३४ कन्यासंस्कारः

( यो. गृ. सू. ३. १३. ८ )

कन्यानां चैव जन्मादि कर्तव्यं कर्ममङ्गलम् ।
क्रियामयं हि ब्राह्मण्यं नाक्रियं ब्रह्मोच्यते ॥

तच्छेषेऽपि ( बो. गृ. शे. सू. १. १२)

पुत्राय च दुहित्रे च समानी ब्राह्मणक्रिया ।
मन्त्रवद्गर्भ आजन्म जन्माद्या आवृतं स्त्रियै ॥
वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः

इति ॥ याज्ञवल्क्योऽपि -

तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः

इति जन्मादिचौलान्तानाममन्त्रकत्वं विवाहस्य समन्त्रकत्वं चाह ॥ स्मृत्यन्तरेऽपि तथैवोक्तम् -

स्त्रीणां जन्मादिचौलान्तं सर्वं कुर्यादमन्त्रकम् ।
पाणिग्रहणमारभ्य समन्त्रेण पतिश्चरेत् ।
कौतुकाङ्कुरनान्द्यादि ग्रहयज्ञं च मन्त्रवत्

इति ॥ वेदव्यासस्मृतौ तु -

नवैताः कर्णवेधान्ता मन्त्रवर्जं क्रियाः स्त्रियाः ॥
विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दश

इति स्त्रिया विवाहात्पूर्वं नवैव संस्कारास्ते चामन्त्रकाश्चौलन्तु न भवत्येवेति विशेषोऽभिहितः ॥ इदं च जननोत्तरमेव गर्भाधानादीनां तन्त्रेण करणे संघटते तत्पूर्वं स्त्रीत्वस्याज्ञानात् ॥ जननात्पूर्वं क्रियमाणा गर्भाधानादिविष्णुबल्यन्ताः संस्कारास्तूक्तबोधायनवचनेन समन्त्रका एव कार्या इत्यवगन्तव्यम् ॥

अथेदानीं कन्याया विवाहसमय एव सर्वे संस्काराः समानतन्त्रेण प्रायोऽनुष्ठीयन्त इति तदनुसारं तत्संस्कारप्रयोगक्रमो लिख्यते ॥ कर्ता सपत्नीकः कन्यया सह मङ्गलस्नानादि यथोक्तं निर्वर्त्य

अस्याः कुमार्या गर्भाधानपुंसवनसीमन्तोन्नयनविष्णुबलिजातकर्मनामकरणोपनिष्क्रमणान्नप्राशनकर्णवेधनचौलसंस्कारान्विवाहं च कर्तुमादौ नान्दीसमाराधनं करिष्ये

इत्यादि सङ्कल्प्य

नान्द्यङ्गपुण्याहं नान्दीसमाराधनमुदकशान्तिप्रतिसरबन्धावङ्कुरारोपणं च यथानुकूलं पूर्वेद्युः सद्यो वा कृत्वाचम्य प्राणानायम्य देशकालौ सङ्कीर्त्यास्याः कुमार्या गर्भाधानादिचौलान्तसंकारान् कर्तुमादौ शान्त्यर्थं॰ अभ्युदयार्थं चैभिर्बाह्मणैः सह स्वस्तिपुण्याहवाचनं करिष्ये इति सङ्कल्प्य

वेधाः प्रजापतिर्धाता सविता मृत्युः सविता सविता सविता श्रोत्रं केशिनः प्रीयन्ताम्

इति पुण्याहं वाचयित्वा

कुलदेवतास्थापनं च कृत्वास्याः कुमार्या गर्भाधानादिचौलान्तसंस्काराणां मुख्यकालातिपत्तिदोषपरिहारार्थं स्मृत्युक्तकृच्छ्रत्रयप्रत्याम्नायगोनिष्क्रयभूतं हिरण्यं रजतं वा दातुमहमुत्सृजे,

इति सङ्कल्प्य कृच्छ्रप्रत्याम्नायं हिरण्यं रजतं वा यथाशक्ति दद्यात् । अत्र प्रायश्चित्तहोमो विहितः प्रयोगमालायाम् । तत्करणपक्षे

अस्याः कुमार्या गर्भाधानादिचौलान्तसंस्काराणां मुख्यकालातिपत्तिदोषपरिहारार्थं प्रायश्चित्तहोमं करिष्ये

इति सङ्कल्प्यापूर्वतन्त्रेण स्थण्डिलोल्लेखनादि चित्तिनामानमग्निं प्रतिष्ठाप्याज्यसंस्कारान्तं कृत्वाग्निमलंकृत्य - “ततं म आपः”, “यत्पाकत्रा”, “मनो ज्योतिः”, “यन्म आत्मनः”, “पुनरग्निः”, “महाव्याहृतयः”, “व्याहृतयः”, “व्याहृतयः”, “यन्म आत्मनः”, “पुनराग्निः”, “चित्तं” चेत्यादि रुद्राहुत्यन्तं चेत्येतैराज्याहुतीर्हुत्वोत्तरपरिषेकादि समापयेत् ॥ ततोऽतीतानां गर्भाधानादिविष्णुबल्यन्तसंस्काराणां प्रधानमन्त्रान्पठित्वा जातकर्मादितन्त्रान् कुर्यात् ॥

अस्याः कुमार्या बीजगर्भसमुद्भवैनोनिबर्हणपुरस्सरमायुःश्रीबलवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं जातकर्मनामकरणोपनिष्क्रमणान्नप्राशनकर्णवेधनचौळकर्माणि समानतन्त्रेण करिष्ये

इति सङ्कल्प्य तूष्णीं कुमारीं दृष्ट्वा तूष्णीमेव षड्वारं स्नापयित्वा स्वाङ्के उपवेश्य तत्तन्नाक्षत्रनामधेयं सम्बुद्ध्यन्तं निर्दिश्य मूर्ध्न्यभिजिघ्रेत्

अश्वयुक्, अपभराणि, कृत्तिके, रोहिणि, मार्गशीर्षि, आर्द्रके, पुनर्वसो, तिष्ये, आश्लेषे, माघि, फाल्गुनि, हस्ते, चित्रे, स्वाते, विशाखे, अनुराधे, ज्येष्ठे, मूलके, आषाढे, श्रवणे, श्रविष्ठे, शातभिषाजि, प्रोष्ठपदि, रेवति

इति ॥ अथास्याः कर्णयोः ‘आयुष्मती भव’ इति जपित्वा दधि मधु घृतमिति समुदायुत्य हिरण्येन दशवारं तूष्णीं प्राशयित्वा मुखं प्रक्षाल्यातिशिष्टं गोपदे निनीयाथैनां मातुरङ्के उपवेश्य स्तनं धयन्तीं स्मृत्वोदकुम्भमुच्छिरसि तूष्णीं निदधाति ॥ इति जातकर्म ॥ ॥ अथ नामकरणम् ॥

अस्याः कुमार्या आयुःश्रीबलवृद्धिपूर्वकं व्यवहारसिद्धये नाम धास्यावहे

इति सङ्कल्प्य यथाचारं तण्डुलपूर्णं सुवर्णाद्यन्यतमे पात्रे सुवर्णशलाकया हरिद्राखण्डेन वा नामचतुष्टयं विलिखेत् - “गणपतिभक्ता” इत्यादि तत्तत्कुलदेवतानाम् ।

लक्ष्मीः श्रीः कमली भद्रा सीता सत्या च रुक्मिणी ।
माधवी चैत्रिका भूमिस्तुलसी जाह्नवी तथा

इति मार्गशीर्षादि क्रमेण तत्तन्मासनाम ॥

अश्वयुक्, आश्वयुजीति वा । अपभरणी, आपभरणीति वा । कृत्तिका । रोहिणी । मार्गशीर्षी ॥ आर्द्रका । पुनर्वसू । तिष्या । आश्लेषा । माधी । पूर्वाफाल्गुनी । उत्तराफाल्गुनी । हस्ता। चित्रा । स्वाती । विशाखा । अनुराधा । ज्येष्ठा । मूलका । पूर्वाषाढा । उत्तराषाढा । श्रवणा, श्रावणीति वा । श्रविष्ठा । शतभिषजी, शतभिषागति वा । पूर्वाप्रोष्ठपदी । उत्तराप्रोष्ठपदी । रैवती

इति तत्तन्नाक्षत्रनाम ॥ “लक्ष्मीः” इत्याधभिमतं तत्तद्व्यावहारिकनाम चेत्येवं नामचतुष्टयं विलिख्य

नामचतुष्टय देवताभ्यो नमः

इति नाममन्त्रेण षोडशोपचारैरभ्यर्च्य ब्राह्मणान् यथानुकूलं सम्पूज्य “प्रजापतिः प्रीयताम्" इति पुण्याहं वाचयित्वा

कुलदेवतानाम्ना गणपतिभक्तायै स्वस्ति भवन्तो ब्रुवन्तु

इति ब्राह्मणान्प्रार्थयेत् ॥ “गणपतिभक्तायै स्वस्ति" इति ते प्रत्यूचुः ॥

एवमेव मासनाम्ना नाक्षत्रनाम्ना व्यावहारिकनाम्ना च अमुकायै स्वस्ति भवन्तो बुवन्तु,

इति पृथक्पृथक् तत्तन्नाम निर्दिशन् प्रार्थयेत् ॥ “तथैवामुकायै स्वस्ति”, इति ब्राह्मणाः प्रतिब्रूयुः ॥ अथ कुमार्या दक्षिणे कर्णे त्वममुकासि, इति नामचतुष्टयं पृथक्पृथगुपांशु त्रिस्त्रिरुक्त्वा कृताञ्जलिरुपोत्थाय ब्राह्मणान्प्रवदेत् -

कुलदेवतानाम्ना गणपतिभक्तेयं भवतः सर्वान् ब्राह्मणानभिवादयते

इति ॥

आयुष्मती भवतु गणपतिभक्ता

इति ते प्रत्युचुः ॥

एवमेव मासनाम्ना नाक्षत्रनाम्ना व्यावहारिकनाम्ना चामुकेयं भवतस्सर्वान् ब्राह्मणानभिवादयते,

इति तत्तन्नामनिर्देशपूर्वकं पृथक् पृथग्वदेत् ॥ “तथैवायुष्मती भवत्वमुका”, इति ते प्रतिब्रूयुः ॥ इति नामकरणम् ॥ ॥ अथोपनिष्क्रमणम् ॥ मङ्गलघोषपुरस्सरं कुमार्या सह बहिरुपनिष्क्रम्य बाह्यानि चित्रियदैवतानि “चित्रियेभ्यो नमः" इति गन्धपुष्पाक्षतैरभ्यर्च्य

चन्द्रार्कयोर्दिगीशानां दिशां च गगनस्य च ।
निक्षेपार्थमिमां दाद्मि तेऽमुं रक्षन्तु सर्वदा ॥
अप्रमत्तां प्रमत्तां वा दिवा रात्रमथापि वा ।
रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः

इति सम्प्रार्थ्य ब्राह्मणान्त्सम्पूज्य “चित्रियाणि प्रीयन्ताम्” इति पुण्याहं वाचयित्वा कुमारीं गृहमानयेत् ॥ इत्युपनिष्कमणम् ॥ ॥ अथानप्राशनम् ॥ सुवर्णादिपात्रे दधिमधुघृतजलैरोदनं समुदायुत्य हिरण्येन मातुरङ्कोपविष्टां कुमारीं षड्वारं तूष्णीं प्राशयित्वा मुखं प्रक्षाल्य हस्तं प्रक्षालयेत् ॥ इत्यन्नप्राशनम् ॥ ॥ अथ कर्णवेधनम् ॥ ब्राह्मणान् सम्पूज्य “प्रजापतिः प्रीयताम्" इति पुण्याहं वाचयित्वा लोहितसूच्या कण्टकेन वा कुमार्या दक्षिणवामकर्णौ क्रमेण तूष्णीं विध्वा लोहितसूत्रेण वा शणसूत्रेण वा कर्णौ प्रबध्य श्वोभूते विस्रंसयेत् ॥ इति कर्णवेधनम् ॥ ॥ अथ चौलम् ॥ उष्णासु शीता आनयतीत्यादि सर्वं तूष्णीं कुर्यादित्येके ॥ चौलकर्मसाङ्गतासिद्ध्यर्थं गां हिरण्यं वा दद्यात् इत्यन्ये ॥ तद्यथाचारं कृत्वाशिषो वाचयेत् ॥ ॥ इति कन्यासंस्कारः॥