( बो. ध. सू. १. १२)
श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्य तैष्यां माध्यां वोत्सृजेयुः
इति ॥ ( बो. गृ. सू ३. १)
हुतानुकृतिरुपाकर्म । श्रावण्यां पौर्णमास्यां क्रियेताऽपि वाऽऽषाढ्याम्
इति ॥ पराशरीये वसिष्ठः -
अथातः स्वाध्यायोपाकर्म श्रावण्यां पौर्णमास्यां प्रौष्ठपद्यां वा
इति ॥
नर्मदोत्तरभागे तु कर्तव्यं सिंहयुक्तके ।
कर्कटे संस्थिते भानावुपाकुर्यात्तु दक्षिणे
इति तत्रैव बृहस्पतिः ॥ प्र॰ पारिजाते व्यासः -
श्रावणस्य तु मासस्य पौर्णमास्यां द्विजन्मनाम् ।
आषाढ्यां प्रौष्ठपयां वा वेदोपाकरणं स्मृतम्
इति ॥ तत्र विशेषमाह पराशरीये गार्ग्यः -
पर्वण्यौदयिके कुर्युः श्रावण्यां तैत्तिरीयकाः ।
बह्वृचाः श्रवणे कुर्युर्ग्रहसङ्क्रान्तिवर्जिते
इति ॥
उपाकर्म न कुर्वन्ति क्रमात्सामर्ग्यजुर्विदः ।
ग्रहसङ्क्रान्तियुक्तेषु हस्तश्रवणपर्वसु
इति नि॰ हेमाद्रिः ॥ ग्रहणसङ्क्रान्त्योर्वर्जने कालावधिमाह गार्ग्यः -
अर्धरात्रादधस्ताच्चेत्सङ्क्रातिर्ग्रहणं तथा ।
उपाकर्म न कुर्वीत परतश्चेन्न दोषकृत्
इति ॥ कात्यायनोऽपि -
यद्यर्धरात्रादर्वाक्तु ग्रहः सङ्क्रम एव वा ।
नोपाकर्म तदा कुर्याच्छ्रावण्यां श्रवणेऽपि वा
इति ॥ अधिमासेऽपि न कार्यमित्याह सं॰ मालायां ज्योतिष्पराशरः -
उपाकर्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः ।
मासवृद्धौ परे कार्या वर्जयित्वा तु पैतृकम्
इति ॥ श्रावण्यां ग्रहणादिदोषप्राप्तौ व्यवस्थामाह वैद्यनाथीये व्यासः -
श्रावण्यामथवाऽऽषाढ्यां प्रौष्ठपद्यामथाऽपि वा ।
दुष्टायां पूर्वपूर्वस्यामुत्तरस्यां विधीयते ॥
कालत्रयेऽपि दोषे तु श्रावण्यामेव कारयेत्
इति ॥ एतच्च गुरुशुक्रयोर्मौढ्यवार्धकबाल्येष्वपि श्रावण्यां कार्यम् ॥ तदुक्तं स्मृतिकौस्तुभे -
यज्ञोपवीतं1 कर्तव्यं श्रावणे गुरुशुक्रयोः ।
मौढ्येऽपि वार्धके बाल्ये नित्यवत्कर्म चोदितम्
इति ॥ प्रथमोपाकृतिस्तु गुरुशुक्रास्तादौ न कार्या -
गुरुभार्गवयोर्मौढ्ये बाल्ये वा वार्धकेऽपि वा ।
तथाधिमाससंसर्पमलमासादिषु द्विज ॥
प्रथमोपाकृतिर्न स्यात्कृतं कर्म विनाशकृत्
इति सं॰ मालायां कभ्यपोक्तेः ॥ वैद्यनाथीये तु -
शान्तिं कृत्वा तयोर्वाऽपि तयोरुदितमन्त्रकैः ।
कर्तव्यं श्रावणं विप्रैरिति जीवेन भाषितम्
इति वचनैः श्रावणभाद्रपदाषाढेष्वेकस्मिन् दोषरहिते प्रथमोपाकृतिः कर्तव्या ॥ त्रिष्वपि दुष्टेषु श्रावणमासे शान्तिपूर्विका कर्तव्या ॥ गुरुशुक्रयोर्मौढ्यादौ तयोर्ग्रहयज्ञोक्तमन्त्रैः शान्तिः कर्तव्या ॥ मलमासे – “आप्यायस्व” इति सोमस्य शान्तिः । सङ्क्रान्तौ –
चित्रं देवानाम्, उदु त्यम्, सूर्यो देवीमुषसम्, आ सत्येन रजसा, देवो वस्सवितोत्पुनातु
इति सूर्यस्य । सोमोपरागे - “सोमो धेनुम्’ इति षड्भिः “नवो नवः” इति च सोमस्य शान्तिहोमं कृत्वोपाकर्म कुर्यात्, इति विशेषः प्रदर्शितः ॥ अत्रौदयिकी पौर्णमासी ग्राह्येत्युक्तम् ॥ तत्र व्यवस्थामाह पराशरीये गार्ग्यः -
श्रावणी पौर्णमासी तु सङ्गवात्परतो यदि ।
तदात्वौदयिकी ग्राह्या नान्यदौदयिकी भवेत्
इति ॥ सं॰ मालायाम् -
उदये सङ्गवस्पर्शे श्रुतौ पर्वणि चार्कभे ।
कुर्युर्नभस्युपाकर्म ऋग्यजुस्सामगाः क्रमात्
इति ॥ नि॰ सिङ्गाभट्टीयेऽपि -
श्रवणः श्रावणं पर्व सङ्गवस्पृग्यदा भवेत् ।
तदैवौदायकं ग्राह्यं नान्यदौदयिकं भवेत्
इति ॥ तदेतेन वचनजातेन बौधायनैः श्रावणपौर्णमास्यामुपाकर्म कार्यम्, तत्र
दोषसम्भावनायामाषाढ्यां2 कार्यम्, तस्यामपि दुष्टायां प्रौष्ठपद्यां वा कार्यम् । तिसृषु दुष्टासु श्रावण्यामेव शान्तिं कृत्वा कुर्यात् । दोषाश्च द्वितीयाद्युपाकृतौ ग्रहणसङ्क्रांतिमलमासाः । प्रथमोपाकृतौ ग्रहणादयो गुरुशुक्रास्तबाल्यवार्धकादयोऽपि । आशौचदोषस्तूभयत्र समान एवेति चावगम्यते ॥ पौर्णमासीपरदिने सङ्गवकालमतीत्य ( उदयादिद्वादशघटिकाधिककिञ्चित्कालं व्याप्य )
यदि वर्तते तदा यजुःशाखिभिः सर्वैः परा ग्राह्या अन्यथा पूर्वैवेति माधववैद्यनाथादीनामाशयः । पुरुषार्थचिन्तामणौ तु बौधायनौर्द्वितीयदिने मुहूर्तत्रयादिपरिमिता चेदुत्तरैव ग्राह्या मुहूर्तत्रयन्यूना चेत्तदा पूर्वैव पूर्णिमा ग्राह्येति निर्णीतम् ॥ अत्रेयं व्यवस्था परिकल्प्या - परेद्युः षण्मुहूर्तन्यूना चेत्पूर्वेद्युः सङ्गवात्पूर्वं प्रवृत्ता पूर्णिमा ग्राह्या, तदलाभे सङ्गवैकदेशव्याप्तापि परैव ग्राह्या । परेद्युस्त्रिमुहूर्तन्यूनत्वे, पूर्वेद्युरेवोदयमारभ्य प्रवृत्ता चेत्तदापि पूर्वैव ग्राह्या इति ॥
अथोत्सर्जनकालः ॥ ( बो. ग. सू. ३. ९)
बलिहरणानुकृतिरुत्सर्गः ॥ तैष्यां पौर्णमास्यां क्रियेताऽपि वा माध्याम्
इति ॥ गृ॰ सङ्ग्रहे च -
यद्याषाढ्यामुपाकर्म तैष्यां स्वाध्यायमुत्सृजेत् ।
श्रावण्यां च तथा माध्यां तैष्यां वेत्यपरं मतम् ॥
प्रौष्ठपद्यामुपाकृत्य माध्यां वाऽपि तमुत्सृजेत्
इति ॥ उपाकर्मदिने एव वोत्सर्जनं कुर्यादित्युक्तं निर्णयसिन्धौ खादिरगृह्ये -
पुष्ये तूत्सर्जनं कुर्यादुपाकर्मदिनेऽथवा
इति ॥ स्मृत्यर्थसारेऽपि -
वर्षञ्चाधीत्योपाकर्मदिने उत्सर्गं कार्यं न वा, तर्पणं कार्यमेव
इति ॥ तथा चाषाढ्यां श्रावण्यां प्रौष्ठपद्यां वा छन्दाँस्युपाकृत्य पुष्यपौर्णमास्यां माध्यां वोत्सर्जनं कुर्यात् । अथवा कृत्स्नं वर्षं छन्दांस्यधीत्य तदुत्तरोपाकर्मदिन एवोपाकर्मणः प्रागुत्सर्जनं कुर्यात् ॥ नूतनब्रह्मचारिणान्तु प्रथममुपाकर्मकाले उपाकर्ममात्रं कृत्वा मुख्योत्सर्जनकाले द्वितीयोपाकर्मदिने वोत्सर्जनं कार्यमिति पर्यवसितम्॥ उपाकर्मोत्सर्जनाभ्यां छन्दसां शुद्धिर्भवतीत्याह सं॰ मालायां कात्यायनः -
प्रत्यब्दं यदुपाकर्म सोत्सर्गं विधिवद्द्विजैः ।
क्रियते छन्दसां तेन पुनराप्यायनं भवेत् ॥
आयातयामैश्छन्दोभिर्यत्कर्म क्रियते द्विजैः ।
क्रीडमानैरपि सदा तत्तेषां सिद्धिकारकम् ॥
अस्थानोच्छ्वासाविच्छेदो घोषणाध्यापनादिषु ॥
प्रामादिकः श्रुतौ यः स्याद्यातयामत्वकारि सः
इति ॥
अथेदानीमुपाकर्माभिधानस्य क्रमप्राप्तत्वेऽपि
उपाकर्मदिन एव वोपाकर्मणः प्रागुत्सर्जनं कार्यम्
इत्यनुकल्पस्यैव शिष्टैः परिगृहीतत्वात्प्रयोगग्रन्थेऽपि प्रथममुत्सर्जनस्यानन्तरमुपाकर्मणः समानतन्त्रेणोल्लेखनाच्च अत्राप्यादावुत्सर्जनमनन्तरमुपाकर्मेत्येवं द्वयोस्तन्त्रेण प्रयोगक्रमोऽभिधीयते ॥ तत्रादौ शरीरशुध्यर्थं ब्रह्मकूर्चविधिना पञ्चगव्यप्राशनमुत्सर्जनाङ्गत्वेन विहिते स्नाने मृत्तिकास्नानविधिञ्च क्वचिदनुतिष्ठन्ति शिष्टाः ॥ सं॰ मालायामप्यत्र ब्रह्मकूर्चविधानार्थं -
ब्रह्मशुद्धौ ग्रहारम्भे सूतके मृतके तथा ।
यज्ञारम्भे धनप्राप्तौ प्रायश्चित्ते विशेषतः ॥
रोगमुक्तौ च सम्पर्के क्षुद्रपापापनुत्तिषु ।
विदध्याद्ब्रह्मकूर्चञ्च मासि मास्यथ वा द्विजः
इति विधानमालावचनमुदाहृत्य ‘ब्रह्मशुद्धौ’ इत्यत्रोपाकर्मोत्सर्जनाभ्यां क्रियमाणायां, इति शेषः इति व्याख्यातम् ॥ मृत्तिकास्नानविध्यर्थं -
सम्प्राप्ते श्रावणस्यान्ते पौर्णमास्यां दिनोदये ।
स्नानं कुर्वीत मतिमान्च्छ्रुतिस्मृतिविधानतः
इति भविष्यवचनं ‘श्रुतिस्मृतिविधानतः’ इति
भस्मगोमयमृत्तिकास्नानप्राप्त्यर्थं
इति पृथ्वीचन्द्रोदयकृततद्व्याख्यानञ्चोदाहृतम् ॥ तस्मादादौ ब्रह्मकूर्चविधिर्मृत्तिकास्नानविधिश्चाभिधास्यते ॥
ब्रह्मकूर्चविधिः
अथ ब्रह्मकूर्चविधिः ॥ अथ ब्रह्मकूर्चविधिः प्र॰ सङ्ग्रहे - “पञ्चगव्यविधिं3 वक्ष्ये" इत्युपक्रम्य
गोमूत्रं ताम्रवर्णायाः श्वेताया गोस्तु गोमयम् ।
पयः काञ्चनवर्णाया नीलाया गोर्दधि स्मृतम् ॥
घृतन्तु कृष्णवर्णाया उदकं शुद्धवर्णकम् ।
अलाभे सर्ववर्णायास्सर्वं कापिलमेव वा ॥
गोमूत्रन्तु पलं ग्राह्यमङ्गुष्ठार्धन्तु गोमयम् ।
पयस्त्रिपलमेवं स्याद्दधि द्विपलमुच्यते ।
घृतं कुशोदकञ्चैव पलेनैकेन सम्मितम् ।
सावित्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ॥
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ।
घृतं शुक्रमसीत्युक्त्वा देवस्य त्वा कुशोदकम् ॥
पृथक्पृथक्समादाय क्रमादेकत्र भाजने ।
संयोज्य गन्धपुष्पाद्यैरर्चयीत यथाविधि
इति ॥ अन्यदपि तत्रैव स्मृत्यन्तरात्सङ्गृह्योक्तम् -
परिश्रिते शुचौ देशे विधिवत्कृतमण्डले ।
शालीतण्डुलदर्भांस्तु क्रमाकूर्चं प्रविन्यसेत् ॥
यतात्मा विन्यसेत्तत्र शुद्धं स्वर्णादिभाजनम् ।
गोमूत्रादिक्रमात्तस्मिन्युञ्ज्यान्मन्त्रैस्तदीयकैः4 ॥
गायत्र्यधीशमावाह्य पूजयीत यथाविधि ।
गायत्र्यष्टसहस्रं वा जपेदष्टोत्तरं शतम् ॥
संस्पृशन्यतचित्तात्मा दद्यान्नैवेद्यमुत्तमम् ।
आपो हि ष्ठेति चालोड्य मानस्तोकेऽभिमन्त्रयेत् ॥
सदापर्णास्तु ये दर्भा अच्छिन्नाग्राश्शुकत्विषः ।
एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ॥
अष्टोत्तरसहस्रं वा गायत्र्याष्टोत्तरं शतम् ।
अष्टाविंशतिसंख्यां वा जुहुयादेनसो वशात् ॥
इरावती इदं विष्णुर्मानस्तोके च शंवती ।
पवमानानुवाकश्च महाव्याहृतयस्तथा ॥
एताभिश्चैव होतव्यं हुतशेषं पिबेद्विजः ।
कृतोपवासश्शुद्धात्मा पालाशेन पिबेत्तु तम् ॥
बैल्वेन वाऽपि पात्रेण ताम्रपात्रेण वा पुनः ।
तेषामन्यतमस्मिंस्तु पर्वण्यब्दं पिबेत्तु यः ॥
पारदार्यं ब्रह्महत्या ये चान्येऽस्थिगतामलाः ।
ब्रह्मकूर्चो दहेदेष सर्वमग्निस्तृणं यथा
इति ॥ पराशरीये तु -
क्षीरं सप्तपलं दद्याद्दधि त्रिपलमुच्यते ॥
इरावती इदं विष्णुर्मानस्तोके च शंवती ।
एताभिश्चैव होतव्यं हुतशेषं पिबेद्विजः ॥
आलोड्य प्रणवेनैव पिबेच्च प्रणवेन तु
इति विशेषोऽभिहितः ॥ शंवती’ इत्यत्र शमित्येष शब्दो यस्यामृच्यस्ति सा शंवती । “शमग्निरग्निभिस्करत्" इति वा “शन्नो देवीरभिष्टये” इति वा सा द्रष्टव्या, इति तत्रैव व्याख्यातम् ॥ धर्मसूत्र - ( बो. ध. सू. ४. ५. २५) व्याख्याने -
अग्नये चैव सोमाय सावित्र्या च तथैव च ।
प्रणवेन तथा हुत्वा ततश्च स्विष्टकृत्स्मृतः ॥
एवं हुत्वा ततश्शेषं पापं ध्यात्वा समाहितः ।
आलोड्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु ॥
उदृत्य प्रणवेनैव पिबेच्च प्रणवेन च ।
एवं ब्रह्मकृतं कूर्चं मासि मासि चरन् द्विजः ॥
सर्वपापविशुद्धात्मा ब्रह्मलोकं स गच्छति
इति स्मृत्यन्तरवचनमुदाहृतम् । पराशरीयव्याख्यानेऽप्येतद्वचनमुदाहृतम् ॥
प्रयोगः
अथ प्रयोगः - शुचौ समे देशे स्थण्डिलोल्लेखनादि लौकिकाग्निं प्रतिष्ठाप्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
त्वगस्थिगतसमस्तैनोनिबर्हणार्थं ब्रह्मकूर्च -(पञ्चगव्य) होमं करिष्ये । ब्रह्मकूर्चहोमः कर्म, अपूर्वं तन्त्रम्, चित्तिर्नामाग्निः, सवित्रादयो देवताः, पञ्चगव्यं हविः, आज्यस्य मान्त्रवर्णिक्यो देवताः, एवं साङ्गेन कर्मणा सद्यो यक्ष्ये
इति सङ्कल्प्यान्वाधानादिपात्रासादनकाले आज्यस्थालीं स्रुवं संयोजनस्थालीं सप्तदर्भमयं कूर्चं प्रोक्षणीं गोमूत्रादिद्रव्यञ्चेत्यासाद्य प्रोक्षणीः संस्कृत्य ताभिरुत्तानानि पात्राणि त्रिः प्रोक्ष्य संयोजनस्थाल्यामुदगग्रं कूर्चं निधाय सावित्र्या गोमूत्रमानीय, ‘गन्धद्वारां’ इति गोमयम्, ‘आप्यायस्व’ इति क्षीरम्, ‘दधिक्राव्ण्णः’ इति दधि,
शु॒क्रम॑सि ज्योति॑रसि॒ तेजो॑सि
इति घृतम्,
दे॒वस्य॑ त्वा॰ हस्ता॑भ्यां गृह्णामि
इति कुशोदकञ्चेत्येवं क्रमेण संयोज्य ‘आपो हि ष्ठा’ इति तिसृभिरालोड्य ‘मानस्तोके’ इत्यभिमन्त्र्य तत्र सवितारमावाह्य सम्पूज्य गायत्र्याऽष्टोत्तरशतवारमभिमन्त्रयेत् ॥ अथाज्यनिर्वापादिपर्यग्निकरणकाले पञ्चगव्यस्याऽपि पर्यग्निकरणम् ॥ स्रुवं सम्मृज्याज्यं बर्हिष्वासाद्य तद्दक्षिणतः पञ्चगव्यस्थालीं कूर्चेण सह प्रतिष्ठाप्याभिघार्याऽग्निं परिषिच्यालङ्कृत्याज्येन चतस्रो व्याहृतीर्तुत्वा पञ्चगव्यं कूर्चेणोद्धृत्य जुहोति ॥ गायत्र्याष्टोत्तरसहस्रमष्टोत्तरशतमष्टाविंशतिं वाहुतीर्तुत्वा ।
ॐ अग्नये स्वाहा । (अग्नय इदं॰) ॥ ॐ सोमाय स्वाहा । (सोमायेदं॰) ॥ ॐ इरावती धेनुमती हि भूतँ सूयवसिनी मनवे यशस्ये व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः स्वाहा । (विष्णव इदं॰) ॥ ॐ इदं विष्णुः॰ पाँ सुरे स्वाहा । (विष्णव इदं॰) ॥ ॐ मानस्तोके॰ विधेमते स्वाहा । (रुद्रायेदं॰) ॥ ॐ शन्नो देवीः॰ स्तवन्तु नः स्वाहा । (अद्भ्य इदं॰) ॥ ॐ पव॑मानः सुवर्जन पुनातु मा स्वाहा । (पवमानाय इदं॰) ॥ ॐ पुनन्तु मा॰ आयवः स्वाहा । (देवजनमनुविश्वायुभ्य इदं॰) ॥ ॐ जातवेदः क्रतूँ रनु स्वाहा । (जातवेदसेऽग्नय इदं॰) ॥ ॐ यत्ते पवित्रमर्चिषि॰ पुनीमहे स्वाहा । (अग्नय इदं॰) ॥ ॐ उभाभ्यो देव सवितः॰ पुनीमहे स्वाहा। (देवाय सवित्र इदं॰) ॥ ॐ वैश्वदेवी पुनती॰ रयीणा स्वाहा । (वैश्वदेव्यै देव्या इदं॰) ॥ ॐ वैश्वानरो० पुनीता स्वाहा । (वैश्वानरवातेषिरद्यावापृथिवीऋतावरीभ्य इदं॰) ।। ॐ बृहद्भिः सवितस्तृभिः पुनाहि मा स्वाहा । (सवित्रेऽग्नय इदं॰) ॥ ॐ येन देवा अपुनत॰ पुनीमहे स्वाहा । (देवेभ्योऽद्भ्य इदं॰) ॥ ॐ यः पावमानीः॰ मातरिश्चना स्वाहा॑ । (पावमानीभ्य इदं॰) ॥ ॐ पाचमानीर्यो॰ मधूदकँ स्वाहा । (पावमानीभ्य इदं॰) ॥ ॐ पावमानीः स्वस्त्यय॑नीः॰ हितर स्वाहा। (पावमानीभ्य इदं॰) ॥ ॐ पावमानीदिशन्तु नः समाभृताः स्वाहा । (पावमानीभ्य इदं॰) ॥ ॐ पायमानीः स्वस्त्यय॑नीः॰ हितँ स्वाहा । (पावमानीभ्य इदं॰) ॥ ॐ येन देवाः पवित्रेण पुनन्तु मा स्वाहा । (पावमानीभ्य इदं॰) ॥ ॐ प्राजापत्यं॰ पुनीमहे स्वाहा । (ब्रह्मण इदं॰) ॥ ॐ इन्द्रः सुनीती॰ पुनातु स्वाहा । (इन्द्राय सुनीत्या सहिताय सोमाय स्वस्त्या सहिताय वरुणाय समीच्या सहिताय यमाय राज्ञे प्रमृणाभिस्सहिताय जातवेदस ऊर्जयन्त्या सहितायेदं॰) ॥ ॐ भूरग्नये च पृथिव्यै च महते च स्वाहा, इत्यादि चतस्रो महाव्याहृतीः ॥ ॐ स्वाहा । (परमात्मन इदं॰) ॥ ॐ अग्नये स्विष्टकृते स्वाहा । (अग्नये स्विष्टकृत इदं॰) ॥ [[TODO: परिष्कार्यम्]]
इत्येवं पञ्चगव्याहुतीर्हुत्वाऽऽज्येन मिन्दाहुती व्याहृतीश्च हुत्वोत्तरपरिषेकादि होमशेषं समाप्य ।
शरीरशुध्यर्थं पञ्चगव्यप्राशनं करिष्ये,
इति सङ्कल्प्य
यत्वगस्थिगतं पापं देहे तिष्ठति मामके ।
प्राशनं पञ्चगव्यस्य दहत्त्वग्निरिवेन्धनम्
इत्युक्त्वा प्रणवेन प्राश्नीयात् ॥ ॥ इति ब्रह्मकूर्चविधिः ॥
मृत्तिकास्नानविधिः
अथ मृत्तिकास्नानविधिः ॥ (बो. गृ. शे. सू. ५. ४ )
अथातो मृत्तिकास्नानविधिं व्याख्यास्यामः । ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजको वा ‘अश्वक्रान्ते, सहस्रपरमा देवी’ इति भूमिं दूर्वाभिरभिमन्त्र्य
इत्यादिना प्रोक्तः ॥ गृ॰ सङ्ग्रहे च -
अथोच्यते ह्याश्रमिणां चतुर्णां स्नानसंस्क्रिया ।
अश्वक्रान्तेति मन्त्राभ्यां सहस्रपरमेत्यृचा ॥
मृदं दूर्वाञ्च संसाद्य नदीतीरेऽभिमन्त्रयेत्
इत्यादिभिरुक्तः ॥
प्रारम्भे च समाप्तौ च व्रतयज्ञादिकर्मसु ।
बोधायनोक्तविधिना मृदा स्नानं समाचरेत्
इति प्र॰ मालायामपि विहितः ॥
प्रयोगः
अथ प्रयोगः - शुद्धे नदीतीरे मृत्तिकां दूर्वाश्चासाद्य
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा । शिरसा धारयिष्यामि रक्षस्व मां पदे पदे ॥ भूमिर्धेनुर्धरणी लोकधारिणी" [[TODO: परिष्कार्यम्]]
इति भूमिमभिमन्त्र्य,
सहस्रपरमा देवी शतमूला शताङ्कुरा । सर्वँ हरतु मे पापं दूर्वा दुस्स्वमनाशिनी [[TODO: परिष्कार्यम्]]
इति दूर्वामभिमन्त्र्य,
उ॒द्धृता॑सि व॑राहे॒ण॒ कृ॒ष्णे॒न श॑तबा॒हुना
इति मृत्तिकामादाय,
काण्डात्काण्डात्॰ शतेन च ॥ या शतेने प्रतनोषि सहस्रेण विरोहसि । तस्यास्ते देवीष्टके विधेम हविषा वयम्" [[TODO: परिष्कार्यम्]]
इति द्वाभ्यां दूर्वामादाय,
मृत्तिके हन मे पापं यन्मया दुष्कृतं कृतम् । मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता ॥ मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् । मृत्तिके प्रतिष्ठिते सर्वं तन्मे निर्णद मृत्तिके ॥ तयां हतेन पापेन गच्छामि परमां गतिम् [[TODO: परिष्कार्यम्]]
इति दूर्वां मृदि प्रतिष्ठाप्य तदेकदेशं क्रमेण दिक्षु विनिक्षिपेत् - “यत॑ इन्द्र॒॰ जहि” इति प्राच्याम् । “स्व॒स्ति॒दा॰ अ॑भयङ्क॒रः” इति दक्षिणस्याम् । “स्व॒स्ति न॒ इन्द्रो॑॰ दधातु" इति प्रतीच्याम् । “त्रा॒तार॒मिन्द्र॑॰ धा॒त्विन्द्रः॑” इत्युत्तरस्याम् । “आपा॑न्तमन्युः॰ प्रति॒ माना॑नि देभुः” इत्यूर्ध्वम् । “परं॑ मृत्यो॒॰ वी॒रान्" इत्यधश्च निक्षिप्य, “ग॒न्ध॒द्वा॒रां॰ श्रियम्" इत्यवशिष्टां मृदं गृहीत्वा, “उदु॒ त्यं॰ सूर्य॑म्" इत्यादित्यं दर्शयित्वा, प्रत्यङ्गं क्रमेण विलिम्पेत् –
श्री॑र्मे भ॒जतु । अलक्ष्मी॑र्मे न॒श्यतु
इति शिरः प्रदक्षिणीकृत्य, “स॒हस्र॑शीर्षा॒॰ दशाङ्गु॒लम्" इति शिर आलिप्य,
विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒मांल्लो॒कान॑नपज॒य्यम॒भ्य॑जयन्
इति मुखम् । “ओजो॑ ग्री॒वाभिः॑” इति ग्रीवाम् । “म॒हाँ इन्द्रो॒ वज्र॑बाहुः॰ द्वेष्टि॑" इति बाहू मन्त्रावृत्यालिम्पेत् ।
सो॒मानँ॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जम्
इति कक्षौ मन्त्रावृत्या ।
शरी॑रं यज्ञशम॒लं कुसी॑दं॒ तस्मि॑न्सीदतु॒ यो॑ऽस्मान्द्वेष्टि॑
इति शरीरम्, हृदयमित्यर्थः ।
नाभि॑र्मे चि॒त्तं वि॒ज्ञान॑म् । पा॒युर्मेऽप॑चितिर्भ॒सत्
इति नाभिम् ।
आपान्तमन्युस्तृपलप्रभर्माधुनिः शिमीवाञ्छरुमाँ ऋजीषी । सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः [[TODO: परिष्कार्यम्]]
इति कटिम् ।
विष्णो॑र॒राट॑मसि॒ विष्णोः॑ पृ॒ष्ठम॑सि
इति पृष्ठम् । “वरु॑णस्य॒ स्कंभ॑नमसि" इति मेद्रम् ।
आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे॑ । भगः॒ सौभा॑ग्यं॒ पसः॑
इत्यण्डौ । “ऊ॒रु॒वो रोजः॑” इत्यूरू ।
ऊ॒रू अ॑र॒त्नी जानु॑नी । विशो॒ मेऽङ्गा॑नि स॒र्वतः॑
इति जानुनी ।
जङ्घा॑भ्यां प॒द्भ्यां धर्मो॑ऽस्मिा । वि॒शि राजा॒ प्रति॑ष्ठितः
इति जङ्घे ।
चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूता अति पाप्मानमरातिं तरेम [[TODO: परिष्कार्यम्]]
इति चरणौ मन्त्रावृत्या ॥
इदं विष्णुर्वि चक्रमे॰ पाँ सुरे । त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः । ततो धर्माणि धारयन् [[TODO: परिष्कार्यम्]]
इति द्वाभ्यां दक्षिणोत्तरौ पादतलौ ।
स॒जोषा॑ इन्द्र॒॰ वि॒श्वतो॑ नः
इति शेषं दुर्वासहितं लोष्टं शिरसि निधाय तीर्थमभिप्रपद्यते -
हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः । यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥ यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् । तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः [[TODO: परिष्कार्यम्]]
इति ।। अथात्मानमभिषिञ्चति -
सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु
इति । उदकाञ्जलिमादाय लोष्टदेशे निनयति - “दुर्मि॒त्रास्तस्मै॑ भूयासुः" इति प्रथमम् । “यो॑ऽस्मान्द्वेष्टि॑" इति द्वितीयम् । “यञ्च॑ व॒यं द्वि॒ष्मः" इति तृतीयम् । “हिरण्यशृङ्गं” इति चतुर्थम् । ततः “आपो॒ हि ष्ठा म॑यो॒ भुवः॑” इति तिसृभिः “हिर॑ण्यवर्णा॒श्शुच॑यः" इति चतसृभिः “पव॑मानः॒ सुव॒र्जनः॑" इत्येतेनानुवाकेन च मार्जयित्वा।
नमो॒ऽग्नये॑ऽप्सु॒मते॒ नम॒ इन्द्रा॑य॒ नमो॒ वरु॑णाय॒ नमो वारुण्यै॑ नमो॒ऽद्भ्यः
इति नमस्कृत्य त्रिः प्रदक्षिणमुदकमावर्तयति -
यदपां क्रूरं यदमेध्यं यदेशान्तं तदपगच्छतात् । अत्याशनादतीपानाद्यच्च उग्रात्प्रतिग्रहात् ॥ तन्नो वरुणो राजा पाणिना ह्यवमर्शतु । सोहमपापो विरजो निर्मुक्तो मुक्तकिल्बिषः ॥ नाकस्य पृष्ठमारुह्य गच्छेद्ब्र्ह्म सलोकताम् । यश्चाप्सु वरुणः स पुनात्वघमर्षणः [[TODO: परिष्कार्यम्]]
इति । “इ॒मं मे॑ गङ्गे॰ सु॒षोम॑या” इत्यपोऽभिमन्त्र्य (प्रार्थयते -
आपस्त्वमास देवेश ज्योतिषां पतिरीश्वरः ।
पापं नाशय मे देव वाङ्मनःकर्मभिः कृतम् ॥
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे ।
तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥
योऽसौ सर्वगतो विष्णुश्चिद्रूपी परमेश्वरः ।
स एव द्रवरूपेण गङ्गाम्भो नात्र संशयः ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥
विष्णुपादोद्भवे देवि शिवे शिवजटालये ।
कमण्डलुसमुद्भूते ब्रह्मणस्त्वमिहावह
इति) अथाप्सु सूर्याभिमुखः प्रवाहाभिमुखो वा त्रिर्निमज्योन्मज्य
ऋतञ्च सत्यं॰ समुद्रो अर्णवः ॥ समुद्रादर्णवात्॰ मिषतो वशी ॥ सूर्याचन्द्रमसौ॰ चान्तरिक्षमथो सुवः [[TODO: परिष्कार्यम्]]
इत्यघमर्षणेनान्तर्गतजलस्त्रीन्प्राणायामान्धारयित्वा
यत्पृथिव्याँ रजस्वमान्तरिक्षे विरोदसी । इमाँस्तदापो वरुणः पुनात्वघमर्षणः ॥ पुनन्तु वसवः पुनातु वरुणः पुनात्वघमर्षणः । एष भूतस्य मध्ये भुवनस्य गोप्ता ॥ एष पुण्यकृतांल्लोकानेष मृत्योर्हिरण्मयम् ॥ द्यावापृथिव्योर्हिरण्मयँ सँश्रितँ सुवः ॥ स नः सुवस्सँ शिशाधि [[TODO: परिष्कार्यम्]]
इत्यपोऽवगाह्य
आर्द्रं ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि ॥ योहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मि ॥ अहमेवाहं मां जुहोमि स्वाहा [[TODO: परिष्कार्यम्]]
इत्यपः पीत्वा
अकार्यकार्यवकीर्णी स्तेनो भ्रूणहा गुरुतल्पगः । वरुणोपामघमर्षणस्तस्मात् पापात् प्रमुच्यते ॥ रजो भूमिस्त्वमाँ रोदयस्व प्रवदन्ति धीराः । आक्रान्त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा ॥ वृषा पवित्रे अधिसानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः [[TODO: परिष्कार्यम्]]
इति । पुनरवगाह्य द्विराचम्य वक्ष्यमाणप्रकारेण देवर्षिपितृतर्पणं कुर्यात् ॥ तत्राशक्तश्चेत् नित्यस्नानोक्तप्रकारेण “ब्रह्मादयो ये देवाः” इत्यादि यक्ष्मतर्पणान्तं विधाय,
स्नातोऽहं सर्वतीर्थेषु स्रवन्मद्देहजं जलम् ।
तत्पानकामाः पितर आगच्छन्तु पिबन्तु च
इत्युक्त्वा,
शुची॑वो ह॒व्या॰ शुच॑यः पाव॒काः
इत्यन्यत्प्रयतं वस्त्रं प्रोक्ष्य, “दे॒वस्य॑ त्वा॰ हस्ता॑भ्या॒माद॑दे” इति तद्वस्त्रमादाय “अव॑धूतँ॒ रक्षोऽव॑धूता॒ अरा॑तयः" इत्यवधूय “उदु॒ त्यं, चि॒त्रम्" इत्यादित्यं दर्शयित्वा
आवहन्ती वितन्वाना । कुर्वाणा चीरमात्मनः ॥ वासाँसि मम गावश्च । अन्नपाने च सर्वदा ॥ ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा [[TODO: परिष्कार्यम्]]
इति वस्त्र परिधाय द्विराचम्य
भूतप्रेतपिशाचाद्याः सर्वे ते भूमिभारकाः ।
सर्वेषामविरोधेन ब्रह्मकर्म समारभे
इति दर्भासनं प्रतिष्ठाप्योपविश्य त्रिः प्राणानायम्याष्टोत्तरशतं गायत्रीं जपेत् । ब्राह्मणः पूतो भवति । ब्रह्महत्यागोवधगुरुतल्पसुरापानसुवर्णस्तेयादिसर्वपापप्रणाशनामिति विज्ञायते ॥ ॥ इति मृत्तिकास्नानविधिः ॥
महातर्पणविधिः
अथ महातर्पणविधिः ॥ तद्विधिरुक्तः सं॰ मालायां विष्णुपुराणे -
शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ।
तेषामेव हि तीर्थेन कुर्वीत सुसमाहितः
इति ॥ स्मृत्यन्तरे -
आर्द्रवासा देवर्षिपितृतर्पणमम्भस्येव कुर्यात्परिहितवासाश्चेत्तीर्थमुत्तीर्य
इति ॥ व्यासः -
एकैकमञ्जलिं देवा द्वौ द्वौ तु सनकादयः ।
अर्हन्ति पितरस्त्रींस्त्रीन् स्त्रियश्चैकैकमञ्जलिम्
इति ॥ सनकादय इति स्वस्वशाखोक्तऋष्युपलक्षणम् । स्त्रीष्वपि विशेषः स्मृत्यन्तरे -
मातृमुख्याश्च यास्तिस्रो मातामह्यादयश्च याः ।
अञ्जलित्रयमेतासामन्यत्रैकैकमञ्जलिम्
इति ॥ धर्मप्रवृत्तौ -
द्वौ द्वौ सपत्नीमातुश्च त्रींस्त्रीन्मातृगणस्य तु
इति ॥ सं॰ मालायान्तु -
जलाञ्जलित्रयं दद्याद्ये चान्ये संस्कृता भुवि ।
असंस्कृतप्रमीतानामेकामेवावरे क्षिपेत्
इति बोधायनः ॥ ॥ देवादितीर्थलक्षणमुक्तं (बो. ध. सू. १. ८ )
अङ्गुष्ठमूलं ब्राह्मं तीर्थम् । अङ्गुष्ठाग्रं पित्र्यमंगुल्यग्रं दैवमङ्गुलिमूलमार्षम्॥
अङ्गुल्यङ्गुष्ठयोर्वा मध्यं पित्र्यम्
इति विवरणे ॥
महातर्पणम्
अथ महातर्पणम् ॥ अथ पवित्रपाणिः प्राङ्मुखो द्विराचम्य यज्ञोपवीती देवतीर्थेन देवांस्तर्पयेत् - (बो. ध. सू. २. ६ )
ॐ अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिस्सर्पा इत्येतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि ॥ ॐ वसूंश्च॰ ॥ ॐ पितरोऽर्यमा भगस्सविता त्वष्टा वायुरिन्द्राग्नी इत्येतानि दक्षिणद्वाराणि देवतानि॰ ॥ ॐ रुद्रांश्च॰ ॥ ॐ मित्र इन्द्रो महापितर आपो विश्वेदेवा ब्रह्मा विष्णुरित्येतानि प्रत्यग्द्वाराणि दैवतानि॰॥ ॐ आदित्यांश्च॰ ॥ ॐ वसवो वरुणोऽजएकपादहिर्बुध्न्यः पूषाश्विनौ यम इत्येतान्युदग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि॰ ॥ ॐ विश्वान्देवान्॰ ॥ ॐ साध्यान्॰॥ ॐ ब्रह्माणं॰ ॥ ॐ प्रजापतिं॰ ॥ ॐ चतुर्मुखं॰ ॥ ॐ परमेष्ठिनं॰ ॥ ॐ हिरण्यगर्भं॰ ॥ ॐ स्वयम्भुवं॰ ॥ ॐ ब्रह्मपार्षदान्॰ ॥ ॐ ब्रह्मपार्षदीश्च॰ ॥ ॐ आग्निं॰ ॥ ॐ वायुं॰ ॥ ॐ वरुणं॰ ॥ ॐ सूर्यं॰ ॥ ॐ चन्द्रमसं॰ ॥ ॐ नक्षत्राणि॰ ॥ ॐ ज्योतींषि॰ ॥ ॐ सद्योजातं॰ ॥ ॐ भूः पुरुषं॰ ॥ ॐ भुवः पुरुषं॰ ॥ ॐ सुवः पुरुषं॰ ॥ ॐ भूर्भुवस्सुवः पुरुषं॰ ॥ ॐ भूः॰ ॥ ॐ भुवः॰ ॥ ॐ सुवः॰ ॥ ॐ महः॰ ॥ ॐ जनः॰ ॥ ॐ तपः॰ ॥ ॐ सत्यं॰ ॥ ॐ भवं देवं॰ ॥ ॐ शर्वं देवं॰ ॥ ॐ ईशानं देवं॰ ॥ ॐ पशुपतिं देवं॰ ॥ ॐ रुद्रं देवं॰ ॥ ॐ उग्रं देवं॰ ॥ ॐ भीमं देवं॰ ॥ ॐ महान्तं देवं॰ ॥ ॐ भवस्य देवस्य पत्नीं॰ ॥ ॐ शर्वस्य देवस्य पत्नीं॰ ॥ ॐ ईशानस्य देवस्य पत्नीं॰ ॥ ॐ पशुपतेर्देवस्य पत्नीं॰ ॥ ॐ रुद्रस्य देवस्य पत्नीं॰ ॥ ॐ उग्रस्य देवस्य पत्नीं॰ ॥ ॐ भीमस्य देवस्य पत्नीं॰ ॥ ॐ महतो देवस्य पत्नीं॰ ॥ ॐ भवस्य देवस्य सुतं॰ ॥ ॐ शर्वस्य देवस्य सुतं॰॥ ॐ ईशानस्य देवस्य सुतं॰ ॥ ॐ पशुपतेर्दवस्य सुतं॰ ॥ ॐ रुद्रस्य देवस्य सुतं॰ ॥ ॐ उग्रस्य देवस्य सुतं॰ ॥ ॐ भीमस्य देवस्य सुतं॰ ॥ ॐ महतो देवस्य सुतं॰ ॥ ॐ रुद्रान्॰ ॥ ॐ रुद्रपार्षदान्॰ ॥ ॐ रुद्रपार्षदीश्च॰ ॥ ॐ विघ्नं॰ ॥ ॐ विनायक॰ ॥ ॐ वीरं॰ ॥ ॐ शूरं॰ ॥ ॐ वरदं॰ ॥ ॐ हस्तिमुखं॰ ॥ ॐ वक्रतुण्डं॰ ॥ ॐ एकदन्तं॰ ॥ ॐ लम्बोदरं॰ ॥ ॐ गणपतिं॰ ॥ ॐ विघ्नपार्षदान्॰ ॥ ॐ विघ्नपार्षदीश्च॰ ॥ ॐ सनत्कुमारं॰ ॥ ॐ स्कन्दं॰ ॥ ॐ इन्द्रं॰ ॥ ॐ षष्ठीं॰ ॥ ॐ षण्मुखं॰ ॥ ॐ विशाखं॰ ॥ ॐ जयन्तं॰ ॥ ॐ महासेनं॰ ॥ ॐ स्कन्दपार्षदान्॰ ॥ ॐ स्कन्दपार्षदीश्च॰ ॥ ॐ आदित्यं॰ ॥ ॐ सोमं॰ ॥ ॐ अङ्गारकं॰ ॥ ॐ बुधं॰ ॥ ॐ बृहस्पतिं॰ ॥ ॐ शुक्रं॰ ॥ ॐ शनैश्चरं॰ ॥ ॐ राहुं॰ ॥ ॐ केतुं॰ ॥ ॐ केशवं॰ ॥ ॐ नारायणं॰ ॥ ॐ माधवं॰ ॥ ॐ गोविन्दं॰ ॥ ॐ विष्णुं॰ ॥ ॐ मधुसूदनं॰ ॥ ॐ त्रिविक्रमं॰ ॥ ॐ वामनं॰ ॥ ॐ श्रीधरं॰ ॥ ॐ हृषीकेशं॰ ॥ ॐ पद्मनाभं॰ ॥ ॐ दामोदरं॰ ॥ ॐ श्रियं देवीं॰ ॥ ॐ सरस्वतीं देवीं॰ ॥ ॐ पुष्टिं देवीम॰ ॥ ॐ तुष्टिं देवीं॰ ॥ ॐ वैनतेयं॰ ॥ ॐ विष्णुपार्षदान्॰ ॥ ॐ विष्णुपार्षदीश्च॰ ॥ ॐ यमं॰ ॥ ॐ यमराजं॰ ॥ ॐ धर्मं॰ ॥ ॐ धर्मराजं॰ ॥ ॐ कालं॰ ॥ ॐ नीलं॰ ॥ ॐ मृत्युं॰ ॥ ॐ अन्तकं॰ ॥ ॐ चित्रगुप्तं॰ ॥ ॐ औदुम्बरं॰ ॥ ॐ वैवस्वतं॰ ॥ ॐ वैवस्वतपार्षदान्॰ ॥ ॐ वैवस्वतपार्षदीश्च॰॥ ॐ भरद्वाजं॰ ॥ ॐ गौतमं॰ ॥ ॐ अत्रिं॰ ॥ ॐ आङ्किरसं॰ ॥ ॐ विद्यां॰ ॥ ॐ दुर्गां॰ ॥ ॐ ज्येष्ठांं॰ ॥ ॐ धान्वन्तरिं॰ ॥ ॐ धान्वन्तरिपार्षदान्॰ ॥ ॐ धान्वन्तरिपार्षदीश्च तर्पयामि
इति ॥ अथ निवीती उदङ्मुखं ऋषितीर्थेन ऋषीन्द्विद्विंस्तर्पयेत् -
ॐ ऋषींस्तर्पयामि ॥ ॐ परमऋषीन्॰ ॥ ॐ महर्षीन्॰ ॥ ॐ ब्रह्मर्षीन्॰ ॥ ॐ देवर्षीन्॰, ॥ ॐ राजर्षीन्॰ ॥ ॐ श्रुतर्षीन्॰ ॥ ॐ जनर्षीन्॰ ॥ ॐ तपर्षीन्॰ ॥ ॐ सत्यर्षीन्॰ ॥ ॐ सप्तर्षीन्॰॥ ॐ काण्डर्षीन्॰ ॥ ॐ ऋषिकान्॰ ॥ ॐ ऋषिपत्नीः॰ ॥ ॐ ऋषिपुत्रान्॰ ॥ ॐ ऋषिपौत्रान्॰ ॥ ॐ काण्वं बोधायनं॰ ॥ ॐ आपस्तम्बं सूत्रकारं॰ ॥ ॐ सत्याषाढं हिरण्यकेशिनं॰ ॥ ॐ वाजसनेयिनं याज्ञवल्क्यं॰ ॥ ॐ आश्वलायनं शौनकं॰ ॥ ॐ व्यासं॰ ॥ ॐ वसिष्ठं॰ ॥ ॐ प्रणवं॰ ॥ ॐ व्याहृतीः॰ ॥ ॐ सावित्रीं॰ ॥ ॐ गायत्रीं॰ ॥ ॐ छन्दांसि॰ ॥ ॐ ऋग्वेदं॰ ॥ ॐ यजुर्वेदं॰ ॥ ॐ सामवेदं॰ ॥ ॐ अथर्ववेदं॰ ॥ ॐ अथर्वाङ्गिरसं॰ ॥ ॐ इतिहासपुराणानि॰ ॥ ॐ सर्ववेदान्॰ ॥ ॐ सर्पदेवजनान्॰ ॥ ॐ सर्वभूतानि तर्पयामि तपयामि
इति ॥ अथ प्राचीनावीती दक्षिणाभिमुखः पितृतीर्थेन पितृंस्त्रिस्त्रिस्तर्पयेत् -
ॐ पितृन्स्वधानमस्तर्पयामि तर्पयामि तर्पयामि ॥ ॐ पितामहान्॰ ॥ ॐ प्रपितामहान्॰ ॥ ॐ मातृः॰ ॥ ॐ पितामहीः॰ ॥ ॐ प्रपितामहीः॰ ॥ ॐ मातामहान्॰ ॥ ॐ मातुःपितामहान्॰ ॥ ॐ मातुःप्रपितामहान्॰ ॥ ॐ मातामहीः॰ ॥ ॐ मातुःपितामहीः॰ ॥ ॐ मातुःप्रपितामहीः॰ ॥ ॐ आचार्यान्॰॥ ॐ आचार्यपत्नीः॰ ॥ ॐ गुरून्॰ ॥ ॐ गुरुपत्नीः॰ ॥ ॐ सखीन्॰ ॥ ॐ सखिपत्नीः॰ ॥ ॐ ज्ञातीन्॰ ॥ ॐ ज्ञातिपत्नीः॰ ॥ॐ अमात्यान्॰ ॥ ॐ अमात्यपत्नीः॰ ॥ ॐ सर्वान्॰ ॥ ॐ सर्वा स्वधानमस्तर्पयामि तर्पयामि तर्पयामि
इति ॥ अनुतीर्थमप उसिञ्चति -
ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् ॥ स्वधा स्थ तर्पयत मे पितॄन् । तृप्यत तृप्यत तृप्यत [[TODO: परिष्कार्यम्]]
इति ॥
उत्सर्जनोपाकर्मणोः समानतन्त्रप्रयोगः
अथोत्सर्जनोपाकर्मणोः समानतन्त्रप्रयोगः ॥ अथाचार्यस्सहान्तेवासिभिः प्रातः स्नानादिनित्यकर्म निर्वर्त्य प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य नद्यादौ विधिवत् स्नात्वा नदीतीरे देवालये वा शुचौ समे देशे चतस्रो वेदिकाः कुर्यात् ॥ तत्र मध्ये-देवपूजार्थं चतुरस्रां प्राक्प्रवणां, तदुत्तरे-ऋषिपूजार्थं चतुरस्रां उदक्प्रवणां, दक्षिणे-पितृपूजार्थं चतुरस्रां दक्षिणाप्रवणां, तद्दक्षिणे-स्वस्वपितृपूजार्थं चतुरस्रां दक्षिणाप्रवणां च एवं वेदिचतुष्टयं कृत्वा, तण्डुलैः पूरयित्वा मध्यवेद्यां-दर्भद्वयकृतान्कूर्चान् प्रागग्रान्, एवमेव उत्तरवेद्याम्-उदगग्रान्, दक्षिणवेद्यां-त्रिदर्भकृतान्कूर्चान्दक्षिणाग्रान्, तद्दक्षिणवेद्यां-तथैव दक्षिणाग्रान्निध्यात् ॥ अथाचार्योऽन्तेवासिभिस्सह कृतस्नानादिचतुष्टयो दर्भेष्वासीनो दर्भान्धारयमाण आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
सर्वेषामधीतानामध्येष्यमाणानां छन्दसामस्थानोच्छ्वासादिजनितयातयामतानिरासेनाऽऽप्यायनद्वारा श्रीपरमेश्वरप्रीत्यर्थमुत्सर्जनोपाकर्मणी कर्तुं आदौ शान्त्यर्थं पुष्ट्यर्थं तुष्ट्यर्थं वृद्ध्यर्थमभ्युदयार्थञ्चैभिर्ब्राह्मणैस्सह स्वस्तिपुण्याहवाचनं तदादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनञ्च करिष्ये,
इति सङ्कल्प्य गणपतिं सम्पूज्य
अनयोरुत्सर्जनोपाकर्मणोः पुण्याहं भवन्तो ब्रुवन्तु
इत्यादि
देवर्षिपितरः प्रीयन्ताम्, सविता प्रीयताम्’
इति पुण्याहं वाचयेत् ॥ अथ सर्वे आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
सर्वेषामधीतानां छन्दसां सवीर्यत्वायोत्सर्जनाख्यं कर्म करिष्ये, तदङ्गत्वेन देवर्षिपितॄन्पूजयिष्ये
इति सङ्कल्प्यासनानि कल्पयन्ति5 ॥ सर्वे यज्ञोपवीतिनो देवमण्डले नैर्ऋत्यकोणादारभ्य प्रागपवर्गं -
ॐ ब्रह्मणे आसनं कल्पयामि १ । प्रजापतये॰ २ । बृहस्पतये॰ ३ । अग्नये॰ ४ । वायवे॰ ५ । सूर्याय॰ ६ । चन्द्रमसे॰ ७ । नक्षत्रेभ्यः॰ ८ । ऋतुभ्यः॰ ९ । संवत्सराय॰ १० । इन्द्राय राज्ञे॰ ११ । यमाय राज्ञे॰ १२ । वरुणाय राज्ञे॰ १३ । सोमाय राक्षे॰ १४ । वैश्रवणाय राज्ञे॰ १५ । वसुभ्यः॰ १६ । रुद्रेभ्यः॰ १७ । आदित्येभ्यः॰ १८ । विश्वेभ्यो देवेभ्यः॰ १९ । साध्येभ्यो देवेभ्यः॰ २० । सर्वेभ्यो देवेभ्यः॰ २१ । सर्वाभ्यो देवताभ्यः॰ २२ । मरुद्भ्यः॰ २३ । ऋभुभ्यः॰ २४ । भृगुभ्यः॰ २५ । अथर्वभ्यः॰ २६ । अङ्गिरोभ्यः॰ २७ । विश्वामित्राय॰ २८ । जमदग्नये॰ २९ । जामदग्न्याय॰ ३० । भरद्वाजाय॰ ३१ । गौतमाय॰ ३२ । आत्रेयाय॰ ३३ । वसिष्ठाय॰ ३४ । काश्यपाय॰ ३५ । अरुन्धत्यै॰ ३६ ॥
दक्षिणकोष्ठे - “अगस्त्याय॰” ३७ ॥ अथ निवीतिनस्तदुत्तरे ऋषिमण्डले नैर्ऋत्यकोणादारभ्योदगपवर्गं -
ॐ कृष्णद्वैपायनाय॰ १ । जातुकर्णाय॰ २ । तरुक्षाय॰ ३ । तृणबिन्दवे॰ ४ । सोमशुष्मिणे॰ ५ । सोमशुष्मायणाय॰ ६ । वाजिने॰ ७ । वाजश्रवसे॰ ८ । बृहदुक्थाय॰ ९ । वर्मिणे॰ १० । वज्रिणे॰ ११। वरूथाय॰ १२ । सनत्कुमाराय॰ १३ । वामदेवाय॰ १४ । वाजिरत्नाय॰ १५ । वीरजिताय॰ १६ । हर्यश्वाय॰ १७ । दमाय॰ १८ । उदमेधाय॰ १९ । ऋणञ्जयाय॰ २० । तृणञ्जयाय॰ २१ । कृतञ्जयाय॰ २२ । धनञ्जयाय॰ २३ । सत्यञ्जयाय॰ २४ । बभ्रवे॰ २५ । त्र्यरुणाय॰ २६ । त्रिवर्षाय॰ २७ । त्रिधातवे॰ २८ । अश्वज्ञाय॰ २९ । पराशराय॰ ३० । रुद्राय॰ ३१ । मृत्यवे॰ ३२ । कर्त्रे॰ ३३ । विकर्ते॰ ३४ । सुकर्त्रे॰ ३५ । त्वष्ट्रे॰ ३६ । धात्रे॰ ३७ । विधात्रे॰ ३८ । सुधात्रे॰ ३९ । सुश्रवसे॰ ४०। सुतश्रवसे॰ ४१ । सत्यश्रवसे॰ ४२ । सवित्रे॰ ४३ । सावित्र्यै॰ ४४ । छन्दोभ्यः॰ ४५ । ऋग्वेदाय॰ ४६ । यजुर्वेदाय॰ ४७ । सामवेदाय॰ ४८ । अथर्ववेदाय॰ ४९ । अथर्वाङ्गिरोभ्यः॰ ५० । इतिहासपुराणेभ्यः॰ ५१ । सर्वदेवजनेभ्यः॰ ५२ । सर्वभूतेभ्यः॰ ५३ ॥
अथ प्राचीनावीतिनो दक्षिणे पितृमण्डले वायव्यकोणादारभ्य दक्षिणापवर्गं -
ॐ वैशम्पायनाय॰ १ । पलिङ्गवे॰ २ । तित्तिरये॰ ३ । उखाय॰ ४ । उख्याय॰ ५ । आत्रेयाय पदकाराय॰ ६ । कौण्डिन्याय वृत्तिकाराय॰ ७ । काण्वाय बोधायनाय॰ ८ । प्रवचनकाराय॰ ९ । आपस्तम्बाय सूत्रकाराय॰ १० । सत्याषाढाय हिरण्यकेशाय॰ ११ । वाजसनेयाय याज्ञवल्क्याय॰ १२ । भरद्वाजाय॰ १३ । अग्निवेश्याय॰ १४ । आचार्येभ्यः॰ १५ । ऊर्ध्वरेतोभ्यः॰ १६ । वानप्रस्थेभ्यः॰ १७। वंशस्थेभ्यः॰ १८ । एकपत्नीभ्यः॰ १९ ॥
तथैव तद्दक्षिणे स्वस्वपितृभ्यः वायव्यकोणादारभ्य दक्षिणापवर्गं -
ॐ पितृभ्यः॰ १ । पितामहेभ्यः॰ २ । प्रपितामहेभ्यः॰ ३ । मातृभ्यः॰ ४ । पितामहीभ्यः॰ ५ । प्रपितामहीभ्यः॰ ६ । मातामहेभ्यः॰ ७ । मातुःपितामहेभ्यः॰ ८ । मातुःप्रपितामहेभ्यः॰ ९ । मातामहीभ्यः॰ १० । मातुःपितामहीभ्यः॰ ११ । मातुःप्रपितामहीभ्यः॰ १२ ॥
इत्यासनं कल्पयित्वा एवमेव क्रमेण
ॐ भूर्भुवस्सुवः ब्रह्मणे नमः ब्रह्माणमावाहयामि
इत्यादिभिरावाह्य षोडशोपचारैरभ्यर्च्य
ॐ ब्रह्मणे स्वाहा, प्रजापतये स्वाहा
इत्यादिभिर्यथाक्रममन्नेन बलिं दत्वा
ॐ ब्रह्माणं तर्पयामि, प्रजापतिं तर्पयामि
इत्यादिभिः फलोदकेन तर्पयित्वाऽथ6 सर्वे यज्ञोपवीतिनः
आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य, सर्वेषामधीतानां छन्दसां सवीर्यत्वाय श्रीपरमेश्वरप्रीत्यर्थमुत्सर्जनाङ्गब्रह्मयज्ञेन यक्ष्ये,
इति सङ्कल्प्य
ॐ विद्यु॑दसि॒ विद्य॑ मे पा॒प्मान॒मृता॑त्स॒त्यमुपै॑मि
हस्ताववनिज्य त्रिराचामेद्द्विः परिमृज्य सकृदुपस्पृश्य सव्यं पाणिं पादौ च प्रोक्ष्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य, वामपादोपरि दक्षिणपादं प्रतिष्ठाप्य दक्षिणजानूपरि दक्षिणोत्तरौ पाणी कृत्वा “ॐ भूर्भुवस्सुवः” इति प्रतिपद्य सावित्रीं पच्छोऽर्धर्चशोऽनवानमुक्त्वा “अग्निमीळे" इत्यृचं,
इषे त्वोर्जे त्वा, यज्ञस्य, शुन्धध्वम्
इत्यादितस्त्रीननुवाकातधीयीरन् काण्डादीन्वा सर्वाननुवाकानेकदेशान्वा ॥ काण्डादयश्च (इषे त्वोर्जे त्वा, आप उन्दन्तु, उद्धन्यमानम्, अनुमत्यै पुरोडाशम्, सह वै देवानां, इति पञ्च) तथा -
अग्न॒ आया॑हि॰ ब॒र्हिषि॑ । शन्नो॑ दे॒वीर॒भिष्ट॑य॒॰ स्र॑वन्तु नः ॥
अथ शिक्षां प्रवक्ष्यामि॥ आमावास्येन वा पौर्णमासेन वा हविषा यक्ष्यमाणो भवति ॥ वृद्धिरादैच् ॥ समाम्नायः समाम्नातः ॥ मयरसतजभनलगसम्मितम् ॥ पञ्च संवत्सरमयम् ॥ गौः ग्मा ज्मा ॥ योगीश्वरं याज्ञवल्क्यम् ॥ नारायणं नमस्कृत्य ॥ अथातो धर्मजिज्ञासा ॥ अथातो ब्रह्मजिज्ञासा
इत्येवमधीत्य “ॐ नमो ब्रह्मणे॰ करोमि” इति परिधानीयां त्रिरनूच्य
वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मान॒मृता॑त्स॒त्यमुपा॑गाम्
इत्यपः स्पृष्ट्वा । (शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य ) अथ निवीतिनः
ॐ प्रजापतिं काण्डर्षिं तर्पयामि ॥ सोमं काण्डर्षिं॰ ॥
आग्निं काण्डर्षिं॰ ॥ विश्वान्देवान्काण्डर्षिन्॰ ॥ स्वयंभुवं काण्डर्षिं तर्पयामि
इति द्विर्द्विस्तर्पयित्वोपवीतिनो भूत्वा,
अनेनोत्सर्जनाङ्गब्रह्मयज्ञकर्मणा श्रीपरमेश्वरः प्रीयताम्
इति ब्रह्मयज्ञं समाप्य । न्यूनातिरेकदोषपरिहारार्थं
ॐ कामोऽकार्षीन्नमो नमः ॥ कामोऽकार्षीत्कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता कामः कारयिता नाहं कारयिता एष ते काम कामाय स्वाहा ॥ मन्युरकार्षीन्नमो नमः ॥ मन्युरकार्षीन्मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं कर्ता मन्युः कारयिता नाहं कारयिता एष ते मन्यो मन्यवे स्वाहा [[TODO: परिष्कार्यम्]]
इति मन्तौ पठित्वा “उत्सृष्टा वै वेदाः" इति छन्दांस्युत्सृज्य देवर्षिपितॄन्क्रमेणोद्वास्य जलसमीपे
काण्डात्काण्डात्, या शतेन प्रतनोषि
इति द्वाभ्यां दूर्वां रोपयित्वा नामग्राहमन्योन्यं हस्तैर्हस्तान्समालभ्य जलाशयं विलोडनेनोर्मिमन्तङ्कुर्वन्तोऽवगाह्य त्रिरुद्यत्य प्राचीमुदीचीं वा यावद्बलं शीघ्रं धावित्वा पुनरागत्य तदानीमेवोपाकर्म कुर्युः इति ॥
उपाकर्म
अथोपाकर्म ॥ सर्वे दर्भेष्वासीनाः पवित्रपाणय आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
सर्वेषामधीतानामध्येष्यमाणानां छन्दसामस्थानोच्छ्वासादिजनितयातयामतानिरासनेनाऽऽप्यायनद्वारा श्रीपरमेश्वरप्रीत्यर्थमुपाकर्माख्यं कर्म करिष्ये
इति सङ्कल्पं कुर्युः ॥ नूतनब्रह्मचारिणस्तु - वपनं स्नानादि चतुष्टयं च कृत्वाऽऽचमनादि देशकालसङ्कीर्तनान्ते
अध्येष्यमाणानां छन्दसां यातयामतानिरासेनाऽऽप्यायनद्वारा श्रीपरमेश्वरप्रीत्यर्थं वेदोपाकरणाख्यं कर्म करिष्ये, तदादौ शान्त्यर्थं॰ अभ्युदयार्थञ्चैभिर्बाह्मणैस्सह नान्दीसमाराधनं7 स्वस्तिपुण्याहवाचनं निर्विघ्नतासिध्यर्थं गणपतिपूजनञ्च करिष्ये
इति सङ्कल्प्य पुण्याहान्तं क्रमेण कुर्युः ॥ अथ समन्वारब्धेष्वन्तेवासिष्वाचार्यः
स्थण्डिलोल्लेखनादिलौकिकाग्निं प्रतिष्ठाप्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य, सर्वेषामध्येष्यमाणानां छन्दसां सवीर्यत्वायोपाकर्महोमं करिष्ये,
इति सङ्कल्प्य
उपाकर्महोमः कर्म, आधारवतन्त्रम्, पञ्चदशदारुरिध्मः, अग्नीषोमावाज्यभागौ, बलवर्धनो नामानिः, सविता देवता, चरुहविः, अग्निः स्विष्टकृत्,
इत्याद्यन्वाधायापरिधिनिधानात्कृत्वाऽग्रेणाग्निं पञ्चकोष्टेषु तण्डुलपुञ्जेषु उदगग्रान्कूर्चान्निधाय ‘उपाकर्माङ्गत्वेन पञ्चकाण्डर्षीन्पूजयिष्ये’ इति सङ्कल्प्य सर्वे निवीतनस्तेभ्य उदगपवर्गमासनानि कल्पयित्वा
ॐ स॒प्त ते॑ अग्ने॰ घृ॒तेन॑ ॐ भूर्भुव॒स्सुवः॑ प्रजापतिं काण्डर्षिमावाहयामि ॥ ॐ भूर्भुव॒स्सुवः॑ सोमं काण्डर्षिमावाहयामि ॥ ॐ भूर्भुव॒स्सुवः॑ आग्निं काण्डर्षिमावाहयामि ॥ ॐ भूर्भुव॒स्सुवः॑ विश्वान्देवान् काण्डर्षिमावाहयामि ॥ ॐ भूर्भुव॒स्सुवः॑ स्वयंभुवं काण्डर्षिमावाहामि
इत्यावाह्य गन्धादिभिरभ्यर्च्य
ॐ प्रजापतिं काण्डर्षिं तर्पयामि । सोमं काण्डर्षिं त॰ । आग्निं कां॰ । विश्वान्देवान्कां॰ । स्वयंभुवं कां॰
इति तर्पयित्वा यज्ञोपवीतिनो भवेयुः ॥ अथाऽऽचार्यः परिधानप्रभृत्यग्निमुखान्तं कृत्वा सावित्र्या पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधौ निधायाथाऽऽज्याहुतीरुपजुहोति -
ॐ याज्ञिकीभ्यो देवताभ्यः स्वाहा ॥ (याज्ञिकीभ्यो देवताभ्य इदं॰) ॥ ॐ साँहितीभ्यो देवताभ्यः स्वाहा॥ (साँहितीभ्यो देवताभ्य इदं॰) ॥ ॐ वारुणीभ्यो देवताभ्यः स्वाहा ॥ (वारुणीभ्यो देवताभ्य इदं॰) ॥ ॐ सर्वाभ्यो देवताभ्यः स्वाहा ॥ (सर्वाभ्यो देवताभ्य इदं॰) ॥ अथ निवीती - ॐ प्रजापतये काण्डर्षये स्वाहा ॥ (प्रजापतये काण्डर्षय इदं॰) ॥ ॐ सोमाय काण्डर्षये स्वाहा ॥ (सोमाय काण्डर्षय इदं॰) ॥ ॐ अग्नये काण्डर्षये स्वाहा ॥ (अग्नये काण्डर्षय इदं॰) ॥ ॐ विश्वेभ्यो देवेभ्येः काण्डर्षिभ्यः स्वाहा ॥ (विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदं॰) ॥ ॐ स्वयम्भुवे काण्डर्षये स्वाहा ॥ (स्वयम्भुवे काण्डर्षय इदं॰) ॥ अथोपवीती - ॐ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषँ स्वाहा ॥ (सदसस्पतय इदं॰) ॥ ॐ तत्सवितुर्वरेण्यंः प्रचोदयात्स्वाहा ॥ (सवित्र इदं॰)॥ ॐ ऋग्वेदायस्वाहा ॥ (ऋग्वेदायेदं॰) ॥ ॐ यजुर्वेदाय स्वाहा ॥ (यजुर्वेदायेदं॰) ॥ ॐ सामवेदाय स्वाहा ॥ (सामवेदायेदं॰)॥ अथर्ववेदाय स्वाहा ॥ (अथर्ववेदायेदं॰) ॥ ॐ अथर्वाङ्गिरोभ्यः स्वाहा ॥ (अथर्वाङ्गिरोभ्य इदं॰) ॥ ॐ इतिहासपुराणेभ्यः स्वाहा ॥ (इतिहासपुराणेभ्य इदं॰) ॥ ॐ सर्पदेवजनेभ्यः स्वाहा ॥ (सर्पदेवजनेभ्य इदं॰) ॥ ॐ सर्वभूतेभ्यः स्वाहा ॥ (सर्वभूतेभ्य इदं॰) ॥ [[TODO: परिष्कार्यम्]]
इत्येकोनविंशत्याज्याहुतीर्हुत्वा दर्व्यां यज्ञोपवीतमवदानधर्मेणावदाय जुहोति8 -
ॐ य॒ज्ञो॒प॒वी॒तं॰ पर॑मं॰ बल॑मस्तु॒ तेज॒स्स्वाहा॑
इति ॥ (प्रजापतय इदं॰) ॥ ततः सर्वे गुरुभ्यो यज्ञोपवीतं दत्वा
श्रौतस्मातकर्मानुष्ठानयोग्यतासिध्यर्थं यज्ञोपवीतधारणं करिष्ये
इति सङ्कल्प्याचम्य विधिवदभिमन्त्रितं यज्ञोपवीतं “यज्ञोपवीतम्" इति मन्त्रेण धृत्वा पुनराचामेयुः ॥ ग्रहस्थादय एवमेव द्वे त्रीणि वा यथोक्तं धृत्वा पुरा धृतं विसृजेयुः ॥ ब्रह्मचारिणस्त्वेकमेव यज्ञोपवीतं धृत्वाचम्य “इयं दुरुक्तात्" इति मेखलां त्रिः परिवीय “ऋतस्य गोप्त्री" इति परिवीतमनुमन्त्र्य “प्राणानां ग्रन्थिरसि” इति ग्रान्थिं कृत्वा “मित्रस्य चक्षुः” इति कृष्णाजिनं धृत्वा “सोमोऽसि सोमपं मा कुरु” इति पालाशं दण्डं, “ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वा" इति बैल्वं वा दण्डं धृत्वा पूर्वधृतानप्सु विसृजेयुः॥ अथ सर्वे दर्भेष्वासीना दर्भान्धारमाणाः प्राणानायम्य देशकालौ सङ्कीर्त्य
उत्सृष्टानां छन्दसामुपाकरणार्थं ब्रह्मयज्ञेन यक्ष्ये
इति सङ्कल्प्य ‘विद्युदसि’ इत्याद्युत्सर्जनोक्तप्रकारेण काण्डर्षितर्पणान्तं ब्रह्मयज्ञं कृत्वा, अनेनोपाकर्माङ्गब्रह्मयज्ञकर्मणा श्रीपरमेश्वरः प्रीयताम् ॥ न्यूनातिरेकदोषपरिहारार्थं
कामोऽकार्षीन्नमो नमः, मन्युरकार्षिन्नमो नमः
इति मन्त्री पठित्वा “उपाकृता वै वेदाः" इत्युक्त्वा स्विष्टकृदादि होमशेषं समाप्य काण्डर्षीनुद्वास्य ब्राह्मणानपूपैर्धानाभिः सक्तुभिरोदनेन वा यथोपपादं सन्तर्प्य
ऋषयश्छन्दांस्याचार्या वेदा यज्ञाश्च प्रीयन्ताम्
इति वाचयित्वा
अनेनोपाकर्मकर्मणा श्रीपरमेश्वरः प्रीयताम्,
इतीश्वरार्पणं कृत्वा त्र्यहमेकाहं वा नाधीयीरन् । एवमन्येष्वप्यनध्यायेषु नाधीयीरन् ॥ इत्युपाकर्महोमः ॥
अनध्यायाः
अथानध्यायाः ॥ ते च नित्या नैमित्तिकाश्चेति द्विविधाः॥ तत्र नित्यानाह पराशरीये हारीतः –
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः ॥
श्वोनध्यायेद्य शर्वर्यां नाधीयीत कदाचन
इति ॥ नैमित्तिकानाह तत्रैव नारदः -
अयने विषुवे चैव शयने बोधने हरेः ॥
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु
इति ॥ मन्वादयश्चाभिहिता मत्स्यपुराणे -
आश्वयुक्शुक्लनवमी कार्तिके द्वादशी सिता ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा ।
आषाढस्याथ दशमी माघमासस्य सप्तमी ।
श्रावणस्याष्टमी कृष्णा आषाढस्यापि पूर्णिमा ।
कार्तिकी फाल्गुनी चैत्री ज्येष्ठी पंचदशी सिता ।
मन्वन्तरादयश्चैते दत्तस्याक्षय्यकारकाः
इति ॥ युगादयोपि विष्णुपुराणे वर्णिताः -
वैशाखमासस्य सिता तृतीया नवम्यसौ कार्तिकशुक्लपक्षे ।
नभस्य मासस्य च कृष्णपक्षे त्रयोदशी पंचदशी च माघे
इति ॥ अन्ये च नैमित्तिकाः प्रोक्ता कूर्मपुराणे -
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ।
अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु
इति ॥ अष्टकाश्चाह बोधायनः -
तैषे माघे फाल्गुने चापरपक्षस्य सप्तम्यष्टमीनवम्यस्तिस्रोष्टकाः
इति ॥ गृह्ये चान्ये नैमित्तिकानध्यायाः प्रोक्ताः । (बो. गृ. सू. ३.१)
श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य त्र्यहमेकाहं वा नाधीयीरन् ॥ मासं प्रदोषे नाधीयीरन् । नित्यं चैव भुक्त्वोर्ध्वम् । मध्यरात्रात्स्तनिते एवमेव काण्डोपाकरणकाण्डसमापनाभ्याम् ॥ सप्रदोषमहरनध्यायः । अस्तमिते चोदयाद्विद्युति च स्वप्मान्तम् ॥ एवमेव काण्डोपाकरणकाण्डसमापनाभ्याम्
इति ॥ त्रयोदश्यादिप्रदोषेष्वपि नाधीयीत । तथा चादित्यपुराणे -
मेधाकामस्त्रयोदश्यां सप्तम्यां च विशेषतः ।
चतुर्थ्यां च प्रदोषेषु न स्मरेन्न च कीर्तयेत्
इति ॥ अत्र तिथिद्वैधे निर्णयः स्मृत्यर्थसारे -
चतुर्थ्याः पूर्वरात्रे तु नवनाडीषु दर्शने ।
नाध्येयं पूर्वरात्रे स्यात्सप्तमी च त्रयोदशी ॥
अर्धरात्रात्पुरा चेत्स्यान्नाध्येयं पूर्वरात्रके
इति ॥ मण्डूकाद्यन्तरागमने उत्पातादौ चानध्याय उक्तः पराशरीये -
पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः ।
कृतेन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥
चौरैरुपप्लुते ग्रामे संभ्रमे वाग्निकारिते ॥
अकालिकमनध्यायं विद्यात्सर्वाद्भुतेष्वपि
इति ॥ गृ॰ संग्रहेपि -
अकालवर्षणाश्चैव भूकम्पोल्कानिपातनात् ॥
सोमसूर्यग्रहादूर्ध्वं त्रिरात्रं वर्जयेत् त्रयीम् ॥
देवोत्सवे च यज्ञे च प्रयाते वसुधापतौ ।
महति श्रोत्रिये याते तद्दिनं वर्जयेत् त्रयीम्
इति ॥ धर्मसूत्रे च ( बो. ध. सू. १. २१)
पौर्णमास्यष्टकाऽमावास्याऽग्न्युत्पातभूमिकम्पश्मशानदेशपतिश्रोत्रियैकतीर्थप्रायणेष्वहोरात्रमनध्यायः ॥ वाते पूतिगन्धे नीहारे नृत्तगीतवादित्रेरुदितसामशब्देषु तावन्तं कालम् ॥ स्तनयित्नुवर्षविद्युत्सन्निपाते त्र्यहमनध्यायोऽन्यत्र वर्षाकालात् ॥ पित्र्यप्रतिग्रहभोजनयोश्च तद्दिवसशेषम् ॥ भोजनेष्वाजरणम् ॥ पितर्युपरते त्रिरात्रम् ॥ शूद्रापपात्रश्रवणसन्दर्शनयोश्च तावन्तं कालम् ॥ नक्तं शिवारावे नाऽधीयीत स्वप्नान्तम् ॥ अहोरात्रयोस्सन्धयोः पर्वसु च नाऽधीयीत ॥ अन्येषु चाद्भुतोत्पातेष्वहोरात्रमनध्यायोऽन्यत्र मानसात् ॥ मानसेऽपि जननमरणयोरनध्यायः ॥ अथाऽप्युदाहरन्ति -
हन्त्यष्टमी होपाध्यायं हन्ति शिष्यं चतुर्दशी ।
हन्ति पञ्चदशी विद्यां तस्मात्पर्वाणि वर्जयेत्इति ॥ अनध्यायानामपवादमप्याह मनुः -
वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।
नानुरोधोस्त्यनध्याये होममन्त्रेषु चैव हिइति ॥ शौनकोपि -
नित्ये जपे च काम्ये च ऋतौ पारायणेपि च ॥
नानध्यायोस्ति वेदानां ग्रहणे ग्राहणे तथाइति ॥ कूर्मपुराणे च -
अनध्यायस्तु नांगेषु नेतिहासपुराणयोः ॥
न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत्
इति ॥ अनध्याये तिथिनिर्णयः प्रोक्तो वैद्यनाथीये -
उदयेस्तमये वापी मुहूतत्रयगामि यत् ॥
तद्दिनं तदहोरात्रं चानध्यायविदो विदुः ।
केचिदाहुः क्वचिद्देशे यावत्तद्दिननाडिकाः ।
तावदेव त्वनध्यायो न तन्मिश्रदिनान्तरे
इति ॥
वेदारम्भः
अथ वेदारम्भः ॥ स च गृ॰ संग्रहे विहितः -
काले वेदमुपाकृत्य विद्यारम्भं च कारयेत् ॥
शुभे परीक्षिते काले प्रबुद्धे च जनार्दने ॥
शश्यृक्षबलसंपूर्णे खेचरानिधनाश्रिते ॥
स्थंडिलोग्निं समिध्याथ कृत्वा ब्रह्मार्चनान्तकम् ॥
पुरत स्थंडिले वह्नर्निध्यात् कलशं शुभम् ॥
तिरःपवित्रं सावित्र्या पूरयेत्संविपाचितम् ॥
वनौषधिजलं यद्वा गालितं विमलोदकम् ॥
व्याहृतिप्रणवैः प्रास्येद्यवानक्षततंडुलान् ॥
दूर्वादर्भफलै स्तीर्णं दूर्वादर्भैश्चिनोति तम् ।
वर्णरूपां च वाग्देवीं श्रद्धामेधासमन्विताम् ॥
तस्मिन्नावाहयेद्देवीं वाचं मन्त्रद्वयेन च ॥
तत्सूक्तत्रितयेनैव स्पृशन्नष्टशतं जपेत् ॥
गन्धाक्षतप्रसूनाद्यैर्विधिवत्तां समर्चयेत् ॥
अर्चयित्वाथ दुग्धान्नं प्रसाद्याग्निमुखान्तकम् ॥
कृत्वा पक्वं हुनेत्पंचवर्गमन्त्रमितस्य च ॥
तत्सूक्तस्यादिमर्ग्भ्यां तु शिष्टर्ग्भिरुपहुत्य च ॥
श्रद्धामेधाख्यसूक्ताभ्यामष्टपंचाहुतीर्हुनेत् ॥
तत स्विष्टकृदाद्यं तु कुर्यादावरदानतः ।
कलशस्थां ततो देवीं प्रार्थयेद्यतमानसः ॥
उपवेश्य ततः शिष्यं देवीमावाहयेद्गुरुः ॥
यजुःपवित्रैरब्लिंगैस्तत्सूत्रत्रितयेन च ।
अभिषिंचेत्तदुदकं कुम्भस्थं देवतात्मकम् ॥
अभ्यर्च्य गन्धपुष्पाद्यैर्वनौषधिरसान्वितम् ॥
घृतं सम्पतितं काले तत्सूक्तेनाभिमन्त्रितम् ॥
शिरो मे श्रीः प्रमुखतः स्वाहान्तादनुवाकतः ॥
प्राशयेद्व्याहृतीभिस्तु स्वाहान्ताभिश्चतुर्थशः ।
देवीं वाचं प्रणो जुष्टश्चोदयित्री च पावका ।
उत नो जुषतां मे च प्रते महे यदप्सु च ॥
इयं यस्ते स्तन इति सूक्तं सारस्वतं स्मृतम् ॥
देवीं वाचं वदन्त्यन्तं सप्तर्चः परिकीर्तिताः ॥
प्रणो देवी यदप्स्वन्तं द्वौ द्वौ मन्त्रौ प्रकीर्तितौ ॥
श्रद्धयाग्निः षड्ऋचस्तु श्रद्धया देव इत्यृचौ ।
श्रद्धासूक्तमिति प्रोक्तं सूक्ते विद्यापदे शुभे ॥
ततो गुरुः सशिष्यस्तु वाग्यतो नियतः शुचिः ॥
पूजयित्वा हरिं लक्ष्मीं वाग्देवीं च विनायकम् ॥
स्वविद्यासूत्रकारांश्च द्विजानभ्यर्च्य शक्तितः ॥
उपस्थाय ततः सूर्यं सावित्रीं च ततो जपेत् ॥
सम्यगष्टशतं बालं कृतब्रह्मांजलिं तथा ॥
प्रोक्त्वा वेदादिसावित्रीं पच्छोविहरणक्रमात् ॥
वेदमध्यापयत्किंचित्तदहश्च विसर्जयेत् ॥
उपाकर्मणि केचित्तु विधिमेतं स्म कुर्वते ॥
उपाकर्मैव केचित्तु नैवं विधिमिह श्रुतम्
इति ॥ अथात्र विद्यारम्भे तिथ्यादिकमाह प्र॰ पारिजाते श्रीधरः -
रिक्ताष्टमी पंचदशी निषिद्धा त्रयोदशी सप्तमिका च मध्या ।
विद्या गमे वित्सितमन्त्रिणां स्युरोदया मध्यममिन्दुभान्वोः ॥
हस्ताश्वयुक्श्रवणतिष्यसमीरमित्रचित्रादितित्रिपुरजिन्मृगलांछनेषु ।
शस्तोत्तराकमलसम्भवपौष्णभेषु मध्याश्रुतिस्मृतिसमावगतिर्द्विजानाम् ॥
विद्यारम्भे द्विस्वभावा विशिष्टा मध्याः प्रोक्ता ये चराः राशयश्च ॥
शुद्धो राशिः सप्तमश्चन्द्रवारे कुर्यात्प्राज्ञः सर्वविद्यासमाप्तिम्
इति ॥
पूर्वाह्णेवाथ मध्याह्ने विद्यारम्भो विशिष्यते ॥
अपराह्ने चन्द्रवारे विद्यामुक्तिर्विधीयते
इति तत्रैव वसिष्ठः ॥ अथाध्ययनप्रकारमाह मनुः -
अध्येष्यमाणस्वाचान्तो यथाशास्त्रमुदङ्मुखः ।
कृतब्रह्मांजलिश्चैव9 लघुवासा जितेन्द्रियः ॥
व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः ॥
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः
इति ॥ सं॰ मालायामपि -
आसने तु समासीन आचान्तः प्राङ्मुखो गुरुः ॥
प्रणवं प्राक्समुच्चार्य शिष्यमध्यापयेत्सदा
इति ॥ तत्रैव भरद्वाजशिक्षा -
प्रश्नानुवाकाद्यारम्भे सविसर्गोच्चको हरिः ॥
न सन्धिः प्रणवे नित्यं विरामे स्वरितो भवेत् ॥
ओंकारं प्रथमं कृत्वा ततो ब्रह्म प्रवर्तयेत् ॥
ओंकारं च पुनः कृत्वा भूमिं स्पृष्ट्वा समापयेत्
इति ॥ पाराशरीये वसिष्ठः –
पारम्पर्यागतो येषां वेदः सपरिबृंहणः ।
तच्छाखं कर्म कुर्वीत तच्छाखाध्ययनं तथा ॥
यः स्वशाखां परित्यज्य पारक्यामधिगच्छति ॥
स शूद्रवद्बहिष्कार्यः सर्वकर्मसु साधुभिः ॥
अधीत्य शाखामात्मीयां परशाखां ततः पठेत्
इति ॥
प्रयोगः
अथ प्रयोगः - पिता कुमारेण सह प्रातः स्नानादि चतुष्टयं विधाय पवित्रपाणिराचम्य प्राणानायम्य देशकालौ संकीर्त्य
अस्य कुमारकस्य निर्विघ्नेन समस्तविद्याप्राप्त्यर्थं वेदारम्भं करिष्ये
इति संकल्प्य निर्विघ्नतासिध्यर्थं गणपतिं सम्पूज्य
श्रद्धामेधासहितवाग्देवी प्रीयताम्
इति पुण्याहं वाचयित्वा स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य
विद्यारम्भहोमं करिष्ये, बलवर्धनो नामाग्निः श्रद्धामेधासहितवाग्देवी देवता, चर्वाज्ये हविषी, अग्निः स्विष्टकृत्
इत्यादि संकल्प्यापरिधानात्कृत्वाग्रेणाग्निं स्थण्डिले कलशं विधिवत्प्रतिष्ठाप्य क्वाथं सर्वोषधिजलं शुद्धजलं वा सावित्र्या पूरयित्वा यवतण्डुलदूर्वादर्भफलानि प्रणवव्याहृतिभिः प्रास्य दूर्वादर्भौः प्रतिच्छाद्य वरुणं सम्पूज्य
ॐ दे॒वीं वाचं॑॰ नुप॒ सुष्टु॒तैतु॑ ॥ यद्वाग्वदं॑त्यवि॰ ज॑गाम ॥ ॐ भूर्भुवस्सुवः श्रद्धामेधासहितवाग्देवीमावाहयामि
इत्यावाह्य गन्धादिभिरभ्यर्च्य दुग्धान्नं निवेद्य “देवीं वाचं" इत्यादि पंचविंशत्यृचं सरस्वतीसूक्तं “श्रद्धयाग्निः" इत्याद्यष्टर्चं श्रद्धासूक्तं “मेधा देवी” इति पंचर्चं मेधासूक्तं चाष्टोत्तरशतं जपित्वा प्रसादयेत् ॥ अथ परिधानप्रभृत्यग्निमुखान्तं कृत्वा पक्वाज्जुहोति -
ॐ दे॒वीं वाचं॑॰ नुप॒ सुष्टु॒तैतों ३ यद्वाग्वद॑न्त्यवि॰ पर॒मं ज॑गाम स्वाहा॑
इति ॥ (वाग्देव्या इदं॰) ॥ ततः स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -
ॐ अनन्तामन्तादधि॰ विश्वे स्वाहा । (वाग्देव्या इदं॰) ॥ ३ ॥ ॐ वाचं देवा उप॰ मिन्द्रपत्नी स्वाहा ॥ (वाग्देव्या इदं॰) ॥ ४ ॥ ॐ वागक्षरं॰ मे अस्तु स्वाहा ॥ (वाग्देव्या इदं॰) ॥ ५ ॥ ॐ यामृषयो॰ सुकृतस्य लोके स्वाहा ॥ (वाग्देव्या इदं॰) ॥ ६ ॥ ॐ चत्वारि वाक्॰ वदन्ति स्वाहा ॥ (वाग्देव्या इदं॰) ॥ ७ ॥ ॐ प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती ॥ धीनामवित्र्यवतु स्वाहा॥ सर्वत्र, (सरस्वत्या इदं॰) ॥ ८ ॥ ॐ आ नो दिवो बृहतः पर्वतादासरस्वती यजतागन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मान्नो वाचमुशती शृणोतु स्वाहा ॥ ९ ॥ ॐ जुष्टो वाचो भूयासं जुष्टो वाचस्पतये देवि वाक् ॥ यद्वाचो मधुमत्तस्मिन्मा धाः स्वाहा सरस्वत्यै स्वाहा ॥ १० ॥ ॐ ऋचा स्तोमँ समर्धय गायत्रेण रथन्तरम् । बृहद्गायत्रवर्तानि स्वाहा ॥ ११ ॥ ॐ चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ॥ यज्ञं दधे सरस्वती स्वाहा ॥ १२ ॥ ॐ पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । ग्नाभिरच्छिद्रँ शरणँ सजोषा दुराधर्षं गृणते शर्म यँसत्स्वाहा ॥ १३ ॥ ॐ पावका नः सरस्वती । वाजेभिर्वाजिनीवती । यज्ञं वष्टु धिया वसुः स्वाहा ॥ १४ ॥ ॐ सरस्वत्यभिनो नेषि वस्यः । मा पस्फरीः पयसा मा न आधक् । जुषस्व नः सख्या वेश्या च। मा त्वत्क्षेत्राण्यरणानि गन्म स्वाहा ॥ १५ ॥ ॐ उत नः प्रिया प्रियासु । सप्त स्वसा सुजुष्टा । सरस्वती स्तोम्याभूत् स्वाहा ॥१६॥ ॐ इमा जुह्वाना युष्मदा नमोभिः। प्रति स्तोमँ सरस्वति जुषस्व । तव शर्मन्प्रियतमे दधानाः। उपस्थे यामशरणन्न वृक्षँ स्वाहा ॥ १७ ॥ ॐ जुषतां मे वागिदँ हविः । विराड्देवी पुरोहिता । हव्यवाडनपायिनी स्वाहा ॥ १८ ॥ ॐ यया रूपाणि बहुधा वदन्ति । पेशाँसि देवाः परमे जनित्रे । सा नो विराडनपस्फुरन्ती । वाग्देवी जुषतामिदँ हविः स्वाहा ॥ १९ ॥ ॐ प्र ते महे सरस्वति । सुभगे वाजिनीवति । सत्यवाचे भरेमतिँ स्वाहा ॥ २० ॥ ॐ इदं ते हव्यं धृतवत्सरस्वति । सत्यवाचे प्रभरेमा हवीँषि । इमानि ते दुरिता सौभगानि । तेभिर्वयँ सुभगास स्याम स्वाहा ॥ २१ ॥ ॐ यदप्सु ते सरस्वति । गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति । मुखमङ्धि सरस्वति स्वाहा ॥ २२ ॥ ॐ या सरस्वती वैशंभल्या । तस्यां मे रास्व। तस्यास्ते भक्षीय । तस्यास्ते भूयिष्ठभाजो भूयास्म स्वाहा ॥ २३ ॥ ॐ इयमेव सा या प्रथमा व्यौच्छदन्तरस्यां चरति प्रविष्टा । वधूर्जजाननवगज्जनित्री त्रय एनां महिमानः सचंते स्वाहा ॥ २४ ॥ ॐ यस्ते स्तनः॰ सरस्वति तमिहधातवेकः स्वाहा ॥ २५ ॥ [[TODO: परिष्कार्यम्]]
इति सरस्वतीसूक्तेनोपहुत्य ॥
ॐ श्रद्धयाग्निः वेदयामास स्वाहा ॥ सर्वत्र, (श्रद्धाया इदं॰) ॥१॥ ॐ प्रियँ श्रद्धे॰ उदितं कृधि स्वाहा ॥२॥ ॐ यया देवा॰ अस्माकमुदितं कृधि स्वाहा ॥३॥ ॐ श्रद्धां देवा॰ हूयते हविः स्वाहा ॥४॥ ॐ श्रद्धां प्रातर्ह॰ श्रद्धापयेह मा स्वाहा ॥५॥ ॐ श्रद्धा देवानधि॰ वर्धयामास स्वाहा ॥६॥ ॐ श्रद्धया देवी देवत्वमश्नुते । श्रद्धाप्रतिष्ठा लोकस्य देवी । सा नो जुषाणोपयज्ञमाात् । कामवत्सामृतं दुहाना स्वाहा ॥७॥ ॐ श्रद्धा देवी प्रथमजा ऋतस्य । विश्वस्य भी जगतः प्रतिष्ठा । ताँ श्रद्धाँ हविषा यजामहे । सा नो लोकममृतं दधातु । ईशानादेवी भुवनस्याधि पत्नी स्वाहा ॥८॥ [[TODO: परिष्कार्यम्]]
इति श्रद्धासूक्तेन ॥
ॐ मेधा देवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्यमाना । त्वया जुष्टा नुदमाना दुरुक्तान्बृहद्वदेम विदथे सुवीरा स्वाहा ॥ सर्वत्र (मेधाया इदं॰) ॥१॥ ॐ त्वया जुष्टऋषिर्भवति देवि त्वया ब्रह्मगतश्रीरुत त्वया । त्वया जुष्टश्चित्रं विदन्ते वसु सा नो जुषस्व द्रविणो न मेधे स्वाहा ॥२॥ ॐ मेधां म इन्द्रो ददातु मेधां देवी सरस्वती । मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजा स्वाहा ॥३॥ ॐ अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः । देवीं मेधां सरस्वती सा मां मेधा सुरभिर्जुषताँ स्वाहा ॥४॥ ॐ आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या । ऊर्जस्वती पयसा | पिन्वमाना सा मां मेधा सुप्रतीका जुषन्ताँ स्वाहा ॥५॥ [[TODO: परिष्कायम्]]
इति मेधासूक्तेन चेत्येवमष्टात्रिंशन्मंत्रेष्वाद्याभ्यां पक्वं हुत्वा इतरैः षट्त्रिंशन्मन्त्रैराज्याहुतीरुपहुत्य स्विष्टकृदादिहोमशेषं समाप्य कलशस्थां देवीं पुनः पूजयित्वा सम्प्रार्थ्य शिष्यमुदङ्मुखमुपवेश्य तस्मिन्देवीमावाह्य “आपो हि ष्ठा" इति तिसृभिः, “हिरण्यवर्णाः" इति चतसृभिः, “पवमानः सुवर्जनः" इत्येतेनानुवाकेन सरस्वत्यादिसूक्तत्रयेण च कलशोदकैस्तमभिषिच्य गन्धादिभिरलंकृत्य वनौषधिरसमिश्रं सम्पातमाज्यं “शिरो मे श्रीः" इत्यादिभिः “कामान् समर्धयन्तु" इत्यन्तैश्चतुर्वारमुक्तैः क्रमेण व्याहृतिचतुष्टययोजितैः स्वाहान्तैः प्राशयेत् -
ॐ शिरो मे श्रीः ॥ यशो मुर्खम् ॥ त्विषः केशांश्च श्मश्रूणि ॥ राजा मे प्राणोमृतम् ॥ सम्राट् चक्षुः ॥ विराट्टोत्रम् ॥ जिह्वा मे भद्रम् ॥ वाङ्महः ॥ मनो मन्युः ॥ स्वराङ्भामः ॥ मोदाः प्रमोदा अंगुलीरंगानि ॥ चित्तं मे सहः ॥ बाहू मे चलमिन्द्रियम् ॥ हस्तौ मे कर्मवीर्यम् ॥ आत्मा क्षत्रमुरो मम ॥ पृष्टीमें राष्ट्रमुदरम सौ ॥ ग्रीवाश्च श्रोण्यौ ॥ ऊरू अरत्नी जानुनी ॥ विशो मेंगानि सर्वतः ॥ नाभिर्मे चित्तं विज्ञानम् ॥ पायुर्मेपचितिर्भसत् ॥ आनन्दनन्दावाण्डौ मे ॥ भगः सौभाग्यं पसः ॥ जंघाभ्यां पद्भ्यां धर्मास्मि ॥ विशि राजा प्रतिष्ठितः ॥ प्रति क्षत्रे प्रतितिष्ठामि राष्ट्र ॥ प्रत्यश्वषु प्रतितिष्ठामि गोषु ॥ प्रत्यंगेषु प्रतितिष्ठाम्यात्मन् ॥ प्रतिपाणेषु ॥ प्रतितिष्ठामि पुष्टे ॥ प्रतिद्यावापृथिव्योः ॥ प्रतितिष्ठामि यज्ञे॥ त्रया देवा एकादश ॥ त्रयस्त्रिँशाः सुराधसः ॥ बृहस्पतिपुरोहिताः ॥ देवस्य सवितुः सवे ॥ देवा देवैरवन्तु मा ॥ प्रथमा द्वितीयैः ॥ द्वितीयास्तृतीयैः ॥ तृतीयाः सत्येन ॥ सत्यं यज्ञेन ॥ यज्ञो यजुर्भिः॥ यजूँषि सामभिः ॥ सामान्यृग्भिः ॥ ऋचो याज्याभिः ॥ याज्या वषट्कारैः ॥ वषट्कारा आहुतिभिः॥ आहुतयो मे कामान्त्समर्धयन्तु ॥ भूः स्वाहा ॥ [[TODO: परिष्कायम्]]
एवमेव “शिरो मे श्रीः" इत्यारभ्य “समर्धयन्तु” इत्यन्तमुक्त्वा “भुवः॒ स्वाहा॑” ॥ पुनस्तथैवोक्त्वा ।
सुवः॒ स्वाहा॑ ॥ भूर्भुव॒स्सुवः॒ स्वाहा॑
इत्येवं चतुर्भिश्चतुर्वारं प्राशयेत् ॥ ततो विनायकं वाग्देवीं हरिं लक्ष्मीं स्वविद्यां सूत्रकारं च सम्पूज्य द्विजान् दक्षिणादिभिः सन्तोष्य सूर्यमुपस्थायाष्टोत्तरशतं गायत्रीं जप्त्वा कृतब्रह्मांजलिमुदङ्मुखोपविष्टं शिष्यं गुरुः प्रणवपूर्वकं गायत्रीं पछोर्धर्चशोऽनवानमुक्त्वा पूर्वोक्तप्रकारेण किंचिद्वेदमध्यापयेत् ॥
-
यज्ञोपवीतोपलक्षितमुपाकर्मेत्यर्थः ॥ ↩︎
-
मिथुनार्करहितायामाषाढ्यां कार्यमिति पुरुषार्थचिन्तामणावुक्तम् ॥ ↩︎
-
पञ्चगव्यं ब्रह्मकूर्चमिति नार्थान्तरम् , धर्मसत्रे पञ्चगव्यस्य ब्रह्मकूर्चत्वेनाऽभिधानात् ॥ ↩︎
-
गोमूत्रादीनां स्थापनेऽपि क्रमः प्रोक्त प्र॰ मालायाम् -
“गोमूत्रं स्थापयेत्पूर्वे गोमयं दक्षिणे तथा ।
पश्चिमे तु पयश्चैव उत्तरे दधि कीर्तितम् ॥
मध्यमे तु घृतं स्थाप्यं वायव्ये तु कुशोदकम्इति ॥ ↩︎
-
सर्वेऽपि मण्डलेषु पृथक्पृथक् देवर्षिपितॄन्पूजयेयुः, आचार्य एव वा सर्वैरन्वारब्धः पूजयेत् ॥ ↩︎
-
देवानां सकृत्सकृत्, ऋषीणां द्विर्द्विः, पितॄणां त्रिस्त्रिस्तर्पणमिति ज्ञेयम् ॥ ↩︎
-
नान्दीसमाराधनमाद्यविवाहान्तं पित्रादिभिरेव कार्यमिति नान्दीप्रकरणोक्तं सर्वत्र न विस्मरणीयम् ॥ ↩︎
-
“यज्ञोपवीतमन्त्रेण हुत्वाग्नावुपवीतकम् ।
दत्वा तु गुरवे नूत्नं धृत्वा स्वाध्यायमाचरेत्”इति स्मृत्यन्तरे ॥ ↩︎
-
‘संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः’ ॥ ↩︎