३२ काण्डानुक्रमणिका

प्राजापत्यं सौम्यमाग्नेयं वैश्वदेवं स्वायम्भुवं चेति पंच काण्डान भवान्त ॥ तत्रादिमं प्राजापत्यकाण्डम् ॥ (बो. गृ. सू. ३.१)

पौरोडाशिकं याजमानं होतारो हौत्रं पितृमेध इति सब्राह्मणानि सानुब्राह्मणानि प्राजापत्यानि

इति सूत्रेभिहितम् ॥ काण्डानुक्रमणिकायामपि -

शाखादिं याजमानं च होतृन्हौत्रं च दार्शिकम् ॥
तद्विधीन् पितृमेधं च नवाहुः कस्य तद्विदः

इति ॥ शाखादिः (पौरोडाशिकम्) याजमानं होतारः दार्शिकहौत्रं चेति चत्वारि तेषां ब्राह्मणान्यपि चत्वारि पितृमेधश्चेति नव प्राजापत्यानि भवन्तीत्यर्थः । तद्विवरणमपि कृतं तत्रैव -

इषे प्रश्नः पुरोडाश्यमनुवाकं विनान्तिमम् ॥
तृतीयस्यां च प्रत्युष्टं पुरोडाशीयको विधिः ॥
विश्वरूपादयः षट् च समिधो यजतौ च षट् ॥
निवीतशेषो देवा वै सामिधेनीरतः परः ॥
इन्द्रो वृत्रँ हत्वेत्येतद्दार्शिकं ब्राह्मणं विदुः ॥
ममेत्यत्र पयस्वतीरादिसन्त्वादयश्च षट् ॥
अनुवाकाश्च विख्यातमैष्टिकं याजमानकम् ॥
यथा वै समृतेत्यादि क्रमात्पंचानुवाककाः ॥
सँ श्रवावर्जकं पञ्च पाकयज्ञादि षड् भवेत् ॥
याजमानस्यैष्टिकस्य विधिरेष उदाहृतः ॥
चित्तिस्त्रुगादिहोतारस्त्वनुवाकास्त्रयोदश ॥
प्रश्नौ प्रजापतिर्ब्रह्मवादिनश्चेति तद्विधिः ।
सत्यं प्रश्नौ दार्शहौत्रं देवा वै नर्चिनादितः ॥
चत्वारोपि निवीतमित्याद्याभिजयतीति च ॥
मनुः पृथिव्याश्चत्वारः सँ श्रवाह च तन्मतम् ॥

पित्र्यः परेयुवांसकम्

इति ॥

अथ द्वितीयं सौम्यकाण्डम् ॥

आध्वर्यवं ग्रहा दाक्षिणानि समिष्टयजूँषि अवभृथयजूँषि वाजपेयः शुक्रियाणि सवाः इति सब्राह्मणानि सानुब्राह्मणानि सौम्यानि

इति सूत्रम् ॥ काण्डानुक्रमणिका च -

अध्वरप्रभृतित्राणि तद्विधिर्वाजपेयके ॥
सवाः शुक्रियकाण्डे च नवेन्दोरितिधारणा

इति ॥ अध्वरो ग्रहाः दाक्षिणानीति त्रीणि तेषां ब्राह्मणान्यपि त्रीणि, वाजपेयः, तद्ब्राह्मणम्, सवाः, शुक्रियाणि (प्रवर्ग्यः) तद्ब्राह्मणं चेति नव सौम्यानि भवन्तीत्यर्थः॥ तद्विवरणम् -

आप उन्दन्तु देवस्य प्रश्नावन्तिमवर्जितौ ॥
पवमानो ब्रह्मसन्धत्तमेतौ चाध्वराह्वयाः ॥
प्राचीनवँशं षट्प्रनास्त्रिभिः प्रजननं मुखैः ॥
देवासुराः सप्रजापतिश्चत्वार्याध्वरो विधिः ॥
वर्जयित्वाददे प्रश्ने चतुरोन्त्यान् ग्रहाह्वयाः ॥
उभये वै ब्रह्मवादिनः कत्येतौ ग्रहे विधिः ॥
उदुत्यमिति चारभ्य त्रयो दाक्षिणनामकाः ॥
उक्तेऽध्वरविधावन्तर्गतोऽभूद्दाक्षिणो विधिः ॥
देवसवितरारभ्य वाजपेयाह्वयाश्च षट् ॥
वाजपेयस्य देवा वै यथाद्यष्टौ विधिर्मतः ॥

त्रिवृत्प्रश्नः सवाः प्रोक्तः, प्रवर्गास्तु नमो वाचे परः प्रश्नश्च तद्विधिः

इति ॥

तृतीयमाग्नेयं काण्डम् ॥

अग्न्याधेयमग्निहोत्रमग्न्युपस्थानमग्निचयनं सावित्रं नाचिकेतं चातुर्होत्रीयं वैश्वसृजमारुणा इति सब्राह्मणानि सानुब्राह्मणान्याग्नेयानि

इति सूत्रम् ॥ काण्डानुक्रमणिका च -

त्रिष्वग्न्याधेयपूर्वेषु ह्यग्नौ च सविधिद्वये ।
विधौ चैवाग्निहोत्रस्य सप्तस्वग्निमृषिं विदुः

इति ॥ अग्न्याधेयपुनराधेयाग्न्युपस्थानानीति त्रीणि, आग्निः ( अग्निचयनम् ), अग्न्याधेयादित्रिकस्य ब्राह्मणं, अग्निचयनस्य ब्राह्मणमिति द्वयम्, अग्निहोत्रब्राह्मणं चेत्येवं सप्ताग्नेयानि भवन्तीत्यर्थः ॥ सावित्रादि काठकचयनान्यप्यत्रैव परिगणनीयानि ॥ “काठकाग्निषु हव्यवाट्" इति तत्रैव संग्रहणात्सूत्रोक्तेश्च ॥ अथैषां विवरणम् -

उद्धन्यमानं धर्मः शिरोऽग्न्याधेयाविमौ मतौ ॥
कृत्तिकास्वग्निमित्यारभ्य च पञ्चानुवाककाः ॥
इमे व एत इति च त्रयोग्न्याधेयको विधिः ॥
भूमिर्भूम्नानुवाकोयं पुनराधेयनामकः ॥
देवासुराः परा वै च भूमिर्भूम्नेति चोत्तरम् ॥
देवासुराग्नीषोमयोः पुनराधेयको विधिः ॥
उपप्रयन्तः सम्पश्याम्यनुवाकद्वयं तथा ॥
आन्युपस्थानमाख्यातं मम नामेत्यृचश्च षट् ॥
अयज्ञादि त्रिकं पूर्वमग्न्युपस्थानको विधिः ॥
अन्त्यान्विनानुवाकान् स्वान् जीमूतस्येति च त्रयम् ॥
तुरीयमग्निकाण्डं स्यादुद्रान्त्यन्तु न वर्जयेत् ॥
मा नो हिंसीदस्मादूर्ध्वमाप्यायस्व सशान्तिकम् ॥
इयमेवानुवाकान्ते ईयुष्टे ये च तादृशम् ॥
प्रजापतिर्मनसोर्ध्वं ज्योतिष्मतीं च योजयेत् ॥
आयुषः प्राणमिन्द्रो दधीच एतेग्निकाण्डकाः ॥
सावित्राणीति चत्वारः प्रश्ना अन्तिमवर्जिताः ॥
द्विचत्वारिंशिकं ख्यातं गायत्रीति च वर्जितम् ॥
यदेकेनादिकं प्रश्नत्रितयं त्रैशिकं मतम् ॥
इन्द्राय रोहितस्तेगानित्यादीर्दर्शिनीर्विना ॥
( सावित्राणीत्यादिकमाग्निचयनस्य ब्राह्मणमिति ज्ञेयम् ॥ )
संज्ञानमिह सावित्रं लोकोयं नाचिकेतकः ॥
चातुर्होत्रो ब्रह्म वै च परे वैश्वसृजास्ततः ॥
भद्र प्रश्न स्त्वारुणं स्यात्पंचैते चितिनामकाः ॥
योयमंगिरसः प्रश्नः सोग्निहोत्रविधिः स्मृतः ॥
उदस्थानिवा एतस्येत्येतौ चेह प्रवेशयेत्

इति ॥

चतुर्थं वैश्वदेवकाण्डम् ॥

राजसूयः पशुबन्ध इष्टयो नक्षत्रेष्टयो दिवश्येनयोऽपाघाः सात्रायणमुपहोमाः कौकिली सूक्तान्यौपानुवाक्यं याज्या अश्वमेधः पुरुषमेधः सौत्रामण्यच्छिद्राणि पशुहौत्रमुपनिषदः इति सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानि

इति सूत्रम् ॥ काण्डानुक्रमणिका च –

अवशिष्टानि यानि स्युः काण्डान्यन्यानि षोडश ॥
विश्वान्देवानृषींस्तेषु विदुर्वेदविदो जनाः ॥
सब्राह्मणो राजसूयः पशुबन्धः सहेष्टिभिः ॥
उपानुवाक्यं याज्याश्च अश्वमेधः सब्राह्मणः ॥
सात्रायणश्चोपहोमाः सूक्तानि च सहेष्टिभिः ॥
सौत्रामणी सहाच्छिद्रैर्हौत्रं मेधश्च षोडश

इति ॥ राजसूयः तद्ब्राह्मणं पशुबन्धः काम्येष्टयः उपानुवाक्यं याज्याः अश्वमेधः तद्ब्राह्मणं सात्रायणं उपहोमाः सूक्तानि नक्षत्रेष्टयः सौत्रामणी अच्छिद्राणि पशुहोत्रं पुरुषमेधश्चेति षोडश वैश्वदेवानीत्यर्थः ॥ काठकोक्ता दिवश्येन्यपाघनामकाः इष्टय उपनिषदश्चात्रैव परिगणनीयाः सूत्रे तथैव परिगणनात् ॥ अथैषां विवरणं -

अनुमत्या इति प्रश्नो राजसूये विनान्तिमम् ॥
ऋतमेव परमेष्ठीत्यनुवाकश्च तादृशः ॥
अनुमत्यादयः प्रश्नो राजसूयविधिस्त्रयः ॥
प्रजा वै सत्रमग्निश्च देवा वै तेसुरा इति ॥
वायव्यमन्त्यवर्ज्यं तु काम्याः पशव ईरिताः ॥
प्रजापतिरिति प्रश्नत्रयमन्त्यान्विनेष्टयः ॥
अन्त्यान्विनोपानुवाक्यं तृतीयं काण्डमीरितम् ॥
इष्टे त्वादिह्यपान्त्वान्तं प्रश्नानामन्तगामिनः ॥
अनुवाकास्तु याज्याख्या युश्वाहीत्यपि तादृशः ॥
अथाश्वमेधकाण्डस्य क्रमः साम्प्रतमुच्यते ॥
देवस्यादि दशैकस्मै दशार्वाङादितो दश ॥
मेषस्त्वैकादश तथा पृथिव्यै च चतुर्दश ॥
एता दशिन्य आख्याताः पञ्चादौ सात्रिका इति ॥
महापृष्ठं जीमूतस्य यन्मायेग्नेः समिच्च षट् ॥
चतुर्दशेन्द्रायादीनि रोहितादि त्रयोदश ॥
दशिन्यौ त्र्यंशिके एते दह्रपृष्ठमथोच्यते ॥
समिद्धो गायत्री कस्त्वा द्विचत्वारिंशिकं मतम् ॥
उत्तमा दशिनीस्तेगानित्यादीनि च षोडश ॥
क्रमैरूर्ध्वं प्रयासाय चित्तमेतौ च योजयेत् ॥
प्रजापतेः पवस्वेति द्विचत्वारिंशिकौ मतौ ॥
यो वा अश्वस्य मेध्यस्येत्युत्तमां दशिनीं विदुः ॥
अश्वमेधः सांग्रहण्यादिकं प्रश्नद्वयं विधिः ॥
सात्रायणं चांगिरस आद्याः सप्तानुवाककाः ॥
साध्या वै प्रजवमाद्याः क्रमाद्दश दशेरिताः ॥
बृहस्पतिः श्रदाद्येकादश गावो दशादितः ॥
नवैतानीत्यादि पञ्च यस्य प्रातरिति त्रयम् ॥
जुष्ट प्राण इति प्रश्नावुपहोमाः प्रकीर्तिताः ॥

पीवः सूक्ताख्यईरितः ॥

तत्राहमस्म्यनुवाकाद्भर्ता हरिं च योजयेत् ॥
अग्निर्नः पातु नक्षत्रेष्टिरग्नेः कृत्तिकात्रिभिः ॥
युवँ सुरामसहितः स्वाद्वीं प्रश्नस्तु कौकिली ॥
अञ्जन्ति पाशुकं हौत्रं सवानच्छिद्रकाण्डकम् ॥

नृमेधो ब्रह्मणे प्रश्नः

तुभ्य देवेभ्य इति च दिवश्येनीसमाह्वयौ ॥
तपसा देवेभ्य इति द्वावपाघौ समीरितौ ॥
शन्नः साँहित्युपनिषद्याज्ञिक्यम्भस्य विश्रुता ॥
भृगुर्ब्रह्मेति वारुण्यः प्रोक्तास्तित्तिरिणा इमाः

इति ॥

पञ्चमं स्वायम्भुवं काण्डम् ॥

स्वायम्भुवं काण्डं काठके पठितो विधिः

इति सूत्रम् ॥ “ब्रह्माम्नायविधावृषिः" इति काण्डानुक्रमणिका ॥ आम्नायविधिश्च –

स्वाध्यायब्राह्मणमिति सह वै प्रश्न उच्यते

इति तत्रैव व्याख्यातः ॥ इत्येवं पञ्चकाण्डानि ॥ ॥ अथ दिवाकीर्त्यानि ॥

कारीर्यश्चाथ पित्र्याश्च दिवाकीर्त्येति यत्र च ॥
रुद्रः सन्ततिरित्येतावनुवाकौ च सात्रिके ॥
होतृविध्यवसाने च ह्यनुवाकचतुष्टयम् ॥
सूक्तेषु सूक्तं यत्सौर्यं मेधो यश्चैव पित्रियः ॥
काठकानि च सर्वाणि सर्वाण्यारण्यकानि च ॥
दिवाकीर्त्यानि शाखायामेतावन्तीति धारणा

इति ॥ कारीर्यो - ‘मारुतमसि मरुतामोजः’ इत्यादि चत्वारोनुवाकाः, पित्र्योः -

सोमाय पितृमते, उशन्तस्त्वा हवामह उशन्तः, इन्द्रो वृत्रँहत्वा, वैश्वदेवेन वै प्रजापतिःप्रजा असृजत, ता वरुणप्रघासैः, अग्नये देवेभ्यः पितृभ्यः, सुरावन्तं बर्हिषदं, उशन्तस्त्वा हवामह, आ नो अग्ने सुकेतुना

इत्येतेनुवाकाः ॥ दिवाकीर्त्येति पदं यस्मिन्ननुवाके स च “असावादित्योऽस्मिन्” इति ॥ रुद्रो- ‘नमस्ते रुद्र’ इति प्रश्नः ॥ सत्रप्रकरणे -

सन्ततिर्वै, एकविँ श एष

इत्यनुवाकौ ॥ होतृविध्यवसाने - “प्रजापतिः सोन्तर्वान्" इत्याद्यनुवाकचतुष्टयम् ॥ सूर्यो देवीमुषसमित्यारभ्य सूर्य आत्मा जगत स्तस्थुषश्चेत्यन्तं सूर्यसूक्तम् ॥ पितृमेधः -“परेयुवाँसम्" इति प्रश्नः ॥ काठकान्यारण्यकानि चेत्येतानि तैत्तिरीयशाखायां दिवैवकीर्त्यानि भवन्तीत्यर्थः ॥ इति ॥