२९ अक्षरारम्भविधिः

॥ अथ प्रसङ्गात्प्राप्तमक्षरारम्भणं निरूप्यते ॥ तत्र कालनिर्णयमाह नि॰ नृसिंहः -

अक्षरस्वीकृतिं कुर्यात् प्राप्ते पञ्चमहायने ।
उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत् ॥
शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना

इति ॥ नक्षत्रादीन्याह श्रीधरः -

हस्तादित्यसमीरमित्रपुरजित्पौष्णाश्विचित्राच्युते
ष्वारार्क्यंशदिनोदयादिरहिते राशौ स्थिरे चोभये ।
पक्षे पूर्णनिशाकरे प्रतिपदं रिक्तां विहायाष्टमीं
षष्ठीमष्टमशुद्धिभाजिभवने प्रोक्ताक्षरस्वीकृतिः

इति ॥ वारविशेषेण फलविशेषमाह सं॰ मालायां मार्कण्डेयः -

वारे दिनेशभृगुपुत्रबृहस्पतीनां विद्वानसौ भवति योऽपि विमूढबुद्धिः ।
चन्द्रे च चन्द्रतनये च कृशञ्च सर्वं विघ्नो भवेदवनिजे रविजे विनाशः

इति ॥ तथाचोत्तरायणे कुम्भरहितेषु मासेषु शुक्लपक्षे रविगुरुभार्गवाणां वारोदयेषु प्रतिपद्रिक्ताषष्ठ्यष्टमीवर्जितासु तिथिषु हस्तपुनर्वसुस्वात्यनुराधार्द्रारेवत्यश्विनीचित्राश्रवणनक्षत्रेषु अष्टमशुद्धियुतेषु स्थिरोभयलग्नेष्वक्षरारम्भं कुर्यादिति निष्कर्षः ॥ अक्षरारम्भप्रकारस्तूक्तः प्र॰ पारिजाते-

सरस्वतीं गणेशं च सूत्रकारं गुरुं तथा ।
पूजयित्वा यथान्यायं पात्रस्थे तण्डुले लिखेत् ॥
प्राङ्मुखो गुरुरासीनो वरुणाभिमुखः शिशुः ।
अंगुष्ठानामिकाभ्यां तु चतुर्थ्यन्तेष्टदेवताम् ॥
ओंकारमादितः शब्दमुच्चार्यैवाक्षराणि च ।
ततः प्रभृत्यनध्यायान्वर्जनीयान्विवर्जयेत् ।
चतुर्दश्यष्टमीपर्वदिनानि प्रतिपद्दिनम्

इति ॥

अभ्यङ्गस्नानपूर्वन्तु गन्धवस्त्रादिभूषितः ।
शलाकया सुवर्णस्य पञ्चाशद्वर्णकांल्लिखेत्

इति संस्काररत्नमालायां विशेष उक्तः ॥

प्रयोगः

अथ प्रयोगः - यथोक्तमुहूर्ते कुमारमभ्यङ्गपूर्वकं स्नापयित्वा, गन्धादिभिरलंकृत्य, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

मम कुमारकस्य समस्तविद्याप्राप्त्यर्थमक्षरारम्भं कारयिष्ये

इति सङ्कल्प्य निर्विघ्नतासिध्यर्थं गणपतिं सम्पूज्य शुचौ समे देशे गोचर्ममात्रं स्थण्डिलं गोमयेनोपलिप्य तत्र सैकतं स्थण्डिलं कृत्वा तन्मध्ये पलाशशाखमूलन मृदं खनित्वा पलाशशाखां तत्रैव रोपयित्वा तत्र

ॐ भुवनमातः सर्ववाङ्मयरूपे आगच्छागच्छ

इति मंत्रेण सरस्वतीमावाहयेत् ॥ तथा तण्डुलपुञ्जेषु गणेशं सूत्रकारं गुरुञ्च नाममंत्रेणावाह्य प्रणवेन नाममन्त्रेण च यथाक्रममासनादिदीपान्तानुपचारान्कृत्वा पायसं गुडौदनं च निवेद्य नमस्कारान्तं पूजां समाप्य गुरुञ्च वस्त्रालंकारादिभिर्यथाशक्ति सम्पूज्य कुमारेण सह सर्वांस्तान् त्रिः प्रदक्षिणीकृत्य सम्प्रार्थ्यावाहनक्रमेण देवता उद्बासयेत् ॥ ततो गुरुः प्राङ्मुख उपविश्य प्रत्यङ्मुखोपविष्टं कृतप्रणामं कुमारमाशीर्भिरभिनन्द्य तण्डुलपूर्णपात्रे अंगुष्ठानामिकाभ्यां सुवर्णशलाकया वा प्रणवपूर्वकं नमःसहितेष्टदेवतानामाक्षराणि1 अकारादि पञ्चाशद्वर्णांश्चोच्चारयन्नेव लेखयेत् । ततो गुरुं ब्राह्मणांश्च भोजनादिना सन्तोष्य कर्मेश्वरार्पणं कुर्यात् ॥ ॥ इत्यक्षरारम्भाविधिः॥

अनुपनीतधर्माः

अथानुपनीतधर्माः ॥ प्र॰ पारिजाते गौतमः -

प्रागुपनयनात्कामचारकामवादकामभक्षाः

इति ॥ कामचार इच्छागतिः । कामवादोऽश्लीलादिभाषणम् । कामभक्षः पर्युषितादिभक्षणम् । एतेषु प्रागुपनयनान्न दोष इत्यभिप्रायः ॥ विष्णुपुराणेऽपि -

भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथानृते ।
अस्मिन्काले न दोषः स्यात्स यावन्नोपनीयते

इति ॥ एतच्च महापातकव्यतिरिक्तविषयम् । तदुक्तं स्मृत्यन्तरे -

स्यात्कामचारभक्षोक्तिर्महतः पातकादृते

इति ॥ दैवान्महापातकसम्भवे पित्रादिभिस्तत्प्रायश्चित्तं कर्तव्यम् ।

अनुपेतस्तु यो विप्रो मद्यं मोहात्पिबेद्यदि ।
तस्य कृच्छ्रत्रयं कार्यं पित्रा भ्रात्रा तथैव च

इति पराशरीये जातूकर्योक्तेः ॥ आचारविषये त्वाह बोधायनो धर्मसूत्रे ( बो. ध. सू. १. ३. ७ )

नास्य कर्म नियच्छन्ति किञ्चिदामौञ्चिबन्धनात् ।
वृत्या शूद्रसमो ह्येष यावद्वेदेषु जायते

इति ॥ अस्पृश्यस्पर्शने

शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् ।
रजस्वलादिसंस्पर्शे स्नानमेव कुमारके

इति प्र॰ पारिजाते स्मृतिदीपिकावचनम् ॥ शिश्वादीनां लक्षणं च तत्रैवोक्तम् -

प्राक्चूडाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः ।
कुमारकस्तु विज्ञेयो यावन्मौञ्जीनिबन्धनम्

इति ॥


  1. “ॐ नमः सिद्धम् इति लिखेत् पूर्वसम्प्रदायात्” इति सं॰ रत्नमालायाम् ॥ ↩︎