२८ चूडाकर्म

॥ चूडाकर्म ॥ (प्रहुतः) (बो. गृ. सू. २. ४ )

संवत्सरे (असमाप्ते द्वादशे मासे इति शिष्टिभाष्ये) चूडाकर्म त्रिषु वा संवत्सरेषु । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याऽऽग्निमुखात्कृत्वा पक्वाज्जुहोति -‘ये केशिनः’ इति पुरोनुवाक्यामनूच्य ‘नर्ते ब्रह्मणः’ इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति -

आरोह प्रोष्ठं विषहस्व शत्रून्

इत्यान्तादनुवाकस्य ॥ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाग्रेणाग्निमुदुम्बरपर्णे हुतशेषं निदधाति – ‘नमो हिरण्यबाहवे’ इति । अपरेणाग्निमुभयीरपस्सन्निषिञ्चति । उष्णासु शीता आनयति -

उष्णेन वायवुदकेनेह्यादितिः केशान्वपतु

इति ॥ ताभिरस्य शिर उनत्ति

आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे

इति । ऊर्ध्वाग्रं बर्हिरनूच्छ्रयति - ‘ओषधे त्रायस्वैनम्’ इति । क्षुरमभिमन्त्रयते - ‘ज्योक्रूच सूर्यं दृशे’ इति । अथैनं तिर्यञ्चं निदधाति – ‘स्वधिते मैनँ हिँसीः’ इति । अथास्य केशान्वपति - ‘येनावपत्सविता क्षुरेण’ इति । प्रवपतोऽनुमन्त्रयते -

मा ते केशाननुगाद्वर्च एतत्’

इति । अथैनान्समुच्चित्य दर्भस्तम्बे निदधाति -

तेभ्यो निधानं बहुधा व्यैच्छन्

इति । अथैनमुष्णोदकेनाप्लावयति –

बलं ते बाहुवोः सविता दधातु

इति । अथैनमेकशिखस्त्रिशिखः पञ्चशिखो वा यथैवैषां कुलधर्मस्स्यात् । यथर्षि शिखां निदधातीत्येके । अथैनं स्नाप्यालङ्कृत्य त्रिवृतान्नेन ब्राह्मणान्संपूज्याशिषो वाचयति ।

गृह्यसङ्ग्रहे -

प्रथमेऽद्वे तृतीये वा पूर्णे चौलन्तु कारयेत् ।
तृतीये गतभूयिष्ठे वर्षे लौगाक्षिरूचिवान

इति ॥ प्र॰ तिलके –

तृतीये पञ्चमे वाऽपि सप्तमे वाऽपि वत्सरे ।
बालानां कीर्तितं चौलमुत्तरायणगे रवौ

इति ॥ प्र॰ पारिजाते यमः -

ततः संवत्सरे पूर्णे चूडाकर्म विधीयते ।
द्वितीये वा तृतीये वा कर्तव्यं श्रुतिचोदनात्

इति ॥ श्रीधरोऽपि -

वर्षे तृतीयेऽप्यथ पञ्चमेऽब्दे गतत्रिभागे प्रयदन्ति चौलम् ।
उदग्गतेऽर्के गुरुशुक्रतेजःप्रकाशिते व्योम्नि च शुक्लपक्षे

इति ॥ अधिमासादिकं दूषयति तत्रैव बृहस्पतिः –

अधिमासस्तु निन्द्यस्स्यात्संसर्पांऽहस्पती तथा ।
गुरुशुकौ न दृश्येते यदाऽतिस्फुटमम्बरे ॥
बालवृद्धाह्वयः कालश्चौले निंद्यस्तयोर्द्वयोः

इति ॥ ज्येष्ठापत्यस्य ज्येष्ठे मासि चौलादिकं न कार्यमित्युक्तं सं॰ रत्नमालायाम् -

मार्गे मासि तथा ज्येष्ठे चौलं परिणयं व्रतम् ।
ज्येष्ठपुत्रदुहित्रोस्तु यत्नेन परिवर्जयेत् ॥
कृत्तिकास्थं रविं त्यक्त्वा ज्येष्ठे ज्येष्ठस्य कारयेत्

इति ॥ अथ तिथ्यादयः प्र॰ पारिजाते प्रोक्ताः –

षष्ठ्यष्टमीप्रतिपदस्तिथयश्च रिक्ता वर्ज्याः शशाङ्कगुरुसोमजभार्गवाणाम् ।
वारांशकोदयविलोकनमिष्टमाहुः क्षौरे तु कर्मणि न शौकमुशन्तिशावे ॥ आदित्यसौम्यवसुवैष्णवपौष्णतिष्यत्वाष्ट्राऽश्विचण्डकिरणेषु दिवा प्रशस्तम् ।
स्वातीविधातृवरुणोत्तरभानि मध्यान्याहुर्निशास्वथ न च क्षुरकर्म कार्यम्

इति ॥

कर्क्यङ्गनामिथुनमीनतुलोक्षनक्राः पूज्याः क्रियाऽऽलिहरिचापधरा जघन्यः

इति च ॥ क्षौरकर्मणि पापवाराणामपि वर्णविशेषेण ग्राह्यत्वमुक्तं माधवीये –

क्षौरेऽपि चौलविहितः समयस्समानः श्रेष्ठा द्विजस्य च रवेरुदयांशवाराः ।
इन्दोस्त्रियाः क्षितिपतेः क्षितिजस्य सौरेर्विट्शूद्रयोरुशनसो न शुभास्तु शावे

इति ॥ मुहूर्तचिन्तामणौ तु –

चूडा वर्षात्तृतीयात्प्रभवति विषमेष्वर्करिक्ताद्यषष्ठी
पर्वोनाहे विचैत्रोदगयनसमये ज्ञेन्दुशुक्रे ज्यकानाम् ।
वारे लग्नांऽशयोश्चास्वभनि1 धनतनौ नैधने शुद्धियुक्ते
शाक्रोपेतैर्विमैत्रैर्मृदुचरलघुभैरायषट्त्रिस्थपापैः2

इति विशेषोऽभिहितः अत्राऽष्टमशुद्धिरुक्ता ॥ माधवीये तु –

सर्वेऽप्यष्टमगा न जातु शुभदाः शुक्रोऽत्र सम्पत्प्रदः

इत्यष्टमे शुक्रयोगः सम्पत्प्रदत्वेन प्रशंसितः,

इच्छन्त्यग्रहतां स्मरादिषु पदेषूद्वाहविप्रक्रिया चौलप्राशनमौलिबन्धनगृहप्रारम्भणेषु कमात्

इति । चौले विशेषतो नवमशुद्धिश्चाभिहिता ॥ चौलोपनयनविवाहादिमङ्गलकार्येषु सामान्यतो वर्जनीया महादोषाश्चोक्तास्तत्रैव -

पश्चाद्व्यतीपातदळं सपार्श्वो दर्शश्च विष्ट्यभ्युदयश्च साक्षात् । वर्ज्याश्च ताराः कुजसूर्यसून्वोर्वारोदयास्सर्वगुणैरभेद्याः ॥ गुळिकोदयविषघटिकाश्चन्द्राऽष्टमपापसग्रहोष्णशिखाः । अविहितसामाऽऽदिकालाः दिनान्तचक्रार्धयोगवर्षान्ताः ॥ जन्माद्यनिष्टमांशाः कविधिषणाऽस्तादयो महादोषाः । विभिद्यन्ते बलिभिर्गुरुशुक्रबुधोदयादिभिश्च गुणैः

इति ॥ वर्ज्यानामपि विपत्प्रत्यरवधताराणां द्वितीयतृतीयपर्याययोश्चरणभेदेन ग्राह्यत्वमुक्तं तत्रैव -

सर्वानेव विपत्तिपञ्चमवधेष्वाद्येषु भेष्वंशका
न्मध्येष्वाद्यतुरीयपावकमितानन्त्येषु वा वर्जयेत् ।
सत्कर्मा बलवाञ्च्छुभांशकगतो दृष्टश्च सौम्यैर्ग्रहै
र्जन्मप्रत्यरजान्विपद्वधभवान्दोषान्विधुर्बाधते

इति ॥

अथ जन्ममासतिथिनक्षत्रेषु, मातरि गर्भिण्याञ्च, चौलं न कार्यमित्युक्तं मुहूर्तशतके -

चूडाकर्माण जन्ममासदिनभं त्याज्यं समोऽब्दस्स्त्रियां गर्भिण्यां गृहकर्म दूरगमनं चौलञ्च वर्ज्यं शिशोः

इति ॥ मातरि गर्मिण्यां विशेषमाह सं॰ मालायां नारदः -

सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् ।
पञ्चाब्दात्प्रागतोर्ध्वन्तु गर्भिण्यामपि कारयेत् ।
सहोपनीत्या कुर्याच्चेत्तदा दोषो न विद्यते

इति ॥ वसिष्ठोऽपि -

गर्भे मातुः कुमारस्य न कुर्याच्चौलकर्म तु ।
पञ्चमासादधः कुर्यादत ऊर्ध्वं न कारयेत्

इति ॥ अथ मातरि रजस्वलायामपि चूडादिकं न कार्यमित्युक्तं सं॰ कौस्तुभे -

विवाहव्रतचूडासु माता यदि रजस्वला ।
तस्याश्शुद्धेः परं कार्यं माङ्गल्यं मनुरब्रवीत्

इति ॥ अथ चौलादिप्रारम्भोत्तरं मातृरजस्सम्भवे शान्तिं कृत्वा तत्कार्यमित्युक्तं सं॰ कौस्तुभे -

सूतिकोदक्ययोश्शुध्यै गां दद्याद्धोमपूर्वकम् ।
प्राप्ते कर्मणि शुद्धा स्यादितरस्मिन्न शुष्यति ॥
अलाभे सुमुहूर्तस्य रजोदोष उपस्थिते ।
श्रियं सम्पूज्य तत्कुर्याद्वृत्रहत्याभयङ्करी ॥
हैमीं माषमितां पद्मां श्रीसूक्तविधिनाऽर्चयेत् ।
प्रत्यृचं पायसं हुत्वाऽभिषिच्य शुभमाचरेत्

इति ॥ अथ त्रिपुरुषात्मककुले ऋतुत्रयादर्वागुपनयनविवाहरूपमण्डनकार्योत्तरमसतिवत्सरभेदे चूडाकर्म न कार्यमिति विवाहप्रकरणे वक्ष्यमाणमत्राप्यनुसन्धेयम् ॥ तथा च बालस्य जन्मनो द्वितीयतृतीयपञ्चमसप्तमान्यतमवर्षे उत्तरायणे शुक्लपक्षे गुरुशुक्राऽस्तमलमासजन्ममासजन्मतिथिजन्मनक्षत्राऽऽदिकं वर्जयित्वा शुभवारतिथिषु अश्विनीरोहिणीमृगशिरःपुनर्वसुतिष्योत्तरात्रायहस्तचित्रास्वातीश्रवणधनिष्ठाशतभिषग्रेवतीनक्षत्रेषु वृषभमिथुनकर्ककन्यातुलामकरमीनलग्नेषु नवमाष्टमशुद्धियुतेषु चौलं कुर्यादिति निष्कर्षः ॥

चूडाकर्मप्रयोगः

अथ चूडाकर्म ॥ कर्ता भार्यया कुमारेण सह कृतमङ्गलस्नानादिकः पूर्वेद्युरेव प्रातर्नान्दीश्राद्धं रात्रावुदकशांति प्रतिसरबन्धमंकुरार्पणञ्च3 कृत्वा श्वः स्नानादिचतुष्टयान्ते गणपतिं सम्पूज्य ‘केशिनः प्रीयन्ताम्’ इति पुण्याहं वाचयित्वा देवयजनोल्लेखनाद्यौपासनैकदेशाग्निं प्रतिष्ठाप्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

मम कुमारकस्य बीजगर्भसमुद्भवैनोनिबर्हणपुरस्सरमायुःश्रीबलवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं चौळहोमाख्यं कर्म करिष्ये,

सभ्यो नामाग्निः, केशिनो देवताः, चरुर्हविः,

इत्याद्यन्वाधाय पात्रासादने प्राकृतपात्रेण सह क्षुरं दर्भाञ्छीता उष्णाश्चाप इत्यासाद्याग्निमुखान्तं कृत्वा पक्वाज्जुहोति -

ॐ ये केशिनः प्रथमाः सत्रमासत येभिराभृतं यदिदं विरोचते । तेभ्यो जुहोमि बहुधा घृतेन रायस्पोषेणेमं वर्चसा सँसृजाथों ३ नर्ते ब्रह्मणस्तपसो विमोको द्विनाम्नी दीक्षा वशिनी ह्युग्रा । प्रकेशाः सुवते काण्डिनो भवन्ति तेषां ब्रह्मेदीशे वनस्य नान्यः स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (केशिभ्य इदं॰) ॥ अथ स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -

ॐ आरोह प्रोष्टं॰ पाशात्स्वाहा ॥ (सोमाय4 राज्ञ इदं॰) ॥ ॐ येनापत्सविता॰ सँसृजाय स्वाहा ॥ (ब्रह्मभ्य इदं॰) ॥ ॐ मा ते केशाननुगाद्वर्च॰ आदधात्स्वाहा ॥ (धात्र इन्द्राय बृहस्पतये सवित्र इदं॰) ॥ ॐ तेभ्यो निधानं बहुधा॰ सँसृजाथ स्वाहा ॥ (ब्रह्मभ्य इदं॰) ॥ ॐ बलन्ते बाहुवोः सविता॰ सँसृजाथ स्वाहा ॥ (सवित्रे सोमायाश्विभ्यां ब्रह्मभ्य इदं॰) ॥ ॐ यत्सीमन्तं॰ सँसृजाथो वीर्येण स्वाहा । (अश्विभ्यामिदं॰) [[TODO: परिष्कार्यम्]]

इति षड्भिरुपहुत्य स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाग्रेणाग्निमुदुम्बरपर्णेषु हुतशेषं निदधाति -

नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमः॑

इति ॥ अथापरेणाग्निमुष्णास्वप्सु शीता अप आनयति -

उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशा॑न्वपतु

इति ॥ ताभिरद्भिः प्रत्यङ्मुखोपविष्टस्य5 शिशोः शिर उनत्ति -

ॐ आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से

इति ॥ ऊर्ध्वाग्रं बर्हिरनूच्छ्रयति - “ओष॑धे॒ त्राय॑स्वैनम्” इति ॥ तत्सव्येन गृह्णन् दक्षिणेन हस्तेन क्षुरमादायाभिमंत्रयते - “ज्योक्च॒ सूर्यं॑ दृ॒शे" इति ॥ बर्हिरनूच्छ्रितेषु केशेष्वेनं क्षुरं तिर्यञ्चं निदधाति - “स्वधि॑ते॒ मैनँ॑ हिँसीः” इति । अथास्य केशान्वपति –

येनाव॑पत्सवि॒ता॰ सँसृ॑जाथ

इति ॥ प्रवपतोऽनुमंत्रयते6

मा ते॒ केशा॒न्॰ वर्च॒ आद॑धात्

इति ॥ उप्तानेतान्समुच्चित्य दर्भस्तम्बे निदधाति -

तेभ्यो॑ नि॒धानं॑ बहु॒धा॰ सँसृ॑जाथ

इति ॥ अथैनमुष्णोदकेनाप्लावयति -

बलं॑ ते बाहु॒वोः॰ सँसृ॑जाथ

इति । एवमेकशिखस्रिशिखः पञ्चशिखो वा यथैवैषां कुलधर्मः स्यात् ॥ यथर्षि शिखां निदधातीत्येके॥ अथैनं संस्नाप्याच्छाद्यालंकृत्य त्रिवृतान्नेन ब्राह्मणान् सम्पूज्य “प्रजापतिः प्रीयताम्" इति पुण्याहं वाचयित्वोत्तरपरिषेकादि होमशेषं समाप्य कर्मेश्वराय समर्पयेत् ॥ यथाचारं पुरन्ध्र्यो नीराजयेयुः, ब्राह्मणांश्च सम्भोज्याशिषो गृह्णीयात् ॥ इति चूडाकर्म ॥

गर्भाधानादिचौलान्तसंस्काराणां समानतन्त्रविधिः

(बो. गृ. सू. ३.१३)

अथर्तुसंवेशनादि जन्मप्रभृति वा कुमारः क्रियाभिलुप्तस्स्यादुपनयनं चैकं स्यात् तासां पृथक्पृथक् क्रियाणां करणं न चैकहोमे सर्वाणि कर्माण्युपपादयेत् । यद्येकहोमे सर्वाणि कर्माण्युपपादयेत् प्रधानादौ प्रधानादौ द्वे द्वे मिन्दाहुती जुहुयात् । मिन्दाहुती हुत्वा जयानभ्यातानान् । रुद्राहुत्यन्तं चेति विज्ञायते ।

( बो. गृ. सू. ४.६ )

अथ गर्भाधानपुंसवनसीमन्तोन्नयनविष्णुबलिजातकर्मनामकरणोपनिष्क्रमणान्नप्राशनचौळोपनयनादि कार्यं न कारयेदिति समानं कर्म ।

ततं म आपः, यत्पाकत्रा,

मनस्वती, मिन्दाहुती, महाव्याहृतीः, व्याहृतयश्च प्रायश्चित्तं जुहुयादिति । कालातिक्रमे प्रधानादौ प्रधानादौ द्वे द्वे मिन्दाहुती जुहुयादिति । व्याहृतिपूर्वकं चेति सर्वेषां समानमाचार्या ब्रुवते । तत्रोदाहरन्ति - पक्वं सौविष्टकृतमाज्यं प्रणीताप्रणयनं ब्रह्माणमिध्माबर्हिरेकमिति विज्ञायत इति हि ब्राह्मणमिति हि ब्राह्मणम् ॥

सर्वेषां लोपे तूपनयनकाले तानि कर्माणि प्रायश्चित्तपूर्वकं तथैव कर्तव्यानि । तत्र च नान्दीपुण्याहोदकशान्तिपतिसरादीनि सकृदेव कृत्वा संस्कारहोमान्पृथक्पृथक्स्थण्डिलेषु कालातिपत्तिप्रायश्चित्तपूर्वकं कुर्यादित्येकः पक्षः, एकस्मिन्वा स्थण्डिले कालातिपत्तिप्रायश्चित्तं तन्त्रप्रायश्चित्तञ्च कृत्वा प्रतिप्रधानादौ व्याहृतीर्मिन्दाहुती च हुत्वा संस्कारहोमान्कुर्यादित्यपरः पक्ष इत्यवसीयते । किञ्चात्र विहितकाले कर्मणामकरणे कृच्छ्रमप्याचरणीयतया तत्र तत्र स्मर्यते, यदाह वैद्यनाथीये कात्यायनः –

गर्भाधानादि चौळान्ते स्वकाले विधिनाऽकृते ।
प्रत्येकं पादकृच्छ्रं स्याद्विगुणं स्यादनापदि ॥
चौळकेऽर्धं तु सर्वत्र मत्या तु द्विगुणं चरेत्

इति । न चात्र कालातीतकर्मणामतिक्रमप्रायश्चित्तादेव सिद्धौ पुनस्तत्करणमनवश्यकम्,

प्रायश्चित्ते कृतेऽतीतं लुप्तं कर्म कृताकृतम्

प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै ।
कार्यमित्येक आचार्या नेत्यन्ये तु विपश्चितः

इत्यनेन वचनद्वयेन तत्करणस्य विकल्पो वास्त्विति वाच्यम्,

कालातीतेषु कार्येषु प्राप्तवत्स्वपरेषु च ।
कालातीतानि कृत्वैव विदध्यादुत्तराणि तु

इति त्रिकाण्डमण्डनोक्त्या,

लुप्ते कर्मणि सर्वत्र प्रायश्चित्तं विधीयते ।
प्रायश्चित्ते कृते पश्चाल्लुप्तं कर्म समाचरेत्

इति कात्यायनवचनेन च कृतेऽपि प्रायश्चित्ते तत्कर्माचरणस्य पुनर्विधानात् प्रायश्चित्तस्य प्रत्यवायपरिहारकत्वेऽपि तत्तत्प्रधानसंस्कारजन्यापूर्वाधायकत्वाभावाच्च इति ॥

गर्भाधानादिचौलान्तसंस्काराणां समानतन्त्रप्रयोगः

गर्भाधानादिचौलान्तसंस्काराणां समानतन्त्रप्रयोगः ॥ अथ कर्ता सपत्नीकः संस्कार्येण सह पूर्वेद्युः प्रातर्मंगलस्नानं कृत्वा संध्यौपासनादि नित्यकर्म निर्वर्त्य वैश्वदेवं हुत्वा दर्भेष्वासीनः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ संकीर्त्य

मम कुमारकस्य श्वःकरिष्यमाणगर्भाधानपुंसवनसीमंतोन्नयनविष्णुबलिजातकर्मनामकरणोपनिष्क्रमणान्नप्राशनकर्णवेधनचौळकर्मांगतया विहितमभ्युदयार्थं नांदीश्राद्धं करिष्ये

इति संकल्प्य गणपतिपूजनं नांद्यंगपुण्याहवाचनं नांदीश्राद्धं च विधाय तस्यां रात्रावुदकशांतिप्रतिसरबंधावंकुरार्पणं च कृत्वा, श्वोभूते प्रातः स्नानादिचतुष्टयं विधाय, भद्रासने स्वयं प्राङ्मुख उपविश्य पत्नीं स्वदक्षिणतः प्राङ्मुखीमुपवेश्य तद्दक्षिणतः संस्कार्यं च तथैवोपवेश्य, दर्भपाणिराचम्य प्राणानायम्य यथाचारमिष्टदेवतानमस्कारपूर्वकं सुमुखश्चेत्यादिकं पठित्वा, देशकालौ संकीर्त्य

मम कुमारकस्य बीजगर्भसमुद्भवैनोनिबर्हणपुरस्सरमायुःश्रीबलवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं, गर्भाधानादिचौळांतकर्माणि समानतंत्रेण कर्तुमादौ शांत्यर्थं पुष्ट्यर्थं तुष्ट्यर्थं वृद्ध्यर्थमभ्युदयार्थं चैभिर्ब्राह्मणैः सह स्वस्तिपुण्याहवाचनं तदादौ निर्विघ्नतासिद्धर्थं गणपतिपूजनं च करिष्ये

इति संकल्प्य गणपतिं संपूज्य पुण्याहं वाचयेत् । तत्रायं विशेषः -

मम कुमारकस्याद्यकरिष्यमाणगर्भाधानपुंसवन॰ चौळकर्मणामों पुण्याहं भवंतो ब्रुवंतु, कुमारकस्याद्यकरिष्यमाणगर्भाधान॰ चौळकर्मभ्य ॐ स्वस्ति भवंतो ब्रुवंतु, करिष्यमाणगर्भाधान॰ चौळकर्मणामोमृद्धिं भवंतो बुवंतु, वेधाः प्रजापतिर्धाता सविता मृत्युः सविता सविता सविता श्रोत्रं केशिनः प्रीयंताम्

इति ॥ अन्यत्सर्वं प्रोक्षणान्तं समानम् । अथाचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

मम कुमारकस्य बीजगर्भसमुद्भवैनोनिबर्हणपुरस्सरमायुःश्रीबलवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानपुंसवनसीमंतोन्नयनविष्णुबलिजातकर्मनामकरणोपनिष्क्रमणान्नप्राशनकर्णवेधनचौळकर्माणि समानतंत्रेण करिष्ये

इति प्रधानसंकल्पं कृत्वा लुप्तस्यर्तुसंवेशनस्येदानीमर्थलोपात् “विष्णुर्योनिं कल्पयतु" इत्यादि “प्रहराम शेपं" इत्यंत मंत्रमात्रं पठित्वा कुमारमभिमंत्रयते -

अद्भ्यः सम्भूतः पृथिव्यै रसाच्च । विश्वकर्मणस्समवर्तताधि ॥ तस्य त्वष्टा विदधद्रूपमैति । तत्पुरुषस्य विश्वमाजानमग्रे ॥ वेदाहमेतं पुरुष महांतम् । आदित्यवर्णं तमसः परस्तात् ॥ तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय ॥ प्रजापतिश्चरति गर्भे अंतः । अजाय॑मानो बहुधा विजायते । तस्य धीराः परिजानंति योनिम् ॥ मरीचिनां पदमिच्छति वेधसः ॥ यो देवेभ्य आतपति। यो देवानां पुरोहितः ॥ पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये । रुचं ब्राह्म जनयंतः॥ देवा अग्रे तब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन्वशे ॥ ह्रीश्च ते लक्ष्मीश्च पल्यौ । अहोरात्रे पार्चे । नक्षत्राणि रूपम् । अश्विनौ व्यातम् ॥ इष्टं मनिषाण । अमु मनिषाण ॥ सर्वं मनिषाण [[TODO: परिष्कार्यम्]]

इति ॥ अथैनं स्नापयति -

क्षेत्रियौ त्वा निर्ऋत्य त्वा । द्रुहो मुञ्चामि वरुणस्य पाशात् ॥ अनागस ब्रह्मणे त्वा करोमि। शिवे ते द्यावा | पृथिवी उभे इमे ॥ शं ते’ अग्निः सहाद्भिरस्तु । शं द्यावापृथिवी सहौषधीभिः ॥ शमन्तरिक्ष सह वातेन ते । शं ते चतस्रः प्रदिशो’ भवंतु ॥ या दैवीश्चतस्रः प्रदिशः । वातपत्नीरभिसूर्यो विचष्टे । तासां त्वा जरस आदधामि ॥ प्रयक्ष्म एतु नितिं परा चैः ॥ अमोचि यक्ष्मादुरितादवत्यै ॥ दुहः पाशान्नित्यै चोदमोचि ॥ अहा अतिमविदत्स्यानम् । अप्यभूद्रे सुकृतस्य लोके ॥ सूर्यमृतं तमसो ग्राह्या यत् ॥ देवा अमुञ्चन्नसृजन्व्येनसः ॥ एवमहमिमं क्षेत्रियाज्जामि शरसात् । दुहो मुञ्चामि वरुणस्य पाशात् ॥ बृहस्पते युवमिंद्रश्च वस्वः । दिव्यस्योशाथे उत पार्थिवस्य ॥ धत्त रयि ५ स्तुवते कीरये चित् ॥ यूयं पात स्वस्तिभिः सदा नः [[TODO: परिष्कार्यम्]]

इति ॥ अथैनं स्वांके उपवेशयति -

अङ्गादङ्गासम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरद शतम् [[TODO: परिष्कार्यम्]]

इति ॥ अथैनं मूर्धन्यभिजिघ्रति -

अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । पशूनां त्वा हिंकारेण ब्रह्मणाभिजिघ्राम्याश्वयुज [[TODO: परिष्कार्यम्]]

इति तत्तन्नक्षत्रनामधेयेन ॥ अथास्य दक्षिणे कर्णे जपति - “अग्निरायुष्मान्” इति पञ्चभि पर्यायैः ॥

आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः ॥ पुनस्ते प्राण आयति परायक्ष्मँ सुवामि ते [[TODO: परिष्कार्यम्]]

इत्युत्तरे कर्णे जपित्वा । अथैनं दधि मधु घृतं च समुदायुत्य हिरण्येन प्राशयति -

प्राणो रक्षति॰ व्यानशे ॥ यो देवी देवेषु॰ नो हविः ॥ मनसश्चित्तेदं॰ देवेष्वग्रियम् ॥ आ न एतु॰ दधत् ॥ जुषता मे॰ अनपायिनी ॥ यया रूपाणि हविः । चक्षुर्देवानां० विचक्षणम् ॥ आयुरिन्नः० उतामृतम् ॥ श्रोत्रेण भद्रं॰ शृणोमि ॥ येन प्राच्या॰ बभूव [[TODO: परिष्कार्यम्]]

इति दशभिः प्रत्यृचं प्राशयित्वा अतिशिष्टं गोपदे निनयति - “भूर्भुवस्सुवः” इति ॥ अथैनं मातुरुत्सङ्गे उपवेशयति -

सीद त्वं मातुरस्या उपस्थे विश्वान्यग्ने वयुनानि विद्वान् । मैनामर्चिषा मा तप॑साभिशूशुचोऽमन्तरस्याँ शुक्रज्योतिर्विभाहि ॥ अंतरग्ने रुचा त्वमुखायै सदने स्वे । तस्यास्त्वँ हरसा तपञ्जातवेदः शिवो भव ॥ शिवो भूत्वा मह्यमग्नेऽथो सीद शिवस्त्वम् । शिवाः कृत्वा दिशः सर्वाः स्वां योनिमिहा सदः ॥ हँ सः शुचिषद्वसुरन्तीरक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषरसदृतसद्व्योमसद्ब्जा गोजा ऋतुजा अद्विजा ऋतं बृहत् [[TODO: परिष्कार्यम्]]

इति ॥ स्तनमभिमन्त्रयते7 -

यस्ते स्तनः शशयो यो मयोभूः । येन विश्वा पुष्यसि वार्याणि ॥ यो रत्नधा वसुविद्यस्सुत्रः ॥ सरस्वति तमिह धातवेकः [[TODO: परिष्कार्यम्]]

इति ॥ धयन्तमनुमंत्रयते -

द्यौस्ते पृष्ठँ रक्षतु वायुरूरू अश्विनौ च स्तनं घयन्तँ सविताभिरक्षतु । आवाससः परिधानाद्बृहस्पतिर्विश्वेदेवा अभिरक्षंतु पश्चात् [[TODO: परिष्कार्यम्]]

इति ॥ अथास्योदकुम्भमुच्छिरसि निदधाति –

आपः॑ सु॒प्तेषु॑ जाग्रत॒ रक्षाँ॑सि॒ निरि॒तो नु॑दध्वम्

इति ॥ अथ देवयजनोल्लेखनप्रभृतिगृह्याग्निं प्रतिष्ठाप्याचम्य प्राणानायम्य देशकालौ संकीर्त्य

ममास्य कुमारकस्य बीजगर्भसमुद्भवैनोनिबर्हणपुरस्सरं प्रजासंस्कारातिशयद्वारा श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानपुंसवनसीमन्तोन्नयनविष्णुबलिजातकर्मनामकरणोपनिष्क्रमणान्नप्राशनकर्णवेधनचौलहोमान् समानतंत्रेण करिष्ये ॥ गर्भाधानपुंसवनं॰ चौलहोमाः कर्म, आधारवत्तंत्रम्, पंचदश दारुरिध्मः, अग्नीषोमावाज्यभागौ, मारुतचन्द्रमामङ्गलशोभनप्रबलपार्थिवाशिवशुचिवर्धमानसभ्या नामामयः, वेधाः प्रजापतिर्धाता सविता मृत्युः सविता सविता सविता श्रोत्रं केशिनो देवताः, चरुर्हविः, अग्निः स्विष्टकृत्, आज्यस्य मान्त्रवर्णिक्यो देवताः, अङ्गदेवताः प्रधानदेवताश्च ताः सर्वा अत्र सन्निहिताः संतु एवं साङ्गेन कर्मणा सद्यो यक्ष्ये

इति संकल्प्य । समिदाधानादिकं कृत्वा । पात्रासादनकाले प्राकृतपात्राणि क्षुरं दर्भाञ्छीताश्चोष्णाश्चापः सूचीं लोहितसूत्रं चेत्यासाद्यापरिधिनिधानात्कृत्वोपोत्थायाग्रेणाग्निमक्षतपुञ्जे हरेः प्रतिकृतिं कृत्वा गन्धपुष्पाक्षतोदकान्यञ्जलौ गृहीत्वा देवतामावाहयति -

ॐ भूः पुरुषमावाहयामि । ॐ भुवः पुरुषमावाहयामि । ॐ सुवः पुरुषमावाहयामि । ॐ भूर्भुवः सुवः पुरुषमावाहयामि, आयातु भगवान्महापुरुषः

इत्यावाह्य स्वागतेनाभिनन्दयति -

स्वागतमधुना भगवतो महापुरुषस्य

इति ।

भगवते पुरुषायैतदासनमुपक्लृप्तमत्रास्तां भगवान् महापुरुषः

इत्युक्त्वा कूर्चं ददाति -

भगवतोऽयं कूर्चो दर्भमयस्त्रिवृद्धरितः सुवर्णस्तं जुषस्व

इति । अथ गायत्र्याभिमंत्रिते पात्रे तिरः पवित्रमप आनीय गंधादिभिरभ्यर्च्य ओमित्यातमितोरादित्यं दर्शयित्वा तासामेकदेशं पात्रांतरेणादाय,

त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । अतो॒ धर्मा॑णि धा॒रय॑न्

इति पाद्यं दत्वा “इदं विष्णुर्विचक्रमे” इत्यर्घ्यमाचमनीयं च दद्यात् । अथ परिधानप्रभृत्यग्निमुखान्तं कृत्वाथैतं चरुं दशधा विभज्य

वेधसे त्वा, प्रजापतये त्वा, धात्रे त्वा, सवित्रे त्वा, मृत्यवे त्वा, सवित्रे त्वा, सवित्रे त्वा, सवित्रे त्वा, श्रोत्राय त्वा, केशिभ्यस्त्वा

इत्युदगपवर्गं यथाक्रममभिमृश्याथैनं स्नापयति – “आपो हि ष्ठा" इति तिसृभिः, “हिरण्यवर्णाः” इति चतसृभिः, “पवमानः सुवर्जनः" इत्येतेनानुवाकेन मार्जयित्वा,

केशवं तर्पयामि । नारायणM तर्पयामि । माधवं त॰ । गोविन्दं त॰ । विष्णुं त॰ । मधुसूदनं॰ । त्रिविक्रमं॰ । वामनं॰ । श्रीधरं॰ । हृषीकेशं॰ । पद्मनाभं॰ । दामोदरं तर्पयामि

इत्यद्भिस्तर्पयित्वा,

इदं विष्णुः, तद्विष्णोः, इरावती, तत्सवितुः, उद्दीप्यस्व

इति पञ्चभिर्यथाक्रमं गंधपुष्पाक्षतधूपदीपैरभ्यर्चयेत् ॥

अथास्य कुमारकस्य गर्भाधानादिचौलांतकर्मणां मुख्यकालातिपत्तिप्रायश्चित्तं तंत्रप्रायश्चित्तं च करिष्ये,

इति सङ्कल्प्य, स्मृत्युक्तकृच्छ्रप्रत्याम्नायं हिरण्यं दत्वा

ततम्म आपः, यत्पाकत्रा, मनो ज्योतिः, यन्म आत्मनः, पुनरग्निः, महाव्याहृतीः, व्याहृतीः

इति त्रयोदश ॥ व्याहृतीः, मिंदाहुती, चित्तञ्च स्वाहेत्यादि त्रयोदश ॥ अग्निर्भूतानामित्यादि रुद्रः पशूनामित्यन्तं चतुर्दश ॥ इत्येवं स्रुवेणाज्याहुतीर्तुत्वा, अवदानधर्मेण चरुमवदाय पुरस्तात्स्रुवाहुतिं हुत्वा गर्भाधानपक्वं जुहोति –

ॐ प्रवेधसे कवये मेध्याय वचो वन्दारू वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवान्यजे हेड्यों ३ प्रवेधसे॰ यजे हेड्यान्स्वाहा” [[TODO: परिष्कार्यम्]]

इति । (वेधस इदं॰) ॥ उपरिष्टात्स्रुवाहुतिं हुत्वा अथाज्याहुतीरुपजुहोति -

ॐ ज्येष्ठाय स्वाहा ॥ (ज्येष्ठायेदं॰ इत्यादि यथालिंगं त्यागः) ॥ श्रेष्ठाय स्वाहा ॥ प्रतिष्ठाय स्वाहा ॥ प्रतिष्ठित्यै स्वाहा ॥ सम्पत्यै स्वाहा ॥ सम्पतये स्वाहा ॥ ब्रह्मणे स्वाहा ॥ आयतनवते स्वाहा” [[TODO: परिष्कार्यम्]]

इति ॥ अथ व्याहृतीर्मिन्दाहुती च हुत्वा दर्व्यामुपस्तीर्यापरार्धादवदाय पूर्वार्धादवद्यत्यभिघारयति प्रत्यनक्ति पुरस्तात्स्रुवाहुतिं हुत्वा पुंसवनपक्वं जुहोति -

ॐ प्रजापते तन्वं मे जुषस्व त्वष्टर्देवेभिः सहसाम इन्द्र । विश्वैर्देवै रातिभिः सँ रराणः पुँसा बहूनां मातर स्यामों ३ प्रजापते तन्वं मे जुषस्व॰ स्याम स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (प्रजापतय इदं॰) ॥ अथाज्याहुतीरुपजुहोति -

ॐ गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् । गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि स्वाहा। (अग्नये गर्भायेदं॰) ॥ ॐ प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने । सँसृज्य मातृभिस्त्वं ज्योतिष्मान्पुनरासदः स्वाहा ॥ (अग्नये गर्भायेदं॰) ॥ ॐ पुनरासद्य सदनमपश्च पृथिवीमग्ने । शेषे मातुर्यथोपस्थेऽन्तरस्याँ शिवतमः स्वाहा ॥ (अग्नये गर्भायेदं॰) [[TODO: परिष्कार्यम्]]

इति ॥ अथ पूर्ववद्धव्याहृतीर्मिन्दाहुती हुत्वा अवदानधर्मेण चरुमवदाय सीमंतोन्नयनपक्वं जुहोति -

ॐ धाता ददातु नो रयिमीशानो जगतस्पतिः । स नः पूर्णेन वावनों ३ धाता प्रजाया उत राय ईशे धातेदं विश्व भुवनं जजान । धाता पुत्रं यजमानाय दाता तस्मा उ हव्यं घृतद्विधेम स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (धात्र इदं॰) ॥ अथाज्याहुतीरुपजुहोति -

ॐ धाता ददातु नो रयिं प्राचीं जीवातुमक्षिताम् । वयं देवस्य धीमहि सुमतिँ सत्यराधसः स्वाहा । (धात्र इदं॰) ॥ ॐ धाता ददातु दाशुषे वसूनि प्रजाकामाय मीढुषे दुरोणे । तस्मै देवा अमृतास्संव्ययन्तां विश्वे देवासो अदितिस्स॒जोषाः स्वाहा । (धात्र इदं॰) ॥ ॐ अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां दाशुषे मयः स्वाहा । (अनुमत्या इदं॰) ॥ ॐ अन्विदनुमते त्वं मन्यास शच नः कृधि । क्रत्वे दक्षाय नो हिनु प्रण आयूँ षि तारिषः स्वाहा । (अनुमत्या इदं॰) ॥ ॐ अनुमन्यतामनुमन्यमाना प्रजावन्तँ रयिमक्षीय माणम् । तस्य वयँ हेडसि मापि भूम सा नो देवी सुहवा शर्म यच्छतु स्वाहा । (अनुमत्या इदं॰) ॥ ॐ यस्यामिदं प्रदिशि यद्विरोचतेऽनुमति प्रति भूषन्त्यायवः । यस्या उपस्थ उर्वन्तरिक्ष सा नो देवी सुहवा शर्म यच्छतु स्वाहा । (अनुमत्या इदं॰) ॥ ॐ राकामहँ सुहवाँ सुष्टुती हुवे शृणोतु नस्सुभगा बोधंतु त्मना । सीव्यत्वपः सूच्याच्छिंद्यमानया ददातु वीर शतदायमुक्थ्यँ स्वाहा ॥ (राकाया इदं॰) ॥ ॐ यास्ते राके सुमतयः सुपेशसी याभिर्ददासि दाशुषे वसूनि । ताभिर्नो अद्य सुमना उपागहि सहस्त्रपोषँ सुभगे रराणा स्वाहा । (राकाया इदं॰) ॥ ॐ सिनीवालि पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्र॒जां देवि दिदिढ्ढि नः स्वाहा । (सिनीवाल्या इदं॰)॥ ॐ या सुपाणिः स्वङ्गुरिस्सुषूमा बहुसूवरी । तस्यै विश्पत्नियै हविः सिनीवाल्यै जुहोतन स्वाहा ॥ (सिनीवाल्या इदं॰) ॥ ॐ कुहूमहँ सुभगां विद्मनापसमस्मिन् यज्ञे सुहवां जोहवीमि ॥ सा नो ददातु श्रवणं पितृणां तस्यास्ते देवि हविषा विधेम स्वाहा ॥ (कुह्वा इदं॰) ॥ ॐ कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषश्चिकेतु । सन्दाशुषे किरतु भूरिवामँ रायस्पोषं चिकितुषे दधातु स्वाहा ॥ (कुह्वा इदं॰) [[TODO: परिष्कार्यम्]]

इति ॥ अथ पूर्ववद्व्याहृतीर्मिन्दाहुती हुत्वा विष्णुबलिपक्वं जुहोति -

‌ ॐ भूर्भुव॒स्सुव॒रों ३ तत्स॑वि॒तुर्वरे॑ण्यं॒॰ प्रचो॒दया॒त्स्वाहा॑ ॥

(सवित्र इदं॰) ॥ इति ॥ अथाज्याहुतीरुपजुहोति

ॐ विष्णोर्नु कं वेधोरुगायः स्वाहा । सर्वत्र (विष्णव इदं न ममेत्युद्देशत्यागः) ॥ ॐ तदस्य प्रियमभिपाथः॰ उत्सः स्वाहा ॥ ॐ प्र तद्विष्णु स्तवते॰ विश्वा स्वाहा ॥ ॐ परो मात्रया॰ कित्से स्वाहा ॥ ॐ विचक्रमे चकार स्वाहा ॥ ॐ त्रिदेवः नाम | स्वाहा” [[TODO: परिष्कार्यम्]]

इति षड्भिः ॥ अथ पूर्ववद्व्याहृातीर्मिन्दाहुती च हुत्वा जातकर्मपक्वं जुहोति -

ॐ हरिँ हरन्तमनुयन्ति देवा । विश्वस्येशानं वृषभं मतीनाम् । ब्रह्म सरूपमनुमदमागादयनं मा विवधीविक्रमस्वों ३ माछिदो मृत्यो मावधीर्मा मे बलं विवृहो मा प्रमोषीः । प्रजां मा मे रीरिष आयुरुप नृचक्षसं त्वा हविषा विधेम स्वाहां [[TODO: परिष्कार्यम्]]

इति ॥ (मृत्यव इदं॰) ॥ अथाज्याहुतीरुपजुहोति -

ॐ सद्यश्चकमानाय । प्रवेपानाय मृत्यवे ॥ प्रास्मा आशा अशृण्वन् । कामेनाजनयन्पुनः स्वाहा । (मृत्यव इदं॰) ॥ ॐ कामेन मे काम आगात् । हृदयादृदयं मृत्योः ॥ यदमीषामदः प्रियम् । तदैतूपमामभि स्वाहा ॥ (मृत्यव इदं॰) ॥ ॐ परं मृत्यो अनुपरेहि पन्थाम् । यस्ते स्व इतरो देवयानात् ॥ चक्षुष्मते शृण्वते ते ब्रवीमि । मा नः प्रजाँ रीरिषो मोत वीरान्त्स्वाहा ॥ (मृत्यव इदं॰) ॥ ॐ प्रपूयं मनसा वन्दमानः । नाधमानो वृषभं चर्षणीनाम् ॥ यः प्रजानामकराण्मानुषर्षाणाम् । मृत्युं यजे प्रथमजा ऋतस्य स्वाहा । (मृत्यव इदं॰) ॥ [[TODO: परिष्कार्यम्]]

अथ व्याहृतीर्मिन्दाहुती च हुत्वा नामकरणपक्वं जुहोति -

ॐ भूर्भुव॒स्सुव॒रों ३ तत्स॑वि॒तुर्वरे॑ण्यं॒॰ प्रचो॒दया॒त्स्वाहा॑ ॥

इति ॥ (सवित्र इदं॰) ॥ अथाज्याहुतीरुपजुहोति -

ॐ प्रजापते न त्वदेतान्यन्यः । विश्वा जातानि परि ता बभूव ॥ यत्कामास्ते जुहुमस्तन्नो अस्तु । वयँ स्याम पतयो रयीणाँ स्वाहा ॥ सर्वत्र (प्रजापतय इदं न ममैत्युद्देशत्यागः) ॥ ॐ रयीणां पतिं यजतं बृहन्तम् । अस्मिन्भरेऽनृतमं वार्जसातौ ॥ प्रजापति प्रथमजामृतस्य । याम देवमधि नो ब्रवीतु स्वाहा । ॐ प्रजापते त्वं निधिपाः पुराणः । देवानां पिता जनिता प्रजानाम्। पतिर्विश्वस्य जगतः परस्पाः । हविर्नो देव विहवे जुषस्व स्वाहा ॥ ॐ तदेमे लोकाः प्रदिशो दिशश्च । परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीवधन्य इदं नो देव । पतिहर्य हव्यँ स्वाहा ॥ ॐ प्रजापतिं प्रथमं यज्ञियानाम् । देवानामने यजतं यजध्वम् । स नो ददातु दविणः सुवीर्यम् । रायस्पोषं विष्यतु । नाभिमस्मे स्वाहा ॥ ॐ यो राय ईशे शतदाय उक्थ्यः । यः पशूनार रक्षिता विपितानाम् । प्रजापतिः प्रथमजा ऋतस्य । सहस्र धामा जुषता हविर्नः स्वाहा [[TODO: परिष्कार्यम्]]

इति षड्भिः ॥ अथ व्याहृतीर्मिन्दाहुती हुत्वा उपनिष्क्रमणपक्वं जुहोति -

ॐ भूर्भुव॒स्सुव॒रों ३ तत्स॑वि॒तुः॰ चो॒दया॒त्स्वाहा॑ ॥

इति ॥ (सवित्र इदं॰) ॥ अथाज्याहुतीरुपजुहोति -

ॐ स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः । स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना स्वाहा । (अश्विभगादितिपूषद्यावापृथिवीभ्य इदं॰)॥ ॐ स्वस्तये वायुमुपब्रवामहै सोमँ स्वस्ति भुवनस्य यस्पतिः । बृहस्पतिँ सर्वगणँ स्वस्तये स्वस्तय आदित्यासो भवन्तु नः स्वाहा ॥ (वायुसोमबृहस्पत्यादित्येभ्य इदं॰) ॥ ॐ विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये । देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वँहसः स्वाहा ॥ (विश्वेदेववैश्वानरवस्वग्निदेवऋभुरुद्रेभ्य इदं॰) ॥ ॐ स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति । स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि स्वाहा ॥ (मित्रावरुणपथ्यारेवतीन्द्राग्न्यदितिभ्य इदं॰) ॥ ॐ स्वस्ति पन्थामनुचरेम सूर्याचन्द्रमसाविव । पुनर्ददता घ्नता जानता सङ्गमेमहि स्वाहा ॥ (देवेभ्य इदं॰) ॥ ॐ स्वस्त्ययनं तार्क्ष्यमरिष्टनेमि महद्भूतं वायसं देवानाम् । असुरघ्नमिन्द्रसखँ समत्सु बृहद्यशी नावमिवारुहेम स्वाहा ॥ (तार्क्ष्यारिष्टनेमयेऽसुरघ्नायेन्द्रसखायेदं॰) ॥ ॐ अँहोमुचमाङ्गिरस गये च स्वस्त्यात्रयं मनसा च तायन् ॥ प्रयतपाणिः शरणं प्रपद्ये स्वस्ति संबाधेष्वभयं नो अस्तु स्वाहा ॥ (स्वस्त्यात्रेयाय तार्क्ष्यायेदं॰) ॥ ॐ स्वस्ति न इन्द्रो॰ दधातु स्वाहा ॥ (इन्द्राय वृद्धश्रवसे पूष्णे विश्ववेदसे तार्क्ष्यायारिष्टनेमये बृहस्पतये चेदं॰) [[TODO: परिष्कार्यम्]]

इति ॥ अथ व्याहृतीर्मिन्दाहुती हुत्वान्नप्राशनपक्वं सावित्र्या पूर्ववदेव हुत्वाज्याहुतीरुपजुहोति -

ॐ अहमस्मि प्रथमजा ऋतस्य । पूर्वं देवेभ्यो अमृतस्य नाभिः ॥ यो मा ददाति स ई देवमावाः । अहमन्नमन्नमदन्तमद्मि स्वाहा ॥ (अन्नायेदं न ममेति सर्वत्र त्यागः) ॥ ॐ पूर्वमग्नरपि दहत्यन्नम् । यत्तौ हासाते अहमुत्तरेषु ॥ व्यात्तमस्य पशवः सुजम्भम् । पश्यन्ति धीराः प्रचरन्ति पाकाः स्वाहा॑ ॥ ॐ जाहाम्यन्यं न जहाम्यन्यम् । अहमन्नं वशमिच्चरामि ॥ समानमर्थं पर्येमि भुञ्जत् । को मामन्नं मनुष्यो दयेत स्वाहा ॥ ॐ पराके अन्नं निहितं लोक एतत् । विश्वैर्देवैः पितृभिर्युतमन्नम् ॥ यदद्यते लुप्यते यत्परोप्यते । शततमी सा तनूर्मे बभूव स्वाहा ॥ ॐ महान्तौ चरू सकृदुग्धेन पप्रौ । दिवं च पृश्नि पृथिवीं च साकम् ॥ तत्सम्पिबन्तो न मिनन्ति वेधसः । नैतद्भूयो भवति नो कनीयः स्वाहा ॥ ॐ अन्नं प्राणमन्नमपानमाहुः । अन्न’ मृत्यु तमु जीवातुमाहुः ॥ अन्नं ब्रह्माणो’ जरसं वदन्ति । अन्नमाहुः प्रजननं प्रजानाय स्वाहा ॥ ॐ मोघमन्न विन्दते अप्रचेताः । सत्यं ब्रवीमि वध इत्स तस्य ॥ नार्यमणं पुष्यति नो सायम् । केवलाघो भवति केवलादी स्वाहा ॥ ॐ अहं मेघस्तनयन्वर्षन्नस्मि । मामदन्त्यहमद्म्यन्यान् ॥ अहँ सदमृतो’ भवामि । मदादित्या अधि सर्वे तपन्ति स्वाहा [[TODO: परिष्कार्यम्]]

इत्यष्टभिः ॥ अथ व्याहृतीर्मिन्दाहुती हुत्वा कर्णवेधनपक्वं जुहोति -

ॐ श्रोत्रेण भद्रमुत शृण्वन्ति सत्यँ श्रोत्रेण वाचं बहुधोद्यमानाम् ॥ श्रोत्रेण मोदश्च महश्च श्रूयते श्रोत्रेण सर्वा दिश आशृणोमों ३ येन प्राच्या उत दक्षिणा प्रतीच्यै दिशश्शृण्वन्त्युत्तरात् ॥ तदिच्छोत्रं बहुधोद्यानमरान नेमिः परि सबै बभूव स्वाहां । [[TODO: परिष्कार्यम्]]

(श्रोत्रायेदं॰)॥ इति ॥ अथाज्याहुतीरुपजुहोति -

ॐ प्राणो रक्षति॰ व्यानशे स्वाहा ॥ (प्राणायेदं॰) ॥ ॐ यो देवो देवेषु॰ नो हविः स्वाहा ॥ (प्राणायेदं॰) ॥ ॐ मनसश्चित्तेद॰ अग्रियः स्वाहा ॥ (मनस इदं॰) ॥ ॐ आ न एतु यज्ञपतिं दधत्स्वाहा ॥ (मनस इदं॰) ॥ ॐ जुषता मे॰ अनपायिनी स्वाहा ॥ (वाच इदं॰) ॥ ॐ यया रूपाणि हविः स्वाहा ॥ (वाच इदं॰) ॥ ॐ चक्षुर्देवानां॰ विचक्षणँ स्वाहा ॥ (चक्षुष इदं॰) ॥ ॐ आयुरिनः उतामृतँ स्वाहा ॥ (चक्षुष इदं॰) ॥ ॐ श्रोत्रेण भद्र॰ आशृणोमि स्वाहा ॥ (श्रोत्रायेदं॰) ॥ ॐ येन प्राच्या उत॰ बभूव स्वाहा ॥ (श्रोत्रायेदं॰) [[TODO: परिष्कार्यम्]]

इति ॥ अथ पूर्ववद्व्याहृतीर्मिन्दाहुती हुत्वावदानधर्मेणावदाय चूडाकर्मणः पक्वं जुहोति -

ॐ ये केशिनः प्रथमाः सत्रमासत येभिराभृतं यदिदं विरोचते ॥ तेभ्यो’ जुहोमि बहुधा घृतेन रायस्पोषेणेमं वर्चसा सँ सृजाथों ३ नर्ते ब्रह्मणस्तपसो विमोको द्विनानी दीक्षा वशिनी ह्युग्रा । प्रकशास्सुवते काण्डिनो भवन्ति तेषां ब्रह्मदीशे वनस्य नान्यः स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (केशिभ्य इदं॰) ॥ अथ स्विष्टकृतमुत्तरार्धात् सर्वतः सकृत्सकृदयदाय द्विरभिघार्यान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -

ॐ आरोह प्रोष्ठं विषहस्व शत्रून् । अवास्राग् दीक्षा वशिनी ह्युग्रा ॥ देहि दक्षिणां प्रतिरस्वायुः । अथा मुच्यस्व वरुणस्य पाशात्स्वाहा ॥ (सोमाय राज्ञ इदं॰) ॥ ॐ येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्योर्जेभम् । रय्या वर्चसा सँ सृजाय स्वाहा ॥ (ब्रह्मभ्य इदं॰) ॥ ॐ मा ते केशानुदगार्च एतत् । तथा धाता करोतु ते ॥ तुभ्यमिन्द्रो बृहस्पतिः। सविता वर्च आदधात्स्वाहा ॥ (धात्र इन्द्राय बृहस्पतये सवित्र इदं॰) ॥ ॐ तेभ्यो’ निधानं बहुधा व्यैच्छन् । अन्तरा द्यावापृथिवी अपः सुवः ॥ दर्भस्तम्बे वीर्यकृते निधाय । पौँस्यनेमं वर्चसा सँसृजाय स्वाहा ॥ (ब्रह्मभ्य इदं॰) ॥ ॐ बलं ते बाहुवोः सविता दधातु । सोमस्त्वाननु पय॑सा घृतेन ॥ स्त्रीषु रूपमश्विनैतं निधत्तम् । पौँस्येनमं वर्चसा सँ सृजाथ स्वाहा ॥ (सवित्रे सोमायाश्विभ्यामिदं॰) ॥ ॐ यत्सीमन्तं कङ्कतस्ते लिलेख । यो क्षुरः परिववर्ज वपँ स्ते ॥ स्त्रीषु रूपमश्विनैतं निधत्तम् । पौँस्यनेमँ सँ सृजाथो वीर्येण स्वाहा । (अश्विभ्यामिदं॰) [[TODO: परिष्कार्यम्]]

इति ॥ अत्र “हव्यवाहं, स्विष्टमग्ने” इति सौविष्टवतीभ्यां स्विष्टकृतं हुत्वा मेक्षणप्रहरणादि प्रागुत्तरपरिषेकात् कृत्वाग्रेणाग्निं जातकर्मादिहुतशेषषट्कं निदधाति । तत्राद्यं चतुष्टयमश्वत्थपर्णेषु

नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमः ॥ नमः सहमानाय विव्याधिन आव्याधिनीनां पतये नमः ॥ ॐ भूर्भुवस्सुवः [[TODO: परिष्कार्यम्]]

इति मंत्रैः क्रमेण निधाय पञ्चमं वेणुपर्णेषु

स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑नां॒ पत॑ये॒ नमः॑

इति ॥ षष्ठमुदुम्बरपर्णेषु

नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमः॑

इति मंत्रेण निध्यात् ॥ ततस्तत्तदुपरिष्टात्तंत्राणि यथाक्रमं कुर्यात् ॥ तत्र गर्भाधानादिसीमन्तोन्नयपर्यन्तानामतीतानामर्थलोपान्मन्त्रपठनमेव । गर्भाधानतंत्रे -

तत्सवितुर्वृणीमहे । वयं देवस्य भोजनम् ॥ श्रेष्ठँ सर्वधातमम् । तुरं भगस्य धीमहि ॥ तत्सवितुर्वरेण्यं॰ चोदयात् ॥ यत इन्द्र॰ जहि ॥ स्वस्तिदा॰ अभयङ्करः [[TODO: परिष्कार्यम्]]

इति ॥ पुंसवनतंत्रे -

अस्मे देवासो वपुषे चिकित्सत यमाशिरा दम्पती वाममश्नुतः । पुमान्पुत्रो जायते विन्दते वस्वथ विश्व अरपा एधते गृहः ॥ आशीर्दाया दम्पती वाममश्नुतामरिष्टो रायः सचताँ समोकसा। य आसिचत्सन्दुग्धं कुम्भ्या सहेष्टेन यामन्नमति जहातु सः ॥ सर्पिीवी पीवर्यस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानियः सुमखस्य मा न इन्द्रायाशिरँ सह कुम्भ्यादात् ॥ आशीर्म ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्रविण सवर्चसम् । सञ्जयन्क्षेत्राणि सहसाहमिन्द्र कृण्वानो अन्याः अर्धरान्सपत्नान् [[TODO: परिष्कार्यम्]]

इति ॥ सीमतोन्नयनतंत्रे -

राकामहँ उक्थ्य॑म् ॥ यास्ते’ राके॰ रराणा । यवोऽसि यवयास्मद्वेषो’ यवयारातीः ॥ सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः । विवृत्तवका आसीनास्तीरेण गंगे तव [[TODO: परिष्कार्यम्]]

इत्येवं मंत्रान्पठेत् ॥ ॥ अथ विष्णुबलितंत्रम् ॥ विष्णवे बलिमुपहरति गुडपायसं घृतमिश्रमन्नञ्च

ॐ केशवाय स्वाहा नमः ॥ नारायणाय॰ ॥ माधवाय॰ ॥ गोविन्दाय॰ ॥ विष्णवे॰ ॥ मधुसूदनाय॰ ॥ त्रिविक्रमाय॰ ॥ वामनाय॰ ॥ श्रीधराय॰ ॥ हृषीकेशाय॰ ॥ पद्मनाभाय॰ ॥ दामोदराय स्वाहा नमः

इति द्वादशभिः ॥ पुनस्तैरेव नामभिः -

केशवं तर्पयामि, नारायणं॰, माधवं॰,

इत्यादिभिस्तर्पयित्वा, पुष्पाञ्जलिं समर्प्य वैष्णवीभिर्ऋग्यजुस्सामाभिः स्तुत्वा व्याहृतीभिः पुरुषमुद्वासयेत् -

ॐ भूः पुरुषमुद्वासयामि ॥ ॐ भुवः पुरुषं॰ ॥ ॐ सुवः पुरुषं॰ ॥ ॐ भूर्भुवस्सुवः पुरुषमुद्रासयामि ॥ प्रयातु भगवान् महापुरुषः क्षेमाय विजयाय पुनः संदर्शनाय च

इति ॥ ॥ अथ जातकर्मणो मुख्यकालाऽभावादिदानीं फलीकरणहोमस्याप्रसक्तेः केवलं तंत्रोक्तान् - “कृणुष्व पाजः प्रसितिम्” इत्यादि “अग्निरायुष्मान्” इति पञ्चपर्यायान्तं मंत्रान्पठेत् ॥ ॥ अथ नामकरणतंत्रम् ॥ तत्र यथाचारं तण्डुलपूर्णे सुवर्णाद्यन्यतमे पात्रे सुवर्णशलाकया हरिद्राखण्डेन वा “गणपतिभक्तः" इत्यादि तत्तत्कुलदेवतानाम “कृष्णः” इत्यादितत्तन्मासनाम “आश्वयुजः” इत्यादि तत्तन्नाक्षत्रनाम “हरिशर्मा" इत्याद्यभिमतव्यावहारिकनाम चेत्येवं नामचतुष्टयं विलिख्य “नर्य प्रजां मे गोपाय” इति मंत्रेण प्रतिष्ठाप्य षोडशोपचारैरभ्यर्चयेत् ॥ ततः पितरौ देशकालौ संकीर्त्य

अस्य कुमारकस्यायुःश्रीबलवृद्धिपूर्वकं व्यवहारसिद्धये नाम धास्यावहे

इति सङ्कल्प्य ब्राह्मणान्सम्पूज्य “प्रजापतिः प्रीयताम्" इति पुण्याहं वाचयित्वा प्रार्थयेताम् -

कुलदेवतानाम्ना गणपतिभक्ताय स्वस्ति भवन्तो ब्रुवन्तु

इति ॥ “गणपति भक्ताय स्वस्ति" इति ते प्रतिब्रूयुः । एवमेव

मासनाम्ना कृष्णाय स्वस्ति भवन्तो ब्रुवन्तु

इति ॥ “कृष्णाय स्वस्ति” इति प्रति॰ ॥

नाक्षत्रनाम्ना आश्वयुजाय स्वस्ति भवन्तो बुवन्तु

इति ॥ “आश्वयुजाय स्वस्ति" इति प्रति॰ ॥

व्यावहारिकनाम्ना हरिशर्मणे स्वस्ति भवन्तो ब्रुवन्तु

इति ॥ “हरिशर्मणे स्वस्ति” इति प्रति॰ ॥ ततो मातुरुत्सङ्गोपविष्टस्य कुमारकस्य दक्षिणे कर्णे ब्रूयात् -

कुलदेवतानाम्ना त्वं गणपतिभक्तोऽसि ॥ मासनाम्ना त्वं कृष्णोऽसि ॥ नाक्षत्रनाम्ना त्वं आश्वयुजोऽसि ॥ व्यावहारिकनाम्ना त्वं हरिशर्मासि

इति प्रत्येकमुपाँशु त्रिस्त्रिरुक्त्वोपोत्थाय ब्राह्मणान्कुमारेणाभिवादयन्प्रवदेत् -

कुलदेवतानाम्ना गणपतिभक्तोऽयं भवतः सर्वान्ब्राह्मणानभिवादयते

इति ॥ “आयुष्मान्भवतु गणपतिभक्तः” इति ते प्रतिब्रूयुः ॥ एवमेव

मासनाम्ना कृष्णोऽयं भवतः सर्वान्ब्राह्मणानभिवादयते ॥ नाक्षत्रनाम्ना आश्वयुजोऽयं भवतः सर्वान्ब्राह्मणानभिवादयते ॥ व्यावहारिकनाम्ना हरिशर्मायं भवतः सर्वान्ब्राह्मणानभिवादयते

इति ॥ सर्वत्र “आयुष्मान्भवतु अमुकः” इति तत्तन्नाम योजयन्तः प्रतिब्रूयुः ॥ ॥ अथोपनिष्क्रमणतंत्रम् ॥ मङ्गलघोषपुरस्सरं कुमारेण सह बहिरुपनिष्क्रम्य बाह्यानि चित्रियाणि दैवतानि “चित्रियेभ्यो नमः" इति गन्धपुष्पाक्षतैरभ्यर्च्य

चन्द्रार्कयोर्दिगीशानां दिशां च गगनस्य च ।
निक्षेपार्थमिमं दद्मि तेऽमुं रक्षन्तु सर्वदा ॥
अप्रमत्तं प्रमत्तं वा दिवा रात्रमथापि वा ।
रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः

इति सम्प्रार्थ्य त्रिवृतान्नेन हिरण्येन वा ब्राह्मणान्सम्पूज्य “चित्रियाणि प्रीयन्ताम्” इति पुण्याहं वाचयित्वा तान्प्रदक्षिणीकृत्य कुमारं गृहमानयेत् ॥ ॥ अथान्नप्राशनतंत्रम् ॥ सुवर्णादिपात्रे दध्ना मधुना घृतेनाद्भिश्चोदनं समुदायुत्य हिरण्येन मातुरङ्कोपविष्टं कुमारं प्राशयति -

ॐ या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । मन्दामि बरूणामहँ शतं धामानि सप्त च ॥ भूर्भुवः सुवरपान्त्वौषधीनाँ रसमन्नं प्राशयामि शिवास्त आप ओषधयः सन्त्वनीवास्त आप ओषधयः सन्तु [[TODO: परिष्कार्यम्]]

इति । एवमेव

शतं वो अम्ब धामानि सहस्रमुत वो रुहः । अथा शतकत्वो यूयमिमं मे’ अगदं कृत ॥ भूर्भुवः सुवरपां॰ ओषधयः सन्तु ॥ पुष्पावतीः प्रसूवतीः फलिनीरफला उत । अश्वा इव सजित्वरीवर्वीरुधः पारयिष्णवः॥ भूर्भुवः सुवरपां॰ ओषधयः सन्तु ॥ ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे । रासि विघ्नतीरितरपश्चातयमानाः ॥ भूर्भुवः सुवरपां॰ ओषधयः सन्तु ॥ अश्वत्थे वो’ निषदनं पर्णे वो’ वसतिः कृता । गोभाज इकिलासथ यत्सनवथ पूरुषम् ॥ भूर्भुवः सुवरपां॰ ओषधयः सन्तु ॥ यदहं वाजयन्निमा ओषधर्हिस्त आधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ भूर्भुवः सुवरपान्त्वौषधीनार रसमन्नं प्राशयामि शिवास्त आप ओषधयः सन्त्वनीवास्त आप ओषधयः सन्तु [[TODO: परिष्कार्यम्]]

इति षड्भिः प्राशयित्वा हस्तं प्रक्षाळयेत् ॥ ॥ अथ कर्णवेधनतंत्रम् ॥ ब्राह्मणान्सम्पूज्य “प्रजापतिः प्रीयताम्" इति पुण्याहं वाचयित्वा लोहित सूच्या कण्टकेन वा कुमारस्य दक्षिणं कर्णमातृणत्ति -

गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्या सह । बृहत्युष्णिहो ककुत्सूचीभिः शिम्यन्तु त्वा [[TODO: परिष्कार्यम्]]

इति । अथ सव्यकर्णं

द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा । सछन्दा या च विच्छन्दाः सूचीभिः शिम्यन्तु त्वा [[TODO: परिष्कार्यम्]]

इत्यातृद्य लोहितसूत्रेण शणसूत्रेण वा कर्णौ बन्धाति - “वरु॑णस्य॒ स्कम्भ॑नमसि" इति ॥ श्वोभूते तद्विस्रंसयति - “वरु॑णस्य स्कम्भ॒सर्ज॑नमसि" इति ॥ ॥ अथ चौळतन्त्रम् ॥ अपरेणाग्निमुष्णास्वप्सु शीता आनयति -

उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशा॑न्वपतु

इति ॥ ताभिरद्भिः प्राङ्मुखः पिता प्रत्यङ्मुखोपविष्टस्य कुमारस्य दक्षिणतः शिर उनत्ति -

आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से

इति ॥ ऊर्ध्वाग्रं बहिरनूच्छ्रयति- “ओष॑धे॒ त्राय॑स्वैनम्" इति । तत्सव्येन गृहीत्वा दक्षिणहस्तेन क्षुरमादायाभिमन्त्रयते - “ज्योक्च॒ सूर्यं॑ दृ॒शे” इति । तत्रैनं तिर्यञ्चं निदधाति - “स्वधि॑ते॒ मैनँ॑ हिँ सीः” इति । अथास्य केशान्वपति - “येनाव॑पत्सवि॒ता॰ सृ॑जाथ” इति । ताननुमंत्रयते - “मा ते॒ केशा॒न्॰ आद॑धात्" इति । उप्तान्केशान्समुच्चित्य दर्भस्तम्बे निदधाति -

तेभ्यो॑ नि॒धानं॑॰ वर्च॑सा॒ सँ सृ॑जाथ

इति । अथैनं कुमारमुष्णोदकेनाप्लावयति -

बल॑न्ते बाहु॒वोः॰ सँ सृ॑जाथ

इति । अथैनं संस्नाप्याच्छाद्यालंकृत्य त्रिवृतान्नेन हिरण्येन वा ब्राह्मणान्सम्पूज्य ‘प्रजापतिः प्रीयताम्’ इति पुण्याहं वाचयेत् ॥ अथोत्तरपरिषेकादि होमशेषं समाप्य “यस्य स्मृत्या” इत्यादिना विष्णुं स्मृत्वा,

एभिर्गर्भाधानादिचौलान्तकर्मभिः श्रीपरमेश्वरः प्रीयताम्

इति कर्मेश्वराय समर्प्य यथाशक्ति ब्राह्मणान्सम्भोज्य दक्षिणादिभिः सन्तोष्याशिषो गृह्णीयात् ॥ ॥ इति गर्भाधानादिचौलान्तसंस्काराणां समानतंत्र प्रयोगः ॥


  1. स्वजन्मराशिलग्नाभ्यामष्टमराशिव्यतिरिक्ते इत्यर्थः ॥ ↩︎

  2. मृद्वादिनक्षत्राणि मुहूर्तशतके - “चित्रान्त्यैन्दवमैत्रभं मृदु चरं श्रोत्रद्वयाब्धिप्रसूवातार्क्षं स्थिरमुत्तराजभमिनार्याद्यं लघुग्रं परम्” इति । ↩︎

  3. ‘चौळाद्यंकुरमेव च’ इति गृह्यशेषे ॥ ↩︎

  4. सोमराजोद्देश्यकत्वान्मंत्रस्यैवमुद्देशत्यागः समादृतः ॥ ↩︎

  5. “ताभिरुन्द्याच्छिरः शिशोः । प्रत्यङ्मुखस्याभिमुखः प्राङ्मुखः स्वयमास्थितः" इति गृ॰ संग्रहे ॥ ↩︎

  6. “मा ते केशानिति जपेत्पतितान्वीक्ष्य मूर्धजान्” इति प्र॰ तिलके ॥ ↩︎

  7. स्तनाभिमन्त्रणादि त्रयस्येदानीमर्थलोपान्मन्त्रमात्रं पठेत् ॥ ↩︎