम्यात् ॥ यस्कानां भार्गववैतहव्यसावेतसेति त्र्यार्षेयः प्रवरः ॥४॥ एवं मित्रयुवानां भार्गववाध्र्यश्वदैवोदासेति ॥५॥ वैन्यानां भार्गववैन्यपार्थेति ॥६॥ शुनकानां शौनकेत्येकार्षेयः प्रवरो भवति ॥७॥ यस्कादीनां चतुर्णां स्वं स्वं गणं हित्वा परस्परं पूर्वैर्जामदग्न्यवत्सादिभिश्च सह विवाहो भवत्येव द्वित्रिप्रवरसाम्याभावात् ॥
अथाङ्गिरोगणाः-ते त्रिविधाः गौतमाः भारद्वाजाः केवलाश्चेति ॥ तेषु गौतमाङ्गिरसः सप्त - आयास्याः शारद्वताः कौमण्डाः दीर्घतमसः औशनसाः कारेणुपालयः वामदेवाश्चेति ॥ तत्रायास्यानां आङ्गिरसायास्यगौतमेति त्र्यार्ष्येयः प्रवरो भवति ॥१॥ शारद्वतानां आङ्गिरसगौतमशारद्वतेति त्र्यार्षेयः ॥२॥ कौमण्डानां आङ्गिरसौचथ्यकाक्षीवतगौतमकौमण्डेति पञ्चार्षेयः ॥३॥ दीर्घतमसां आङ्गिरसौचथ्यकाक्षीवतगौतमदीर्घतमसेति पञ्चार्षेयः ॥४॥ औशनसानां आङ्गिरसगौतमौशनसेति त्र्यार्षेयः ॥५॥ कारेणुपालानां आङ्गिरसगौतमकारेणुपालति त्र्यार्षेयः ॥६॥ वामदेवानां आङ्गिरसगौतमवामदेव्योति त्र्यार्षेयः प्रवरः ॥७॥ एतेषां सप्तानां गौतमानां परस्परं न विवाहः द्वित्रिप्रवरसाम्यात् ॥ अथ भारद्वाजाङ्गिरसस्त्रयः - भरद्वाजाः रौक्षायणाः गर्गाश्चेति । तत्र भरद्वाजानां आङ्गिरसबार्हस्पत्यभारद्वाजेति त्र्यार्षेयः प्रवरः ॥१॥ रौक्षायणानां आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति पञ्चार्षेयः ॥२॥ गर्गाणां आङ्गिरसबार्हस्पत्यभारद्वाजशैन्यगार्ग्येति पञ्चार्षेयः, आङ्गिरसशैन्यगार्ग्येति त्र्यार्षेयो वा प्रवरो भवति ॥३॥ त्रयाणां भारद्वाजानां परस्परमविवाहः ॥ अथ केवलाङ्गिरसः सप्त - विष्णुवृद्धाः कण्वाः हरिताः संकृतयः रथीतराः मुद्गलाः कपयश्चेति ॥ तत्र विष्णुवृद्धानां आङ्गिरसपौरुकुत्स्यत्रासदस्येति त्र्यार्षेयः प्रवरो भवति ॥१॥ एवं कण्वानां आङ्गिरसाजामीढकाण्वेति ॥२॥ हरितानां आङ्गिरसाम्बरीषयौवनाश्वेति ॥३॥ सङ्कृतीनां आङ्गिरससाङ्कृत्यगौरिवीतेति ॥४॥ रथीतराणां आङ्गिरसवैरूपराथीतरेति, आङ्गिरसवैरूपपार्षदश्वेति वा ॥५॥ मुद्गलानां आङ्गिरसभार्ग्यश्वमौद्गल्येति ॥६॥ कपीनां आङ्गिरसामहय्यौरुक्षयेति ॥७॥ एतेषां सप्तानां केवलाङ्गिरसां स्वस्वगणं हित्वा परस्परं पूर्वैश्च सर्वैर्विवाहो भवति द्वित्रिप्रवरसाम्याभावात् ॥ एवमाङ्गिरसगणाः सप्तदश भवन्ति ॥
अथात्रयश्चत्वारः- अत्रयः वाद्भुतकाः गविष्ठिराः मुद्गलाश्चेति ॥ अत्रीणां आत्रेयार्चनानसश्यावाश्वेति त्र्यार्षेयः प्रवरः ॥१॥ वाद्भुतकानां आत्रेयार्चनानसवाद्भुतकेति ॥२॥ गविष्ठिराणां आत्रेयार्चनानसगाविष्ठिरेति ॥३॥ मुद्गलानां आत्रेयार्चनानसपौर्वातिथेति ॥४॥ एषां चतुर्णां परस्परमविवाहः॥
अथ विश्वामित्रा दश - कुशिकाः (विश्वामित्राः) लोहिताः कामकायनाः रौक्षकाः कताः धनञ्जयाः अजाः अघमर्षणाः इन्द्रकौशिकाः पूरणाश्चेति ॥ तत्र विश्वामित्राणां वैश्वामित्रदैवरातऔदलेति त्र्यार्षेयः प्रवरो भवति ॥१॥ एवं लोहितानां वैश्वामित्राष्टकलौहितेति ॥२॥ कामकायनानां वैश्वामित्रदैवश्रवसदैवतरसेति ॥३॥ रौक्षकाणां वैश्वामित्ररौक्षकरैणवेति ॥४॥ कतानां वैश्वामित्रकात्यात्कीलेति ॥५॥ धनञ्जयानां वैश्वामित्रमाधुच्छन्दसधानञ्जयेति ॥६॥ अजानां वैश्वामित्रमाधुच्छन्दसाजेति ॥७॥ अघमर्षणकौशिकानां वैश्वामित्राघमर्षणकौशिकेति ॥८॥ इन्द्रकौशिकानां वैश्वामित्रैन्द्रकौशिकेति ॥९॥ पूरणानां वैश्वामित्रपूरणेति द्व्यार्षेयः प्रवरो भवति ॥१०॥ एतेषां दशानां परस्परमविवाहः ॥
अथ काश्यपास्त्रयः - कश्यपाः रेभाः शण्डिलाश्चेति । तत्र कश्यपानां काश्यपावत्सारनैध्रुवेति त्र्यार्षेयः ॥१॥ रेभाणां काश्यपावत्साररैभेति ॥२॥ शण्डिलानां काश्यपावत्सारशाण्डिलेति, काश्यपावत्सारदैवलेति, काश्यपावत्सारासितेति, शाण्डिलासितदैवलेति वा त्र्यार्षेयो भवति ॥३॥ एतेषां परस्परं न विवाहः ॥ अथ लौगाक्षयस्ते चाहर्वसिष्ठाः नक्तं कश्यपाः तेषां काश्यपावत्सारवासिष्ठेति काश्यपावत्सारासितेति वा त्र्यार्षेयः प्रवरो भवति ॥ एतेषां सर्वैः काश्यपैर्वासिष्ठैश्चाविवाहः ॥
अथ वासिष्ठाश्चत्वारः - वसिष्ठाः कुण्डिनाः उपमन्यवः पराशराश्चेति ॥ तत्र वसिष्ठानां वासिष्ठेत्येकार्षेयः प्रवरो भवति ॥१॥ कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति त्र्यार्षेयः ॥२॥ उपमन्यूनां वासिष्ठेन्द्रप्रमदाभरद्वसवेति त्र्यार्षेयः ॥३॥ पराशराणां वासिष्ठशाक्त्यपाराशर्योति त्र्यार्षेयः प्रवरो भवति ॥४॥ एतेषां चतुर्णां परस्परमविवाहः ॥
अथागस्त्याश्चत्वारः - अगस्तयः साम्भवाहाः सोमवाहाः यज्ञवाहाश्चेति ॥ तत्र अगस्तीनां आगस्त्यदार्ढच्युतैध्मवाहेति त्र्यार्षेयः प्रवरः ॥१॥ साम्भवाहानां आगस्त्यदार्ढच्युतसाम्भवाहेति ॥२॥ सोमवाहानां आगस्त्यदार्ढच्युतसोमवाहेति ॥३॥ यज्ञवाहानां आगस्त्यदार्ढच्युतयज्ञवाहेति त्र्यार्षेयः प्रवरो भवति ॥४॥ एतेषां चतुर्णां परस्परमविवाहः ॥
एवं लौगाक्षिगणेन सह पञ्चाशत्प्रवरा आचार्यबोधायनेन प्रवराध्याये पठिताः । तेष्वसमानार्षगोत्रजयोः स्त्रीपुंसोरेव विवाहः कर्तव्यः ॥ अन्यथा प्रायश्चित्तादिस्मरणात् ॥ तथा च बोधायनः -
सगोत्रां चेदमत्योपयच्छेच्चान्द्रायणं चरेत् । व्रते परिणिष्ठिते ब्राह्मणीं न त्यजेन्मातृवद्भगिनीवदेनां बिभृयात् ॥ सगोत्रायाममत्योत्पादितो गर्भो न दुष्यति स च काश्यपगोत्रो भवतीति विज्ञायते ॥ ज्ञानतश्चेदुत्पादितः स चाण्डालो भवति
इति ॥
आरूढपतितापत्यं
ब्राह्मण्यां यश्च शूद्रजः ।
सगोत्रोढासुतश्चैव
चाण्डालास्त्रय ईरिताः
इति यमस्मृतिश्च ॥
दत्तकस्य विवाहाद्युपयोगिगोत्रादिनिर्णयः
अथ दत्तकस्य विवाहाद्युपयोगिगोत्रादिनिर्णयः -
परगोत्रोत्पन्नस्य दत्तकस्य
जनक-प्रतिग्रहीत्रोर् उभयोर् अपि पुत्रत्वाभिसन्धाने
द्व्य्-आमुष्यायणत्वेनोभय-गोत्र-भागित्वम् ।
यश्च प्रतिग्रहीत्रा जात-कर्मादिभिश् चूडादिभिर् वा संस्कृतः
स प्रतिग्रहीतृ-गोत्रको भवति ।
एतदभिप्रेत्यैव
गोत्ररिक्थे जनयितुर्न भवेद्दत्रिमः सुतः
इति शास्त्रमपिप्रवृत्तम् ॥ एतदन्यस्तु प्रतिग्रहीत्रोपनयनमात्रसंस्कृतस्तदुत्तरं प्रतिगृहीतो वा देवरातवद्द्विगोत्र एवेति व्यवस्था निबन्धकारैरुक्ता ॥ तथाप्येषा व्यवस्था अभिवादनश्राद्धादिगतगोत्रनिर्देशार्था ॥
विवाहे तु दत्तकमात्रेण बीजप्रतिग्रहीत्रोरुभयोरपि पित्रोर्गोत्रप्रवरसम्बधिनी कन्या वर्जनीया,
प्रवरमञ्जर्यादि-निबन्धेषु तन्-निषेधोक्तेर्
इति कौस्तुभे ॥
शुद्धदत्तकस्य पुत्रपौत्रादीनां तु
होमपूर्वं तु यो दत्तः
स एव जनकस्य तु ।
गोत्रे न विवहे कन्यां
पुत्रादौ न निषेधकृत्
इति वैद्यनाथीयवचनेन
दातृगोत्रोद्भवापि कन्या परिणेया भवति ॥ तथापि दातुः सपिण्डसोदकसम्बन्धिनी कन्या वर्जनीयैव -
दातृगोत्रसमुद्भूता ग्रहीतृकुलसंभवा ।
उद्वहेद्दशमादूर्ध्वम्
इति तत्रैवोक्तेः ॥ ॥ दत्तकसापिण्ड्यन्तु जनकगोत्रेणोपनयने कृते जनकपितृकुले साप्तपूरुषं जनकमातृकुले पाञ्चपूरुषं सापिण्ड्यम् ॥ प्रतिग्रहीतृमातृपितृकुले निर्वाप्य पिण्डलक्षणं त्रिपूरुषं सापिण्ड्यम् ॥ ग्रहीतृगोत्रेणोपनयनमात्रे कृते उभयत्र पितृकुले पाञ्चपूरुषं मातृकुले त्रिपूरुषम् ॥ जातकर्माद्युपनयनान्तसंस्कारे ग्रहीत्रा कृते ग्रहीतृकुले पितृतः साप्तपूरुषं मातृतः पाञ्चपूरुषम् ॥ अतो न्यूनं जनककुले कल्प्यम् । तथा च गौतमः -
ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो बीजिनश्च मातृबन्धुभ्यः पञ्चमात्
इति ॥ पैठीनसिस्तु -
श्रीन्मातृतः पञ्च पितृतः पुरुषानतीत्योद्वहेदिति
इति ॥
स्त्रीपुंसोर्विवाहकालः
अथ स्त्रीपुंसोर्विवाहकालः। सं॰ रत्नमालायां नारदः -
युग्मेऽब्दे जन्मतः स्त्रीणां प्रीतिदं पाणिपीडनम् ।
एतत्पंसामयुग्मेऽब्दे व्यत्यये नाशकृत्तयोः
इति ॥ पराशरीये मरीचिः -
जन्मतो गर्भाधानाब्दात्पञ्चमाब्दात् परं शुभम् ।
कुमारीवरणं दानं मेखलाबन्धनं तथा
इति ॥ बोधायनोऽपि (बो. ध. सू. ४. १)
दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणे ।
अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलाम्
इति ॥ वसिष्ठोऽपि -
प्रयच्छेन्नग्निकां कन्यामृतुकालभयात्पिता ।
ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति
इति ॥ वयोर्विशेषेण दातुः फलविशेषमाह तत्रैव मरीचिः -
गौरीं ददन्नाकपृष्ठं वैकुण्ठं रोहिणीं ददन् ।
कन्यां ददन्ब्रह्मलोकं रौरवन्तु रजस्वलाम्
इति ॥ एतीति शेषः ॥ गौर्यादिशब्दार्थमाह संवर्तः -
अष्टवर्षा भवेद्गौरी नवमे नग्निका भवेत् ।
दशमे कन्यका प्रोक्ता अत ऊर्ध्व रजस्वला
इति ॥ कन्यकालक्षणं वायुपुराणेऽन्यदेवोक्तम् –
यावन्न लज्जयाङ्गानि कन्या पुरुषसन्निधौ ।
योन्यादीन्यवगूहेत तावद्भवति कन्यका
इति ॥ पुंसस्तु विशेष उक्तः प्र॰ पारिजाते -
प्राग्द्वादशाब्दात् पुंसस्तु दशाब्दादिति चापरे ।
विवाहं न प्रशंसन्ति पुत्रायुर्वृद्धिमिच्छवः
पूर्वोक्तलक्षणोपेतां रोगदोषविवर्जिताम् ।
अष्टाब्दां विवहेत्तान्तु त्र्यष्टाब्दो वा वरः शुभाम्
इत्यादि ॥
कन्यालक्षणम्
अथ कन्यालक्षणम् ॥ तत्राह सं॰ मालायां बोधायनः -
वर्जयेत्सर्वथा कन्या अशुभा लक्षणैश्च याः ।
भर्तुरायुर्हरन्त्येता आलस्यादपरीक्षिताः
इति ॥ आपस्तम्बः -
बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत
इति ॥ शौनकश्च -
लब्धाभ्यनुज्ञो गुरुतो द्विजो लक्षणसंयुताम् ।
बुद्धिशीलगुणोपेतां कन्यकामन्यगोत्रजाम् ॥
आत्मनोऽवरवर्षां च विवहेद्विधिपूर्वकम्
इति ॥ मनुरपि -
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृद्वङ्गीं स्त्रियमुद्हेत्
इति ॥ वर्ज्याश्चाह स एव -
नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥
नर्क्षवृक्षनदीनाम्नीं नान्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम्
इति ॥ अन्यत्रापि -
अनुकूलां विमलाङ्गीं कुशलां कुलजां सुशीलसम्पन्नाम् ।
पञ्चलकारां भार्यां पुरुषः पुण्याधिको लभते
इति ॥
वरलक्षणम्
अथ वरलक्षणम् ॥ सं॰ मालायां बोधायनः -
बन्धुशीललक्षणसम्पन्नः श्रुतवानरोगः
इति ॥ पराशरमाधवीये गौतमः -
विद्याचारित्र्यबन्धुलक्षणशीलसम्पन्नाय दद्यात्
इति ॥ यमोऽपि -
कुलं च शीलं च वपुर्वयश्च विद्यां च वित्तं च सनाथतां च ।
एतान् गुणान् सप्त परीक्ष्य देया कन्या बुधैः शेषमचिन्तनीयम्
इति ॥ याज्ञवल्क्यः -
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात्परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः
इति ॥ नारदश्च -
अपत्यार्थं स्त्रियः सृष्टाः स्त्रीः क्षेत्रं बीजिनो नराः ।
क्षेत्रं बीजवते देयं नाबीजी क्षेत्रमर्हति
इति ॥ पुंस्त्वपरीक्षोपायमप्याह स एव -
यस्याप्सु प्लवते वीर्यं ह्रादि मूत्रं च फेनिलम् ।
पुमान् स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः
इति ॥
परिवेत्रादिनिर्णयः
अथ परिवेत्रादिनिर्णयः ॥ तत्र मनुः -
दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः
इति ॥ परिवेदने परिवेत्रादीनां दोषमाह स एव –
परिवित्तिः परिवेत्ता यया च परिविन्दति ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः
इति ॥ सं॰ मालायां गर्गोऽपि -
सोदर्ये तिष्ठति ज्येष्ठे न कुर्याद्दारसङ्ग्रहम् ।
आवसथ्यं तथाधानं पतितस्त्वन्यथा भवेत्
इति ॥ अन्यत्र -
ज्येष्ठे तिष्ठत्यनूढे वा अग्निहोत्राधिकारिणि ।
अनुज्ञया विनाधानं विवाहं नैव कारयेत्
इति ॥ परिवेदने प्रायश्चित्तमाह यमः -
कृच्छ्रौ द्वयोः पारिवेद्ये कन्यायाः कृच्छ्र एव च ।
अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणं चरेत्
इति ॥ पितृव्यपुत्रादीनां परिवेदने न दोषः इत्याह सं॰ मालायां शातातपः -
पितृव्यपुत्रसापत्नपरनारीसुतेषु च ।
ज्येष्ठेष्वपि च तिष्ठत्सु भ्रातॄणां तु कनीयसाम् ।
दाराग्निहोत्रसंयोगे न दोषः परिवेदने
इति ॥ गौतमोऽपि -
भिन्नोदरे दत्तके च पितृव्यतनयेऽग्रजे ।
दाराऽग्निहोत्रसंयोगे न दोषः परिवेदने ॥
सोदरभ्रातृविषयेऽपि क्वचिन्न दोष इत्याह तत्रैव कात्यायनः -
देशान्तरस्थान्क्लीबांश्च शूद्रतुल्यान्सहोदरान् ।
वेश्यासक्तान्कुवृषणान् पतितानतिरोगिणः ॥
जडमूकान्धबधिरकुब्जवामनखेलकान् ।
अतिवृद्धानभार्यांश्च1 कृषिसक्तान्नृपस्य च ॥
धनवृद्धिप्रसक्तांश्च कामतोऽकारिणस्तथा2 ।
कुहकोन्मत्तरोगांश्च परिविन्दन्न दुष्यति
इति ॥ देशान्तरगतस्य प्रतीक्षणमाह वसिष्ठः -
द्वादशाष्टौ वा वर्षाणि ज्येष्ठभ्रातरमनिविष्टमप्रतीक्षमाणः3 प्रायश्चित्ती भवति इति ॥ एवमेव भगिन्योर्विवाहव्यतिक्रमेऽप्यग्रेदिधिषूत्वादिदोषोऽवगन्तव्यः ॥
ज्येष्ठायां यद्यनूढायां कन्यायामूह्यतेऽनुजा ।
या साग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषर्मता
इत्युक्त्वा तत्पत्योः कृच्छ्रातिकृच्छ्रादिप्रायश्चित्तविधानात् इति ॥
एकनक्षत्रादौ विशेषनिर्णयः
अथैकनक्षत्रादौ विशेष उक्तः प्र॰ पारिजाते -
रोहिण्यार्द्रा मधेन्द्राग्नी तिष्यश्रवणपौष्णभम् ।
उत्तराप्रोष्ठपाच्चैव नक्षत्रैक्येऽपि शोभनाः
इति ॥
विशाखिकाऽऽर्द्राश्रवणप्रजेशतिष्याऽन्त्यतत्पूर्वमघाः प्रशस्ताः । स्त्रीपुंसतारैक्यपरिग्रहे तु शेषा विवर्ज्या इति सङ्गिरन्ते
इति तत्रैव कालनिर्णयवचनम् ॥
अजैकपान्मित्रवसुद्विदैवप्रभञ्जनान्त्यार्कभुजङ्गभानि ।
मुकुन्दजीवान्तकशक्रभानि शुभानि योषिन्नरजन्मभैक्ये
इत्यपि वचनान्तरम् ॥ द्विनक्षत्रे च -
एकराशौ द्विनक्षत्रे पुन्तारा प्रथमा भवेत् ।
अतीव शोभना प्रोक्ता स्त्रीतारा चेद्विनश्यति ॥
भवनद्वययुक्तर्क्षे पूर्वं पुंसां शुभावहम् ।
पश्चाद्भागं तथा स्त्रीणां व्यत्ययस्तु विनाशकृत्
इति ॥ तत्राऽपवाद उक्तो ग्रन्थान्तरे -
वारुणाऽर्कमरुद्दस्र अमिरापो विधिः पिता ।
एकराशौ तु विज्ञेयं स्त्रीपूर्वमपि शोभनम्
इति ॥ विद्यामाधवीये तु -
एकर्क्षेऽपि वरस्य पूर्वमपरं वध्वास्तु भं पूजितं
त्याज्यं नेतरथाऽपि तत्परि हरेन्नक्षत्रमेकं द्वयोः ।
तच्चान्ये शुभमामनन्ति मुनयः शक्रप्रचेतोमघा
मूलाऽऽर्द्रावसुरोहिणीयमपयोहस्ताऽहिपुष्यैर्विना
इति ॥ अथ मूलादिदुष्टनक्षत्रजयोस्तयोः फलमुक्तं मुहूर्तमालायाम्-
अहिमूलाद्यान्त्यवर्जपादजौ श्वशुरौ क्रमात् ।
ज्येष्ठाद्वीशान्त्याङ्घ्रिजौ तु हतोऽन्योन्याग्रजाऽनुजौ
इति ॥ आश्लेषाया आद्यपादं मूलस्यान्त्यपादञ्च वर्जयित्वा इतरपादजौ वधूवरौ क्रमाच्छ्वशुरौ हतः। श्वश्रूश्च श्वशुरश्च श्वशुरौ । आश्लेषान्त्यपादत्रयजातौ वधूवरौ श्वश्रूं मूलाऽऽद्यचरणत्रयजातौ श्वशुरञ्च नाशयतः इत्यर्थः ॥ तथा ज्येष्ठान्त्यचरणोत्पन्नौ वधूवरौ अन्योन्यस्याऽग्रजं हतः - वधूः पत्यग्रजं हन्ति वरस्तु भार्याऽग्रजमित्यर्थः ॥ तथा विशाखान्त्यपादजौ तौ परस्परस्याऽनुजं हतः इति ज्ञेयम् ॥ अन्यत्राऽपि -
मूलजा श्वशुरं हन्ति व्यालजा च तदङ्गनाम् ।
माहेन्द्रजा पतिज्येष्ठं देवरन्तु द्विदैवजा
इति ॥ जन्मनक्षत्राऽज्ञाने नामनक्षत्रादेव सर्वं विचारणीयम् -
अज्ञातजन्मभानान्तु व्यावहारिकनामभात् ।
विचारयेदिदं सर्वं सङ्करो मरणप्रदः
इति मुहूर्तमालोक्तेः ॥
अज्ञातजन्मभानां सर्वेषां नामभात्फलं भवति ।
सेवापरिणयनादौ ग्राह्यं तद्युधि विशेषतः फलदम्
इति विद्यामाधवोक्तेश्च ॥ नामर्क्षन्त्ववकहडचक्रतोऽवगन्तव्यम् ॥ एवं आदौ वधूवरयोर्नक्षत्रदोषादिकं विचार्य कूटगुणैर्विवाहघटने तारतम्यं परिकल्पनीयम् ॥ तत्कल्पनाप्रकारश्चोक्तो मुहूर्तमालायाम् -
इत्थं मिथः स्याद्घटितार्थचिन्तने निन्द्यो गुणैः षोडशभिः करग्रहः ।
मध्यो नखैस्तत्वमितैस्तथोत्तमस्ततोऽधिकश्चेत्पुनरुत्तमोत्तमः
इति॥
मासादिनिर्णयः
अथ विवाहे मासादिनिर्णयः ( बो. गृ. सू. १. १)
सर्वे मासा विवाहस्य ॥ शुचितपस्तपस्यवमित्येके ॥ रोहिणी मृगशीर्षमुत्तरे फल्गुनी स्वातीति विवाहस्य नक्षत्राणि ॥ पुनर्वसू तिष्यो हस्तश्श्रोणा रेवतीत्यन्येषां भूतिकर्मणाम् ॥ यानि चान्यानि पुण्योक्तानि नक्षत्राणि
इति ॥ आश्वलायनोऽपि -
उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः सार्वकालमेके विवाहम्
इति ॥ सं॰ मालायां नारदः -
माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः ।
कार्तिको मार्गशीर्षश्च मध्यमावितरेऽधमाः ॥
न कदाचिद्दशर्क्षेषु भानोरार्द्राप्रवेशनात् ।
विवाहं देवतानाञ्च प्रतिष्ठाञ्चोपनायनम्
इति ॥ व्यासः -
माघ फाल्गुनवैशाखे यद्यूढा मार्गशीर्षके ।
ज्येष्ठे चाऽऽषाढमासे व सुभगा वित्तसंयुता ॥
श्रावणे वाऽपि पौषे वा कन्या भाद्रपदे तथा ।
चैत्राश्वयुक्कार्तिकेषु याति वैधव्यतां ध्रुवम्
इति ॥ निषिद्धेष्वपि केषुचिद्व्यवस्थामाह तत्रैव वसिष्ठः -
पौषेऽपि कुर्यान्मकरस्थितेऽर्के चैत्रे भवेन्मेषगतो यदा स्यात् ।
प्रशस्तमाषाढकृतं विवाहं वदन्ति गर्गा मिथुनस्थितेऽर्के
इति ॥ मुहूर्तमालायामपि -
कार्तिकपौषमधुष्वपि वृश्चिकमकराऽजगो रविर्गाह्यः
इति ॥ यस्मिन्देशे पौषश्शून्यमासत्वेनाऽभिमतस्तत्र मकरपौषोऽपि त्याज्य एव ॥
पौषो मासश्शून्य इति कैश्चिद्देशेषु केषुचित् ।
वर्ज्यते शुभकार्येषु विवाहे तु विशेषतः
इति विद्यामाधवोक्तः ॥ आद्यगर्भजस्य विवाहादौ जन्ममासादीनां ज्येष्ठमासस्य च निषेधमाह प्र॰ पारिजाते श्रीपतिः -
जन्ममासि न तु जन्मभे तथा नैव जन्मदिवसेऽपि कारयेत् ।
आद्यगर्भदुहितुः सुतस्य वा ज्येष्ठमासि न हि जातु मङ्गलम्
इति ॥ ज्येष्ठमासे विशेषमाह सं॰ मालायां मिहिरः -
ज्येष्ठस्य ज्येष्ठकन्याया विवाहो न प्रशस्यते ।
तयोरन्यतरे ज्येष्ठे ज्येष्ठमासः प्रशस्यते ॥
द्वौ ज्येष्ठौ मध्यमौ प्रोक्तावेकज्येष्ठं सुखावहम् ।
ज्येष्ठत्रयं न कुर्वीत विवाहे सर्वसम्मतम्
इति ॥ अथ विवाहे ग्राह्यं गोचरबलमाह सं॰ मालायां गर्गः -
चन्द्रताराबलं मुख्यं दम्पत्योः पाणिपीडने ।
मुख्यं गुरुबलं वध्वा वरस्येष्टं रवेर्बलम्
इति ॥ सिंहस्थे गुरौ विशेषमाह प्र॰ पारिजाते गौतमः -
कण्ठीरवस्थे धिषणे विवाहं कुर्यान्न यात्राव्रतबन्धदीक्षाः ।
गोदावरीं चोत्तरतो हि दोषो गोदावरी दक्षिणतो न दोषः
इति ॥ अथ तिथीराह प्र॰ पारिजाते वसिष्ठः -
शुक्लाद्वितीयाऽऽदित एव कृष्णपक्षे दशम्यन्तगताश्शुभास्स्युः ।
तास्वष्टमीस्कन्दगणेशदुर्गाचतुर्दशी चाऽपि तिथिर्विवर्ज्या
इति ॥ नृसिंहोऽपि -
रिक्ता पर्वाऽष्टमी वर्ज्या पौर्णमासी शुभावहा
इति ॥ अन्यच्च -
हित्वोभयोश्च नवमीञ्च चतुर्दशीश्च कृष्णस्थितामपि च पञ्चदशीञ्चतुर्थीम् ।
अन्येषु वै तिथिषु लग्नबलं विलोक्य कन्याप्रदानमपि वृद्धिदमाहुरन्ये
इति ॥ अत्र विशेषमाह सं॰ मालायां व्यासः -
त्रयोदशदिने पक्षे विवाहादि न कारयेत् ।
गर्गादिमुनयः प्राहुः कृते मृत्युस्तदा भवेत्
इति ॥ अथ वारांशकादिकमाह तत्रैव नृसिंहः -
बुधशुक्रेन्दुजीवानां वारेषु शुभदं भवेत् ।
शुभानामांशकं श्रेष्ठं वर्गादि च विवाहके
इति ॥ लल्लोऽपि -
क्रूरग्रहदिनवारा न शोभनाः सौरमपहाय ।
व्यतिपातविष्टिवैधृतिवर्ज्याश्शुभदाः करणयोगाः
इति ॥ विद्यामाधवस्तु -
दर्शस्स्वपार्श्वसहितोऽह्नि कुजार्किवारौ
इति कुजशनिवारयोरहन्येव दोषित्वकथनेन रात्रौ ग्राह्यत्वं ज्ञापयति । अन्यत्राऽपि -
न वारदोषाः प्रभवन्ति रात्रौ
इत्युक्तम् ॥ अथ नक्षत्राण्याह श्रीपतिः -
मूलमैत्रमृगरोहिणीकरैः पौष्णमारुतमघोत्तरान्वितैः ।
निर्व्यथाभिरुडुभिर्मगीदृशां पाणिपीडनविधिर्विधीयते
इति ॥ विद्यामाधवोऽपि -
ज्योतिश्शास्त्रविशारदैर्निगदिताः पाणिग्रहे रोहिणी
स्वाती पौष्णनिशेशनैर्ऋतमघासावित्रमित्रोत्तराः ।
देशाचारबलेन नैर्ऋतमघे केचिद्विदुर्मध्यमे
स्त्रीजन्मत्रयमाहुरत्र शुभदं पुंवत्परास्तारकाः
इति ॥ जन्मविपदादिताराणां सामान्यतो वर्ज्यत्वं स एवाह -
जन्मविपत्प्रत्यरवधजन्माष्टमराशितारकास्त्याज्याः”
इति ॥ एतेष्वपि पर्यायभेदेन पादभेदेन च ग्राह्यत्वमुक्तं तच्चौलप्रकरणे द्रष्टव्यम् ॥ आपदि विपदादितारेष्वप्यनिष्टपरिहाराय दानमुक्तं नि॰ सिन्धौ -
विपत्तारे गुडं दद्यान्निधने तिलकाञ्चनम् ।
प्रत्यरे लवणं दद्याच्छागं दद्यात्रिजन्मसु ॥
चन्द्रे च शङ्खं लवणं च तारे तिथौ विरुद्ध त्वथ तण्डुलांश्च ।
धान्यं च दद्यात्करणे च वारे योगे विरुद्ध कनकं प्रदेयम्
इति ॥ अथ लग्नान्याह विद्यामाधवः -
कन्यातुलानृमिथुनान्यतिपूजितानि मध्याः कुळीरझषचापवृषा विवाहे ।
तेष्युत्तमाश्शुभयुतास्सगुरुञ्च सिंहं कुम्भं मृगञ्च ससितं शुभमाहुरेके
इति ॥ लग्नाद्विस्थानस्थितानां क्रूरग्रहाणां फलान्याह स एव -
मृत्युं निर्धनतां श्रियं सुखसुहृद्भङ्गं तनूजक्षयं
वृद्धिं शत्रुभयेन भर्तृमरणं रोगञ्च धर्मच्युतिम् ।
दौश्शील्यं विभवं व्ययञ्च भवनेष्यात्मादिषूग्रग्रहाः
कुर्वन्ति क्रमतस्तमोऽर्कतनयावारोग्यमत्राष्टमे
इति ॥ अथ लग्नभङ्गयोगमाह मुहूर्तमालाकारः -
रविर्लग्ने चन्द्रस्तनुरिपुमृतिस्थः क्षितिसुतो
ऽष्टलग्नाभ्रे ज्ञेज्यौ निधन उशनास्त्र्यष्टरिपुषु ।
शनिर्लग्नान्त्यस्थस्तनुपतिरथाऽर्यष्टमगृहे
विवाहे स्युस्सर्वे मदनसदने नैव शुभदाः
इति ॥ अथाऽत्राऽन्येऽपि चौलप्रकरणोक्ताः पातगुलिकाऽस्तादयो महादोषाः, सङ्क्रान्तिग्रहणादयश्च परिवर्जनीया भवन्ति ॥ सङ्क्रान्तौ वर्ज्यघट्यादिकमाह प्र॰ पारिजाते नारदः -
त्याज्यास्सूर्यस्य सङ्क्रान्ते पूर्वतः परतस्सदा ।
विवाहादिषु कार्येषु नाड्यः षोडश षोडश
इति ॥ वसिष्ठोऽपि -
विषुवदयनयोर्दिवसत्रयं हरिपदे षडशीतिमुखेऽपि च ।
पूर्वतोऽपि परतोऽपि सङ्क्रमात्पुण्यकालघटिकास्तु षोडश
इति ॥ विद्यामाधवोऽपि -
त्यजन्ति पूर्वञ्च परञ्च सङ्क्रमाद्दिनानि पड्विष्णुपदात्तथायनात् ।
शुभक्रियायां विषुवात्परं दिनं परं परेभ्यश्च दिनार्धमुत्सृजेत्
इति ॥ विष्णुपदादि सङ्क्रान्तिसंज्ञामाह स एव -
अर्के स्थिरान्विशति विष्णुपदाभिधानास्तेभ्यः पराश्च षडशीति मुखाश्चतस्रः । सङ्क्रान्तयस्त्वजमृगास्यतुलाकुलीरा ज्ञेयाः क्रमादुदगवाग्विषुवायनाख्याः
इति ॥ खेर्वृषसिंहवृश्चिककुम्भराशिसङ्क्रमा विष्णुपदाख्याः । मिथुनकन्याधनुमीनसङ्क्रमाः षडशीतिमुखा । मेषतुलासङ्क्रमौ क्रमेणोत्तरदक्षिणविषुवाख्यौ । मकरकर्कसङ्क्रमावुत्तरदक्षिणायनाख्याविति ज्ञेयम् ॥ अथ ग्रहणे वर्ज्यदिनादिकमाह प्र॰ पारिजाते नारदः -
उत्पातग्रहणादूर्ध्वं सप्ताहमखिलग्रहे ।
नाखिले त्रिदिनं नेष्टं नेष्टं तद्भमृतुत्रयम् ॥
ग्रस्तास्ते त्रिदिन पूर्वं पश्चाद्ग्रस्तोदये तथा ।
संन्ध्यायान्तु4 त्रित्रिदिनं निश्शेषे सप्तसप्त च
इति ॥ बृहस्पतिस्तु -
पश्चाद्देवोपरागे तु दोषस्स्यान्नैव पूर्वतः ।
गृहदाहादयो दोषा यथा स्युर्दहनात्परम्
इति ॥ अथ विवाहमारभ्य चतुर्थीकर्मपर्यन्तं मध्ये श्राद्धं दर्शतिथिं चाऽवश्यं वर्जयेत् -
विवाहमारभ्य चतुर्थिमध्ये श्राद्धं दिनं दर्शदिनं यदि स्यात् । वैधव्यमाप्नोति तदाशु कन्या जीवत्पतिश्चेदनपत्यता स्यात्
इति ज्योतिर्निबन्धे तत्सन्निपातेऽनिष्टफलाभिधानात् ॥ अत्र श्राद्धयुक्तस्यैव श्राद्धतिथेर्दूषकत्वं न तु दर्शतिथिवत्केवलश्राद्धतिथेः
वृत्ते विवाहे परतस्तु कुर्याच्छ्राद्धं स्वधाभिर्न तु दूषयेत्तम्
इति स्मृतिवचनेन तज्ज्ञापनात् ॥
नान्दीश्राद्धे कृते पश्चाद्यावन्मातृविसर्जनम् ।
दर्शश्राद्धं क्षयश्राद्धं स्नानं शीतोदकेन च ॥
अपसव्यं स्वधाकारं नित्यश्राद्धं तथैव च ।
ब्रह्मयज्ञं चाध्ययनं नदीसीमाविलङ्घनम् ॥
उपवासव्रतं चैव श्राद्धभोजनमेव च ।
नैव कुर्युस्सपिण्डाश्च मण्डपोद्वासनावधि
इति सं॰ मालायां गार्ग्येण विवाहादिशुभकर्ममध्ये श्राद्धादीनां निषेधाच्च ॥ अथ चतुःपुरुषात्मकुले मृतस्य मासिकादिप्रेतकर्माण्यनिर्वर्त्य विवाहादिकं न कार्यम् ॥ तथा च निर्णयसिन्धौ मेधातिथिः -
प्रेतकर्माण्यनिर्वर्त्य चरेन्नाऽभ्युदयक्रियाम् ।
आचतुर्थं ततः पुंसि पञ्चमे शुभदं भवेत्
इति ॥ तत्र कर्तव्यमाह शाट्यायनिः -
प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा ।
अपकृष्याऽपि कुर्वीत कर्तुं नान्दीमुखं द्विजः
इति । स्मृत्यन्तरे च -
सपिण्डीकरणादर्वागपकृष्य कृतान्यपि ।
पुनरप्यपकृष्यन्ते वृद्ध्युत्तरनिषेधनात्
इति ॥
एकोदरादीनां समानक्रियादिनिर्णयः
अथैकोदरादीनां समानक्रियादिनिर्णयः ॥ सं॰ मालायां सारावलीवचनम् -
एकोदरप्रसूतानामेकस्मिन्वत्सरे सदा ।
विवाहं नैव कुर्वन्ति कुर्वन्ति तु ततोऽन्यथा
इति ॥ मदनरत्ने नारदः -
एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः ।
न समानक्रियां कुर्यान्मातृभेदे विधीयते
इति ॥ न समानक्रियामित्यनेनैकोदरयोश्चौले द्वयोर्व्रतबन्धौ द्वयोर्विवाहौ न कुर्यादिति बोध्यते ॥ अन्यच्चाह स एव -
पुत्रोद्वाहात्परं पुत्री विवाही न ऋतुत्रये ।
न कार्यं व्रतमुद्वाहान्मङ्गले नाप्यमङ्गलम् ॥
विवाहश्चैव कन्यानां षण्मासाभ्यन्तरे यदि ।
असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवेत् ॥
नैकस्मिन्वत्सरे कार्यौ गेहोद्वाहौ कथञ्चन
इति॥ पारिजाते गर्गः -
भ्रातृयुग्मे स्वसृयुग्मे भ्रातृस्वस्रोश्च युग्मके ।
न जातु मङ्गलं कार्यमेकस्मिन्मण्डपेऽहनि
इति ॥ ज्योतिर्विवरणे -
एकोदरयोर्वरयोरेकदिनोद्वाहतो भवेन्नाशः ।
नद्यन्तर एकदिने केऽप्याहुः सङ्कटे च शुभम्
इति ॥ प्र॰ पारिजाते -
गिरिार्वाऽपि महास्त्रोता यं देशं व्यवधास्यति ।
तं पृथग्देशमित्याहुर्विवाहादिर्न दुष्यति ॥
नदीतटविभेदेन विवाहोपनयौ चरेत् ।
मासर्तुतिथिभेदांश्च तदुद्दिश्य न चिन्तयेत्
भिन्नमातृकयोर्भगिन्योस्तु विशेषमाह सं॰मालायां मेधातिथिः -
पृथङ्मातृजयोः कार्यो विवाहस्त्वेकवासरे ।
एकस्मिन्मण्डपे कार्यः पृथग्वेदिकयोस्तथा ॥
पुष्पपट्टिकयोः कार्यं दर्शनं न शिरस्थयोः ।
भगिनीभ्यामुभाभ्याञ्च यावत्सप्तपदी भवेत्
इति ॥ यमलयोश्चाह गार्ग्यः -
एकस्मिन्वासरे प्राप्ते कुर्याद्यमलजातयोः ।
क्षौरञ्चैव विवाहञ्च मौञ्जीबन्धनमेव च
इति ॥ भट्टकारिकायाम् -
एकस्मिन्वत्सरे चैकवसरे मण्डपे तथा ।
कर्तव्यं मङ्गलं स्वस्रोर्भ्रात्रोर्यमलजातयोः
इति ॥ अत्रैकदिनविवाहबोधकानि वचनान्यभ्यनुज्ञापराणि न तु विधायकानीति मन्तव्यम् ॥ संहितासारावल्याम् -
न मण्डनान्मुण्डनमूर्ध्वमिष्टं न पुत्रयोर्मण्डनमेकवर्षे ।
न पुंविवाहोर्ध्वमृतुत्रयेऽपि विवाहकार्यं दुहितुः प्रकुर्यात्
इति ॥ मदनरत्नेऽत्रिः -
कुले ऋतुत्रयादर्वाङ्मण्डनान्न तु मण्डनम् ।
प्रवेशान्निर्गमं चैव न कुर्यान्मङ्गलत्रयम्
इति ॥ अत्र कुलं पुरुषत्रयपर्यन्तमेवेति ज्ञेयम् ॥ यदाह मेधातिथिः -
पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम् ।
प्रवेशनिर्गमौ तद्वत्तथा मण्डनमुण्डने
इति ॥ मुण्डनादिशब्दार्थमाह कात्यायनः -
मुण्डनश्चौलमित्युक्तं व्रतोद्वाहौ तु मण्डनम् ।
पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः
इति ॥ “न कुर्यान्मङ्गलत्रयम्” इत्यत्र मङ्गलपदेन मौञ्जीविवाहावेव ग्राह्यौ ॥ “नाग्निकार्यत्रयं5 भवेत्" इति वचनान्तरेणैकवाक्यतोपपत्तेः ॥ केचित्तु यत्किञ्चिच्छुभकार्यत्रयमपि न शुभमित्याहुः ॥ ज्योतिर्निबन्धे -
मातृयज्ञक्रियापूर्वं ज्येष्ठं कृत्वा तु मङ्गलम् ।
ऋतुत्रयं पुनर्यावन्न कुर्याल्लघुमङ्गलम्
इति ॥ वर्षभेदे6 तूक्तानिषेधानामपवाद उक्तः सं॰ मालायाम् -
ऋतुत्रयस्य मध्ये सेदन्याऽब्दस्य प्रवेशनम् ।
तदा ह्येकोदरस्याऽपि विवाहस्तु प्रशस्यते
इति ॥
फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने ।
भेदादब्दस्य कुर्वीत नर्तुत्रयविलङ्घनम्
इति च ॥ ॥ अथ सङ्कटे चतुर्दिनव्यवधानेन वा कार्यमित्याह तत्रैव गर्गः -
पुत्रीपरिणयादूर्ध्वं यावद्दिनचतुष्टयम् ।
पुत्र्यन्तरस्य कुर्वीत नोद्वाहमिति सूरयः
इति ॥ कपर्दिकारिका च -
उद्बाह्य पुत्रीं न पिता विदध्यात्पुत्र्यन्तरस्योद्वहनं कदाऽपि ।
यावच्चतुर्थं दिनमत्र सर्वं समाप्य चान्योद्वहनं विदध्यात्
इति ॥ कश्यपोऽपि -
मौञ्जीबन्धस्तथोद्वाहः षाण्मासाऽभ्यन्तरेऽपि वा ।
पुत्र्युद्वाहं न कुर्वीत विभक्तानां न दोषकृत्
इति ॥ ॥ अतिसङ्कटे -
न प्रतिषिद्धं लग्नं सम्प्राप्ते सङ्कटे महति ।
एकोदरसम्भवयोरेकाहे भिन्नमण्डपे काले
इति तत्रैव ज्योतिर्विवरणोक्तिः ॥ अथ प्रत्युद्वाहादिनिषेधमाह प्र॰ पारिजाते नारदः -
प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् ।
न चैकजातयोः पुंसोरेकजन्ये तु कन्यके
इति ॥ अन्यच्च -
नैकजन्ये तु कन्ये द्वे पुत्रयोरेकजन्ययोः ।
न पुत्रीद्वयमेकस्मै प्रदद्यात्तु कदाचन
इति ॥ स्वस्य कन्या यस्य पुत्राय दत्ता तत्कन्यायाः स्वपुत्रेण परिणयनं प्रत्युद्वाहः स न कार्यः ॥ एकजन्ये द्वे कन्यके एकस्मै एकजन्ययोर्द्वयोरपि वा नोद्वाहयेदित्यर्थः7 ॥
प्रतिकूलनिर्णयः
अथ प्रतिकूलनिर्णयः ॥ निर्णयसिन्धौ मेधातिथिः -
वधूवरार्थे घटिते सुनिश्चिते वरस्य गेहेऽप्यथ कन्यकायाः ।
मृत्युर्यदि स्यान्मनुजस्य कस्यचित्तदा न कार्यं स्खलु मङ्गलं बुधैः
इति ॥ भृगुः -
वाग्दानाऽनन्तरं यत्र कुलयोः कस्यचिन्मृतिः ।
तदोद्वाहो नैव कार्यः स्ववंशक्षयदोषतः
इति ॥ शौनकः -
वरवध्वोः पिता माता पितृव्यश्च सहोदरः ।
एतेषां प्रतिकूलञ्च महाविघ्नप्रदं भवेत् ॥
पिता पितामहश्चैव माता चैव पितामही ।
पितृव्यः स्त्री सुतो भ्राता भगिनी चाऽविवाहिता ॥
एभिरत्र विपनैश्च प्रतिकूलं बुधैः स्मृतम् ।
अन्यैरपि विपन्नैस्तु केचिदूचुर्न तद्भवेत्
इति ॥ माण्डव्योऽपि -
वाग्दानानन्तरं माता पिता भ्राता विपद्यते ।
विवाहो नैव कर्तव्यः स्ववंशहितमिच्छता
इति ॥ अथ निश्चितवरस्य निश्चितवध्वा सह विवाहो न कार्य इत्यर्थोऽभिप्रेतः ॥ तेनाऽन्येन वरेण वाऽन्यथा वध्वा वा सह विवाहो न निषिध्यते इति ज्ञेयम् ॥ सङ्कटे तमप्यनुजानाति तत्रैव मेधातिथिः -
वाग्दानाऽनन्तरं यत्र कुलयोः कस्यचिन्मृतिः ।
तदा संवत्सरादूर्ध्वं विवाहः शुभदो भवेत् ।
पुरुषत्रयपर्यन्तं प्रतिकूलं सगोत्रिणाम् ॥
प्रेतकर्माण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियाम् ।
आचतुर्थं ततः पुंसि पञ्चमे शुभदं भवेत्
इति ॥ अथाऽत्राऽऽशौचतारतम्यमुक्तं स्मृतिरत्नावल्याम् -
पितुरब्दमिहाशौचं तदर्धं मातुरेव च ।
मासत्रयन्तु भार्यायास्तदर्धं भ्रातृपुत्रयोः ॥
अन्येषान्तु सपिण्डानामाशौचं मासमीरितम् ।
तदन्ते शान्तिकं कृत्वा ततो लग्न विधीयते
इति ॥ ज्योतिष्प्रकाशे -
प्रतिकूलेऽपि कर्तव्यो विवाहो मासतः परम् ।
शान्तिं विधाय गां दत्वा वाग्दानादि चरेत्पुनः
इति ॥ शान्तिं विनायकशान्तिम् इत्यर्थः ॥ तथा च मेधातिथिः -
सङ्कटे समनुप्राप्ते याज्ञवल्क्येन योगिता ।
शान्तिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत्
इति ॥ अथ सूतकप्राप्तौ निर्णयमाह सं॰ मालायां विष्णुः -
व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ।
प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम्
इति ॥ प्रारम्भशब्दार्थमप्याह स एव -
प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः ।
नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया
इति ॥ अत्र वरणं मधुपर्कम् ॥
गृहीतमधुपर्कस्य यजमानाच्च ऋत्विजः ।
पश्चादशौचे पतिते न भवेदिति निश्चयः
इति निर्णयसिन्धौ ब्रह्मोक्तेः ॥ आरम्भोत्तरं पतितमाशौचं समाप्तिपर्यन्तं न स्पृशति ॥ तदाह प्र॰ पारिजाते संवर्तः -
दीक्षान्तोऽवभृथो यज्ञे कङ्कणान्तं वधूवरौ ।
व्रते ब्रह्मौदनं यावद्बटोः पालाशदर्शनम् ॥
तावन्नाशौचमित्याहुः श्राद्धे विप्राऽङ्घ्रिशोधनात्
इति ॥ अनारब्धेऽपि कर्मणि मुहूर्तान्तराद्यलाभे सम्भृतसम्भारस्य सूतकिनोऽप्यधिकारप्राप्त्युपायमाह सं॰ मालायां विष्णुः -
अनारब्धविशुद्ध्यर्थं कूष्माण्डैर्जुहुयाद्घ्रतम् ।
गां दद्यात्पञ्चगव्याशी ततः शुध्यति सूतकी
इति ॥ ॥ अथ मातरि रजस्वलायामपि विवाहं न कार्यमित्याह सं॰ मालायां मेधातिथिः -
वध्वा वरस्य वा माता भवेद्यदि रजस्वला ।
तस्याः शुद्धेः परं कार्यं माङ्गल्यं मनुरब्रवीत् ॥
उद्वाहव्रतचूडासु माता यदि रजस्वला ।
तदा न मङ्गलं कार्यं शुद्धौ कार्यं शुभेप्सुभिः
इति ॥ प्रारम्भोत्तरं रजस्सम्भवे प्रारम्भात्प्रागपि मुहूर्तान्तराऽलाभाद्यतिसङ्कटे चौलप्रकरणोक्तश्रीशान्तिं कृत्वा विवाहादिकं कुर्यात् ॥
कन्यादातृनिर्णयः
कन्यादातृनिर्णयः ॥ तत्र याज्ञवल्क्यः -
पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥
अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ ॥
गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयं वरम्
इति ॥
नारदोऽपि -
पिता दद्यात्स्वयं कन्यां भ्राता वाऽनुमतेः पितुः ।
मातामहो मातुलश्च सकुल्या बान्धवास्तथा ॥
माता त्वभावे सर्वेषां प्रकृतौ यदि वर्तते ।
तस्यामप्रकृतिस्थायां कन्यां दद्युः स्वजातयः
इति ॥ पुराणान्तरे -
आत्मीकृत्य सुवर्णेन परकीयां तु कन्यकाम् ।
धर्म्येण विधिना दातुमसगोत्रोऽपि युज्यते ॥
अनाथां कन्यकां दृष्ट्वा यो दद्यात्सदृशे वरे ।
द्विगुणं फलमाप्नोति कन्यादाने यदीरितम्
इति ॥ अथ कन्याया रजोदर्शनपर्यन्तं विवाहाऽकरणे दोषमाह शाट्यायनिः -
माता च जनकश्चैव ज्येष्ठो भ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम्
इति ॥ हारीतोऽपि -
पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया तत्पतिर्वृषलीपतिः
इति ॥ तत्र प्रायश्चित्तपूर्वकं विवाहं कुर्यात् ॥ प्रायश्चित्तमाह हेमाद्रिः -
कन्यका तु विवाहात्माग्रजसा चेत्परिप्लुता ।
पादकृच्छ्रेण शुद्धा स्यात्पाणिग्रहणकर्मणि
इति ॥ शौनकस्तु कन्यापिता यावत्यो ऋतुसङ्ख्यास्तावतीर्गा दद्यात्, कन्या त्रिदिनमुपोष्य पञ्चगव्यं प्राश्नीयात्, उद्वोढा च कुष्माण्डैर्घृतं जुहुयादित्याह ॥ दृष्टेऽपि रजसि पित्रादयो यद्युपेक्षेरन्तदा स्वयमेव वरं वरयेदिति ॥ (बो. ध. सू.४.१)
त्रीणि वर्षाण्यृतुमती काङ्क्षेत पितृशासनम् ।
ततश्चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ।
अविद्यमाने सदृशे गुणनिमपि श्रयेत्
इति ॥ मनुरपि -
त्रीणि वर्षाण्युदीक्षेत कुमार्यूतुमती सती ।
उर्ध्वन्तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥
अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् ।
नैनः किञ्चिदवाप्नोति न च यं साधिगच्छति
इति॥
विवाहभेदाः
अथ विवाहभेदाः ॥
ते च ब्राह्मप्रजापत्यार्षदैवगान्धर्वाऽसुरराक्षसपैशाचा
इत्यष्टविधा भवन्ति । तेषामाद्याश्चत्वारो ब्राह्मणस्य विहितास्तेष्वपि पूर्वः पूर्वश्श्रेयान् । तथा च - (बो.ध.सू. १.२०-२१)
अष्टौ विवाहाः ॥ श्रुतिशीले विज्ञाय ब्रह्मचारिणेऽर्थिने कन्या दीयते स ब्राह्मः ॥ आच्छाद्याऽलङ्कृत्य ‘एषा सहधर्मं चर्यताम्’ इति प्राजापत्यः ॥ पूर्वां लाजाहुतिं हुत्वा गोमिथुनं कन्यावते दत्वा ग्रहणमार्षः ॥ दक्षिणासु नीयमानास्वन्तर्वेदि ऋत्विजे स देवः ॥ सकामेन सकामायां मिथस्संयोगो गान्धर्वः ॥ धनेनोपतोष्याऽऽसुरः ॥ प्रसह्य हरणाद्राक्षसः ॥ सुप्तां मत्तां प्रमतां वोपयच्छदिति पैशाचः ॥ तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्वपि पूर्वः पूर्वश्श्रेयान् ॥ उत्तरेषामुत्तरोत्तरः पापीयान् ॥ अत्राऽपि षष्ठसप्तमौ क्षत्रधर्मानुगतौ तत्प्रत्ययत्वात्क्षत्रस्येति ॥ पञ्चमाष्टमौ वैश्यशूद्राणाम् ॥ अयन्त्रितकलत्रा हि वैश्यशूद्रा भवन्ति ॥ कर्षणशुश्रुषाऽधिकृतत्वात् ॥ गान्धर्वमप्येके प्रशंसन्ति सर्वेषां स्नेहानुगतत्वात् ॥ यथायुक्तो विवाहस्तथायुक्ता प्रजा भवतीति विज्ञायते ॥ अथाऽप्युदाहरन्ति -
साधवस्त्रिपुरुषमार्षाद्दश दैवाद्दश प्राजापत्याद्दश पूर्वान्दशाऽपरानात्मानञ्च ब्राह्मीपुत्र
इति विज्ञायते ॥ वेदस्वकिरणशक्तिरप्येवंविधानामेव पुत्राणां भवतीति ॥
क्रीता द्रव्येण या नारी सा न पत्नी विधीयते ।
सा न दैवे न सा पित्र्ये दासीं तां कश्यपोऽब्रवीत्
इति ॥ कन्याविक्रयिणामपि दोषोऽभिहितः -
शुल्केन ये प्रयच्छन्ति स्वसुतां लोभमोहितः ।
आत्मविक्रयिणः पापा महाकिल्विषकारकाः ॥
पतन्ति नरके घोरे घ्नन्ति चाऽऽसप्तमं कुलम् ।
गमनागमनं चैव सर्वं शुल्को विधीयते ॥
एतेन क्रयविक्रयौ ब्राह्मणेन सर्वथा न कार्यावित्युक्तं भवति ॥ नन्वेवमार्षविवाहोऽपि निन्द्यः स्यात्तत्राऽपि गोमिथुनदानस्य शुल्करूपस्य सत्त्वादिति चेन्मैवम् -
आर्षे गोमिथुनं शुल्कं8 केचिदाहुर्मृषैव तत् ॥
अल्पो वाऽपि महान्वाऽपि क्रियते तावतैव सः
इति मनुना गोमिथुनस्य शुल्कत्वं मतान्तरेणानूद्य निराकरणात् ॥ तथा
पूर्वे विवाहाश्चत्वारो धर्म्यास्तोयप्रदानिकाः ।
अशुल्का ब्राह्मणार्हाश्च तारयन्ति द्वयोः कुलम्
इति देवलेन ब्राह्मणादि चतुर्णामप्यविशेषेणाशुल्कतयैव ब्राह्मणार्हत्वेनोपपादनाच्च ॥
मण्डपवेदिकयोर्निर्माणविधिः
अथ मण्डपवेदिकयोर्निर्माणविधिः ॥ सं॰ मालायां वसिष्ठः -
षोडशारत्निकं कुर्याच्चतुर्द्वारोपशोभितम् ।
मण्डपं तोरणैर्युक्तं तत्र वेदिं प्रकल्पयेत् ॥
अवहस्तन्तु रचयेन्मण्डपं वा द्विषट्करम्
इति ॥ निर्णयसिन्धौ -
मङ्गलेषु च सर्वेषु मण्डपो गृहमानतः । कार्यः षोडशहस्तो वा द्विषड्ढस्तो दशावधि ॥
स्तम्भैश्चतुर्भिरेवात्र वेदिमध्ये प्रतिष्ठिता
इति ॥ वेदिकामाह नारदः -
हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समन्ततः ।
स्तम्भैश्चतुर्भिस्सुश्लक्ष्णां वामभागे च सद्मनि ॥
समां तथा चतुर्दिक्षु सोपानरतिशोभिताम् ।
प्रागुदक्प्रवणां रम्भास्तम्भैर्हंसशुकादिभिः ॥
विचित्रेणाङ्कितैः कुंभैर्विविधैस्तोरणाङ्कुरैः ।
शृङ्गारपुष्पनिकरैर्वर्णकैः समलङ्कृताम् ॥
विप्राशीर्वचनैः पुण्यैस्त्रिभिर्दीपैर्मनोरमाम् ।
वादित्रगीतनृत्ताद्यैर्हृदयानन्दिनीं शुभाम् ॥
एवं विधामारुरुक्षेन्मिथुनं साग्निवेदिकाम्
इति ॥
लग्नघटीस्थापनविधिः
अथ लग्नघटीस्थापनविधिमाह प्र॰ पारिजाते नारदः -
षडङ्गुलमितोत्सेधं द्वादशाङ्गुलमायतम् ॥
कुर्यात्कमलवत्ताम्रपात्रं तद्दशभिः पलैः ॥
माषत्रयत्र्यंशयुतस्वर्णवृत्तशलाकया ।
वेदाङ्गुलैः सम्मितया तथा विद्धमतिस्फुटम्
इति ॥ (चतुरङ्गुलशलाकावृत्तं कुर्यात्सुवर्णपादेन, इति ग्रन्थान्तरे ) ।
ताम्रपात्रे जलैः पूर्णे गन्धपुष्पैरलङ्कृते ।
तण्डुलस्थे स्वर्णयुते वस्त्रयुग्मेन वेष्टिते ॥
मण्डलार्धोदयं वीक्ष्य रवेस्तत्र विनिक्षिपेत् ।
मन्त्रेणानेन पूर्वोक्तलक्षणं यन्त्रमुत्तमम्
इति ॥ मन्त्रस्तु -
मुख्यं त्वमसि यन्त्राणां ब्रह्मणा निर्मितं पुरा ।
भव भावाय दम्पत्योः कालसाधनकारणम्
इति ॥
एवं सुलग्ने दम्पत्योः कारयेत्सम्यगीक्षणम् ।
दिवा वा यदि वा रात्रौ विवाहदिवसे शुभे
इति ॥ अयं विधिर्वधूगृहे आवश्यकस्तत्रैव विवाहक्रियानिर्वर्तनात् ॥
विवाहे कर्तव्यविषयाः
अथ विवाहे कर्तव्यविषयाः ॥ ( बो. गृ. सू. १. १) “उदगयन” इत्यादि गृह्यसूत्रेण वधूनिश्चयार्थं वरप्रेषणं, वाग्दानं, वधूगृहगतस्य वरस्य मधुपर्कार्हणं, कन्यादानं, वधूवरयोरन्योन्यनिरीक्षणम्, वध्वाः पाणिग्रहणं, सप्तपदी, वेद्यामानयनं, विवाहहोमादिकं चेत्येतान्युक्तानि भवन्ति ॥ अन्यान्यपि - सभापूजा, अक्षतारोपणं, कण्ठसूत्रबन्धनं, वधूवरवस्त्राञ्चलयोर्ग्रथिबन्धनम्, विप्रार्चनमाशीर्ग्रहणं चोति स्मृत्यन्तरोक्तान्याचारात्परिगृह्यन्ते ॥ आचारं च विवाहे विशेषतः प्रमाणयत्याश्वलायनः
अथ खलूच्चावचा जनपदधर्मा ग्रामधर्माश्च तान्विवाहे प्रतीयात्
इत्यादिना ॥ अतश्चात्र विवाहे आचारप्राप्तान्यादरणीयानि भवेयुः ॥
(बो. गृ. सू. १. १. २२-२४)
पूर्वेद्युरेवर्धिपूर्तेषु युग्मान्ब्राह्मणान् भोजयेत् । प्रदक्षिणमुपचारः । पुष्पफलाक्षतमिश्रैर्यवैस्तिलार्थमुपलिप्य दध्योदनं सम्प्रकीर्य दक्षिणं जानुं भूमौ निधाय सव्यमुद्धृत्य ‘इडा देवहूः’ इति जपित्वा ‘नान्दीमुखाः पितरः प्रीयन्ताम्’ इति वाचयित्वा ‘अद्य विवाहः’ इति ब्राह्मणानन्नेनपरिविष्य पुण्याहं स्वस्तिऋद्धिमित्योङ्कारपूर्वं त्रिस्त्रिरेकैकामाशिषो वाचयित्वा ॥
वरस्य वधूगृहगमनम्
अथ वरस्य वधूगृहगमनम् ॥ सं॰ मालायां शौनकः -
पुण्ये मुहूर्ते कुर्वीत विवाहं विधिवद्द्विजः ।
तत्राभ्युदयिकं कुर्यात्स्वस्तिमृद्धिं च वाचयेत् ॥
अपरेद्युः कृतस्नानो धृतधौताम्बरो वरः ।
भूषितो गन्धमाल्याद्यैः शकुनेन समन्वितः ॥
ब्राह्मणान् भोजयित्वान्ते कृतपुण्याहवाचनः ।
कृतकौतुकबन्धश्च मित्रबन्ध्वादिसंयुतः ॥
यानं यथार्हमारुह्य गन्तव्यं च वधूगृहम् ।
तस्य द्वाराद्बहिः स्थित्वा प्राङ्मुखोऽभिमुखागतैः ॥
गृहीतपूर्णकुम्भादिपाणिभिर्वनिताजनैः ।
कृताभ्युद्गमनो गेहं प्रविशेत्सह बन्धुभिः
इति ॥ प्रयोगचिन्तामणौ -
कुर्यान्नान्दीश्राद्धमादौ तु पूर्वे घस्त्रे कृत्वान्नादिभिर्विप्रतृप्तिम् ।
अन्येद्युश्चाभ्यर्च्य विप्रान् यथा वत्पुण्याहं तैर्वाचयेन्मङ्गलार्थी ॥
कन्यां वरो वरयितुं जलशान्तिमादौ कृत्वा निशि प्रतिसरं च करेऽथ बध्वा ।
स्नात्वा सुगन्धकुसुमाम्बरभूषणाढ्यः स्त्रग्वी गणेशकुलदेवगुरून् द्विजांश्च ॥नत्वा सह स्वजनमित्रजनैश्च भुक्त्वा धृत्वा प्रतोदमथ बन्धुजनैः समेतः यायाद्वधूपितृगृहं ससुताप्रदाता तं पूजयेच्च विविवन्मधुपर्कपूर्वम्
इति ॥
विवाहप्रयोगः
अथ विवाहप्रयोगः ॥ कर्ता सपत्नीकः पूर्वेद्युः कुमारेण सह प्रातर्मङ्गलस्नानादि नित्यकर्म कृत्वा वैश्वदेवं हुत्वाचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम कुमारकस्य विवाहं कर्तुमादौ शांत्यर्थं॰ अभ्युदयार्थं चैभिर्ब्राह्मणैः सह स्वस्तिपुण्याहवाचनपूर्वकं नान्दीश्राद्धं करिष्ये
इति सङ्कल्प्य “नादीमुखाः पितरः प्रीयन्ताम्" इति पुण्याहं वाचयित्वा नान्दीश्राद्धं कृत्वा कुलदेवतां सम्पूज्य प्रतिष्ठाप्य तस्यां रात्रावुदकशान्तिप्रतिसरबन्धौ यथाचारमङ्कुरार्पणं च कुर्यात् ॥ श्वोभूते कुमारः स्नानादि चतुष्टयं कृत्वा ब्राह्मणाननुज्ञाप्य पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम गृहस्थाश्रमसिध्यर्थं ब्राह्मेण विधिना स्त्रियमुद्वहे
इति सङ्कल्प्य9 गणपतिं सम्पूज्य “अग्निः प्रीयताम्" इति पुण्याहं वाचयित्वाऽहते मङ्गलवाससी परिधाय गन्धमाल्याभरणैरलंकृतो ब्राह्मणैः सह भुक्त्वा स्त्रीभिः कृतनीराजनादिमङ्गलसंविधानो हस्ते प्रतोदं फलं च गृहीत्वा ब्राह्मणैर्बन्धुभिश्च सहितो यथाविभवमश्वं यानं वा समारुह्य मङ्गलवाद्यानुघोषितो वधूगृहं गच्छेत् ॥ वधूपितापि सपत्नीकः कन्यया सह पूर्वेद्युः प्रातर्मङ्गलस्नानादि कृत्वा
अस्याः कुमार्या विवाहं कर्तुमादौ पुण्याहपूर्वकं नान्दीसमाराधनं करिष्ये
इत्यादि सङ्कल्प्य नान्दीसमाराधनं कुलदेवतास्थापनं रात्रावुदकशान्तिप्रतिसरबन्धावङ्कुरार्पणं च कृत्वा श्वः प्रातर्घटीयन्त्रस्थापनं कृत्वा “आग्निः प्रीयताम्" इति पुण्याहं वाचयित्वाथ कन्यामहतवाससी परिधाप्य गन्धमाल्याभरणैरलङ्कृत्य यथावद्भोजयित्वा हस्ते फलमिषुं च दत्वा देवाग्रे प्राङ्मुखीमुपवेश्य गृहद्वारमागतं कन्यार्थिनं सपरिवारं वरं बन्धुजनैस्सह यथाविभवं प्रत्युद्गम्य पुरन्ध्रीभिर्यथाचारं नीराजनादिनोपचारितं वरं गृहं प्रवेश्य तत्र मङ्गलमण्डपे भद्रासने प्राङ्मुखमुपवेशयेत् ॥
सभापूजा
अथ सभापूजा ॥ तद्विधिर्ग्रन्थान्तरे निरूपितः -
पुत्रोत्सवे मौञ्जिबन्धे कन्यायाः प्रथमार्तवे ।
विवाहे यज्ञसमये बिन्नहं पञ्चसु स्मृतम् ॥
वराय वरवेषाय गुरूणां सुहृदामपि ।
उपचारस्तु कर्तव्यो मङ्गल्यो मङ्गलायने ॥
अर्चयेदृत्विगाचार्यनृपविद्वत्सुहृद्वरान् ।
आगतान स्वगृहं गेही यथाविभवमादरात् ॥
पूर्वं सभां नमस्कृत्य पश्चादासनपूर्वकम् ।
कृत्वोपचारं कालीनं सभां स्तोतुं समारभे
इति ॥ स्तवनमपि त्रिविधमुक्तम् -
आशीःपूर्वकमित्येके नमःपूर्वन्तु केचन ।
बिन्नहं वेदपूर्वं स्यादिति सर्वैर्विनिश्चितम्
इति ॥ उपचाराश्च षोडशोक्ताः -
अभ्युत्थानं चासनं स्वागतोक्तिः पाद्यं चार्घ्यं मधुपर्काचमौ च ॥ स्नानं वासो भूषणं गन्धमाल्ये धूपो दीपः सोपहारः प्रणामः
इति ॥ तत्राशक्तः षडुपचारान्वा कुर्यादित्युक्तम् -
अभ्युत्थानं चासनदानं स्वागतसूक्तिः पाद्यविशेषः । बीजनमक्षतमर्घ्यविधानं षड्विधमुक्तं बिन्नहसारे
इति ॥
तद्विधानक्रमः
अथ तद्विधानक्रमः ॥ कर्ता गन्धाक्षतपुष्पव्यजनताम्बूलादीनि संगृह्य प्रणामपूर्वकं सभ्यान्विज्ञापयेत् -
ब्राह्मणेभ्यो महद्भ्यश्च वेदविद्भ्यो विशेषतः ।
पुराणशास्त्रविद्भ्यश्च सर्वेभ्यो वै नमो नमः ॥
गाम्भीर्यं जलधौ स्थिरत्वमचले तेजोऽधिकं भास्करे
शौर्यं शान्तनवे नयः सुरगुरौ त्यागस्तु सूर्यात्मजे ।
एकैको गुण एव तेषु निहितो युष्मासु सर्वे गुणा
स्तिष्टन्त्येव धरामरान् हरिपरान् कः स्तोतुमीशः क्षितौ ॥
भवन्तः सर्वज्ञाः सकलभुवने रूढयशसो वयं तावद्बालाः सरसवचने नैव निपुणाः ।
तथापीयं वाणी विशतु भव तां कर्णकुहरे किशोरस्यालापः खलु भवति पित्रोरतिमुदे ॥
सर्वाशापरिपूरणक्षमकरं सर्वोपकारोदयं सन्मार्गाभिरतं समस्ततमसः प्रध्वंसि सत्यास्पदम् ।
ब्रह्मावासमशेषवेदनिलयं विद्याधराराधितं प्रख्यातं भुवि भानवीयमिव वो वन्दे सभामण्डलम् ॥
महत्यागदयायुक्तां सत्यभामासमन्विताम् ।
सुदर्शनधरां वन्दे सभां विष्णोरिवाकृतिम् ॥
विद्वन्नदीव्रातसहस्रपूर्णं तथा सहस्रप्रभुरत्नपूर्णम् ।
वेदान्तवाक्यार्थतरङ्गलोलं सभासमुद्रं प्रणमामि मूर्ध्ना ॥ॐ यूयं गावो मे दयथा कृशंचित् ॥ अश्लीलं चित्कृणुथा सुप्रतीकम् ॥ भद्रं गृहं कृणुथ भद्रवाचः ॥ बृहद्वो वय उच्यते सभासु ॥ नमः सदसे ॥ नमः सदसस्पतये ॥ नमः सखीनां पुरोगाणां चक्षुषे ॥ नमो दिवे ॥ नमः पृथिव्यै ॥ सप्रथ सभां में गोपाय ॥ ये च सभ्याः सभा सदः ॥ तानिन्द्रियावतः कुरु ॥ सर्वमायुरुपासताम् ॥ अहेबुध्निय मन्त्रं मे गोपाय ॥ यमृषयस्त्रयिविदा विदुः ॥ ऋचः सामानि यजूँषि ॥ सा हि श्रीरमृतासताम् ॥ [[TODO: परिष्कायम्]]
नास्ति सत्यात्परो धर्मः सन्तुष्टिर्नात्मजात्परा ।
नान्नदानात्परं दानं वन्दनान्नोपचारकम्
इत्यादियथाचारं विज्ञाप्य नमस्कृत्वा वरपूर्वान् सभ्यान् गन्धादिभिर्यथोपपादमभ्यर्चयेत् ॥ ॥ इति सभापूजा ॥
-
नैष्ठिकब्रह्मचारिणः ॥ ↩︎
-
विवाहमनिच्छतः ॥ ↩︎
-
अकृतविवाहम् ॥ ↩︎
-
“खण्डग्रासे त्रित्रिदिनम्” इति सं॰ मा॰ पाठः ॥ ↩︎
-
अभ्युत्पादककार्यत्रयम् । ↩︎
-
चान्द्रवत्सरभेदे ↩︎
-
“सोदरयोः सोदरकन्यके वत्स्यरादिकालत्र्यवधाने महानद्यादिव्यवधाने वा देये । पूर्वदत्तायाः कन्याया मृतौ तस्यैव द्वितीयकन्यका देया । प्रत्युद्वाहश्च दारिद्र्यायादिसङ्कटे कार्यः"
इति धर्मसिन्धौ ॥ ↩︎
-
शुल्कं मूल्यपर्यायकम् । क्रयसाधनं हि मूल्यं देशकालाद्यपेक्षयाऽल्पं वा महद्वा भवति । प्रकृते तु परिमाणं नियतम् । स आर्षस्तावतैव नियतपरिमाणेन गोमिथुनेन सम्पद्यते तथा च क्रयविक्रयाभावाद्धर्म्य एवार्ष इति तात्पर्यम् ॥ ↩︎
-
देवपित्र्यऋणापाकरणहेतुभूतधर्मप्रजोत्पादनसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं ब्राह्मेण विधिना स्त्रियमुद्वहिष्ये इति वा संकल्पः । अयं पुण्याहोत्तरं वा कार्यः ॥ ↩︎