॥ अथोपनयनम् ॥ ( आहुतः ) अथाऽधुना द्विजत्वसम्पादको ऋष्यृणापनोदक उपनयनविधिरभिधीयते ॥ ( बो. गृ. सू. २.५ )
अथाहुतः । गर्भाष्टमेषु ब्राह्मणमुपनयीत गर्भेकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम् । आषोडशाद्ब्राह्मणस्याऽनात्यय इति । एवमेवेतरयोः द्वाविंशतिश्च चतुर्विंशतिश्च । अथाऽपि काम्यानि भवन्ति- सप्तमे ब्रह्मवर्चसकाममष्टम आयुष्कामं नवमे तेजस्कामं दशमेऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकामं त्रयोदशे मेधाकामं चतुर्दशे पुष्टिकामं पञ्चदशे भ्रातृव्यवन्तं षोडशे सर्वकाममिति । वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यं वर्षासु रथकारमिति । सर्वानेव वा वसन्ते ॥ ॰ मौञ्जीं ब्राह्मणस्य ज्यामौर्वीं राजन्यस्य आवीसूत्रं वैश्यस्य । सर्वेषामेव वा मौञ्जीम्॥ ॰ कृष्णाजिनं ब्राह्मणस्य रौरवं राजन्यस्य बस्ताजिनं वैश्यस्य । सर्वेषां वा कृष्णाजिनम् ॥ ॰ अथास्मै दण्डं प्रयच्छति - पालाशं बैल्वं वा ब्राह्मणस्य नैयग्रोधं स्कन्दजमवाङ्ग्रं रौहीतकं वा राजन्यस्य बादरमौदुम्बरं वा वैश्यस्य । सर्वेषां वा वार्क्षम् ॥ ‘सोमोसि सोमपं मा कुरु’ इति पालाशम् । ‘ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वा’ इति बैल्वम् । ‘ओजोस्योजो मयि धेहि’ इति नैयग्रोधम् । ‘बलमसि बलं मयि धेहि’ इति रौहीतकम् । ‘पुष्टिरसि पुष्टिं मयि धेहि’ इति बादरम् । ‘ऊर्गस्यूर्जं मयि धेहि’ इत्यौदुम्बरम् ॥ ॰ स मातरमेवाऽग्रे भिक्षेत । भवति भिक्षां देहीति ब्राह्मणो भिक्षेत । भिक्षां भवति देहीति राजन्यः । देहि भिक्षां भवतीति वैश्यः ॥ ॰ त्र्यहमेतमग्निं धारयन्ति । प्रसिद्धं सन्ध्यामुपासीत - नम ईशानाय नमो गोपितृदेवेभ्य इति । अथ गुरूनभिवादयते मातरं पितरं भ्रातरं मातुलमाचार्यमन्यांश्च विशेषांस्त्रिवर्षपूर्वान् । क्षारलवणवर्जमधश्शय्या च ॥ ॰ अथाऽधो नाभ्युपरि जान्वाच्छाद्य दण्डमजिनं मेखलाञ्च धारयन् श्राद्धसूतकमैथुनमधुमांसानि वर्जयन् भैक्ष्याऽऽहारोऽधश्शायी चाऽऽचार्यस्य गृहानेतीति विज्ञायते आचार्यो वै ब्रह्मेति ।
(बो. ध. सू. १. ३. २)
आषोडशादाद्वाविंशादाचतुर्विंशादनात्यय एषां क्रमेण
इति ॥ ॥ मनुः -
ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्याऽर्थार्थिनोऽष्टमे
इति ॥ ॥ वसन्तस्य विवरणं हेमाद्रौ -
व्रतस्य बन्धे यदि वाखिलानां माघादयः पञ्च भवन्ति मासाः
इति ॥ तथा च पञ्चमादिषोडशान्ता वत्सराः माघादयः पञ्च मासाश्च ब्राह्मणानामुपनयनकालः, तत्राप्यष्टमवर्षपर्यन्तं मुख्यः कालस्तदनन्तरं गौणः षोडशादूर्ध्वन्तु पतितसावित्रीका भवन्तीति विज्ञायते ॥ ॥ अथात्रोपनयने बटोर्गोचरे गुरुबलमावश्यकम् ॥
सर्वेषां गुरुचन्द्रक्षबलं श्रेष्ठं प्रकीर्तितम् ।
मौञ्जीबन्धे विवाहे च प्रतिष्ठायां विशेषतः
इति सं॰ मालायां राजमार्तण्डोक्तेः ॥ गुरुबलं चोक्तं मुहूर्तचिन्तामणौ –
बटुकन्याजन्म राशेस्त्रिकोणायद्विसप्तगः ।
श्रेष्ठो गुरुः खषट्त्र्याद्ये पूजयान्यत्र निन्दितः
इति ॥ राशिविशेषस्थस्य गुरोरष्टमादिस्थितावपि न क्षतिरित्याह सं॰ मालायां भरद्वाजः -
धनुर्मीनकुळीरस्थी जीवो जन्मान्त्यमृत्युगः ।
अतिसौख्यं बटोः कुर्याद्वसिष्ठवचनं यथा
इति ॥ मुख्यकाले बलहीनोऽपि गुरुः शान्त्या शुभदो भवति न पुनर्गौणकाले इत्याह नारदः -
बालस्य बलहीनोऽपि शान्त्या जीवो बलप्रदः ।
यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम्
इति ॥ शान्त्यभावेऽपि मीनचैत्रे तत्प्रशस्यत इत्युक्तं निर्णयसिन्धौ -
शुद्धिर्नैव गुरोर्यस्य वर्षे प्राप्तेऽष्टमे यदि ।
चैत्रे मीनगते भानौ तस्योपनयनं शुभम्
इति ॥ ॥ अथाऽयनमासाऽदिनिर्णयः सं॰ मालायाम् —
विप्रस्य क्षत्रियस्याऽपि मौञ्जी स्यादुत्तरायणे ।
दक्षिणे तु विशां कुर्यान्नानध्याये न सङ्क्रमे
इति वृद्धवासिष्ठः ॥
मृगकुम्भगते भानौ मध्यमं मीनमेषयोः ।
उत्तमं गोयुगस्थेऽर्के ह्यधमं चोपनायनम्
इति बृहस्पतिः ॥
न जन्मधिष्ण्ये न च जन्ममासे न जन्मकालीयदिने विदध्यात् ।
न ज्येष्ठमासि प्रथमस्य सूनोस्तथा सुताया अपि मङ्गलानि
इतिवृत्तशते ॥
ज्येष्ठे मासि विशेषेण ज्येष्ठपुत्रस्य नैव हि ।
मौञ्जीबंधं प्रकुर्वीत कृतश्चेन्मृत्युदो भवेत्
इति गर्गः ॥ जन्ममासे वर्ज्यदिनान्याह नि॰ राजमार्तण्डः -
जातं दिन दूषयते वसिष्ठो ह्यष्टौ च गर्गो नियतं दशाऽत्रिः ।
जातस्य पक्षं किल भागुरिश्च शेषाः प्रशस्ताः खलु जन्ममासि ॥
जन्ममासे तिथौ भे च विपरीतदले सति ।
कार्यं मङ्गलमित्याहुर्गर्गभार्गवशौनकाः
इति ॥
जन्ममासतिथिलग्नतारकाराशिषृपनतिरग्रजन्मनां
इत्यविशेषेण ब्राह्मणानां जन्ममासादिकं विदधाति मुहूर्तमालाकारः ॥ मुहूर्तचिन्तामणौ च -
जन्मर्क्षमासलग्नादौ व्रते विद्याधिको व्रती ।
आद्यगर्भेऽपि विप्राणां क्षत्रादीनामनादिमे
इति विशेषः प्रोक्तः ॥ ॥ अथ पक्षादिकमुक्तं प्र॰ पारिजाते -
शुक्ले पक्षे निर्मले शीतभानौ शुक्रे जीवे चाऽम्बरे दृश्यमाने ।
शाखाधीशे शक्तियुक्तेऽनुकूले राशावृक्षे स्याच्छिशोर्मौञ्जिबन्धः
इति ॥
ऋगादीनां क्रमेणेशा जीवशुक्रारसोमजाः
इति ज्योतिषे ॥ कृष्णपक्षेऽपि ग्राह्यांशमाह बृहस्पतिः -
शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना
इति ॥ ॥ अथ वर्ज्यतिथयः ॥ प्रयोगपारिजाते -
रिक्ताषष्ठीपर्वतिथीरनध्यायांश्च वर्जयेत् ।
नष्टे चन्द्रेष्टमे शुक्रे निरंशे1 चैव भास्करे ॥
कर्तव्यं नोपनयनं नानध्याये गलग्रहे
इति ॥ ॥ अनध्यायाश्चोक्ता मुहूर्तमालायाम् -
अनध्यायाः स्मृता भूतत्रयाष्टम्यर्कसङ्क्रमाः ।
शुक्रद्वीशार्कदिक्तिथ्यः शुक्रपौषतपःशुचेः
इति ॥ भूतत्रयं - चतुर्दश्यादितिथित्रयम् ॥ नैमित्तिकाऽनध्यायाश्चोक्ता निर्णयसिन्धौ -
अष्टकासु च सर्वासु युगमन्वन्तरादिषु ।
अनध्यायं प्रकुर्वीत तथा सोपपदास्वपि
इति ॥ सोपपदास्तु तत्रैवोक्ताः -
सिता ज्येष्ठे द्वितीया च आश्विने दशमी सिता ।
चतुर्थी द्वादशी माघे एताः सोपपदाः स्मृताः
इति ॥ गलग्रहाश्चोक्तास्तत्रैव -
कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम् ।
त्रयोदशीचतुष्कञ्चेत्यष्टावेते गलग्रहाः
इति ॥ अत्राऽनध्यायेष्वपि ग्राह्यतिथीराह तत्रैव व्यासः -
या चैत्रवैशाखसिता तृतीया माधे च सप्तम्यथ फाल्गुनस्य ।
कृष्णे द्वितीयोपनये प्रशस्ताः प्रोक्ता भरद्वाजमुनीन्द्रमुख्याः
इति ॥ सोपपदाश्च याजुषाणां न दोषावहा इत्यप्युक्तं तत्रैव -
वेदव्रतोपनयने स्वाध्यायाध्ययने तथा ।
न दोषो यजुषां सोपपदास्वध्ययनेऽपि च
इति ॥ वसन्ते गलग्रहदोषोऽपि नास्तीत्याह तत्रैव नारदः -
विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे ।
अपराह्णे चोपनीतः पुनस्संस्कारमर्हति
इति ॥ ॥ अथ वारानाह सं॰ मालायां नारदः -
सर्वेषां जीवशुक्रज्ञवाराः प्रोक्ता व्रते शुभाः ।
चन्द्रार्कौ मध्यमौ ज्ञेयौ सामबाहुजयोः कुजः ॥
शाखाधिपतिवारश्च शाखाधिपबलं तथा ।
शाखाधिपतिलग्नञ्च दुर्लभं त्रितयं व्रते
इति ॥ ॥ अथ नक्षत्राण्याह विद्यामाधवः -
चित्रामित्रवसूत्तरादितिविधिब्रध्नेन्दवः पूजिताः
पुष्याऽन्त्याऽच्युतवारुणाऽश्विमरुतो मध्या द्वितीयोद्भवेः ॥
क्षोणीमङ्गलसामिधेन्यमरराट्सङ्ख्यातिथिर्निन्दिता
त्याज्योऽनध्ययनोऽखिलोऽपि समयः शुक्लेऽपि षष्ठी शुभा
इति ॥ मुहूर्तमालायाञ्च -
व्रतबन्धोऽग्निपित्र्येन्द्रद्वीशयाम्याम्बुपं विना ।
कुजार्की च विना कार्यो द्वित्रीष्वर्केशदिक्तिथौ ॥
ऋग्वेदिनां मूलपूर्वाऽऽश्लेषाऽद्रेन्दुकरत्रये ।
यजुर्विदां ध्रुवान्त्येज्यमित्रादित्येन्दुहस्तभे
इति । अथाऽत्र ग्राह्यलग्नानि फलतो निर्दिशति विद्यामाधवः -
मूको विद्वान्बोधवान वेदवादी शिल्पी धीमान् लब्धवाणिज्यवृत्तिः ।
पापी पूज्यः शूद्रको राजदूतः शास्त्रार्थज्ञः स्याच्च मेषादिलग्ने
इति ॥ अथान्यदपि चौलप्रकरणोक्तं व्यतीपातगुलिकादिमहादोषवर्जनं मातृरजःकालवर्जनादिकञ्चाऽत्राऽनुसन्धेयम् ॥
॥ अथोपनेतारः ॥ सं॰ रत्नमालायां गर्गः -
पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः ।
उपनायेऽधिकारी स्यात्पूर्वाभावे परः परः
इति ॥
पितैवोपनयेत्पुत्रं तदभावे पितुः पिता ।
तदभावे पितुर्भ्राता तदभावे तु सोदरः
इति च ॥ एतेषामभावे आचार्य उपनयेत् ॥ तत्र नान्दीश्राद्धे उपनेयस्य पित्रादीनवोद्दिशेत् ॥
असगोत्रः सगोत्रो वा य आचार्य उपानयेत् ।
तदोपनेयपित्रादीनुद्दिश्याऽभ्युदयं चरेत् ॥
कन्योद्वाहेऽप्ययं मार्गो मुनिभिः परिकीर्तितः
इति तत्रैव विश्वप्रकाशोक्तेः ॥
उपनयनोपयोगिपदार्थाः
अथोपनयनोपयोगिपदार्थाः ॥ सं॰ रत्नमालायां यमः -
मेखलामजिनं दण्डमुपवीतं च सर्वदा ।
कटिसूत्रं च कौपीनं ब्रह्मचारी तु धारयेत्
इति ॥ तत्रादौ कौपीनं धार्यम् ॥ तल्लक्षणमुक्तं स्मृत्यर्थसारे -
कौपीनमहतं धार्यं खण्डं वा वस्त्रपार्श्वयुक्
इति ॥ आचार्यबोधायनस्तु परिधानार्थं वस्त्रं प्रोक्तवान् – (बो. गृ. सू. २. ५)
अथैनं तिष्ये वासः सद्यः कृत्वोदङ्परिधापयन् वाचयति
इति ॥ तत्र वस्त्रं विशिनष्ट्यापस्तम्बः -
वासांसि शाणक्षौमाविकानि काषायकञ्चैके वस्त्रमुपदिशन्ति ब्राह्मणस्य
इति ॥ आश्वलायनोऽपि -
काषायं ब्राह्मणो माञ्जिष्टं क्षत्रियो हारिद्रं वैश्यः
इति ॥ सत्याषाढस्तु –
अथैनमहतं वासः परिधापयति
इत्याह ॥ अहतलक्षणवाह सं॰ मालायां प्रचेताः –
ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् ।
अहतं तद्विजानीयात् सर्वकर्मसु पावनम्
इति ॥ अथ मेखलाः ब्राह्मणक्षत्रियवैश्यानां क्रमेणोक्ताः - (वो. ध. सू. १. ३)
मौञ्जीधनुर्ज्या शाणीति मेखलाः
इति ॥ तत्रानुकल्पमाह मनुः -
मुञ्जाऽभावे तु कर्तव्याः कुशाश्मन्तकबल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा
इति ॥ ॥ अजिनानि ब्राह्मणादिक्रमेणोक्तानि – ( बो. घ. सू. १. ३ )
कृष्णरुरुबस्ताजिनान्यजिनानि
इति ॥ इदञ्चाजिनमुत्तरीयार्थं धार्यम् ॥ प्रावरणपर्याप्तस्याऽस्य पुनरलाभे विशेषमाह सं॰ मालायां शाकलः -
अखण्डं वा त्रिखण्डं वाऽष्टाचत्वारिंशदङ्गुलम् ।
चतुरङ्गुलविस्तीर्णं धारयेदजिनं सदा
इति ॥ खण्डत्रयमानं च तत्रैवोक्तम् -
त्र्यङ्गुलन्तु बहिर्लोम यद्वास्याच्चतुरङ्गुलम् ।
अजिनं धारयेद्विप्रश्चतुर्विंशाष्टषोडशैः
इति ॥ चतुर्विंशत्यङ्गुल एकः, अष्टाङ्गलो द्वितीयः, षोडशाङ्गुलस्तृतीयः, एवं त्रिभिः खण्डैरष्टाचत्वारिंशदङ्गुलमजिनं धार्यमित्यर्थः ॥ गृ॰ सङ्ग्रहे तु –
कार्ष्णरौरवबास्तानि चाणि स्युस्त्रिवर्णतः ।
कृष्णाजिनं वा सर्वेषामायामाद्युपवीतवत् ॥
कनिष्ठिकार्धविस्तारं त्र्यङ्गुलं वाऽग्रजन्मनः ।
वर्णक्रमाच्चतुस्त्रिद्विच्छिद्रैस्तु दृढसन्धिमत् ॥
दक्षिणावृत्तलोमैतच्छिशुं तं प्रतिमोचयेत्
इत्युक्तम् ॥ ॥ अथ दण्डाः - ( बो. ध. सू. १. ३)
मूर्धललाटनासाग्रप्रमाणा याज्ञियवृक्षस्य दण्डाः
इति ॥ गृ॰ सङ्ग्रहे तु –
याज्ञियाश्चाऽपि सर्वेषामव्रणा ऋजवः शुभाः ।
अनुद्वेगकरा नॄणां सत्वचो नाऽग्निदूषिताः ॥
शिरोललाटनासाग्रैस्ते च वर्णक्रमान्विताः
इति विशेष उक्तः ॥
उपवीतम्
॥ अथोपतिम् ॥ तत्र श्रुतिः -
दक्षिणं बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावीतँ संवीतं मानुषम्
इति ॥ (बो. ध. सू. १. ८)
कौशं सौत्रं वा त्रिस्त्रिवृद्यज्ञोपवीतमानाभेर्दक्षिणं बाहुमुद्धृत्य सव्यमवधाय शिरोऽवदध्यात् ॥ विपरीतं पितृभ्यः ॥ कण्ठेऽवसक्तं निवीतम् । अधोऽवसक्तमधोवीतम्
इति ॥ (बो. गृ. प. सू. २. २ )
कथमु खलु यज्ञोपवीतं विजानीयात् । तदेतद्दक्षिणस्य हस्तस्याऽधस्ताद्भवति योऽयं दक्षिणो हस्तः स यज्ञः इति ‘यज्’ इत्ययं शब्दो देवपूजासङ्गतिकरणदानेषु यस्मादेतानि कुर्वते तस्माद्यज्ञः । वाग्यज्ञस्तस्याऽग्निरधिदैवतं स चात्र यतस्तस्माद्यज्ञोपवीतम् । यश्चायमङ्गुष्ठस्स विष्णुस्स यज्ञस्याऽधिदैवतं तस्माच्च भवतीति, तीर्थत्वाच्च । वागेव यज्ञो यद्धाचा वदति तदनेन निर्वर्तयतीति
इति ॥ (बो. गृ शे. सू. २. ७)
तन्तुद्विगुणितं सूत्रं विष्णुना त्रिगुणीकृतम् ।
चतुर्वेदस्य चत्वारि त्रिवेदस्य त्रिकं भवेत् ॥
द्वे स्यातां वै द्विवेदस्य एकमेवैकवेदिनः
इति ॥ तत्र मनुः -
कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्
इति । देवलस्तु -
कार्पासक्षौमगोवालशाणवल्कतृणादिकम् ।
यथा सम्भवतो धार्यमुपवीतं द्विजातिभिः
इति ॥ तत्प्रमाणादिकं सं॰ मालायाम् -
नाभेरूर्ध्वमनायुष्यमधो नाभेस्तपः क्षयः ।
तस्मान्नाभिसमं कुर्यादुपतिं विचक्षणः
इति वासिष्ठः2 ॥
उपवीतं बटोरेकं द्वे तथेतरयोः स्मृते ।
एकमेव यतीनां स्यादिति शास्त्रस्य निश्चयः
इति देवलः ॥ गृ॰ सङ्ग्रहेऽपि -
स्तनादूर्धमधोनाभेर्न धार्यं तत्कथञ्चन ।
ब्रह्मचारिण एकं स्यात् स्नातकप्रभृति द्वयम् ॥
एकवेदस्य चैकं स्यादिति वा वेदसङ्ख्यया ॥
बहूनि चायुष्कामस्येत्यादि काम्यं प्रचक्षते
इति ॥
तृतीयमुत्तरीयार्थं वस्त्राऽभावे तदिष्यते
इति स्मृत्यर्थसारे ॥ उपवीतधारणे विशेषस्तत्रैव -
ब्रह्मसूत्रेऽपसव्येंऽसे स्थितं यज्ञोपवीतिता ।
प्राचीनाचीतिता सव्ये कण्ठस्थे तु निवीतिता
इति ॥ स्मृतिसारसमुच्चये -
तिलकं ब्रह्मसूत्रञ्च पाद्यमाचमनीयकम् ।
तिष्ठन्नपि यदा कुर्यात्सद्यः शूद्रो भवेद्विजः
इति शाट्यायनिः ॥
यज्ञोपवीतग्रहणमाभिमन्त्र्य प्रदापितम् ।
उपविश्यैव तद्धार्यं शास्त्रस्यैवं विनिश्चयः
इति गालवः ॥ वैद्यनाथीयेऽपि -
उपविश्याऽऽसने दार्भे प्राणानायम्य वाग्यतः ।
मन्त्रं सदैवमुच्चार्य ब्रह्मसूत्रं गले क्षिपेत् ॥
गृहस्थस्य वनस्थस्य सूत्रं प्रति पुनः पुनः ।
मन्त्रोच्चारणमाचामो द्वितयं क्रमशः स्मृतम्
इति भारद्वाजः ॥ यज्ञोपवीतपदाभिधेयत्वमुक्तं गृ॰ संग्रहे -
यज्ञाख्यः परमात्मा य उच्यते चैव होतृभिः ।
उपवीतं यतोऽस्येदं तस्माद्यज्ञोपवीतकम्
इति ॥ छेदविनाशादौ तद्विसृज्य पुनर्नवं धार्यमित्युक्तं गृ॰ सङ्ग्रहे -
विच्छिन्नं वाप्यधो यातं भुक्त्वा निर्मितमुत्सृजेत्
छेदे विनाशे वा स्नातः कन्यया निर्मितं शुभम् ।
विधवाद्याभिरथवा सूत्रं गृह्णीत वै शुचिः
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्येद्विनष्टानि गृहीत्वाऽन्यानि मन्त्रवत्
इति ॥ अथोपवीतकरणमाह सं॰ मालायां भृगुः -
त्रिवृदूर्ध्ववृतं कुर्यात्तन्तुत्रयमधोवृतम् ।
त्रिवृतं तूपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते
इति ॥ स्मृत्यर्थसारेऽपि -
शुचौ देशे शुचिः सूत्रं संहताङ्गुलिमूलके ।
आवेष्ट्य षण्णवत्या तत्रिगुणीकृत्य यत्नतः ॥
अब्लिङ्गकैस्त्रिाभिस्सम्यक्प्रक्षाळ्योर्ध्ववृतं तु तत् ।
अप्रदक्षिणमावृत्य सावित्र्या त्रिगुणीकृतम् ॥
अधः प्रदक्षिणावृत्तं समं स्यान्नवसूत्रकम् ।
त्रिरावेष्ट्य दृढं बध्वा हरिब्रह्मेश्वरान्नमेत् ॥
यज्ञोपवीतं परममिति मन्त्रेण धारयेत् ।
सूत्रं सलोमकं चेत्स्यात्ततः कृत्वा विलोमकम् ।
सावित्र्या दश कृत्वोऽद्भिर्मन्त्रिताऽभिस्तदुक्षयेत्
इति ॥
यज्ञोपवीतविधिः
(बो. गृ. शे. सू. २..७ ) – अथ यज्ञोपवीतविधिः - शुचिराचम्य शुद्धया ब्राह्मणकन्यकया ब्राह्मणविधवया वा शुचि स्नातया कृताचमनीयया निर्मितं सूत्रं गृहीत्वा ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य चतुरङ्गुलमात्रं षण्णवतिसूत्रं परिमण्डलं वा द्वितीयमेवं तृतीयमद्भिः प्रक्षाळ्य ‘आपो हि ष्ठा’ इति तिसृभिः ‘हिरण्यवर्णाश्शुचयः’ इति चतसृभिः पवमानः सुवर्जन’ इत्येतेनाऽनुवाकेन च मार्जयित्वा शुचौ देशे याज्ञिकवृक्षशाखायामवलम्ब्य सजीवं बध्नाति - “पितृभ्यो नमः” इति ॥ अथ संव्यहस्ते3 मृदं गृहीत्वा
ॐ भूः प्रतिष्ठापयामि । ॐ भुवः प्रतिष्ठापयामि । ॐ सुवः प्रतिष्ठापयामि । ॐ भूर्भुवस्सुवः प्रतिष्ठाप यामि
इति प्रतिष्ठाप्य व्याहृतीभिः पत्रपुष्पफलदूर्वास्तत्र निक्षिप्य करतलं त्रिस्सन्ताड्याऽपसव्यं वलितं कुर्वञ्जपति -
भूर्भुव स्सुवः । ओजो बलम् । ब्रह्म क्षत्रम् । यशो महत् । सत्यं तपो नाम । रूपममृतम् । चक्षुः श्रोत्रम् । मन आयुः । विश्वं यशो महः । समं तपो हरो भाः । जातवेदा यदि वा पावकोऽसि। वैश्वानरो यदि वा वैद्युतोऽसि । शं प्रजाभ्यो यजमानाय लोकम् । ऊर्ज पुष्टिं । का दर्ददम्याववृत्स्व [[TODO: परिष्कार्यम्]]
इत्येतमनुवाकम् ॥ अथ सावित्र्या पुनस्त्रिगुणीकृत्य प्रदक्षिणं वलितं कुर्वन्नभिमन्त्रयते -
ॐ भूरग्निञ्च पृथिवीञ्च माञ्च । त्रीँश्च लोकान्संवत्सरञ्च । प्रजापतिस्त्वा सादयतु । तया देवतयाऽऽङ्गिरस्वत्ध्रुवा सीद [[TODO: परिष्कार्यम्]]
इति दक्षिणावृत्तिम् ॥
भुवो॑ वा॒युञ्चा॒ऽन्तरि॑क्षञ्च॒ माञ्च॑ । श्रीँश्च॑ लो॒कान्॰ सी॑द
इति मध्यमाम् ॥
स्व॑रादि॒त्यञ्च॒ दिव॑ञ्च॒ माञ्च॑ । त्रीँश्च॑ लो॒कान्॰ सी॑द
इत्युत्तराम् ।
भूर्भुव॒स्व॑श्च॒न्द्रम॑सञ्च॒ दिश॑श्च॒ माञ्च॑ । त्रिँश्च॑ लो॒कान्॰ सी॑द
इति त्रिधाऽवृत्तिञ्च ॥ ततस्त्रिरावेष्ट्य दृढं ग्रन्थिं करोति -
यथा॑ नः॒ श्रेय॑सः॒ कर॒द्यथा॑ नो॒ वस्य॑सः॒ कर॒द्यथा॑ नः पशु॒मतः॒ कर॒द्यथा॑ नो व्यवसा॒यया॑त्
इति ॥ “ॐ भूः प्रतिष्ठापयामि” इत्यादिभिः पुनः प्रतिष्ठाप्य
उ॒शन्त॑स्त्वा हवामह उ॒शन्तः॒ समि॑धीमहि । उ॒शन्नु॑ श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे
इति जपित्वा प्रदक्षिणतो दृढं करोति ॥ अथ वर्तित्रयं ब्रह्मविष्णुमहेश्वरात्मकं विभाव्य
ओङ्कारोऽग्निश्च नागश्च सोमः पितृप्रजापती ।
वायुः सूर्यो विश्वदेवा इत्येते तन्तुदेवताः
इत्युक्तदेवतास्तत्राऽऽवाह्य सम्पूज्य प्रणम्य “देवस्य त्वा॰ हस्ताभ्यामाददे” इति तदादाय “उद्वयं” इत्यादित्यं दर्शयित्वा
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपतिं बलमस्तु तेजः [[TODO: परिष्कार्यम्]]
इति मन्त्रेण धारयेत् ॥ ॥ अनेन विधिना यज्ञोपवीतनिर्माणाऽसम्भवे तूष्णीमेव निर्मितं यज्ञोपवीतं पूर्वोक्तमन्त्रैरभिमन्त्र्य धारयेत् ॥
राजन्यवैश्ययोरुपनयनम्
राजन्यवैश्ययोरुपनयनम् ॥ (बो. गृ. शे. सू. २.८ )
अथ राजन्यवैश्ययोरुपनयनं प्रसिद्धम् । एतावदेव नाना । आचार्य एव पक्वाज्जुहोति । ब्रह्मसूत्रमवोध्दृत्य त्रिष्टुग्भी राजन्यस्य
जिघर्भ्यग्निम्, आ त्वा जिघार्मि, आयुर्दा अग्ने हविषो जुषाणः
इति ॥ जगतीभिर्वैश्यस्य
जनस्य गोपा अजनिष्ट जागृविः, त्वामग्ने मानुषीरीडते विशः, सप्त ते अग्ने समिधः सप्त जिह्वाः
इति । वैश्यस्य रथकारस्यैतावदेव नानाऽऽचार्य एव पक्वाज्जुहोति - ‘तत्सवितुर्वरेण्यम्’ इति । अथाज्याहुतीरुपजुहोति - ‘क्षेत्रियै त्वा निर्ऋत्यै त्वा’ इति षड्भिरनुच्छंदसम् । नात्र जगतीभिर्वैश्यस्य जुहोति ॥ अथाग्रेणाग्निं हुतशेषं दत्वा विरमेत् । ब्राह्मणेन क्षत्रियायामुत्पन्नो ब्राह्मणवदेवैतावदेव नाना । तस्य ‘क्षेत्रियै त्वा’ इति व्याहृतीभिश्चेत्युपहोमः । क्षत्रियवदम्बष्ठस्य ‘क्षेत्रियै त्वा’ इत्येवोपहोमः । क्षत्रियाद्वैश्यायामुत्पन्नः क्षत्रियवदेव ‘क्षेत्रियै त्वा’ सावित्र्या चोपहोमः । वैश्याच्छूद्रायामुत्पन्नस्तूष्णीं वैश्यवत् ॥
गायत्री त्रिष्टुब्जगत्यः
तत्सवितुर्वरेण्यम्, आसत्येन, युञ्जते मनः
इति सावित्र्यो यथाक्रमं ब्राह्मणक्षत्रियवैश्यानाम् ॥
उपनयनप्रयोगः
अथोपनयनप्रयोगः ॥ कर्ता पूर्वेद्युः पत्न्या संस्कार्येण च सहितः प्रातर्मङ्गलस्नानं कृत्वा सन्ध्यौपासनादि नित्यकर्मविधानान्ते वैश्वदेवं हुत्वा पवित्रपाणिराचम्य देशकालौ सङ्कीर्त्य
मम कुमारकस्य श्वःकरिष्यमाणोपनयनाङ्गतया विहितं स्वस्तिपुण्याहवाचनपूर्वकं मातृकापूजनं नान्दीसमाराधनं कुलदेवतास्थापनञ्च करिष्ये
इति सङ्कल्प्य, निर्विघ्नता सिध्यर्थं गणपतिं सम्पूज्य
नान्दीमुखाः पितरः प्रीयन्ताम्
इति पुण्याहं वाचयित्वा मातृकापूजनं नान्दीश्राद्धं कुलदेवतास्थापनञ्च कृत्वा रात्रावङ्कुरार्पणमुदकशान्तिप्रतिसरवन्धौ च कृत्वा श्वोभूते कृतस्नानादिचतुष्टयो दर्भासने प्राङ्मुख उपविश्य स्वदक्षिणतो भार्यां तद्दक्षिणतः संस्कार्य च तथैवोपवेश्य पवित्रपाणिराचम्य प्राणानायम्य देशकालो सङ्कीर्त्य
मम कुमारकस्योपनयनं कर्तुमादौ शान्त्यर्थं पुष्ट्यर्थं तुष्ट्यर्थं वृध्यर्थमभ्युदयार्थं चैभिर्ब्राह्मणैः सह स्वस्तिपुण्याहवाचनं निर्विघ्नतासिध्यर्थं गणपतिपूजनञ्च करिष्ये
इति सङ्कल्प्य, गणपतिं सम्पूज्य “मेधाकरेन्द्रः प्रीयताम्" इति पुण्याहं वाचयित्वा, उपनेतृत्वाधिकारार्थं कृच्छ्रत्रयं कृत्वा4 गायत्र्युपदेशाधिकारसिध्यर्थं द्वादशसहस्रगायत्रीजपं स्वयं वा ब्राह्मणद्वारा वा कुर्यात् ॥ अथाचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम कुमारकस्य द्विजत्वसिद्धिपूर्वकवेदाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमुपनयनाख्यं कर्म करिष्ये
इति संकल्प्य, कुमारं ब्रह्मचारिभिः सह भोजयित्वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य देवयजनं कल्पयित्वा मङ्गलानि संस्तीर्य, तत्पश्चादाचार्यः स्वयं प्राङ्मुख उपविश्य स्वाग्रतः कुमारं प्रत्यङ्मुखमुपवेश्य तस्य चौलवतूष्णीं केशानोप्य स्नातं5 शुचिवाससं मङ्गलतिलकालंकृतं बद्धशिखं बद्धकौपीनं6 तं कुमार मङ्गलासने प्राङ्मुखमुफ्वेश्य तूष्णीं द्विराचमय्य
कामचारकामवादकामभक्षणदोषपरिहारद्वारा उपनेयत्वाधिकारसिद्ध्यर्थं कृच्छ्रत्रयं तत्प्रत्याम्नायहिरण्यद्वारा करिष्ये
इति संकल्पपूर्वकं कुमारेण कृच्छ्रत्रयं कारयित्वा आचार्यो देशकालसंकीर्तनपूर्वकमस्य कुमारकस्य श्रौतस्मातकर्मानुष्ठानयोग्यतासिद्ध्यर्थं ब्रह्मतेजोऽभिवृध्यर्थं यज्ञोपवीतं धारयिष्ये, इति संकल्प्य (कुमारेणापि मम श्रौतस्मार्तकर्मानुष्ठानयोग्यतासिध्यर्थं यज्ञोपवीतधारणमहं करिष्ये इति संकल्प कारयित्वा) निर्विघ्नतासिध्यर्थं गणपतिं सम्पूज्य भुक्तवद्भ्यो ब्रह्मचारिभ्यो गोपीचन्दनयज्ञोपवीतफलदक्षिणादिकं7 दत्त्वाचार्यो विधिवन्निर्मितं यज्ञोपवीतं ज्योतिर्विद्भिर्मङ्गलाष्टके पठ्यमाने आचान्तं कुमारं प्रतिमुञ्चन्वाचयति -
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिर्मुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः [[TODO: परिष्कार्यम्]]
इति ॥ ततो यथाचारं ब्राह्मणाः श्रद्धामेधाप्रज्ञाभिवृध्यर्थं श्रद्धासूक्तब्रह्मसूक्तमेधासूक्तादिभिः कुमारमभिमन्त्रयेयुः । तेभ्यो यथाशक्ति फलहिरण्यादिकं दद्यात् ॥ अथैनं यज्ञोपवीतिनं कुमारं मन्त्रवदाचमय्य दक्षिणे हस्ते गृहीत्वा “स्वस्ति पन्थामनुचरेम" इत्यादि मङ्गलमन्त्रघोषपुरस्सरं देवयजनमुदानयति । तत्र स्थडिलात्पश्चिमभागे स्वस्य दक्षिणतः कुमारं प्राङ्मुखमुपवेश्य स्वयं च प्राङ्मुख उपविश्य देवयजनोल्लेखनप्रभृति लौकिकाग्निं प्रतिष्ठाप्याचम्य प्राणानायम्य देशकालौ संकीर्त्य
मम कुमारकस्य द्विजत्वसिध्या वेदाध्ययनाधिकारसिध्यर्थमुपनयनहामं करिष्ये
समित्रयमादायउपनयनहोमः कर्म, आघारवत्तन्त्रम्, पञ्चदशदारुरिष्माः, अग्नीषोभावाज्यभागौ, जातवेदा नामाग्निः, मेधाकरेन्द्रो देवता, चरुर्हविः, आग्निः स्विष्टकृत्,
इत्याद्यन्वाधाय पात्रासादनकाले
अश्मानं दण्डमजिनं8 वस्त्रं मौञ्जी समिद्दळम्9 ।
व्रतार्थं समिधश्चेति10 सादयेत्सह पात्रकैः
इति कारिकोक्तपात्राण्यासाद्य प्रोक्षणीसंस्काराद्यग्निमुखान्तं कृत्वा पालाशीं समिधमाज्येनाङ्क्त्वाभ्याधापयन् वाचयति -
ॐ आयुर्दा देव जरसं गृणानो घृतप्रतिको घृतपृष्ठो अग्ने । धृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमँ स्वाहा [[TODO: परिष्कार्यम्]]
इति । (आयुर्दाग्नय इदं॰) । अथैनमुत्थाप्याग्न्याचार्यावन्तरेण नीत्वाग्नेरुत्तरतः सादितमश्मानं दक्षिणेन पदा आस्थापयति -
आति॑ष्ठे॒ममश्मा॑नमश्मे॑व॒ त्वँ स्थि॒रो भे॑व । अ॒भिति॑ष्ठ पृतन्य॒तः सह॑स्व पृतनाय॒तः [[TODO: परिष्कार्यम्]]
इति ॥ यथेतं पुनरानीय वास उदक्परिधापयन् वाचयति -
या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तानभितोऽददन्त ॥ तास्त्वा देवीर्जरसा संध्ययन्वा युष्मानिदं परिधत्स्व वासः [[TODO: परिष्कार्यम्]]
इति । परिहितमनुमन्त्रयते -
परिधत्त धत्त वाससैनँ शतायुषं कृणुहि दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥ जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावा ॥ शतञ्च जीव शरदस्सुवर्चा रायश्च पोषमुपसंव्ययस्व । परीदं वासो अधि धाः स्वस्तयेऽभूरापीनामभिशस्तिपाा ॥ शतञ्च जीव शरदः पुरुचीर्वसूनि चार्यों विभजासि जीवन्” [[TODO: परिष्कार्यम्]]
इति । अथैनं मौञ्जीं मेखलां त्रिवृतां त्रिः प्रदक्षिणं परिव्ययन् वाचयति -
इयं दुरुक्तात्परिबाधमाना शर्म वरूथं पुनती न आगात् । प्राणापानाभ्यां बलमाभरन्ती प्रिया देवाना सुभगा मेखलेयम् [[TODO: परिष्कार्यम्]]
इति ॥
परिवीतामनुमन्त्रयते -
ऋतस्य गोप्त्री तपसः परस्पी घ्नती रक्षस्सहमाना अरातीः ॥ सा नस्समन्तमनुपरी हि भद्रया भर्तारस्ते मेखले मा रिषाम [[TODO: परिष्कार्यम्]]
इति ॥ नाभिदेशे ग्रन्थिं करोति -
प्राणानां ग्रन्थिरसि स मा॑ विस्र॒सः
इति । अथास्मै चतुरङ्गुलविस्तीर्णमुत्तरलोमाजिनं प्रतिमुञ्चन् वाचयति -
मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थविरँ समिद्धम् । अनाहनस्य वसनं जरिष्णु परीदं वाज्यजिनं दधेऽहम् [[TODO: परिष्कार्यम्]]
इति ॥ अथास्मै पालाशं बैल्वं वा शिरस्सम्मितं दण्डं प्रयच्छन् वाचयति -
सोमो॑ऽसि॒ सोम॑पं मा कुरु
इति पालाशम् ॥ बैल्वं11 चेत्
ब्र॒ह्म॒व॒र्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा
इति ॥ अथाचार्यः कुमारं पृच्छति - ‘को नामासि’ इति । ‘हरिशर्मास्मि’ इति कुमारः स्वनाम निर्दिशन्प्रतिवदेत् ॥ अथैनमाचार्यो दक्षिणे हस्ते गृह्णाति -
यस्मिन्भूतं च भव्य च सर्वे लोकाः समाहिताः । तेन गृह्णामि त्वामहं मह्यं गृह्णामि त्वामहं प्रजापतिना त्वा मह्यं गृह्णामि हरिशर्मन् [[TODO: परिष्कार्यम्]]
इति सम्बुध्यन्तं बटोर्नाम निर्दिशेत् । अथैनं देवताभ्यः परिददाति -
देवेभ्यस्त्वा परिददामि विश्वदेवेभ्यस्त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वाभ्यस्वा देवताभ्यः परिददामि हरिशर्मन् [[TODO: परिष्कार्यम्]]
इति ॥ ततो ज्योतिर्विदादिष्टे सुमुहूर्ते द्विजमङ्गलाशीर्भिरभिनन्दितं कृपादृष्यानुगृहीतं बटुमात्मनोङ्कसम्मुखमुपनयते12 -
दे॒वस्य॑ त्वा॰ हस्ता॑भ्या॒मुप॑नये हरिशर्मन्
इति ॥ किञ्चित्कालं तन्मुखं सम्यगीक्षेत । अथ कुमारो यथास्थानमुपविश्य पक्वाज्जुहोति -
ॐ यश्छन्दसामृषभो विश्वरूपश्छन्दोभ्योऽध्यमृतात्सम्बभूव । समेन्द्रो मेधया स्पृणोत्वमृतस्य देव धारणो भूयासों ३ यश्छन्दसामृषभो॰ भूयासँ स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ (मेधाकरेंद्रायेदं॰) ॥ अथाचार्यः स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -
ॐ क्षेत्रियै त्वा निर्ऋत्यै त्वा । द्रुहो मुञ्चामि वरुणस्य पाशात् ॥ अनागसं ब्रह्मणे त्वा करोमि । शिवे ते द्यावापृथिवी उभे इमे स्वाहा ॥ ब्रह्मणे द्यावापृथिवीभ्यामिदं॰ ॥ ॐ शन्ते अग्निः सहाद्भिरस्तु । शं द्यावापृथिवी सहौषधीभिः ॥ शमन्तरिक्षँ सह वातेन ते । शं ते चतस्रः प्रदिशो भवन्तु स्वाहा ॥ (अग्नये द्यावापृथिवीभ्यामन्तरिक्षाय दिग्भ्य इदं॰) ॥ ॐ या दैवीश्चतस्रः प्रदिशः । वातपत्नीरभिसूर्यो विचष्टे ॥ तासां त्वा जरस आदधामि । प्रयक्ष्म एतु निऋतिं पराचैः स्वाहा ॥ (दिग्भ्यो वातपत्नीभ्य इदं॰) ॥ ॐ अमोचि यक्ष्माद्दुरितादवर्त्यै । दुहः पाशान्निऋत्यै चोदमोचि ॥ अहा अवर्ति मविदत्स्योनम् । अप्यभूद्भद्रे सुकृतस्य लोके स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ सूर्यमृतं तमसो ग्राह्या यत् । देवा अमुञ्चन्नसृजन्व्येनसः । एवमहमिमं क्षेत्रियाज्जामिशँसात् । दुहो मुश्चामि वरुणस्य पाशात्स्वाहा ॥ (देवेभ्य इदं॰) ॥ ॐ बृहस्पते युवमिन्द्रश्च वस्वः । दिव्यस्येशाथे उत पार्थिवस्य ॥ धत्तँ रयिँ स्तुवते करिये चित् । यूयं पात स्वास्तिभिः सदा नः स्वाहा ॥ (बृहस्पतय इन्द्रायेदं॰) ॥ [[TODO: परिष्कार्यम्]]
एवं ब्रह्मसूक्तेन -
ॐ ब्रह्म जज्ञानं॰ विवः स्वाहा ॥ सर्वत्र, (ब्रह्मण इदं॰) ॥ ॐ पिता विराजा॰ वर्धयन्तः स्वाहा ॥ ॐ ब्रह्म देवान्॰ आत्मना स्वाहा ॥ ॐ अन्तरस्मिन्निमे॰ स्पर्धितुँ स्वाहा ॥ ॐ ब्रह्मन्देवाः० नावीवान्तः समाहिताः स्वाहा ॥ ॐ चतस्त्र आशाः॰ आहुतीनाँ स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ अथ स्विष्टकृदाद्युत्तरपरिषेकात्प्राक्कृत्वाग्रेणाग्निं पलाशपर्णेषु हुतशेषं निदधाति-
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः [[TODO: परिष्कार्यम्]]
इति ॥ ततो बटुः13
मम गायत्रीग्रहणयोग्यतासिद्धयर्थं सावित्रीव्रतोपकमहोमं करिष्ये
इति सङ्कल्प्याग्निं परिषिच्यालंकृत्य पालाशीर्याज्ञिकानां वृक्षाणामन्यतमस्य वा पूर्वासादिताश्चतस्रो घृतान्वक्ताः समिधोऽभ्यादधाति । आचार्योऽभ्याधापयन् वाचयति -
ॐ अग्ने व्रतपते सावित्रं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा ॥ (अग्नये व्रतपतय इदं॰) ॥ ॐ वायो व्रतपते सावित्रं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा ॥ (वायवे व्रतपतय इदं॰) ॥ ॐ आदित्य व्रतपते सावित्रं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा ॥ (आदित्याय व्रतपतय इदं॰) ॥ ॐ व्रतानां व्रतपते सावित्रं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा ॥ (व्रतानां व्रतपतय इदं॰) ॥ [[TODO: परिष्कार्यम्]]
पुनः परिषिञ्चेत् ॥ अथाचार्योऽपरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन् प्राङ्मुख उपविशति -
रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दीमात्वद्यो॑षम्
इति ॥ कुमारस्तस्य पुरस्ताद्दर्भेषु प्रत्यङ्मुख आसीनो दक्षिणेन पाणिना गुरोर्दक्षिणं पादं सव्येन सव्यं पादञ्चोपसङ्गृह्य जानुभ्यामवनिं गत्वा ‘सावित्रीं भो अनुब्रूहि’ इत्याचार्यं प्रार्थयेत् । आथाचार्यस्तस्मै ‘ओम्’ इति प्रतिपद्य दक्षिणे कर्णे उपदिशति सावित्रीं पच्छोऽर्धर्चशः समस्तां प्रथमं पादादिषु14 तिस्रो व्याहृतीरथार्धर्चयोरादावाद्ये द्वे ततः कृत्स्नाया आदावुत्तमामित्येवं क्रमेण विहृता व्याहृतीः सप्रणवाः संयोज्य -
ॐ भूः तत्सवितुर्वरेण्यम्, ॐ भुवः भर्गो देवस्य धीमहि, ॐ सुवः धियो यो नः प्रचोदयात् ॥ ॐ भूः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । ॐ भुवः धियो यो नः प्रचोदयात् । ॐ सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् [[TODO: परिष्कार्यम्]]
इत्युपदिशेत् ॥ ततो बदुराचार्यमभिवाद्य तस्योत्तरत उपविश्य पक्वावशिष्टादामलकप्रमाणं हविरुपादाय प्राश्नाति -
शरीर मे विचर्षणम् । जिह्वा मे मधुमत्तमा ॥ कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः ॥ श्रुतं मे गोपाय [[TODO: परिष्कार्यम्]]
इति प्राश्याप उपस्पृश्याचम्यादित्यमुपतिष्ठते -
उद्वयं तमसस्परि॰ ज्योतिरुत्तमम्
इति ॥ अथैनमाचार्यः सँशास्ति - “ब्रह्मचार्यसि” इति ॥ ‘अस्मि’ इति बटुर्वदेत् । “अपोऽशान" इत्याचार्यः । ‘अश्नामि’ इति बदुः ॥ “कर्म कुरु” इत्याचार्यः ॥ ‘करिष्यामि’ इति बदुः ॥ “मा दिवा सुषुप्थाः” इत्याचार्यः ॥ ‘न स्वप्स्यामि’ इति बदुः ॥ “समिधमाधेहि" इत्याचार्यः ॥ ‘आधास्यामि’ इति बटुः ॥ “भैक्षाचर्यं चर” इत्याचार्यः॥ ‘चरिष्यामि’ इात बटुः ॥ “सदारण्यात्समिधमाहर” इत्याचार्यः ॥ ‘आहरिष्यामि’ इति बटुः ॥ " उदकुम्भञ्चाहर" इत्याचार्यः ॥ ‘आहारष्यामि’ इति बदुः ॥ “आचर्याधीनो वेदमधीष्व" इत्याचार्यः ॥ ‘अध्येष्ये’ इति बटुः ॥ एवमादिष्टो बदुः काले सर्वमनुतिष्ठेत् ॥ अथास्मा अरिक्तं पात्रं प्रयच्छन्नाह - “मातरमेवाग्रे भिक्षस्व” इति ॥ स बटुर्मातरमेवाग्रे भिक्षते - “भवति भिक्षां देहि” इति ॥ तथाऽप्रत्याख्यायिनीरन्या अपि भिक्षयित्वा तत्सर्वं समाहृत्याचार्याय प्राह – “भैक्षमिदम्” इति ॥ तत् “सुभेक्षम्" इत्याचार्यः प्रतिगृह्णाति ॥ अथोत्तरेणाग्निं तण्डुलपुञ्जे द्वे स्त्रीप्रतिकृती कृत्वा तयोः कमेण श्रद्धां मेधां चावाह्य “श्रद्धायै नमः, मेधायै नमः” इति गन्धमाल्यादिभियथोपपादमभ्यर्च्य त्रिवृतान्नेन हिरण्येन वा ब्राह्मणान्संपूज्य
अस्य श्रद्धामेधापूजाकर्मणः ॐ पुण्याहं भवन्तो ब्रुवन्तु ॥ ॐ स्वस्ति भवन्तो ब्रुवन्तु ॥ ॐ ऋद्धिं भवन्तो ब्रुवन्तु ॥ श्रद्धामेधे प्रियेताम्
इति पुण्याहं वाचयित्वा श्रद्धामेधे उद्वास्योत्तरपरिषेकादिशेषं कर्म कृत्वा
अनेनोपनयनकर्मणा श्रीपरमेश्वरः प्रीयताम्
इति कर्मेश्वराय समर्पयेत् ॥
कृतस्य कर्मणः साङ्गता सिद्ध्यर्थं यावच्छक्ति ब्राह्मणान् भोजयिष्ये, यथाशक्ति दक्षिणां दातुमहमुत्सृजे
इति सङ्कल्प्य ब्राह्मणान् भोजयित्वा दक्षिणादिभिस्तोषयेत् ॥ ततः पुरन्ध्र्यो यथाचारं मङ्गलार्तिक्यं कुर्युर्ब्राह्मणाश्चाशिषो दद्युः ॥ ॥ ततो बटुराह्निककाण्डोक्तप्रकारेण मध्याह्नसन्ध्यांब्रह्मयज्ञञ्च15 विधायास्तमित आदित्ये सायंसन्ध्यानन्तरमग्निकार्यं कुर्यात् ॥ अग्निकार्यानन्तरं गुरुं मातरं पितरं मातुलमार्चायमन्यांश्च त्रिवर्षपूर्वानेवमेव क्रमेणाभिवादयेत्16 ॥ एवमुपक्रान्तसावित्रव्रतो बटुः सायंप्रातरग्निकार्यं कुर्वन् त्र्यहमेतमग्निं धारयेदक्षारलवणं च भुञ्जीताधः शयीत ॥
चतुर्थेऽहनि कृत्यम्
अथ चतुर्थेऽहनि प्रातः स्नानसन्ध्याग्निकार्याणि निर्वर्येतमग्निमादाय पलाशवृक्षमूलं गत्वाचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
ममोपनयनव्रताङ्गतया विहितं सुश्रवःपूजनं करिष्ये
इति सङ्कल्प्य
सुश्रवः सुश्रवसं मा कुरु यथा त्वँ सुश्रवः । सुश्रवा अस्येवमहँ सुश्रवः सुश्रवा भूयासं यथा त्वँ सुश्रवस्सुश्रवा देवानां निधिोपोऽस्येवमहं ब्राह्मणानां ब्रह्मणो निधिगोपो भूयासम्" [[TODO: परिष्कार्यम्]]
इति तं पलाशं प्रदक्षिणं परिसमूह्य गन्धादिभिरभ्यर्चयेत् ॥ अथ तस्याग्रेणोत्तरेण वा तमग्निं प्रतिष्ठाप्य प्राणानायम्य “सावित्रीव्रतविसर्जनहोमं करिष्ये” इति सङ्कल्प्याग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्याज्यस्थालीं स्रुवं प्रोक्षणीं च चतस्त्रः पालाशीः समिधश्चेत्यासाद्य संस्कृताभिः प्रोक्षणीभिः प्रोक्ष्याज्यं संस्कृत्य स्रुवं सम्मृज्याग्निमलंकृत्य “अथाव्रत्यप्रायश्चित्तं करिष्ये”, इति सङ्कल्प्य “यन्म आत्मनः, पुनरग्निः" इति द्वाभ्यां स्रुवाहुती हुत्वा चतस्रो घृतान्वक्ताः पालाशीः समिधोऽभ्यादधाति । आचार्योऽभ्याधापयन् वाचयति -
ॐ अग्ने व्रतपते सावित्रं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा, (अग्नये व्रतपतय इदं॰) ॥ ॐ वायो व्रतपते सावित्रं व्रतमैचारिषं॰ राधि स्वाहा, (वायवे व्रतपतय इदं॰) ॥ ॐ आदित्य व्रतपते सावित्रं॰ राधि स्वाहा, (आदित्याय व्रतपतय इंद॰) ॥ ॐ व्रतानां व्रतपते सावित्रं व्रतर्मचारिषं तदशकं तन्मे राधि स्वाहा, (व्रतानां व्रतपतय इदं॰) [[TODO: परिष्कार्यम्]]
इति ॥ पुनः पूर्ववत् सुश्रवसमभ्यर्च्य ब्राह्मणान् सम्पूज्य “सुश्रवाः प्रीयताम्" इति पुण्याहं वाचयित्वा अत्रैव पालाशवृक्षमूले दण्डमजिनं मेखलां वासश्च विसृज्याप उपस्पृश्यान्यानि मन्त्रवद्धारयेत् । उत्सृष्टं वास आचार्य आदत्ते -
यस्य ते प्रथमवास्यँ हरामस्तं त्वा विश्वे अनुमदन्तु देवाः । तं त्वा भ्रातरस्सुहृदो वर्धमानमनु जायन्तां बहवः सुजातम् [[TODO: परिष्कार्यम्]]
इति ॥ अथाग्निं पुनः परिषिच्य समिधमाधायोपस्थानादिकं कृत्वा तमग्निमात्मनि समारोपयते -
ॐ या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मानम् । अच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि॥ यज्ञो भूत्वा यज्ञमासीद स्वां योनिम् ॥ जातवेदो भुव आजायमानः सक्षय एहि [[TODO: परिष्कार्यम्]]
इति ॥ तं समारोपितमाग्निं पुनरग्निकार्यकाले -
उपावरोह जातवेदः पुनस्त्वम् । देवेभ्यो हव्यं वह नः प्रजानन् ॥ आयुः प्रजाँ रयिमस्मासु धेहि । अजस्रो दीदिहि नो दुरोणे, भूर्भुवस्सुवरोमग्निं प्रतिष्ठापयामि [[TODO: परिष्कार्यम्]]
इति लौकिकाग्नाववरोप्याग्निकार्यं कृत्वा तथैव समारोपयेत् ॥ अथाधो नाभ्युपरि जान्वाच्छाद्य दण्डमजिनं मेखलां च धारयन् श्राद्धसूतकमैथुनमधुमांसादिवर्जयन् भैक्षाहारोऽधःशायी चाचार्यस्य गृहानेतीति विज्ञायते ॥
उपनयनाऽग्निनाशे प्रायश्चित्तम्
अथ प्रसङ्गादुपनयनाग्निनाशे प्रायश्चित्तम् ॥ यद्युपनयनाग्निराचतुर्थाद्दिनादुद्वातः स्यात्तत्र प्रायश्चित्तम् -
अपहता असुरा रक्षाँ सि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः [[TODO: परिष्कार्यम्]]
इति सर्वं तद्भस्म प्रोक्ष्य
अयन्ते यो निर्ऋत्वियो यतो जातो अरोचथाः । ते जानन्नग्न आरोहाथानो वर्धया रयिम्" [[TODO: परिष्कार्यम्]]
इति तद्भस्म समिधि समारोप्य गोमयेनोपलिप्य स्थण्डिलोल्लेखनादिलौकिकाग्निं प्रतिष्ठाप्य तत्रैतां समिधमादधाति -
ॐ आजुह्वानः सुप्रतीकः पुरस्तादग्ने स्वां योनिमासीद साध्या । अस्मिन्त्सधस्थे अध्युत्तरस्मिन्विश्वेदेवा यजमानश्च सीदत ॥ उबुध्यस्वाग्ने॰ तन्तुमेतम् [[TODO: परिष्कार्यम्]]
इति द्वाभ्याम् ॥ ॥ अथ
आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्यास्मिन्नुपनयनव्रतमध्ये अग्न्युद्वातप्रायश्चित्तहामें करिष्ये, प्रायश्चित्तहोमः कर्म, अपूर्वं तन्त्रं, | चित्तिर्नामाग्निः, अग्न्यादयो देवताः, आज्यं हविः, सद्यो यक्ष्ये,
इति सङ्कल्प्याज्यसंस्कारान्तं कृत्वास्रुक्स्रुवं सम्मृज्याग्निमलंकृत्य व्याहुतीर्तुत्वा प्रायश्चित्ताज्याहुतीर्जुहोति - “ॐ अ॒याश्चा॒ग्ने॰ भेष॒जँ स्वाहा॑” ॥ (अग्नये अयस इदं॰) ॥ अथ स्रुचि चतुर्गृहीतं गृहीत्वा पञ्चहोतारं जुहोति -
ॐ अग्निर्होता । अश्विनाध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता । सोमः सोमस्य पुरोगाः । शुक्रः शुक्रस्य पुरोगाः । श्रातास्त इन्द्र सोमाः । वातापेर्हवनः श्रुतः स्वाहा” [[TODO: परिष्कार्यम्]]
इति ॥ (वाचस्पतये ब्रह्मण इदं॰) ॥ अथ स्रुवेण दशात्मकान् जुहोति -
ॐ ब्राह्मण एकहोता । स यज्ञः । स में ददातु प्रजा पशून पुष्टिं यशः । यज्ञश्च मे भूयात् स्वाहा । (ब्रह्मण इदं॰) ॥ ॐ अग्निर्द्विहोता । स भर्ता । स मे ददातु॰ यशः । भर्ता च मे भूयात् स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ पृथिवी त्रिहोता । स प्रतिष्ठा । स मे॰ यशः । प्रतिष्ठा च मे भूयात् स्वाहा ॥ (पृथिव्या इदं॰) ॥ ॐ अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु॰ यशः । विष्ठाश्च मे भूयात् स्वाहा ॥ (अन्तरिक्षायेदं॰) ॥ ॐ वायुः पञ्चहोता । स प्राणः । स मे ददातु॰ यशः । प्राणश्च मे भूयात् स्वाहा ॥ (वायव इदं॰) ॥ ॐ चन्द्रमाः षड्ढोता । स ऋतून्कल्पयाति । स मे ददातु॰ यशः । ऋतवश्च मे कल्पन्ताँ स्वाहा ॥ (चन्द्रमस इंद॰) ॥ ॐ अन्नँ सप्तहोता । स प्राणस्य प्राणः । स मे ददातु॰ यशः । प्राणस्य च मे प्राणो भूयात् स्वाहा ॥ (अन्नायेदं॰) ॥ ॐ द्यौरष्टहोता । सोऽनाधृष्यः । स मे ददातु॰ यशः ॥ अनाधृष्यश्च भूयासँ स्वाहा॥ (दिव इदं॰) ॥ ॐ आदित्यो नवहोता । स तेजस्वी । स मे ददातु॰ यशः । तेजस्वी च भूयासँ स्वाहा ॥ (आदित्यायेदं॰) ॥ ॐ प्रजापतिर्दशहोता । स हदँ सर्वम् । स मे ददातु॰ यशः । सर्वञ्च मे भूयात् स्वाहा ॥ (प्रजापतय इदं॰) [[TODO: परिष्कार्यम्]]
इति ॥ एवमेव मनस्वतीं मिन्दाहुती महाव्याहृतीर्व्याहृतीश्च हुत्वा होमशेषं समापयेत्, इति ॥ ॥ अथोपनयनमध्ये मेखलाजिनवस्त्रोपवीतदण्डादीनां भङ्गदाहनाशादौ प्रायश्चित्तमुक्तं विश्वामित्रकारिकायाम् -
उपनीतिदिनादूर्वं चतुरह्नादधो यदि ।
मौञ्जीदण्डाजिनं सर्वमुपीताऽम्बराणि च ॥
भन्मदाहविनाशेषु शिशोरब्दान्मृतिर्भवेत् ।
चतुर्भिर्ब्राह्मणैस्सूत्रं जप्त्वा तस्य प्रदापयेत् ॥
अन्यानि पूर्ववद्धृत्वा प्रायश्चित्तमथाऽऽचरेत् ॥
क्षेत्रियै त्वा द्वादशभिरग्नेभ्यादिचतुष्टयैः ॥
महाव्याहृतिभिस्तद्वन्मिदाव्याहृतिभिस्तथा ।
विप्राय दक्षिणां दद्यात्कर्मशषं समापयेत्
इति।
जडबधिरमूकादीनामुपनयनप्रयोगः
अथ जडबधिरमूकाऽऽदीनामुपनयनप्रयोगः ॥ (बो. गृ. शे. सू. २. ९) नाऽत्र ऋतुनियमो विद्यते । पुण्ये नक्षत्रे पूर्ववन्नान्दीश्राद्धाऽऽदिकं कृत्वा तूष्णीं केशानोप्य स्नातं शुचिवाससमलङ्कृतं बद्धशिखं बद्धकौपीनं तूष्णीं यज्ञोपवीतं प्रतिमुच्याऽप आचमय्य देवयजनमुदानयति ॥ अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा याज्ञिकीं समिधमाज्येनाऽङ्क्त्वा तूष्णीमभ्याधापयति । तूष्णीमश्मानमास्थापयति । यथालाभं तूष्णीं वासः परिधापयति । तूष्णीं मेखलां परिव्ययति । मन्त्रवद्ग्रन्थिं करोति । तूष्णीमजिनं प्रतिमुञ्चति । तूष्णीं याज्ञिकस्य वृक्षस्य दण्डं प्रयच्छति । न नाम पृच्छति । अथैनं दक्षिणे हस्ते गृह्णाति - “यस्मि॑न्भू॒तञ्च॒॰ गृह्णामि” इति ॥ अथैनं देवताभ्यः परिददाति - “दे॒वेभ्य॑स्त्वा॒॰ परि॑ददामि” इति ॥ अथैनमुपनयति -
दे॒वस्य॑ त्वा सवि॒तुः॰ पू॒ष्णो हस्ता॑भ्या॒मुप॑नये
इति ॥ सर्वं नामग्रहणवर्जम् ॥ आचार्य एव सावित्र्या पक्वं हुत्वा ‘क्षेत्रियै त्वा’ इति षड्भिर्व्याहृतिभिश्चाज्याहुतीरुपहुत्य प्रागुत्तरपरिषेकात्कृत्वा याज्ञिकवृक्षपर्णेषु हुतशेषं मन्त्रवन्निदधाति ॥ अथ कुमारः पक्वादुपादाय तूष्णीमेव प्राश्नाति ॥ सर्वान्मन्त्रानाचार्य एव जपेदित्येके ॥ उत्तरपरिषेकादि शेषं समापयेत् ॥ ततस्तृतीयेऽहनि17 तूष्णीं मधुपर्कं दत्वा तमग्निमुत्सृजति -
आयु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णः
इति ॥ पिता वा भ्राता वा आत्मनि समारोपयेदित्येके ॥ एवमेव षण्डजडक्लीबाऽन्धव्यसनिव्याधितोन्मत्तहीनाङ्गबधिराधिकाङ्गाऽऽमयाव्यपस्मारिश्चित्रिकुष्ठिदीर्घरोगिणां संस्कारं कुर्यादित्येके ॥
पुनरुपनयनम्
अथ पुनरुपनयनम् ॥ तत्र निमित्तानि (बो. गृ. प. सू. १. १२)
अथोपनीतस्याऽव्रत्यानि भवन्ति ॥ नान्यस्योच्छिष्ट भुञ्जीताऽन्यत्र पितृज्येष्ठाभ्याम् ॥ न स्त्रिया सह भुञ्जीत ॥ मघुमांसश्राद्धसूतकाऽन्नमनिर्दशाहं सन्धिीक्षीरं छत्राकनिर्यासौ विलयनं गणान्नं18 गणिकान्नमित्येतेषु पुनस्संस्कारः ॥ प्रतिषिद्धगमनमित्येके ॥ अथाऽप्युदाहरन्ति -
सौराष्ट्र सिन्धुसौवीरमवन्तीं दक्षिणापथम् ।
एतानि ब्राह्मणो गत्वा पुनस्संस्कारमर्हति
इति ॥
तीर्थयात्रां विना गत्वा पुनस्संस्कारमर्हति
इति विशेषमाह वै॰ व्यासः ॥ (बो. ध. सू. २..१)
वपनव्रतनियमलोपश्च पूर्वाऽनुष्ठितत्वात् ॥
अथाऽप्युदाहरन्ति -
अमत्या वारुणीं पीत्वा प्राश्य मूत्रपुरीषयोः ।
ब्राह्मणः क्षत्रियो वैश्यः पुनस्संस्कारमर्हति
इति ॥ आपस्तम्बोऽपि -
अजिनं मेखलां दण्डं भैक्षाचर्याञ्च यस्त्यजेत् ।
पुनस्संस्कारमर्हेत्स विधिदृष्टेन कर्मणा
इति ॥ अत्र वर्ज्यान्याह बोधायनः ( बो. गृ. प. सू. १. १२)
वपनं दक्षिणादानं मेखला दण्डमजिनं भैक्षाचर्या व्रतानि निवर्तन्ते पुनस्संस्कारकर्मणि
इति ॥
प्रयोगः
अथ प्रयोगः – कर्ता प्रातः स्नानादिनित्यकर्म कृत्वा दर्भेषु प्राङ्मुख उपविश्य संस्कार्यं दक्षिणतस्तथैवोपवेश्य पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
अस्याऽमुकशर्मण उच्छिष्ट भोजनाऽऽद्यव्रत्येषु संभाविताऽमुकदोषनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुनरुपनयनं करिष्ये
इति सङ्कल्प्य गणपतिं सम्पूज्य “अग्निः प्रीयताम्” इति पुण्याहं वाचयित्वा देवयजनोल्लेखनादि लौकिकाग्निं प्रतिष्ठाप्य पुनः “उपनयनहोमं करिष्ये, इति सङ्कल्प्य ।
जातवेदा नामाऽग्निः, अग्निः सप्तवान्देवता, चरुर्हविः,
इत्याद्यन्वाधायाऽग्निमुखान्तं कृत्वा पालाशीं समिधमाज्येनाऽङ्क्त्वाऽभ्याधापयति -
ॐ पुन॑स्त्वाऽऽदि॒त्याः॰ कामाः॒ स्वाहा॑
इति । (वसुनीथायेदं॰) ॥ अथाऽव्रत्यप्रायश्चित्तं जुहोति - “यन्म॑ आ॒त्मनः॑, पुन॑र॒ग्निः” इति द्वाभ्याम् ॥ अथ पक्वाज्जुहोति -
स॒प्त ते॑ अग्ने॰ घृ॒तेनों ३ स॒प्त ते॑ अग्ने॰ घृ॒तेन॒ स्वाहा॑
इति । (अग्नये सप्तवत इदं॰) ॥ अथाऽवत्ते स्विष्टकृत्याज्याहुतीरुपजुहोति -
ॐ येन देवाः पवित्रेण॰ पुनन्तु मा स्वाहा । (पावमानीभ्य इदं॰) ॥ ॐ प्राजापत्यं॰ ब्रह्म पुनीमहे स्वाहा । (ब्रह्मण इदं॰) ॥ ॐ इन्द्रः सुनीती॰ मोर्जयन्त्या पुनातु स्वाहा । (इन्द्राय सुनीत्या सहिताय सोमाय स्वस्त्या सहिताय वरुणाय समीच्या सहिताय यमाय राज्ञे प्रभृणाभिः सहिताय जातवेदस ऊर्जयन्त्या सहितायेदं॰) [[TODO: परिष्कार्यम्]]
इति ॥ ततः स्विष्टकृदादि होमशेषं समापयेत् ॥ इति ॥
अथाऽपदः - आ परिधानात्कृत्वा पालाशीं समिधमाधायाव्रत्यप्रायश्चित्ताऽऽहुती हुत्वा व्याहृतीर्जुहुयात्, इति ॥ ॥ अथाऽपरः - ब्राह्मणाऽनुज्ञया सावित्र्या शतवारमभिमंत्रितं घृतं प्राश्नीयात्, गुरोरुच्छिष्टं वा भुञ्जीत, कृतप्रायश्चित्तो भवति ॥ इति ॥
उपवीतनाशे प्रायश्चित्तम्
अथोपवीतनाशे प्रायश्चित्तम् ॥ तदाह सं॰ मालायां हारीतः -
मनोव्रातपतीभिश्चतस्त्र आज्याहुतीर्तुत्वा पुनः प्रतीयात्
इति ॥ अथ प्रयोगः - उपवीतस्थाने वस्त्रं वा सूत्राऽन्तरं धृत्वा स्नातः शुचिराचम्य देशकालौ सङ्कीर्त्य
मम यज्ञोपवीतनाशजनितप्रत्यवायपरिहारार्थं प्रायश्चित्तहोमं करिष्ये
इति सङ्कल्प्याऽपूर्वतन्त्रेण स्थण्डिलोल्लेखनादि चित्तिनामानमग्निं प्रतिष्ठाप्याऽज्यसंस्काराऽन्तं कृत्वा स्रुवं सम्मृज्याऽग्निमलंकृत्य प्रायश्चित्ताज्याहुतीर्जुहोति -
ॐ मनो ज्योतिः॰ घृतेन स्वाहा ॥ (मनसे ज्योतिष इदं॰) ॥ ॐ त्वमग्ने व्रतपा असि देव आ मर्येष्वा । त्वं यज्ञेष्वीड्यः स्वाहा ॥ (अग्नये व्रतपतय इदं॰) ॥ ॐ यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति स्वाहा ॥ (अग्नये व्रतपतय इदं॰) ॥ ॐ व्रतानुबिभ्रद्व्रतपा अदाभ्यः । यजानो देवाँ अजरस्सुवीरः ॥ दधद्रत्नानि सुविदानो अग्ने । गोपायनो जीवसे जातवेदः स्वाहा ॥ (अग्नये व्रतपतय इदं॰) [[TODO: परिष्कार्यम्]]
इति हुत्वा होमशेषं समाप्य पुनर्नूतनं विधिवदभिमन्त्रितमुपवीतं धारयेत् इति ॥ स्मृतिरत्नावल्या तु -
उपवीतविनाशे तु गायत्र्या जुहुयात्तिलम् ।
अष्टोत्तरसहस्रं वाऽप्यष्टोत्तरशतं तु वा
इत्युक्तम् ॥ यज्ञोपवीते वामस्कन्धावरोपिते कूर्परस्थानं गते मणिबन्धस्थानं गते वा तद्यज्ञोपवीतं पूर्वस्थाने निवेश्य यथाक्रम त्रिवारं षड्वारं द्वादशवारं प्राणायामं कुर्यात् ॥ वामहस्तव्यतीते तु तद्विसृज्य पुनर्नूतनं यज्ञोपवीतं विधिवद्धारयेत् इत्युक्तं सं॰ मालायाम् ॥ इत्युपवीतनाशप्रायश्चित्तम् ॥
ब्रह्मचारिधर्माः
॥ अथ प्रसङ्गाद्ब्रह्मचारिधर्माः केचन निरूप्यन्ते ॥ (बो. ध. सू. १. ३) अष्टाचत्वारिंशद्वर्षाणि पौराणं वेदब्रह्मचर्यम् ॥ चतुर्विंशति द्वादशं वा प्रतिवेदम् ॥ संवत्सरावमं वा प्रतिकाण्डम् ॥ ग्रहणान्तं वा ॥ जीवितस्याऽस्थिरत्वात् ॥ कृष्णकेशोऽग्नीनादधीतेति श्रुतेः ॥
नाऽस्य कर्म नियच्छन्ति किञ्चिदामौञ्जिबन्धनात् ।
वृत्या शूद्रसमो ह्येष यावद्वेदेषु जायत
इति ॥ ते ब्राह्मणाद्यास्स्वकर्मस्थाः ॥ सदाऽरण्यात्समिध आहृत्याऽऽदध्यात् ॥ सत्यवादी ह्रीमाननहङ्कारः ॥ पूर्वोत्थायी जघन्यसंवेशी (गुरोः स्यादिति शेषः) ॥ सर्वत्राऽऽप्रतिहतगुरुवाक्योऽन्यत्र पातकात् ॥ यावदर्थसम्भाषी स्त्रीभिः ॥ नृत्तगीतवादित्रगन्धमाल्योपानच्छत्रधारणाञ्जनाभ्यञ्जनवर्जी ॥ दक्षिणं दक्षिणेन सव्यं सव्येन चोपसगृह्णीयाद्दीर्घमायुः स्वर्गञ्चेच्छन् ॥ ‘असावहं भो’ इति श्रोत्रे संस्पृश्य मनस्समाधानार्थम् ॥ अधस्ताज्जान्वोरा पद्भ्याम् ॥ नाऽऽसीनो नाऽऽसीनाय न शयानो न शयानाय नाऽप्रयतो नाऽप्रयताय ॥ काममन्यस्मै साधुवृत्ताय गुरुणानुज्ञातः ॥ शक्तिविषये मुहूर्तमपि नाऽप्रयत स्यात् ॥ समिद्धार्युदकुम्भपुष्पान्नहस्तो नाऽभिवादयेद्यञ्चाऽन्यदप्येवं युक्तम् ॥ न समवायेऽभिवादनमत्यन्तशः ॥ भ्रातृपत्नीनां युवतीनां च गुरुपत्नीनां जातवीर्यः ॥ नौशिलाफलककुञ्जरप्रासादकटकेषु चक्रवत्सु चाऽदोषं सहाऽऽसनम् ॥ प्रसाधनोच्छादनस्नापनोच्छिष्टभोजनानीति गुरोः ॥ उच्छिष्टवर्जं तत्पुत्रेऽनूचाने वा ॥ प्रसाधनोच्छादनस्नापनोच्छिष्टवर्जं च तत्पत्न्याम् ॥ धावन्तमनुधावेद्गच्छन्तमनुगच्छेत् तिष्ठन्तमनुतिष्ठेत् ॥ नाऽप्सु श्लाघमानस्स्नायात् ॥ दण्ड इव प्लवेत् ॥ अब्राह्मणादध्ययनमापदि । शुश्रूषाऽनुव्रज्या च यावदध्ययनम् ॥ तयोस्तदेव पावनम् ॥ भ्रातृपुत्रशिष्येषु चैवम् ॥ ऋत्विकच्छ्वशुरपितृव्यमातुलानां तु यवीयसां प्रत्युत्थायाऽभिभाषणम् ॥ प्रत्यभिवाद इति कात्यः ॥ शिशावाङ्गिरसे दर्शनात् ॥ ( बो. ध. सू. १. ४ )
धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा ।
विद्यया सह मर्तव्यं न चैनामूषरे वपेत् ॥अग्निरिव कक्षं दहति ब्रह्मपृष्ठमनादृतम् । तस्माद्वै शक्यं न ब्रूयाद्ब्रह्म मानमकुर्वतामिति ॥ अत्रैवाऽस्मै वचो वेदयन्ते । ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत्तस्मै ब्रह्मचारिणमेव न प्रायच्छत् सोऽब्रवीदस्तु मह्यमप्येतस्मिन्भाग इति यामेव रात्रि समिधं नाऽऽहराता इति ॥ तस्माद्ब्रह्मचारी यां रात्रि समिधं नाऽऽहरति आयुष एव तामादाय वसति ॥ तस्माद् ब्रह्मचारी समिधमाहरेन्नेदायुषोऽवदाय वसानीति ॥ दीर्घसत्रं ह वा एष उपैति यो ब्रह्मचर्यमुपैति ॥ स यामुपयन्समिध आदधाति सा प्रायणीयाऽथ यां स्नास्यन्सोदयनीयाऽथ या अन्तरेण सत्र्या एवाऽस्य ताः ॥ ब्राह्मणो ह वै ब्रह्मचर्यमुपयंश्चतुर्धा भूतानि प्रविशत्यग्निं पदा मृत्युं पदाऽऽचार्यं पदाऽऽत्मन्येव चतुर्थः पादः परिशिष्यते । स यदग्नौ समिधमादधाति य एवाऽस्याग्नौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशति । अथ यदाऽऽत्मानं दरिद्रीकृत्याह्रीर्भूत्वा भिक्षते ब्रह्मचर्यं चरति य एवाऽस्य मृत्यौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशति । अथ यदाऽऽचार्यवचः करोति य एवाऽऽऽस्याचार्ये पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशति । अथ यत्स्वाध्यायमधीते य एवाऽस्याऽऽत्मनि पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशति । न ह वै स्नात्वा भिक्षेताऽपि ह वै स्नात्वा भिक्षां चरत्यपि ज्ञातीनामशनायाऽपि पितॄणामन्याभ्यः क्रियाभ्यः । स यदन्यां भिक्षितव्यां न विन्देताऽपि वा स्वामेवाऽऽचार्यजानां भिक्षेताऽथो स्वां मातरं नैनं सप्तम्यभिक्षिताऽतीयात् ॥ भैक्षस्याऽचरणे दोषः पावकस्यासमिन्धने । सप्तरात्रमकृत्वैतदव कीर्णिव्रतं चरेत् ॥ तमेवं विद्वांसमेव चरन्तं सर्वे वेदा आविशन्ति ॥ यथा ह वा अमिस्समिद्धो रोचत एवं ह वा एष स्नात्वा रोचते य एवं विद्वान्ब्रह्मचर्यं चरतीति ब्राह्मणमिति ब्राह्मणम्
इति ॥
अवकीर्णिलक्षणम्
अवकीर्णिलक्षणम् ॥ ( बो. ध. सू. २. १)
यो ब्रह्मचारी स्त्रियमुपेयात्सोऽवकीर्णी ॥
(बो. ध. सू. २. १३ )
गृहस्थो ब्रह्मचारी वा योऽनश्नंस्तु तपश्चरेत् ।
प्राणाग्निहोत्रलोपेन ह्यवकीर्णी भवेत्तु सः ॥
॥ अवकीर्णिप्रायश्चितम् ॥ ( बो. ध. सू. ४. २ )
अथाऽवकीर्ण्यमावास्यायां निश्यग्निमुपसमाधाय दार्विहोमिकीं परिचेष्टां कृत्वा द्वे आज्याहुती जुहोति -
कामाऽवकीर्णोऽस्म्यवकीर्णोऽस्मि काम कामाय स्वाहा ॥ कामाऽभिदुग्धोऽस्म्यभिदुग्धोऽस्मि काम कामाय स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ हुत्वा प्रयताऽञ्जलिः कवातिर्यङ्ङग्निमुपतिष्ठते -
सं मा सिञ्चतु मरुतस्समिन्द्रस्सं बृहस्पतिः । सं माऽयमग्निसिञ्चत्वायुषा च बलेन चाऽऽयुष्मन्तं करोतु मे [[TODO: परिष्कार्यम्]]
इति ॥ प्रति हाऽस्मै मरुतः प्राणान्दधति प्रतीन्द्रो बलं प्रति बृहस्पतिर्ब्रह्मवर्चसं प्रत्यग्निरितरत्सर्वं सर्वतनुर्भूत्वा सर्वमायुरेति । त्रिरभिमन्त्रयेत । त्रिषत्या हि देवा इति विज्ञायते । योऽपूत इव मन्येत आत्मानमुपपातकैः । स हुत्वैतेन विधिना सर्वस्मात्पापात्प्रमुच्यते ॥
प्र॰ पारिजाते मनुः -
उपनीय गुरु शिष्यं शिक्षयेच्छौचमादितः ।
आचारमग्निकार्यञ्च सन्ध्योपासनमेव च
इति ॥ यमः -
मेखलामजिनं दण्डमुपवीतञ्च नित्यशः ।
कौपीनं कटिसूत्रञ्च ब्रह्मचारी तु धारयेत् ॥
अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् ।
आसमावर्तनात्कुर्यात्कृतोपनयनो द्विजः
इति ॥ याज्ञवल्क्योऽपि -
मधुमांसाञ्जनोच्छिष्टशुक्लस्त्रीप्राणिहिंसनम् ।
दर्पणाऽलोकनाऽश्लीलपरिवादान् विवर्जयेत्
इति ॥ ॥ व्याधितस्य मध्वादिभक्षणे न दोषः ॥ ( बो. ध. सू. २. १)
स चेद्व्याधीयीत कामं गुरोरुच्छिष्टं भैषज्यार्थे सर्वं प्राश्नीयात् ॥ येनेच्छेत्तेन चिकित्सेत ॥ स यदा गदी स्यात्तदुत्थायाऽऽदित्यमुपतिष्ठते ‘हँसः शुचिषत्’ इत्येतया
इति ॥ सं॰ मालायां बृहस्पतिरपि -
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्
इति ॥ मनुश्च विशेषमाह -
अभ्यङ्गमञ्जनं चाऽक्ष्णोरुपानच्छत्रधारणम् ।
कामं क्रोधञ्च लोभञ्च नर्तनं गीतवादनम् ।
द्यूतञ्च जनवादञ्च परिवादं तथाऽनृतम् ।
स्त्रीणाञ्च प्रेक्षणाऽऽलम्भमुपघातं परस्य च ॥
एकः शयीत सर्वत्र न रेतस्कन्दयेत्क्वचित्
इति ॥ सं॰ मालायां दक्षोऽप्याह -
ब्रह्मचर्यं सदा रक्षेदष्टधा लक्षणं पृथक् ।
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ॥
सङ्कल्पोऽध्यवसायश्च क्रिया निष्पत्तिरेव च ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥
वैपरीत्ये ब्रह्मचर्यं नष्टं प्राह प्रजापतिः ।
अन्यच्च -
न ध्यातव्यं न वक्तव्यं न श्रोतव्यं कथञ्चन ॥
एतैस्सर्वैस्सुनिष्णातो यतिर्भवति नान्यथा
इति ॥ अन्यदप्याह तत्रैव देवलः -
ब्रह्मचारी न कुर्वीत शवदाहादिकाः क्रियाः ।
यदि कुर्याच्चरेत्कृच्छ्रं पुनस्संस्कारमेव च
इति ॥ ( बो. ध. सू. २. १. २४ )
ब्रह्मचारिणश्शवकर्मणा व्रताऽऽवृत्तिरन्यत्र मातापित्रोराचार्याच्च ॥
आह च मनुः -
आचार्यं स्वमुपाध्यायं मातरं पितरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतं व्रतेन न वियुज्यते
इति ॥ गालवः -
गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरेत् ।
प्रेताऽऽहारैः समं तत्र दशरात्रेण शुध्यति
इति ॥ संवर्तोऽपि -
मातापित्रोरुपाध्यायाऽऽचार्ययोरौर्ध्वदेहिकम् ।
कुर्यान्मातामहानाञ्च व्रती न भ्रश्यते व्रतात्
इति ॥ ॥ इति ब्रह्मचारिधर्माः॥
-
“राशेः प्रथमभागस्थो निरंशः सूर्य उच्यते” इति सं॰ मालायाम् ॥ ↩︎
-
‘नाभेरधोऽवसक्तं’ इत्यर्थः । एतदेव संवीतं मानुषं इति चोच्यते। अञ्जनाभ्यञ्जनोद्वर्तनादिषु मनुष्य कार्येषु तथा कर्तव्यम् ॥ [[TODO: पादटिप्पनीस्थानम् ऊहितम् ]] ↩︎
-
“सव्ये मृदं गृहीत्वाऽस्मिन्स्थापयेद्भूरिति ब्रुवन् ।
पत्रं पुष्पं फलञ्चात्र व्याहृतीभिः प्रनिक्षिपेत् ॥
त्रिस्ताडयेत्करतलं देवानामपि तृप्तये ।
भ्रमता वेक्षितव्यं तु पितॄणां तृप्तिदं हि तत्”इति गृ॰ सङ्ग्रहे ॥ ↩︎
-
“कृच्छ्रत्रयञ्चोपनेता त्रीन्कृच्छ्रांश्च बटुश्चरेत्" इति ॥
“गुरुर्द्वादशसाहस्रं सावित्रीं प्रजपेत्ततः ।
स्वाधिकारार्थमेवास्याः प्रदानार्थे हि तत्स्मृतम्”इति च सं॰ मालायाम् ॥ ↩︎
-
“स्नापयित्वोदकलशैर्वासोभूषाशिखान्वितम्” इति प्र॰ तिलके ॥ ↩︎
-
“एतदादि सदा धार्यं कौपीनं कटिसत्रकम्” इति स्मृत्यर्थसारे । ↩︎
-
“उपनीतेस्तु समये दातव्यं गोपिचन्दनम् ।
ब्रह्मवर्चसकामेन यज्ञसूत्रं प्रदापयेत्”इति स्मृ॰ समुच्चये ॥ ↩︎
-
मुखसम्मितं पालाशं दण्डम् । ↩︎
-
पालाशीं समिधम् । ↩︎
-
पालाशीः समिधः । ↩︎
-
पालाशबैल्वयोरभावे ‘अहं वृक्षस्य रेरिति दद्यान्मन्त्रेण याज्ञिकान्’ इति गृ॰ संग्रहे । ↩︎
-
अयमेव प्राधान्येनोपनयनशब्दार्थः ॥ ↩︎
-
“अथारभेत सावित्रं व्रतं बालः स्वयं ततः” इति गृ॰ संग्रहे ॥ ↩︎
-
‘योज्यास्तिस्रस्ताश्च पादत्रयादावर्धर्चादौ व्याहृती द्वे पुरस्तात् ।
कृत्स्नोक्तायां स्यात्तदादौ तृतीया व्याहृत्याद्यास्ताश्च सर्वास्सताराः’इति प्र॰ रत्ने ॥ ↩︎
-
“यावद्ब्रह्मोपदेशस्तु तावत्सन्ध्यादिकं न च ।
ततो मध्याह्नसन्ध्यादि सर्वं कर्म समाचरेत्”इति वै॰ जैमिनिः ॥
“अनुपाकृतवेदस्य कर्तव्ये ब्रह्मयज्ञके ।
वेदस्थाने तु सावित्री गृह्यतेऽन्यत्समं भवेत् ॥
काण्डर्षितर्पणं नित्यमुपेतेन निवीतिना” इति कपर्दिकारिका ॥“स्नानञ्च भोजनं तद्वत्सन्ध्योपासनमेव च ।
ब्रह्मयज्ञश्च नित्यानि सामान्यस्यापि तानि तु”इति गृ॰ संग्रहे ॥ ↩︎
-
ते च “आयुष्यान् भव सौम्य ३” इत्याभिवदेयुः ॥
‘आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः’इति मनूक्तेः ॥ ↩︎
-
“मधुपर्कं तदा दद्यात्तृतीयेऽहन्यमन्त्रकम्” इति प्र॰ तिलके ॥ ↩︎
-
“गणान्नं शूद्रान्नं गणिकान्नम्” इत्यपि पाठो वैद्यनाथीये ॥ ↩︎