अत्रेदं गृह्यम् (बो. गृ. सू. ३. २ )
अथाचार्यप्रसूतः कर्माणि करोतीति विज्ञायते । आचार्यो वै ब्रह्मेति । काण्डे काण्डे च व्रतचर्या । अथेमानि ब्रह्माणि सांवत्सरिकैर्व्रतैरध्येयानि भवन्ति होतारः शुक्रियाण्युपनिषदो गोदानं सम्मितमिति
इति ॥ धर्मसूत्रे ( बो. ध. सू. १.३)
अष्टाचत्वारिंशद्वर्षाणि पौराणं वेदब्रह्मचर्यम् ॥ चतुर्विंशतिं द्वादशं वा प्रतिवेदम् ॥ संवत्सरावमं वा प्रतिकाण्डम् ॥ ग्रहणान्तं वा
इति ॥ गृ॰ संग्रहे -
वेदोपाकरणं कृत्वा सद्यो नान्दीमुखक्रिया ।
अत्रोदगयनादींस्तु कालान्केचित् प्रचक्षते
इत्यादि ॥ प्र॰ तिलकेऽपि -
प्राजापत्यं च सौम्यं चाप्याग्नेयं वैश्वदेविकम् ।
स्वायम्भुवं पञ्चमं स्यात्प्रतिकाण्डं व्रतं चरेत् ॥
आब्दिकं ग्रहणान्तं वा द्वादशाहिकमेव वा
इत्याद्युपक्रम्य वेदोपाकरणान्ते -
सद्यो नान्दीमुखक्रिया । तस्मिन्नाह्नि तमेवाग्निमन्वाधायाथ पूर्ववत् ॥
प्रजापतिं काण्डऋषिमावाह्याग्निमुखान्तकम् ।
कृत्वा विसृज्य दण्डादीनन्यानादाय मंत्रवत् ॥
मौञ्जीदण्डोपवीतानि वासः कृष्णाजिनं तथा ।
पूर्वोपयुक्तान्युत्सृज्य धार्याणि स्युव्रते व्रते ॥
अच्छिन्नवासोऽप्यहतमुपवीतं न सन्त्यजेत् ।
सावित्र्याथ हुनेत्पक्वं ततः पञ्चदशाहुतीः
इत्यादि प्रयोगक्रमं चोक्त्वान्ते -
नियमाचरणं कुर्याद्वपनं च व्रते व्रते
इत्युपसंहृतम् ॥ एतेन श्रावण्यामध्यायोपाकर्म कृत्वा तद्दिने वान्यस्मिन् वा वेदारम्भानुकूले सुदिने होतृव्रतमुपाकृत्य प्राजापत्यकाण्डमधीयानः संवत्सरं यावदध्ययनं वा व्रतं चरित्वा तस्योत्सर्गं कुर्यात् ॥ एवमेव क्रमेण शुक्रियादि काण्डाध्ययनं व्रतं च कृत्वा तत्तदुत्सर्गं कुर्यादित्युक्तं भवति ॥
होत्रादिवतप्रयोमः
अथ होत्रादिव्रतप्रयोमः ॥ आचार्यानुशिष्टो ब्रह्मचारी प्रातः कृतकेशवपनः स्नानादिचतुष्टयं कृत्वा दर्भेषु प्राङ्मुख उपविश्य पवित्रपाणिराचम्य देशकालौ सङ्कीर्त्य
मम प्राजापत्यकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं होतृव्रतोपाकरणं करिष्ये
इति सङ्कल्प्य गणपतिं सम्पूज्य हिरण्येन नान्दीसमाराधनं “सविता प्रीयताम्" इति पुण्याहवाचनं च कृत्वा देवयजनोल्लेखनादि लौकिकाग्निं प्रतिष्ठाप्य तत्रात्मनि समारोपितमुपनयनाग्निं “उपावरोह जातवेदः" इति मंत्रेण संयोज्य प्राणानायम्य देशकालौ सङ्कीर्त्य
प्राजापत्यकाण्डाध्ययनार्थं होतृव्रतोपाकरणहोमं करिष्ये । समुद्भवो नामाग्निः, सविता देवता, चरुर्हविः, अग्निः स्विष्टकृत्
इत्यादि सङ्कल्प्यान्वाधाय पात्रासादनकाले प्राकृतपात्रैः सह दण्डाजिनमेखलावासांसि चतस्रः पालाशीः समिधश्चेत्यासाद्य पवित्रकरणाद्यापरिधानात्कृत्वाग्रेणाग्निमक्षतपुञ्जे प्रजापतिं काण्डषिमावाह्य सम्पूज्य परिधानप्रभृत्याग्निमुखान्तं कृत्वा पूर्वधृतवासोमेखलादीन्युत्सृज्यात्रासादितान् वासोमेखलाजिनदण्डान् मंत्रवद्धृत्वा पक्वाज्जुहोति -
ॐ भूर्भुव॒स्सुव॒रों तत्स॑वि॒तुः॰ प्र॒चो॒दया॒त्स्वाहा॑ ॥
(सवित्र इदं॰)॥ स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -
ॐ याज्ञिकीभ्यो देवताभ्यो होतृभ्यः स्वाहा ॥ (याज्ञिकीभ्यो देवताभ्यो होतृभ्य इदं॰) ॥ इत्यादि यथालिङ्गं त्यागः ॥ ॐ साँ हितीभ्यो देवताभ्यो होतृभ्यः स्वाहा ।। ॐ वारुणीभ्यो देवताभ्यो होतृभ्यः स्वाहा ॥ ॐ सर्वाभ्यो देवताभ्यो होतृभ्यः स्वाहा ।। अथ निवीती, ॐ प्रजापतये काण्डऋषये स्वाहा ॥ अथोपवीती, ॐ सदसस्पतिमद्भुतं॰ यासिषँ स्वाहा ॥ ॐ तत्सवितुः प्रचो दयात्स्वाहा ॥ ॐ ऋग्वेदाय स्वाहा ॥ ॐ यजुर्वेदाय स्वाहा ॥ ॐ सामवेदाय स्वाहा ॥ ॐ अथर्ववेदाय स्वाहा ॥ ॐ अथर्वाङ्गिरोभ्यः स्वाहा ॥ ॐ इतिहासपुराणेभ्यः स्वाहा ॥ ॐ सर्पदेवजनेभ्यः स्वाहा ॥ ॐ सर्वभूतेभ्यः स्वाहा ॥ [[TODO: परिष्कायम्]]
एवं पञ्चदश सुवाहुतीर्हुत्वाथाग्निं परिषिच्य चतस्रः पालाशीर्घृतान्वक्ताः समिधोऽभ्यादधाति-
ॐ अग्ने व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा ॥ (अग्नये व्रतपतय इदं॰) ॥ ॐ वायो व्रतपते होतारं व्रतं॰ राध्यता स्वाहा ॥ (वायवे व्रतपतय इदं॰) ॥ ॐ आदित्य व्रतपते होतारं व्रतं॰ राध्यता स्वाहा ॥ (आदित्याय व्रतपतय इदं॰) । ॐ व्रतानां व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा ॥ (व्रतानां व्रतपतय इदं॰) [[TODO: परिष्कायम्]]
इति ॥ पुनः परिषच्य ब्रह्मयज्ञधर्मेण प्राजापत्यकाण्डस्याद्यं “इषे त्वोर्जे त्वा” इत्यनुवाकमधीत्य स्विष्टकृत्प्रभृति प्रागुत्तरपरिषेकात्कृत्वाग्रेणाग्निं पलाशपर्णेषु प्रणवव्याहृतिसहितया गायत्र्या हुतशेषं दत्वा तथैव गायत्र्या पक्वादुपादाय प्राश्याचम्योत्तरपरिषेकादि होमशेषं समाप्य
या ते अग्ने यज्ञिया तनूः
इत्यात्मन्यग्निं समारोपयेत् ॥ एवं होतृव्रतमुपाकृत्य प्राजापत्यकाण्डमाचार्यादधीयानः संवत्सरं यावदध्ययनं वा व्रतं चरित्वान्ते विसृजेत् ॥
होतृव्रतविसर्जनम्
अथ होतृव्रतविसर्जनम् ॥
प्राजापत्यकाण्डाध्ययनार्थमुपाकृतस्य होतृव्रतस्योत्सर्जनं करिष्ये,
इति सङ्कल्प्य स्थण्डिलोल्लेखनाद्युपनयनाग्निं प्रतिष्ठाप्याग्निमुखान्तं कृत्वाव्रत्यप्रायश्चित्तं जुहोति - “यन्म आत्मनः, पुनरग्निः” इति द्वाभ्याम् ॥ अथ सावित्र्या पक्वं हुत्वा पूर्ववत्पञ्चदशाज्याहुतीरुपहुत्याग्निं परिषिच्य चतस्रो घृतान्वक्ताः पालाशीः समिधोऽभ्यादधाति -
ॐ अग्ने व्रतपते होतारं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा ॥ (अग्नये व्रतपतय इदं॰) ॥ ॐ वायो व्रतपते होतारं व्रतमचारिषं॰ राधि स्वाहा ॥ (वायवे व्रतपतय इदं॰) ॥ ॐ आदित्य व्रतपते होतारं॰ में राधि स्वाहा ॥ (आदित्याय व्रतपतय इदं॰) ॥ ॐ व्रतानां व्रतपते होतारं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा ॥ (व्रतानां व्रतपतय इदं॰) ॥ [[TODO: परिष्कायम्]]
नात्राध्ययनम् ॥ स्विष्टकृदादि हुतशेषप्राशनान्तं पूर्ववत्कृत्वोत्तरपरिषेकादि शेषं समाप्याग्निमात्मनि समारोपयेत् ॥ इति होतृव्रतम् ॥
शुक्रियव्रतम्
अथ शुक्रियव्रतम् ॥ केशवपनं स्नानादिचतुष्टयं नान्दीपुण्याहादिकं होतृव्रतवदेव कुर्यात् ॥
सौम्यकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं शुक्रियव्रतोपाकरणं करिष्ये,
इति सङ्कल्पे विशेषः । आपरिधानात्कृत्वाग्रेणाग्निमक्षतपुञ्जे सोमं काण्डऋषिमावाह्य सम्पूज्य परिधानप्रभृत्यग्निमुखान्ते सावित्र्या पक्वं हुत्वाज्याहुतीरुपजुहोति -
ॐ याज्ञिकीभ्यो देवताभ्यः शुक्रियेभ्यः स्वाहा ॥ ॐ साँहितीभ्यो देवताभ्यः शुक्रियेभ्यः स्वाहा ॥ ॐ वारुणीभ्यो देवताभ्यः शुक्रियेभ्यः स्वाहा ॥ ॐ सर्वाभ्यो देवताभ्यः शुक्रियेभ्यः स्वाहा ॥ ॐ सदसस्पति॰ सिषँस्वाहा [[TODO: परिष्कायम्]]
इत्यादि “स॒र्व॒भू॒तेभ्यः॒ स्वाहा॑” इत्यन्तम् ॥ नात्र व्रतसमिद्धोमः ॥ सौम्यकाण्डस्याद्यं “आप उन्दन्तु” इत्यनुवाकमधीत्य स्विष्टकृदादिशेषं होतृव्रतवदेव कुर्यात् ॥
अवान्तरदीक्षा
अथावान्तरदीक्षा ॥
अपराह्णे ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्र गृहा न दृश्यन्ते तत्राचार्येण सह गत्वा प्रवर्ग्यकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं शुक्रियव्रताङ्गभूतामवान्तरदीक्षामहमाचरिष्ये,1
इति सङ्कल्प्य शुचौ समे देशे अमिमुपसमाधाय सम्परिस्तीर्याज्यं संस्कृत्य मदन्तीरधिश्रित्य मदन्तीरपः स्पृष्ट्वा “नमो वाचे" इति प्रथमेनानुवाकेन शान्तिं कृत्वा प्रवर्ग्यदेवताभ्यो दर्भैरासनानि कल्पयति -
अग्रेणाग्निमुदगपवर्गं - ॐ प्रवर्याय कल्पयामि । धर्माय कल्पयामि । महावीराय कल्पयामि । सम्राजे॰ ॥ दक्षिणेनाग्निं - ब्रह्मणे॰ । प्रजापतये॰ ॥ उत्तरेणाग्निं - ऋषिभ्यो मंत्रकृद्भ्यो मंत्रपतिभ्यः॰ । देवेभ्यो धर्मपेभ्यः क॰ ॥ अथ दक्षिणतः - प्राचीनावीती, दक्षिणापवर्गं - पितृभ्यो धर्मपेभ्यः क॰ । यमायाङ्गिरस्वते पितृमते क॰ ॥ अथाप उपस्पृश्योत्तरतो यज्ञोपवीती - रुद्राय रुद्रहोत्रे क॰ ॥ अप उपस्पृश्य, सर्वाभ्यः प्रवर्ग्यदेवताभ्यः कल्पयामि
इति ॥ अथैनं प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिर्वैकङ्कतीश्चतस्रः समिधोऽभ्याधाय प्रवर्ग्यदेवतास्सम्पूज्य मदन्तीभिस्तर्पयति -
अप्रेणाग्निं - प्रवर्ग्यं तर्पयामि । धर्मं त॰ । महावीरं त॰ । सम्राजं त॰ ॥ दक्षिणेनाग्निं - ब्रह्माणं त॰ । प्रजापतिं त॰ ॥ उत्तरेणाग्निं - ऋषीन्मंत्रकृतो मंत्रपतींस्त॰ । देवान् धर्मपांस्तर्पयामि । अथ दक्षिणतः प्राचीनावीती - पितॄन् धर्मपांस्तर्पयामि । यममङ्गिरस्वन्तं त॰ । अप उपस्पृश्योत्तरतो यज्ञोपवीती - रुद्रं रुद्रहोतारं त॰ । अप उपस्पृश्य, सर्वाः प्रवर्यदेवतास्तर्पयामि
इति तर्पयित्वा ॥ चतस्र औदुम्बरीः समिधोऽप्रतिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति -
ॐ पृथिवी समित् । तामग्निः समिन्धे । साग्निँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा। आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अनायेन समिन्ताँ स्वाहा ॥ (अग्नय इदं॰)॥ ॐ अन्तरिक्षँ समित् । तां वायुः समिन्धे । सा वायुँ समिन्धे । तामहँ समिन्धे । सा मा॰ अन्नाद्येन समिन्ताँ स्वाहा ॥ (वायव इदं॰) ॥ ॐ द्यौः समित् । तामादित्यः समिन्धे । साऽऽदित्यँ समिन्धे । तामहँ समिन्धे । सा मा॰ अन्नाद्येन । समिन्ताँ स्वाहा ॥ (आदित्यायेदं॰) ॥ ॐ प्राजापत्या मे समिदसि सपत्नक्षयणी । भ्रातृव्यहा मेऽसि स्वाहा । (प्रजापतय इदं॰) [[TODO: परिष्कायम्]]
इति ॥ अथ देवता उपतिष्ठते -
अग्ने व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् ॥ वायो व्रतपते शुकियं व्रतं॰ राध्यताम् ॥ आदित्य व्रतपते शुक्रियं व्रतं॰ राध्यताम् ॥ व्रतानां व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् [[TODO: परिष्कायम्]]
इति ॥ अथैतयोः प्रश्नयोः सर्वेषामनुवाकानामादीन् वाचयति । प्रथमोत्तमयोर्वा
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियः॑, स॒वि॒ता भू॒त्वा प्र॑थ॒मेऽह॒न्प्रवृ॑ज्यते
इति ॥ अथैनँ सँ शास्ति - “सम्मील्य वाचं यच्छ” इति ॥ अथास्याहतेन वाससा त्रिः प्रदक्षिणं समुखं शिरो वेष्टयति -
चितः॑स्थ परि॒चितः॑ । स्वाहा॑ म॒रुद्भिः॒ परि॑श्रयस्व ॥
ततः प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिश्चतस्रः समिधोऽभ्याधाय मदन्तीभिः पूर्ववत्प्रवर्ग्यदेवतास्तर्पयित्वा “शं नो वातः पवताम्" इत्युत्तमेनानुवाकेन शान्तिं कृत्वा होमशेषं समाप्यास्तमित आदित्ये ग्राममागत्य वाग्यतस्तिष्ठेदेतां रात्रिमुपविशेत्संविशेद्वा ॥ अथ प्रातरुदित आदित्ये ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य पूर्ववदग्निमुपसमाधायेत्यादि प्रवर्ग्यदेवतासनकल्पनान्तं कृत्वा “वयस्सुपर्णाः” इति शिरोवेष्टितं वासो विमुच्याथास्याग्निमप आदित्यं गां ब्राह्मणं हिरण्यमिति षट्तयमादितस्त्रितयं वा दर्शयित्वा यथोपपादमितराण्यपि दर्शयेत् ॥ अथ प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिर्वैकङ्कतीश्चतस्रः समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयित्वोत्तरां शान्तिं कृत्वाथास्य व्रतचर्यामुपदिशेत् -
न यानमारोहेन्न वृक्षमधिरोहेन्न कूपमवरोहेन्न छत्रं धारयीत नोपानहौ धारयीत नासन्द्यां शयीत न स्त्रियां न शूद्रेण सह संभाषेत, यदि संभाषेत ब्राह्मणेन सह संभाषेत ॥ न सायं भुञ्जीत, यदि सायं भुञ्जी तापज्वलितं भुञ्जीत ॥ न स्नायादष्टम्यां, पर्वणि चोपवसेत्तदहश्च स्नायाद्वाग्यतस्तिष्ठेत् तां रात्रिमुपविशेत्संविशेद्वा ॥ ब्रतमध्ये शवचण्डालपतितलोहितादिदर्शने ज्योतिषां सन्दर्शनम् ॥ अमेध्यदर्शने -
अब॑द्धं॒ मनो॑ द॒रिद्रं॒ चक्षुः॒ सूर्यो॒ ज्योति॑षाँ॒ श्रेष्ठो॒ दीक्षे॒ मा मा॑ हासीः
इति जपेत् ॥ अभिवर्षणे -
उ॒न्द॒तीर्बलं॑ ध॒त्तौजो॑ धत्त॒ बलं॑ धत्त॒ मा मे॑ दी॒क्षां मा तपो॒ निर्व॑धिष्ट
इति जपेत् ॥ (प्रवर्ग्यकाण्डं ग्रामाद्बहिरेव पूर्वोत्तरशान्तिसहितमधीयीतान्यतसौम्यकाण्डं गृहेऽधीयीत) एवमधीयानः संवत्सरं यावदध्ययनं वा व्रतं चरेत् ॥
शुक्रियव्रतविसर्गः
अथ शुक्रियव्रतविसर्गः ॥
सौम्यकाण्डाध्ययनार्थमुपाकृतस्य शुक्रियव्रतस्योत्सर्जनं करिष्ये,
इति सङ्कल्प्य पूर्ववत् स्थण्डिलोल्लेखनाद्यग्निमुखान्ते अव्रत्यप्रायश्चित्तं सावित्र्या पक्वहोमं याज्ञिक्यादि पञ्चदशभिराज्येनोपहोमं च कृत्वा समिद्धोमाध्ययने वर्जयित्वा स्विष्टकृद्धुतशेषदानप्राशनादिकं सर्वं पूर्ववदेव कुर्यात् ॥
अवान्तरदीक्षाविसर्गः
अथावान्तरदीक्षाविसर्गः ॥ पूर्ववद्ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य,
प्रवर्ग्यकाण्डाध्ययनाङ्गभूतं अवान्तरदीक्षोत्सर्जनं करिष्ये,
इति सङ्कल्प्याग्निमुपसमाधाय सम्परिस्तीर्य मदन्तीरधिश्रित्याज्यसंस्कारस्रुवसम्मार्जनान्तं कृत्वा पूर्वां शान्तिं जपित्वा प्रवर्ग्यदेवताभ्यः पूर्ववदासनानि कल्पयित्वाग्निमलंकृत्य “यन्म आत्मनः, पुनरग्निः” इति द्वाभ्यामव्रत्यप्रायश्चित्ताज्याहुती हुत्वा प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिश्चतस्रो वैकङ्कतीः समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयित्वा चतस्त्र औदुम्बरीः समिधोऽप्रतिशुष्काग्रा घृतान्वक्ता अभ्याधापयन् वाचयति -
ॐ द्यौः समित् । तामादित्यः समिन्धे । साऽऽदित्यँ समिन्धे । तामहँ समिन्धे । सा मा॰ अन्नाद्येन समिन्ताँ स्वाहा ॥ (आदित्यायेदं॰) ॥ ॐ अन्तरिक्षँ समित् । तां वायुः समिन्धे॰ समिन्ताँ स्वाहा ॥ (वायव इदं॰) ॥ ॐ पृथिवी समित् । तामग्निः समिन्धे॰ समिन्ताँ स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ प्राजापत्या मे समिदसि॰ मेऽसि स्वाहा ॥ (प्रजापतय इदं॰) [[TODO: परिष्कायम्]]
इति ॥ अथ देवता उपतिष्ठते -
ॐ आदित्य व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मेऽराधि ॥ वायो व्रतपते॰ ॥ अग्ने व्रतपते॰ ॥ व्रतानां व्रतपते शुक्रियं व्रतमंचारिषं॰ मेऽराधि [[TODO: परिष्कायम्]]
इति ॥ पुनः प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिर्वैकङ्कतीश्चतस्रः समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयित्वोत्तरां शान्तिं जपित्वा होमशेषं समापायेत् ॥ इति शुक्रियव्रतम् ॥
उपनिषद्व्रतम्
अथोपनिषद्व्रतम् ॥
वपनस्नानादिकं विधाय वैश्वदेवकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं उपनिषद्व्रतोपाकरणं करिष्ये,
इति सङ्कल्प्य, पुण्याहान्तं कृत्वा स्थण्डिलोल्लेखानादि होतृव्रतवदेव कुर्यात् ॥ अत्र विशेषः - प्रतिष्ठितहविरभिघारणान्ते विश्वान् देवान्काण्डर्षीनावाह्य सम्पूज्य परिधानादि सावित्र्या पक्वं हुत्वा ॥
ॐ याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा ॥ ॐ साँहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा ॥ ॐ वारुणीभ्यो॰ निषद्भ्यः स्वाहा ॥ ॐ सर्वाभ्यो॰ उपनिषद्भ्यः स्वाहा ॥ ॐ विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा ॥ ॐ सदसस्पति॰ सिषँ स्वाहा [[TODO: परिष्कायम्]]
इत्यादि “स॒र्व॒भू॒तेभ्यः॒ स्वाहा॑" इत्यन्तमाज्याहुतीरुपहुत्याग्निं परिषिच्य पालाशीश्चतस्रो घृतान्वक्ताः समिधोऽभ्यादधाति -
ॐ अग्ने व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा ॥ ॐ वायो व्रतपत उपनिषदं॰ राध्यताँ स्वाहा ॥ ॐ आदित्य व्रतपत उप॰ राध्यताँ स्वाहा ॥ ॐ व्रतानां व्रतपत उपनिषदं॰ राध्यताँस्वाहा [[TODO: परिष्कायम्]]
इति ॥ (अग्नये व्रतपतय इदं॰), इत्यादि पूर्ववत् त्यागः ॥ ततो वैश्वदेवकाण्डस्याद्यं “अनुमत्यै पुरोडाशम्” इत्यनुवाकमधीत्य स्विष्टकृदादि हुतशेषनिधानप्राशनान्तं कृत्वोत्तरपरिषेकादिशेषं समापयेत् ॥ एवमुपाकृत्य संवत्सरं यावदध्ययनं वा व्रतं2 चरेत् ॥ ॥ अथ विसर्जनम् ॥
वैश्वदेवकाण्डाध्ययनार्थमुपाकृतस्योपनिषद्व्रतस्योत्सर्जनं करिष्ये,
इति सङ्कल्प्य स्थण्डिलोल्लेखनाद्युपाकरणवत् ॥ समिद्धोमे -
ॐ अग्ने॑ व्रतपत उप॒निष॑दं व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ राधि॒ स्वाहा॑
इत्यादि विशेषः ॥ अध्ययनवर्जं स्विष्टकृदादि शेषं समापयेत् ॥ इत्युपनिषद्व्रतम् ॥
गोदानव्रतम्
अथ गोदानव्रतम् ॥
षोडशे वर्षे ( उदगयने विद्यारम्भानुकूले शुभे मुहूर्ते) आग्नेयकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गोदानव्रतोपाकरणं करिष्ये,
इति सङ्कल्प्य पुण्याहान्तं कृत्वा चौलवत्तूष्णीं सर्वान्केशान्वापयित्वा स्नात्वा देवयजनोल्लेखनादि समानमापरिधानात्कृत्वाग्निं काण्डऋषिमावाह्य सम्पूज्य परिधानप्रभृत्यग्निमुखान्ते सावित्र्या पक्वं हुत्वाज्याहुतीरुपजुहोति -
ॐ याज्ञिकीभ्यो देवताभ्यो गोदानेभ्यः स्वाहा ॥ यथालिङ्गं त्यागः ॥ ॐ साँहितीभ्यो॰ गोदानेभ्यः स्वाहा ॥ ॐ वारुणीभ्यो देवताभ्यो गोदानेभ्यः स्वाहा ॥ ॐ सर्वाभ्यो॰ गोदानेभ्यः स्वाहा ॥ ॐ अग्नये काण्डऋषये स्वाहा ॥ [[TODO: परिष्कायम्]]
“सदसस्पतिम्" इत्यादि “स॒र्व॒भू॒तेभ्यः॒ स्वाहा॑” इत्यन्तं हुत्वाग्निं परिषिच्य पालाशीश्चतस्रो धृतान्वक्ताः समिधोऽभ्यादधाति -
ॐ अग्ने व्रतपते गोदानं ब्रतं चरिष्यामि तच्छेकेयं तन्मे राध्यताँ स्वाहा ॥ ॐ वायो व्रतपते गोदानं॰ राध्यताँ स्वाहा ॥ ॐ आदित्य व्रतपते गोदानं॰ राध्यताँ स्वाहा ॥ ॐ व्रतानां व्रतपते गोदानं॰ राध्यताँ स्वाहा [[TODO: परिष्कायम्]]
इति ॥ (अग्नये व्रतपतय इदं॰) इत्यादि त्यागः॥ अथाग्नेयकाण्डस्याद्यं “उद्धन्यमानम्" इत्यनुवाकमधीत्य स्विष्टकृदादि होमशेषं होतृव्रतवत्समाप्य गां सम्पूज्य
गावो मे मातरस्सन्तु पितरस्सन्तु गोवृषाः ।
ग्रासमुष्टिं मया दत्तं प्रतिगृह्णन्तु मातरः
इति प्रासं दत्वा तां गुरवे दद्यात् ॥ आग्नेयकाण्डमधीयानः संवत्सरं यावदध्ययनं वा व्रतं3 चरेत् ॥
उत्सर्जनम्
॥ अथोत्सर्जनम् ॥
आग्नेयकाण्डाध्ययनार्थमुपाकृतस्य गोदानव्रतस्योत्सर्जनं करिष्ये
इति सङ्कल्प्य शिखावर्ज्यं केशानोप्याध्ययनं विहाय सर्वमुपाकरणवत्कुर्यात् ॥ समिद्धोमे -
ॐ गोदा॒नं व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधि॒ स्वाहा॑
इति विशेषः ॥ (अस्मिन् व्रतक्रमे उपनिषद्व्रतानन्तरं गोदानव्रतं निवेशितमाचार्येण । काण्डक्रमे त्वाग्नेयकाण्डानन्तरं वैश्वदेवं काण्डम् । इत्यतोऽत्र सन्दिह्य क्वचिद्गोदानव्रतानन्तरमुपनिषद्व्रतं सम्प्रयुक्तम् । प्रयोगतिलके -
अधीत्य काण्डमाग्नेयं स्वस्थाने पूर्वमेव तु ।
सम्प्राप्ते षोडशे वर्षे तदिदानीं व्रतं चरेत्
इति प्रथमं केवलमाग्नेयकाण्डमधीत्योपनिषद्व्रतवैश्वदेवकाण्डाध्ययनान्ते षोडशे वर्षे गोदानव्रतमात्रं कुर्यादित्युक्तम् । अत्र पुनराचार्योक्तक्रममनुरुध्यैव व्रतप्रयोगः समुल्लिखितः, इति द्रष्टव्यम् ॥) एतद्व्रतचतुष्टयं ब्रह्मचारिभिः अवश्यमनुष्ठेयम् ॥
व्रतान्यवश्यचर्याणि चत्वार्युक्तानि यानि तु
इति गृ॰ सङ्ग्रहोक्तेः ॥ पञ्चमस्य सम्मितव्रतस्य गृहस्थैरप्याचरितुं शक्यत्वान्न तथावश्यकता तथापि क्रमप्राप्तत्वादनिषेधाश्च तदप्यत्रोल्लिख्यते ॥
सम्मितव्रतम्
अथ सम्मितव्रतम् ॥ स यदि ब्रह्मचारी स्याद्देवयजनोल्लेखनादि प्रतिपद्येत ॥ अथ यद्यब्रह्मचारी स्यात्स केशश्मश्रुलोमनखानि वापयित्वा तीर्थं गत्वा स्नात्वाचम्य सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिरिति मार्जयित्वान्तर्जलगतोऽघमर्षणेन षोडश प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वान्यत्प्रयतं वासः परिधायाप आचम्य देवयजनमुदानयति, इति विशेषः ॥ पुण्याहवाचनान्तमुभयोः समानम् ॥ अथ देवयजनोल्लेखनप्रभृति स्वस्वाग्निं प्रतिष्ठाप्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
स्वायम्भुवकाण्डाध्यनाधिकारपूर्वकशास्त्रोक्तफलसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं सम्मितव्रतोपाकरणहोमं करिष्ये, समुद्भवो नामाग्निः, सविता देवता, चरुर्हविः
इत्यादि सङ्कल्प्यापरिधानात्कृत्वाग्रेणाग्निमक्षतपुञ्जेस्वयम्भुवं काण्डर्षिमावाह्य सम्पूज्य परिधानप्रभृत्यग्निमुखान्तं कृत्वाथाव्रत्यप्रायश्चित्तं4 जुहोति -
ॐ नाहं करोमि कामः करोति कामः कर्ता कामः कारयितैतत्ते काम कामाय स्वाहा ॥ (कामायेदं॰) ॥ ॐ नाहं करोमि मन्युः करोति मन्युः कर्ता मन्युः कारयितैतत्ते ॥ मन्यो मन्यवे स्वाहा ॥ (मन्यव इदं॰) [[TODO: परिष्कायम्]]
इति द्वाभ्याम् ॥ अथ सावित्र्या पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -
ॐ याज्ञिकीभ्यो देवताभ्यः सम्मितीभ्यः स्वाहा ॥ यथालिङ्गं त्यागः ॥ ॐ साँ हितीभ्यो॰ सम्मितीभ्यः स्वाहा ॥ (ॐ वारुणीभ्यो॰) ॥ ॐ सर्वाभ्यो॰ सम्मितीभ्यः स्वाहा ॥ ॐ स्वयम्भुवे काण्डऋषये स्वाहा ॥ [[TODO: परिष्कायम्]]
“सदसस्पतिम्" इत्यादि “स॒र्व॒भू॒तेभ्यः॒ स्वाहा॑” इत्यन्तं हुत्वा औदुम्बरीश्चतस्रः समिधो घृतान्वक्ता अभ्यादधाति -
ॐ अग्ने व्रतपते सम्मितं व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताँ स्वाहा ॥ ॐ वायो व्रतपते॰ ॥ ॐ आदित्य व्रतपते॰ ॥ ॐ व्रतानां व्रतपते सम्मितं॰ राध्यताँ स्वाहा” [[TODO: परिष्कायम्]]
इति ॥ ततः स्वायम्भुवकाण्डस्याद्यं “सह वै देवानाम्" इत्यनुवाकमधीत्य स्विष्टकृदादिहुतशेषनिधानप्राशनान्तं कृत्वोत्तरपरिषेकादि शेषं समापयेत् ॥ एवं व्रतमुपाकृत्य अधोनाभ्युपरि जान्वाच्छाद्य त्रिषवणमुदकमुपस्पृशन्ननग्निपक्ववृत्तिरच्छायोपयोगो नागारं प्रविशेदन्यत्र गुरुनियोगात् ॥ भैक्षं वा तत्कालं भुञ्जीत । कामं कन्दमूलफलम् । स्त्रीशूद्रपतितरभसरजस्वलाभिश्च न सम्भाषेत॥ कामं मातरमुपाध्यायिनीं भगिनीञ्चाभिभाषेत याश्चान्या एवंविधाः स्त्रियोऽसक्ताः । अथेमानि नित्यकर्माणि प्रणवव्याहृतिसहितगायत्रीजपः प्राणायामोग्नींधनं भिक्षाचरणं द्युनिशोः सम्मितदेवताभ्यः सुमनसो निवेदनम् ॥
ॐ ब्रह्माणं तर्पयामि । प्रजापतिं॰ । परमेष्ठिनं॰ । स्थाणुं॰ । शिवं॰ । शर्वं॰ । बहुरूपं॰। स्कन्दं॰ । इन्द्रं॰ । यमं॰ । ऋषींस्त॰ । पितॄस्त॰ । सर्वाः सम्मितदेवतास्तर्पयामि
इति तर्पणं चेति ॥ गुरोः समानवृत्तिषु गुरुवृत्तिः स्यात् ॥ प्रेषितस्तदेव प्रतिपद्येतान्यत्र पातकात् ॥ एवं द्वादश संवत्सरानेकादश नव सप्त पञ्च त्रीन् संवत्सरान् षण्मासांश्चतुरो मासान् द्वौ मासौ मासं वा व्रतं चरेत् । अपि वा योऽनूचानः श्रोत्रियः स द्वादशरात्रं पराकव्रतं चरेन्न त्वेवासम्मिती स्यात् ॥ अस्योत्सर्जने
सम्मितं व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहा
इति समिद्धोमे विशेषः ॥ अन्यत्सर्वं पूर्ववत् ॥ इति सम्मितव्रतम् ॥
एवं तत्तकाले तत्तव्रतमुपाकृत्य तत्तत्काण्डमधीत्याध्ययनान्ते तत्तद्व्रतं विसृजेदित्ययं प्रधानः कल्पः ॥ तदसम्भवे
अशक्तौ होममात्रेण चर्यन्ते त्वेकतंत्रतः ।
कालायत्तमिदं कर्म कालो हि दुरितक्रमः ॥
तस्मात्तन्निष्कृतिं कृत्वा तंत्रैक्येणापि वा चरेत् ।
त्वमग्ने व्रतपेत्येकः सावित्री च मनस्वती ॥
महाव्याहृतयश्चेति प्रायश्चित्ताहुतिर्मता ।
पक्वं हुत्वोपहोमाः स्युस्तत्तद्व्रतवशात्तथा ॥
समिद्धोमस्तथा तत्तत्काण्डाध्ययनमेव च ।
व्रतादाने विधिरयं विसर्गेऽप्येवमेव सः ॥
पक्वहोमादिकोऽधीतिवर्जितः पुनरेव तु ।
यावन्ति व्रतकर्माणि तावन्त्यप्याचरेत्तथा ॥
ग्रहणं मेखलादीनां नेष्यतेऽत्र पृथक्पृथक् ॥
ततः स्विष्टकृदायन्तु प्राग्वदेव समाचरेत्
इति गृ॰ सङ्ग्रहोक्तप्रकारेणैकदैव होत्रादिपञ्च व्रतानि प्रायश्चित्तपूर्वकमुपाकृत्य पञ्च काण्डान्यधीत्य तथैव तंत्रेण तान्युत्सृजेत् । तस्याप्यसम्भवे -
गोदानादीनि कर्माणि विवाहात्पूर्ववासरे ।
एकतन्त्रेण वा कुर्यादिति यज्ञविदो विदुः
इति धर्मप्रवृत्तिवचनेन,
होतृशुक्रीयोपनिषद्गोदानं सम्मितं तथा ।
एषां व्रतानां पञ्चानां कर्मतंत्रैक्यमुच्यते ॥
पुण्याहवाचनं सद्यो नान्दी कृत्वाथ मन्त्रवत् ।
मौञ्जीदण्डोपवीतादि धृत्वा पूर्वधृतं त्यजेत् ॥
उल्लेखनप्रभृत्यग्निमुखान्ते पूर्ववद्धुनेत् ।
जयाभ्यातानहोमादि सावित्र्या पक्वहोमके ॥
स्रुवेणाज्यस्य जुहुयाद्याज्ञिक्यादींश्च तेष्विह ।
होत्रादिव्रतनामानि सकृत्संहितया वदन् ॥
चतुर्थ्यन्तं काण्डऋषीन् ते प्रजापतिसोमकौ ।
अग्निश्च विश्वेदेवाश्च स्वयम्भूरिति च क्रमात् ॥
तत्तव्रतं समिद्धोमे काण्डाधीतिः समान्यपि ।
इषे त्वेत्याप उन्दन्तु उद्धन्यानुमतिः सह ।
तंत्रे स्विष्टकृतः पूर्वं तथैवोत्सर्जनान्यपि ।
स्विष्टादिगोप्रदानैर्वा सिद्ध्यन्त्येतद्व्रतानि च
इति प्रयोगमालोक्तकुमारस्वामिकारिकावचनेन च विवाहदिनात्पूर्वेद्युः सद्यो वा पञ्चानामपि व्रतानामुपाकर्मोत्सर्जने तंत्रेण कुर्यात् ॥ ॥ तत्रायं प्रयोक्रमः ॥
समानतन्त्रेण होत्रादिव्रतानामुपाकर्मोत्सर्जनप्रयोगः
ब्रह्मचारी प्रातः कृतस्नानसन्ध्याग्निकार्यादिनित्यक्रिय आचार्यानुशिष्टः स्नानादिचतुष्टयं कृत्वाचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
प्राजापत्यसौम्यवैश्वदेवाग्नेय स्वायम्भुवकाण्डाध्ययनाङ्गभूतहोतृशुक्रियोपनिषद्गोदानसम्मितव्रतानामुपाकर्मोत्सर्जनानि समानतंत्रेण करिष्ये, तदादौ शांत्यर्थं॰ अभ्युदयार्थं च हिरण्येन नान्दीसमाराधनं स्वस्तिपुण्याहवाचनं निर्विघ्नतासिध्यर्थमादौ गणपतिपूजनञ्च करिष्ये
इति सङ्कल्प्य गणपतिपूजनं पित्रादिद्वारा नान्दीसमाराधनं “सविता प्रीयताम्" इति पुण्याहवाचनं च कृत्वा नूतनानुपवीतवासोमेखलाजिनदण्डान्मन्त्रवद्धृत्वा पूर्वधृतान्युत्सृज्याप उपस्पृश्य स्थण्डिलोल्लेखनादि लौकिकाग्निं प्रतिष्ठाप्य तत्रात्मसमारोपितमग्निं “उपावरोह जातवेदः” इति मंत्रेण संयोज्य आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
होत्रादिव्रतानामुपाकर्मोत्सर्जनहोमौ कालातिक्रमतंत्रप्रायश्चित्तपूर्वकं समानतंत्रेण करिष्ये, समुद्भवो नामाग्निः, सविता सविता देवते, चरुर्हविः
इत्यादि सङ्कल्प्यान्वाधानादि प्रतिष्ठितहविरभिघारणान्तं कृत्वाग्रेणाग्निमक्षतपुञ्जेषु निवीतेन पञ्च काण्डऋषीनावाह्य सम्पूज्य तर्पयित्वा यज्ञोपवीती परिधानप्रभृत्यग्निमुखान्तं कृत्वाज्येन - ततम्म आपः, यत्पाकत्रा, मनो ज्योतिः, यन्म आत्मनः, पुनरग्निः, महाव्याहृतीः व्याहृतीश्चेति कालातिक्रमप्रायश्चित्तं, व्याहृतीः, मिन्दाहुती, चित्तं च स्वाहेत्यादि रुद्राहुत्यन्तं चेति तंत्रप्रायश्चित्तं च हुत्वा चरुं द्विधा विभज्य “सवित्रे त्वा, सवित्रे त्वा" इत्यभिमृश्य दक्षिणस्थाञ्चरोरवदानधर्मेणावदाय सावित्र्या पक्वं हुत्वाज्याहुतीर्जुहोति -
ॐ याज्ञिकीभ्यो देवताभ्यो होतृशुक्रियोपनिषद्गोदानसम्मितीभ्यः स्वाहा ॥ सर्वत्र यथालिङ्गं त्यागः ॥ ॐ साँहितीभ्यो देवाभ्यो होतृशुक्रियो॰ सम्मितीभ्यः स्वाहा ॥ ॐ वारुणीभ्यो देवताभ्यो होतृशुक्रियो॰ सम्मितीभ्यः स्वाहा ॥ ॐ सर्वाभ्यो देवताभ्यो होतृशुक्रियोपनिषद्गोदानसम्मितीभ्यः स्वाहा ॥ अथ निवीती, ॐ प्रजापतये काण्डऋषये स्वाहा ॥ ॐ सोमाय काण्डऋषये स्वाहा ॥ ॐ अग्नये काण्डऋषये स्वाहा ॥ ॐ विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा ॥ ॐ स्वयम्भुवे काण्डऋषये स्वाहा ॥ अथोपवीती, ॐ सदसस्पतिमद्भुतं॰ यासिषँ स्वाहा ॥ ॐ तत्सवितुर्वरेण्यं॰ प्रचोदयात् स्वाहा ॥ ॐ ऋग्वेदाय स्वाहा ॥ ॐ यजुर्वेदाय स्वाहा ॥ ॐ सामवेदाय स्वाहा ॥ ॐ अथर्ववेदाय स्वाहा ॥ ॐ अथर्वाङ्गिरोभ्यः स्वाहा ॥ ॐ इतिहासपुराणेभ्यः स्वाहा ॥ ॐ सर्पदेवजनेभ्यः स्वाहा ॥ ॐ सर्वभूतेभ्यः स्वाहा ॥" [[TODO: परिष्कायम्]]
इत्येकोनविंशत्याहुतीर्हुत्वा तूष्णीं प्रदक्षिणमग्निं परिषिच्य प्रतिव्रतं चतस्रो घृतान्वक्ताः समिधः क्रमेणाभ्यादधाति -
ॐ अग्ने व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा ॥ (अग्नये व्रतपतय इदं॰) ॥ ॐ वायो व्रतपते होतारं व्रतं॰ तन्मे राध्यताँ स्वाहा ॥ (वायवे व्रतपतय इदं॰) ॥ ॐ आदित्य व्रतपते होतारं॰ राध्यताँ स्वाहा ॥ (आदित्याय व्रतपतय इदं॰) ॥ ॐ व्रतानां व्रतपते होतारं॰ तन्मे राध्यताँ स्वाहा ॥ (व्रतानां व्रतपतय इदं॰) ॥ [[TODO: परिष्कायम्]]
एवमेव शुक्रियादीनामपि “शुक्रियं व्रतं चरिष्यामि" इत्याद्यूहेन व्रतसमिधो हुत्वा पुनः परिषिच्य ब्रह्मयज्ञधर्मेण पञ्चकाण्डादीननुवाकान् तदेकदेशान्वाधीत्योत्सर्जनार्थं “यन्म आत्मनः, पुनरग्निः" इति द्वाभ्यामव्रत्यप्रायश्चित्तं हुत्वा प्रधानादौ व्याहृतीर्मिन्दाहुती च हुत्वा सावित्र्या पक्वहोमम् ॥
ॐ या॒ज्ञिकी॑भ्यो दे॒वता॑भ्यो होतृ॰ सम्मि॒तीभ्यः॒ स्वाहा॑
इत्यायेकोनविंशत्याज्याहुतीः ॥
व्रतमचारिषं तदशकं तन्मे राधि
इत्यूहपूर्वकं होत्रादिवत समिद्धोमांश्च पूर्ववत्कृत्वा स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाग्रेणाग्निं पलाशपर्णेषु प्रणवव्याहृतिसहितया गायत्र्या हुतशेषं निधाय तथैव पक्वादुपादाय प्राश्नीयात् ॥ अत्र काण्डऋषीनुद्वास्योत्तरपरिषेकादि होमशेषं समाप्य
अनेन होत्रादिव्रतोपाकरणोत्सर्जनकर्मणा श्रीपरमेश्वरः प्रीयताम्
इति कर्म समापयेत् ॥ ॥ इति होत्रादिव्रतप्रयोगः ॥
ब्रह्मचारिव्रतलोपप्रायश्चित्तम्
अथ ब्रह्मचारिव्रतलोपप्रायश्चित्तम् ॥ ब्रह्मचार्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम शौचाचमनसंध्यावन्दनभिक्षाग्निकार्यलोपस्त्रीशूद्रादिस्पर्शकौपीनकटिसूत्रयज्ञोपवीतमेखलाजिनदण्डादित्यागदिवास्वापच्छत्रोष्णीषादिधारणपादुकाध्यारोहणमालाधारणोद्वर्तनानुलेपनाभ्यञ्जनजलक्रीडाद्यूतगीतनृत्यवाद्याद्यभिरतिपाखण्डादिसम्भाषणपर्युषितभोजनादिजनितदोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं कृच्छ्राचरणपूर्वकं ब्रह्मचारिव्रतलोपप्रायश्चित्तहोमं करिष्ये
इति सङ्कल्प्य कृच्छ्राचरणाशक्तौ तत्प्रत्याम्नायगोहिरण्यादिकं दत्वा स्थण्डिलोल्लेखनादिस्वाग्निं प्रतिष्ठाप्यापूर्वतन्त्रेणाज्यसंस्कारान्तं कृत्वा स्रुवं सम्मृज्याग्निं परिषिच्यालंकृत्य समिधमभ्याधायाज्याहुतीर्जुहोति - पुरस्ताद्व्याहृतिचतुष्टयं हुत्वा
ॐ पाहि नो अग्न एनसे स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ पाहि नो विश्ववेदसे स्वाहा ॥ (विश्ववेदस इदं॰) ॥ ॐ यज्ञं पाहि विभावसो स्वाहा ॥ (विभावसव इदं॰) ॥ ॐ सर्वं पाहि शतक्रतो स्वाहा ॥ (शतक्रतव इदं॰) ॥ ॐ पाहि नो अग्न एकया ॥ पाह्युत द्वितीयया ॥ पाह्युर्जं तृतीयया ॥ पाहि गीर्भिश्चतसृभिर्वसो स्वाहा ॥ (अग्नय इदं०) [[TODO: परिष्कायम्]]
इति पञ्च ॥ उपरिष्टाद्व्याहृतिचतुष्टयञ्चेति पाहित्रयोदशं हुत्वा पुनः परिषेचनादि होमशेषं समापयेत् ॥ ॥ इति ब्रह्मचारिव्रतलोपप्रायश्चित्तम् ॥
समावर्तनम्
॥ अथ समावर्तनम् ॥ ( बो. गृ. सू. २. ६ )
वेदमधीत्य स्यास्यन्नित्युक्तं समावर्तनम् । मन्त्रब्राह्मणं वेद इत्याचक्षते । मन्त्रब्राह्मणयोर्वेदनामधेयम् । मन्त्रब्राह्मणे यज्ञस्य प्रमाणम् । मन्त्रब्राह्मणे अधीत्य चीर्णेषु वा व्रतेषु । एतावदेवनाना । यस्मिन्नग्नावुपनयति तस्मिन्ब्रह्मचर्यं तस्मिन्व्रतचर्यां तस्मिन्समावर्तनं तस्मिन्पाणिग्रहणं तस्मिन्गृह्याणि कर्माणि क्रियन्ते । तस्मिन्काम्यानि तस्मिन्प्रजासंस्कारा इत्येके ॥
(बो. गृ. प. सू. १. १६.१)
त्रयः स्नातका भवन्ति - वेदस्नातको व्रतस्नातको वेदव्रतस्नातकश्चेति ॥ तत्रैव स्नातकत्रैविध्यमुक्तम् ।
वेदमधीत्य स्नास्यन्नित्युक्तं समावर्तनम्
इत्यनेन तादृशस्नानमेव समावर्तनमिति च व्याख्याय तच्च ( वो. गृ. प. सू. १. १३)
रोहिण्यां स्नायादित्येकम् - प्राजापत्यं वा एतन्नक्षत्रम्॰ तिष्ये स्नायादित्येकम् - बार्हस्पत्यं वा एतनक्षत्रम्॰ उत्तरयोः फल्गुन्योः स्नायादित्येकम् - भग्यं वा एतन्नक्षत्रम्॰ हस्ते स्नायावित्येकम् - सावित्रं वा एतन्नक्षत्रम्॰ चित्रायां स्नायादित्येकम् - ऐन्द्रं वा एतन्नक्षत्रम्॰ विशाखयोः स्नायादित्येकम् - ऐन्द्राग्नं वा एतन्नक्षत्रम्॰ एतेषामेकस्मिन्नापूर्यमाणपक्ष
इत्यादिना रोहिणीतिष्योत्तराहस्तचित्राविशाखानक्षत्रेष्वापूर्यमाणपक्षे कुर्यादित्यपि विहितम् । प्रयोगतिलकेऽपि -
अधीत्य शाखाः शाखे वा शाखां वापि स्वशक्तितः ।
व्रतं समाप्य दत्वा च गुर्वर्थं तदनुज्ञया ॥
अथोदगयने कुर्यात्समावर्तनमादृतः
इत्युक्तम् । तत्र नक्षत्रविशेषमाह श्रीधरः -
वागीशादितिसौम्यपौष्णदिनकृन्मित्रोत्तरारोहिणी
गोविन्देषु शशाङ्कभानुगुरुविच्छुक्रांशवारादिषु ।
रिक्तां पर्व तथाष्टमीं प्रतिपदं मेषं च कीटं हरिं
हित्वा शुद्धियुतेऽष्टमेऽह्नि विमले कुर्यात्समावर्तनम्
इति ॥ वैद्यनाथीये -
स्नातस्तूपयमादर्वाग्मृतो याति न सद्गतिम् ।
तस्मादासन्नवैवाहः स्नानकर्म समाचरेत् ।
अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः ।
आश्रमेण विना तिष्ठन्प्रायश्चित्तीयते तु सः
इति वचनेनासन्नविवाहस्यैव समावर्तनं प्रशंसितम् ॥ एतेनोदगयने विवाहात् पूर्वं पर्वप्रतिपदष्टमीरिक्तातिरिक्तासु तिथिषु भानुसोमगुरुशुक्रवारेषु रोहिणीमृगशिरःपुनर्वसुतिष्योत्तरात्रयहस्तानुराधाश्रवणरेवतीनक्षत्रेषु सूत्रोक्तचित्राविशाखयोश्चाष्टमशुद्धियुतेषु मेषसिंहवृश्चिकवर्जितेषु लग्नेषु समावर्तनं कुर्यादित्युक्तं भवति ॥
प्रयोगः
अथ प्रयोगः ॥ ब्रह्मचारी गुरुकुले वसन्वेदं वा व्रतं वोभयं वा पारं नीत्वा गुरुं दक्षिणादिना सन्तोष्य तेनाऽनुज्ञातः पूर्वोक्तेषु स्वानुकूले शुभदिने स्नास्यन्नेतान्सम्भारानुपकल्पयते -
एरकाञ्चोपबहणं च नापितं च क्षुरञ्च दारूणि चोपस्तरणं च वृकलांश्च दन्तधावनमुष्णाश्चाऽपः शीताश्च सर्वसुरभिपिष्टं चाञ्जनं च स्रजं चादर्शं चाहतं वासः प्रावारञ्च वसनान्तरं बादरमणिं सुवर्णोपधानं सूत्रञ्च प्रवर्तौ च दण्डञ्चोपानहौ च छत्रमानडुहं चर्म सर्वलोहितम्
इत्युपकल्प्य सूर्योदयात्पूर्वं गृहं प्रविश्याऽन्तर्लोम्ना चर्मणा द्वारं पिदधाति यथा नैतदहरेनमादित्योऽभितपेत् । आमध्यंदिनं भिक्षां दद्यात् ॥ अथ प्रातः स्नानसन्ध्याऽग्निकार्यादि नित्यकर्म कृत्वा मध्यंदिने दर्भेषु प्राङ्मुख उपविश्य पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम स्नातकत्वसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं समावर्तनाऽऽख्यं कर्म करिष्ये
इति सङ्कल्प्य निर्विघ्नसासिध्यर्थं गणपतिपूजनं नान्दीसमाराधनं “श्रीः प्रीयताम्" इति पुण्याहवाचनञ्च क्रमेण कुर्यात् ॥ नान्दीसमाराधनमाद्यविवाहान्तं पित्रादिः कुर्यादित्युक्तमेव ॥ अथात्रविवाहदिनात्पूर्वं होत्रादिव्रतानां समावर्तनस्य च तन्त्रेणाऽनुष्ठानपक्षे,
अस्य कुमारकस्य होत्रादिव्रतसमावर्तनकर्मणी कर्तुमादौ नान्दीसमाराधनं करिष्ये
इति सङ्कल्पपूर्वकं नान्दीसमाराधनं कृत्वा “सवितृश्रियौ प्रीयेताम्" इति होत्रादिव्रतसमावर्तनयोः पुण्याहं वाचयित्वा होत्रादिव्रतान्ते समावर्तनं कुर्यादिति विशेषः॥ अथ देवयजनोल्लेखनादि लौकिकाऽग्निं प्रतिष्ठाप्य तत्र “उपावरोह" इति स्वाग्निं संयोज्य
मम स्नातकत्वसिध्यर्थं समावर्तनहोमं करिष्ये, परिवर्तो नामाऽग्निः, श्रीर्देवता, चरुर्हविः
इत्यादि सङ्कल्प्यान्वाधाय पात्रासादनकाले प्राकृतपात्राण्यासाद्य, एरकां चोपबर्हणं च क्षुरं चोपस्तरणं च दन्तधावनकाष्ठं चोष्णाश्चाऽपः शीताश्च सर्वसुरभिपिष्टं चाञ्जनं च स्रजं चादर्शं चाहतं वासः प्रावरणञ्च वसनान्तरं सुवर्णोपधानं बादरमणिं च सूत्रं च प्रवर्तौ च दण्डञ्चोपानहौ च छत्रं पालाशीं समिधं चेत्येतानि सकृदेवाऽसाद्य प्रोक्षणीसंस्काराद्यग्निमुखान्तं कृत्वा पालाशीं समिधमाज्येनाऽक्त्वाऽभ्यादधाति -
ॐ इमँ स्तोममहंते जातवेदसे रथमिव सम्मैहे मा मनीषया । भद्रा हि नः प्रमतिरस्य सँसद्यग्ने सख्ये मारिषामा वयं तव स्वाहा [[TODO: परिष्कायम्]]
इति ॥ (जातवेदसेऽग्नय इदं॰) ॥ अथाऽपरेणाऽग्निमुपस्तरणोपबर्हणयुतायामेरकायामुदीचीनशिरा निपद्यते -
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषमृषीणां त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषम् [[TODO: परिष्कायम्]]
इति ॥ अथ ( आचार्येण क्लिद्यमानं ) गोदानमनुमन्त्रयते -
शि॒वा मे॑ भवथ॒ सँ स्पृ॑शे
इति ॥ क्षुरमभिमन्त्रयते -
क्षु॒रो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिँसीः
इति ॥ क्षुरेणोप्यमानमनुमन्त्रयते -
यत्क्षु॒रेण॑ व॒र्चय॑सि व॒प्त्रा वप॑सि केशश्म॒श्रु वर्च॑य मे॒ मुखं॒ मा म॒ आयुः॒ प्रमो॑षीः
इति ॥ श्मश्रूण्येवाग्रे वपते अथोपपक्षाक्थ केशान्यथोपपादमितराण्यङ्गानि वापयित्वा नखानि निकृन्तयीत ॥ अथैतानि समुच्चित्य ब्रह्मचारिणे प्रयच्छन्नाह -
‘इमानि हृत्वा दर्भस्तम्बे वोदुम्बरमूले वा निधत्तात्
इति तानि स तत्र निदधाति ॥ अपरेणाऽग्निं प्राङ्मुख उपविश्य मेखलां विस्त्रंसयति -
इमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके स्योनं मे सह पत्या करोमि [[TODO: परिष्कायम्]]
इति ॥ तां मित्रस्य पुत्राय वान्तेवासिने वा प्रयच्छन्नाह -
इमां हृत्वा न्यग्रोधमूले वा उदुम्बरमूले वा निधत्तात्
इति ॥ तां स तत्र निदधाति -
इ॒दम॒हं हरिशर्मणो वासिष्ठगोत्रस्य शु॒चा पा॒प्मान॒मव॑गूहा॒म्युत्त॑रस्य द्वि॒षद्भ्यः॑
इति तत्तन्नामगोत्रे निर्दिशेत् ॥ अत्रैव दण्डमजिनं वासश्च विसृज्याऽप उपस्पृशेत् ॥ एवं ब्रह्मचारिधर्मान् परित्यज्य वृकलकाष्ठेन दन्तान्विधावयते -
अन्नाद्याय व्यपोहध्वं भगो राजायमागमत् । स मे मुखं प्रसर्पतु वर्चसे च भगाय च [[TODO: परिष्कायम्]]
इति ॥ अप उपस्पृश्योभयीरपस्सन्निषिञ्चति -
उष्णास शीता आनयति देवमनुष्यस्य व्यावृत्य
इति ॥ ता अपोऽञ्जलिनोपहत्याऽस्य मूर्ध्न्यभिषिञ्चति - “आपो हि ष्ठा” इति तिसृभिः, “हिरण्यवर्णाः शुचयः” इति तिसृभिरेवं षड्भिर्ऋग्भिर्मार्जितो विमलजलैर्मङ्गलस्नानं कृत्वाऽऽचम्य सर्वसुरभिपिष्टं समुदायुत्याऽङ्गेषु त्रिः प्रसिञ्चति -
नमः॒ शाक॑जञ्ज॒भाभ्यां॒ नम॒स्ताभ्यो॑ दे॒वता॑भ्यो॒ या अ॒भिग्रा॒हिणीः॑
इति ॥ तेन सर्वाण्यङ्गान्यनुलिम्पेत् -
अप्सरासु च यो गन्धो गन्धर्वेषु च यद्यशः । दिव्यो यो मानुषो गन्धः स मा माविशत्विह [[TODO: परिष्कायम्]]
इति ॥ अहतं वासः परिधत्ते –
स्वामा॑ तनू॒रावि॑श शि॒वा मा॑ तनू॒रावि॑श
इति ॥ एवमेवोत्तरीयम् ॥ अत्रैव द्वितीययज्ञोपवीतं धृत्वाऽऽचम्याऽथैतं सुवर्णोपधानं बादरमणिं सूत्रे प्रोत्य दर्व्यामाधाय सूत्रेण दर्वीदण्डमावेष्ट्याज्याहुतिं जुहोति -
ॐ इयमोषधे त्रायमाणा सहमाना सहस्वती । सा मा करोतु सोमवर्चसँ सूर्यवर्चसं ब्रह्मवर्चसिनमन्नादं करोतु स्वाहा [[TODO: परिष्कायम्]]
इति ॥ (ओषधय इदं॰) ॥ अथैनं मणिमुदपात्रे परिप्लावयति -
विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव । अति॑गाहे महि॒ द्विषः॑
इति ॥ “अपाशोऽसि" इत्युक्त्वा तं सूत्रप्रोतं बादरमणिमुपवीतवदक्ष्णया कण्ठे धारयेत् ॥ अथैतौ प्रवर्तौ (सुवर्णकुण्डले) सूत्रे प्रोत्य दर्व्यामाधाय दर्वीदण्डे सूत्रेण पर्यस्य दर्व्या पञ्चाज्याहुतीरुपजुहोति -
ॐ आयुष्यं वर्चस्यँ रायस्पोषमौद्भिद्यम् । इदँ हिरण्यं वर्चसे जैत्र्याया विशतामिदँ रयिँ स्वाहा ॥ (हिरण्यायेदं॰) ॥ शुनिमिवाहँ हिरण्यस्य पितुरिव नामाप्रभैषम् । तन्मा करोतु सोमवर्चसँ । सूर्यवर्चसं ब्रह्मवर्चसिनमन्नादं करोतु स्वाहा ॥ (हिरण्यायेदं॰) ॥ उच्चैर्वाजिपृतनासहँ संभासाहं धनंजयम् । सर्वाः समृद्धीद्धयो हिरण्ये याः समाहिताः स्वाहा ॥ (हिरण्यायेदं॰) ॥ पविराजञ्च स्वराजञ्चाऽभिष्टीर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा सँसृजामसि स्वाहा ॥ (लक्ष्म्या इदं॰) ॥ यशो मा कुरु ब्राह्मणेषु यशो राजसु मा कुरु । यशो विश्येषु ॥ शूद्रेष्वहमस्मि यशस्तव स्वाहा ॥ (लक्ष्म्या इदं॰) [[TODO: परिष्कायम्]]
इति ॥ अथैतावुदपात्रेऽनुप्लावयति -
विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव । अति॑ गाहे महि॒ द्विषः॑
इति ॥ एतयोः कुण्डलयोरन्यतरदादाय दक्षिणे कर्णे बध्नाति - “आयुष्यं वर्चस्य” इत्येतैः पञ्चभिर्मन्त्रैः ॥ अथैनदनुपरिवर्तयति -
ऋ॒तुभि॑स्त्वार्त॒वैः सं॑वत्स॒रस्य॒ धाय॑सा । तैस्त्वा॑ स॒हानु॑करोमि
इति ॥ एवमेवोत्तरे कर्णेऽन्यत्कुण्डलमाबध्य शिरसि स्रजं प्रतिमुञ्चति -
शुभिके शिर आरोह शोभयन्ती मुखं मम । मुखँ हि मम शोभय भूयाँ सं च भगं कुरु ॥ यान्त्वा जहार जमदग्निः श्रद्धायै कामायान्यै । तां त्वेमां प्रतिमुञ्चामि वर्चसे च भगाय च [[TODO: परिष्कायम्]]
इति ॥ अथ त्रैककुदेनाऽञ्जनेनाऽङ्के5 -
यदाञ्ज॑नं त्रैककु॒दं जा॒तँ हि॒मव॑त उ॒परि॑ । तेन॑ वामाञ्जे॒ मयि॒ पर्व॑त॒ वर्च॑समस्तु
इति ॥ आदर्शे मुखं परिपश्यति -
यन्मे॒ मनः॒ परा॑गत॒माद॑र्शे॒ परि॑पश्यतः । इ॒दं तन्मयि॑ पश्याम्यायु॒ष्यं॑ वर्च॒स्यं॑ मे अस्तु
इति ॥ अथोपानहौ प्रतिमुञ्चते - “द्यौर॑सि” इति दक्षिणपादे “पृ॒थि॒व्य॑सि" इत्युत्तरे ॥ अथ दण्डमादत्ते – “स॒खा मा॑ गोपाय" इति ॥ छत्रमादत्ते -
दि॒व्यो॑ऽसि सुप॒र्णोऽन्तरि॑ क्षान्मा पाहि
इति ॥ अथ
वरु॑णोऽसि धृ॒तव्र॑तो वारु॒णम॑सि
इति कमण्डलुं6 चादाय गुरुं प्रणम्याऽनुज्ञाप्योदङ्मुखस्तीर्थं गच्छेत् । सप्तपदानि गत्वा सुहृद्भिर्निवारितश्छत्रोपानहौ कमण्डलुञ्च विसृज्याऽचम्याऽपरेणाऽग्निमुपविश्य पक्वाज्जुहोति -
ॐ आवहन्ती7 वितन्वाना कुर्वाणा चीरमात्मनः । वासाँ सि मम गाव॑श्चाऽन्नपाने च सर्वदों३ ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा [[TODO: परिष्कायम्]]
इति ॥ (श्रिया इदं॰) ॥ ततः स्विष्टकृतमवदायाऽन्त परिधौ निधायाऽज्याहुतीरुपजुहोति -
ॐ आमा यन्तु ब्रह्मचारिणः स्वाहा ॥ ॐ विमा यन्तु ब्रह्मचारिणः स्वाहा ॥ ॐ प्रमा यन्तु ब्रह्मचारिणः स्वाहा ॥ ॐ दमा यन्तु ब्रह्मचारिणः स्वाहा ॥ ॐ शमा यन्तु॰ चारिणः स्वाहा॑ ॥ ॐ उन्मा यन्तु॰ स्वाहा ॥ ( एतेषु षट्सु ब्रह्मचारिभ्य इदं० इति त्यागः ) ॐ यशो जनेऽसानि स्वाहा ॥ (यशस इदं॰) ॥ ॐ श्रेयान्वस्यसोऽसानि स्वाहा ॥ (श्रेयस इदं॰) ॥ ॐ तन्त्वा भग प्रविशानि स्वाहा ॥ (भगायेदं॰) ॥ ॐ समा भग प्रविश स्वाहा ॥ (भगायेदं॰) ॥ [[TODO: परिष्कायम्]]
इति दशभिः8 ॥ ततः स्विष्टकृत्प्रभृति प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाग्निं बिल्वशाखायां हुतशेषं निदधाति -
तस्मि॑न्स॒हस्र॑ शाखे । निभ॑गा॒हं त्वयि॑ मृजे॒ स्वाहा॑
इति ॥ अथ पक्वाद्धस्ते उपस्तीर्णाऽभिघारितं हविरादाय प्राश्नाति -
यथापः प्रवता यन्ति । यथामासा अहर्जरम् ॥ एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ प्राश्याप आचम्योरः प्रत्यभिमृशते -
प्र॒ति॒वे॒शो॑ऽसि॒ प्रमा॑ भाहि॒ प्रमा॑ पद्यस्व
इति ॥ अथाऽप उपस्पृश्योत्तरपरिषेकादि होमशेषं समाप्य नक्षत्रोदयपर्यन्तमत्रैव स्थित्वोदितेषु नक्षत्रेषूपनिष्क्रम्य दिश उपतिष्ठते -
देवीः॑ षडुर्वीरु॒रु णः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम्
मा हा॑स्म हि प्र॒जया॒ मा त॒नूभि॒र्मार॑धाम द्विष॒ते सो॑म राजन्
इति ॥ चन्द्रमसमुपतिष्ठते -
सूप॒स्था दे॒वो वन॒स्पति॑रू॒र्ध्वो मा॑ पा॒ह्योदृचः॑
इति ॥ इदं दिगाद्युपस्थानमुक्तकाले कर्तुमसम्भवे तदानीमेव वा कृत्वा “या ते अग्ने" इत्यात्मन्यग्निं समारोपयेत् ॥ विवाहपर्यन्तं सायं प्रातरग्निकार्यमाज्येन कुर्यात् ॥ ॥ इति समावर्तनप्रयोगः ॥
जडबधिरादीनां समावर्तनम्
जडबधिरादीनां समावर्तनम् ॥ ( बो. गृ. प. सू. १.१४ )
अथ व्रतस्नातकस्य वेदमनधीयानस्य तूष्णीं समावर्तनम् । तीर्थे स्नात्वाऽग्निमुपसमाधाय सम्परिस्तीर्य मध्याह्ने पालाशीं समिधमाज्येनाक्त्वाऽभ्यादधाति - ‘इमँ स्तोमम्’ इत्येतया । तूष्णीं वपनं तूष्णीं संभारग्रहणं च कृत्वा रथस्य दक्षिणं चक्रमभिमृशति - ‘रथन्तरमसि’ इति । सव्यं - ‘बृहदसि’ इति । रथस्य मध्यमभिमृशति - ‘वामदेव्यमसि’ इति । रथं प्रवर्तमानमभिमन्त्रयते -
रथं वामश्विना रथो मा दुःखे मा सुखे रिषत्
इति । रथाऽभावेऽप उपस्पृश्य भूमिमभिमृशति -
इह धृतिरिह विधृतिरिह रन्तिरिह रमतिः
इति । अथाप उपस्पृश्य हृदयमभिमृशति - ‘मयीन्द्रियं वीर्यम्’ इति । अपो व्रीहिभिर्यवैर्वा समुदायुत्य शिष्याय प्रयच्छति । तत्प्रतिगृह्णाति -
आ म आगाद्वर्चसा यशसा
इति । ब्राह्मणः -
आ म आगाद्वर्चसा यशसा सँ सृज प्रियः पशूनामधिपतिः प्रजानाम्
इति तदुपस्पृश्य वदेत् । प्राक्सिक्तं तज्जलं पुरस्तात्सिञ्चति । अथ दधिमध्वाज्योदकमिश्रं वा दधिमध्वाज्योदकक्षीरमिश्रं वा ‘अर्घ्यं’ इति निवेदयेत् । शिष्योऽर्घ्यमभिमन्त्रयते -
स माऽवतु स माऽवन्तु स मा जुषताम्
इति । अथ द्वाभ्यां हस्ताभ्यां प्रतिगृह्णाति - ‘आ म आगाद्वर्चसा’ इति । तस्मिंश्चित् किञ्चिदापतितं स्यात्तदङ्गुष्ठेन महानाम्न्या च सङ्गृह्येमां दिशं निरस्यति -
नेष्टाविद्धं कृन्तामि या ते घोरा तनूस्तया तमाविश योऽस्मान्द्वेष्टि यं च वयं द्विष्मः
इति । अथाप उपस्पृश्य सर्वाभिरङ्गुलीभिस्समुदायुत्य प्राश्नाति- ‘इदं ते बलं हरामि’ इति प्रथमम् । ‘श्रेष्ठं माधिपतिं कुरु’ इति द्वितीयम् । ‘सोमोसि सोमपं मा कुरु’ इति तृतीयम् । ‘अन्नमस्यन्नं मा कुरु’ इति चतुर्थम् । एवं चतुष्कृत्वः प्राश्य त्रिरनुपिबेन्न सर्वं न तृप्तिं गच्छेत् ॥ यमात्मनः श्रेयांसमिच्छेत्तस्मै शेषं दद्यादिति । अथ कर्णे दाम्ना बद्धां गामनुमन्त्रयते - ‘जहि मे पाप्मानमुपवेत्तुः’ इति । अथ गामुत्सृजेत् – ‘गौर्धेनुर्भव्या’ इति । अथौदनमाहृतं प्राश्नाति – ‘ब्रह्मन् त्वाऽश्नामि’ इति । अथोदकमिश्रं सक्तुमाहृतमश्नाति - ब्रह्मन् त्वाऽश्नामि’ इति । एवमेव जडबधिरमूकान्धकुब्जादीनामशक्तस्तूष्णीं समिधमाधाय शेषं तूष्णीमाचरेत् ॥
प्रयोगः
अथ प्रयोगः ॥
तत्र तूष्णीं समावर्तनं करिष्ये,
इति सङ्कल्प्य पित्रादिद्वारा नान्दीसमाराधनं पुण्याहं च कृत्वाऽग्निमुपसमाधाय सम्परिस्तीर्य परिषिच्य पालाशीं समिधमाज्येनाऽक्त्वा “इ॒मँ स्तोम॒म्” इति मन्त्रेणाऽभ्याधाय तूष्णीमेव वपनं मेखलादिविस्रंसनं दन्तधावनं स्नानञ्च कृत्वा सर्वसुरभिगन्धैरङ्गान्यनुलिप्य तूष्णीमहते वाससी परिधायोपवीतद्वयं च धृत्वा मणिकुण्डलस्रग्धारणमञ्जनं दर्पणावलोकनं पादुकादण्डछत्रकमण्डलुधारणञ्च सर्वं तूष्णीं कृत्वा
इ॒ह धृति॑रि॒ह विधृ॑तिरि॒ह रन्ति॑रि॒ह रम॑तिः
इति भूमिमभिमृश्योत्तरपरिषेकादि समापयेत् ॥ नात्र पक्वहोमादिकं विद्यते ॥ अथैनमाचार्यो मधुपर्केणार्हयति ॥ मधुपर्कविधिरग्रे समग्रो वक्ष्यते ॥ तत्रायं विशेषः ॥ कूर्चपाद्यार्हणीयोपस्तरणीयान्ते मधुपर्कं प्रोक्तमनुमन्त्रयते -
स मा॑वतु॒ स मा॑वन्तु॒ स मा॑ जुषताम्
इति ॥ उभाभ्यां प्रतिगृह्णाति - “आम॒ आगा॒द्वर्च॑सा॒॰ पशू॒नाम्” इति ॥ अथ “नेष्टा॑ विद्धि॒॰ द्वि॒ष्मः" इति तस्मिन् पतितं तृणादिकं निरस्याप उपस्पृश्य सर्वाभिरङ्गुलीभिः समुदायुत्य चतुः प्राश्नाति - “प्रा॒णेदं॑ ते॒ बलिँ॑ हरामि” इति प्रथमम् । “श्रेष्ठं॒ माधि॑पतिं कुरु" इति द्वितीयम् । “सोमो॑ऽसि॒ सोम॑पम्मा कुरु" इति । तृतीयम् “अन्न॑मस्य॒न्नादं॑ मा कुरु" इति चतुर्थम् । शेषमात्मनः प्रियाय दद्यात् ॥ अथ गामनुमन्त्रयते - “ज॒हि मे॑ पा॒प्मान॒मुप॑वेत्तुः” इति ॥ तामुत्सृजति - “गौर्धेनु॰ ओमुत्सृजत” इति ॥ अथास्मा ओदनं उदकमिश्रं सक्तुञ्च प्रत्येकमश्नाति -“ब्रह्मन्त्वाऽश्नामि, ब्रह्मन्त्वाश्नामि” इति ॥ इति जडबधिरादीनां समावर्तनम् ॥
स्नातकधर्माः
अथ स्नातकधर्माः ॥ ( बो. गृ. प. सू. १.१५)
अथैतेषामत ऊर्ध्वं नित्यानि भवन्ति –
औपासनो दण्डः कमण्डलुरुपानहौ छत्रं द्वे वाससी द्वे यज्ञोपवीते उष्णीषमजिनमन्तर्वासः
इति ॥ पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि च वाग्यत उत्तरेण वा ॥ बहिर्वाचं विसृजेत् । प्रश्नमनुवाकं वाऽधीयीत । ब्रह्मपरो ब्रह्मनित्यो देवेभ्य ऋषिभ्यः पितृभ्यस्तर्पणानि कृत्वाऽश्नीयात् । दिवा नोष्णीषी नक्तमुष्णीषी मूत्रपुरीषोत्सर्गेषु च निवीती नित्ययज्ञोपवीती । तिष्ठन्नाचामेत्प्रह्वो वा । सन्ध्ययोश्च बहिर्ग्रामादासनं वाग्यतश्च । आ जायासङ्गमात्स्नातका भवन्त्यत ऊर्ध्वं गृहस्थाः । अविच्छेदाय वेदव्रतैर्व्यवहरेत् । कौमारेण माहेश्वरेण धान्वन्तरेणेति ॥
( बो ध, सू. २. ५-६ )
अथ स्नातकव्रतानि ॥ सायं प्रातर्यदशनीयं स्यात्तेनाऽन्नेन वैश्वदेवं बलिमुपहृत्य ब्राह्मणक्षत्रियविट्शूद्रानभ्यागतान्यथाशक्ति पूजयेत् ॥ यदि बहूनां न शक्नुयादेकस्मै गुणवते दद्यात् ॥ यो वा प्रथाममुपागतस्स्यात् ॥ शूद्रश्चेदागतस्तं कर्मणि नियुञ्ज्यात् ॥ श्रोत्रियाय वाऽग्रं दद्यात् ॥ ये नित्या भक्तिकास्स्युस्तेषामनुपरोधेन संविभागो विहितः ॥ न त्वेव कदाचिददत्वा भुञ्जीत ॥ अथाऽप्यत्राऽन्नगीतौ श्लोकावुदाहरन्ति -
यो मामदत्वा पितृदेवताभ्यो भृत्याऽतिथीनाञ्च सुहृज्जनस्य ।
सम्पन्नमश्नन्विषमत्ति मोहात्तमद्म्यहं तस्य च मृत्युरस्मि ॥
हुताऽग्निहोत्रः कृतवैश्वदेवः पूज्याऽतिथीन्भृत्यजनाव शिष्टम् ।
तुष्टश्शुचिश्श्रद्दधदत्ति यो मां तस्याऽमृतं स्यां स च मां भुनक्तिइति ॥ सुब्राह्मणश्रोत्रियवेदपारगेभ्यो गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो यथाशक्ति कार्यो बहिर्वेदि भिक्षमाणेषु ॥ कृतान्नमितरेषु ॥ सुप्रक्षालितपादपाणिराचान्तसश्शुचौ संवृते देशेऽन्नमुपहृतमुपसङ्गृह्य कामक्रोधद्रोहलोभमोहानपहत्य सर्वाभिरङ्गुलीभिः शब्दमकुर्वन् प्राश्नीयात् ॥ न पिण्डशेषं पात्र्यामुत्सृजेत् ॥ मांसमत्स्यतिलसंसृष्टप्राशनेऽप उपस्पृश्याऽग्निमभिमृशेत् ॥ अस्तमिते च स्नानम् ॥ पालाशमासनं पादुके दन्तधावनमिति वर्जयेत् ॥ नोत्सङ्गेऽन्नं भक्षयेत् ॥ आसन्द्यां न भुञ्जीत ॥ वैष्णवं दण्डं धारयेद्रुक्मकुण्डले च ॥ पदा पादस्य प्रक्षालनमधिष्ठानञ्च वर्जयेत् ॥ न बहिर्मालां धारयेत् ॥ सूर्यमुदयास्तमये न निरीक्षेत ॥ नेन्द्रधनुरिति परस्मै प्रब्रूयात् ॥ यदि ब्रूयान्मणिधनुरित्येव ब्रूयात् ॥ पुरद्वारीन्द्रकीलपरिधावन्तरेण नाऽतीयात् ॥ प्रेङ्खयोरन्तरेण न गच्छेत् ॥ वत्सतन्तीञ्च नोपरि गच्छेत् ॥ भस्माऽस्थिरोमतुषकपालाऽपस्नानानि नाऽधितिष्ठेत् ॥ गां धयन्तीं न परस्मै प्रब्रूयात् ॥ नाऽधेनुमधेनुरिति ब्रूयात् ॥ यदि ब्रूयात् धेनुर्भव्येत्येव ब्रूयात् ॥ शुक्ता रूक्षाः परुषा वाचोन ब्रूयात् ॥ नैकोऽध्वानं व्रजेत् ॥ न पतितैर्न स्त्रिया न शूद्रेण ॥ न प्रतिसायं व्रजेत् ॥ न नग्नस्स्नायात् ॥ न नक्तं स्नायात् ॥ न नदीं बाहुकस्तरेत् ॥ न कूपमवेक्षेत ॥ न गर्तमवेक्षेत ॥ न तत्रोपविशेद्यत एनमन्य उत्थापयेत् ॥ पन्था देयो ब्राह्मणाय गवे राज्ञे ह्यचक्षुषे वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ प्रभूतैधोदकयवससमित्कुशमाल्योपनिष्क्रमणमाढ्यजनाकुलमनलससमृद्धमार्यजनभूयिष्ठमदस्युप्रवेश्यं ग्राममावसितुं यतेत धार्मिकः ॥ उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः उषित्वा द्वादश समाः शूद्रसाधर्म्यमृच्छति ॥
पुररेणुगुण्ठितशरीरस्तत्परिपूर्णनेत्रवदनश्च ।
नगरे वसन्सुनियतात्मा सिद्धिमवाप्स्यतीति न तदस्ति ॥
रथाश्वगजधान्यानां गवाञ्चैव रजश्शुभम् ।
अप्रशस्तं समूहन्याः श्वाऽजाविखरवाससाम् ॥पूज्यान्पूजयेत् ॥
ऋषिविद्वन्नृपवरमातुलश्वशुरर्त्विजः ।
एतेऽर्घ्याशास्त्रविहिताः स्मृताः कालविभागशः ॥
ऋषिविद्वन्नृपाः प्राप्ताः क्रियारम्भे वरर्त्विजौ ।
मातुलश्वशुरौ पूज्यौ सम्वत्सरगताऽऽगतौइति ॥
अग्न्यगारे गवां मध्ये ब्राह्मणानाञ्च सन्निधौ ।
स्वाध्याये भोजने चैव दक्षिणं बाहुमुद्धरेत् ॥
उत्तरं वासः कर्तव्यं पञ्चस्वेतेषु कर्मसु ।
स्वाध्यायोत्सर्गदानेषु भोजनाऽऽचमनयोस्तथा ॥
हवनं भोजनं दानमुपहारः प्रतिग्रहः ।
बहिर्जानु न कार्याणि तद्वदाचमनं स्मृतम् ॥
अन्ने श्रितानि भूतानि अन्नं प्राणमिति श्रुतिः ।
तस्मादन्नं प्रदातव्यमन्नं हि परमं हविः ॥
हुतेन शाम्यते पापं हुतमन्नेन शाम्यति ।
अन्नं दक्षिणया शान्तिमुपयातीति नश्श्रुतिःइति ॥ ॥ इति स्नातकधर्माः ॥
-
“तस्य तु व्रतबाहुल्यानाचरन्ति कलौ जनाः ।
काण्डाध्ययनमेवास्य केचित्कुर्वन्ति तद्व्रतम् ॥
पारम्पर्येण विप्राधैर्यद्व्रतं कार्यमेव तत्”इति प्र॰ तिलके॥ ↩︎
-
अत्र कारीर्यध्ययनकाले (बो. गृ. सू. ३. १) “चतूरात्रमक्षारलवणं भूमौ भुञ्जीत पशुवत्” इति सूत्रोक्तं व्रतं कुर्यात् ॥ ↩︎
-
आरुणाध्ययनकाले (तै. आ. १. ३२) “संवत्सरमेतद्व्रत चरेत् । द्वौ वा मासौ” इति श्रुत्युक्तं व्रतं चरेत् ॥ ↩︎
-
“हुत्वाग्निमुखमत्रापि व्रतलोपस्य निष्कृतिः ।
नाहं करोमि मंत्राभ्यां याज्ञिक्याद्या इहापि च”इति गृ॰ संग्रहे ॥ ↩︎
-
“दक्षिणे लोचने वामे पञ्चकृत्वो मुहुर्मुहुः” इति कारिकान्तरे ॥ ↩︎
-
“कुण्डिकां वरुणोऽसीति गृहीत्वोदङ्मुखो गुरुन् ।
प्रणम्य तैरनुमतस्तीर्थं गच्छेदुदङ्मुखः ॥
पदानि सप्तानुगतास्सुहृदो वारयन्ति तम्”इति प्र॰ तिलके ॥ ↩︎
-
“आवहन्ती वितन्वाना ततो मे श्रियमित्यृचौ ।
व्याहृति प्रणवान् वापि पुरोनूच्य यजेद्धविः ॥
आवहन्त्यादिकेनैव स्वाहान्तेन तु कृत्स्नशः"इति गृ॰ सङ्ग्रहे ॥ ↩︎
-
“आमायन्तु विमायन्तु प्रमायन्तु ततःपरम् ।
दमायन्तु शमायन्तु ह्युन्मायन्त्विति तत्परम् ॥
यशः श्रेयांश्च तन्त्वा च समा भग इति क्रमात् ।
दशोपहोमे मन्त्रास्स्युः समावर्तनकर्मणि"इति प्र॰ चिन्तामणौ ॥
“आमायन्तु द्विपञ्चभिः" इति गृ॰ सङ्ग्रहे ॥ ↩︎