(बो. गृ. शे. सू. १. १२)
सप्तमेऽष्टमे वा मासि कर्णवेधः । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याऽऽग्निमुखात्कृत्वा पक्वाज्जुहोति - ‘श्रोत्रेण भद्रम्’ इति पुरोनुवाक्यामनूच्य ‘येन प्राच्यै’ इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति - ‘प्राणो रक्षति विश्वमेजत्’ इत्येतेनानुवाकेन प्रत्यृचम् । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् । अथाग्रेणाग्निं वेणुपर्णेषु हुतशेषं निदधाति -
स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑नां॒ पत॑ये॒ नमः॑
इति । अथाशिषो वाचयित्वा लोहितसूच्या वा कंटकेन वा दक्षिणं कर्णमातृणत्ति - ‘गायत्री त्रिष्टुप्॰’ इति । ‘द्विपदा०’ इत्युत्तरम् । अथ लोहितसूत्रेण वा वेणुसूत्रेण वा कर्णौ बध्नाति - ‘वरुणस्य स्कम्भनमास’ इति । श्वोभूते विस्रसयति - ‘वरुणस्य स्कम्भसर्जनमसि’ इति । सूत्रेण वा वेणुकाण्डेन वा वर्धयति ।
निर्णयसिन्धौ श्रीधरः -
मासे षष्ठे सप्तमे वाष्टमे वा वेध्यौ कर्णौ द्वादशे षोडशेह्नि ।
मध्ये वाह्नः पूर्वभागेन रात्रौ नक्षत्रे द्वे द्वे तिथी वर्जयित्वा
इति । दिवा नक्षत्रद्वयतिथिद्वययोः सन्धिर्यत्रापतति तद्दिनं वर्ज्यमित्यर्थः । तथा च मुहूर्तशतके -
श्रुतिवेधने तिथिभयोः सन्धिश्च वो दिवा
इति । नक्षत्रादींश्चाह श्रीधरः -
हरिहरकरचित्रासौम्यपौष्णोत्तरार्यादितिवसुषु घटालीसिंहवर्ज्ये विलग्ने ।
शशिबुधगुरुकाव्यानां दिने पर्वरिक्तारहिततिथिषु शुद्ध नैधने कर्णवेधः
इति । तत्र जन्मर्क्षं द्वितीयादिवर्षे जन्ममासञ्च वर्जयेदित्यन्यत्र विस्तरः । तथा च जननाद्वादशे षोडशे वाह्नि षष्ठे सप्तमेऽष्टमे वा मासि शुक्लपक्षे पूर्वाह्णे दिवा तिथिनक्षत्रसन्धिपूर्वरिक्ततिथिपापवारांश्च वर्जयित्वा जन्मर्क्षवर्जितेषु मृगशीर्षार्द्रापुनर्वसुतिष्योत्तरात्रयहस्तचित्राश्रवणधनिष्ठारेवतीनक्षत्रेषु सिंहवृश्चिककुम्भरहितेष्वष्टमशुद्धेषु राशिषु कर्णवेधः कार्य इत्यवगम्यते ॥
कर्णवेधनप्रयोगः
अथ कर्णवधनप्रयोगः ॥ पूर्वेद्युर्नान्दीं प्रतिसरबन्धं श्वः स्नानादिचतुष्टयं च कृत्वा गणपतिं सम्पूज्य “श्रोत्रं प्रीयताम्” इति पुण्याहं वाचयित्वा देवयजनोल्लेखनाद्यौपासनैकदेशाग्निं प्रतिष्ठाप्य
मम कुमारकस्य बीजगर्भसमुद्भवैनोनिबर्हणपूर्वकमायुःश्रीबलवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं कर्णवेधनहोमं करिष्ये ॥
वर्धमानो नामाग्निः, श्रोत्रं देवता, चरुर्हविः,
इत्यन्वाधाने विशेषः॥ अग्निमुखान्ते -
ॐ श्रोत्रे॑ण भ॒द्रम्॰ शृ॑णोमों ३ येन॒ प्राच्या॑॰ बभूव॒ स्वाहा॑ । (श्रोत्रायेदं॰) ।
इति पक्वं हुत्वादत्तं स्विष्टकृतमन्तःपरिधौ निधायाज्याहुतीरुपजुहोति -
ॐ प्राणो रक्षति॰ व्यानशे स्वाहा ॥ (प्राणायेदं॰) ॥ ॐ यो देवो॰ हविः स्वाहा ॥ (प्राणायेदं॰) ॥ ॐ मनसश्चित्तेदं॰ अग्रियँ स्वाहा ॥ (मनस इदं॰) ॥ ॐ आ न एतु पुरश्चरम्॰ दधत्स्वाहा ॥ (मनस इदं॰) ॥ ॐ जुषतां मे॰ अनपायिनी स्वाहा ॥ (वाच इदं॰) ॥ ॐ यया रूपाणि॰ हविः स्वाहा ॥ (वाच इदं॰) ॥ ॐ चक्षुर्देवानां॰ विचक्षणँ स्वाहा ॥ (चक्षुष इदं॰) ॥ ॐ आयुरिन्नः॰ उतामृतँ स्वाहा ॥ (चक्षुष इदं॰) ॥ ॐ श्रोत्रेण भद्रं॰ शृणोमि स्वाहा ॥ (श्रोत्रायेदं॰) ॥ ॐ येन प्राच्या॰ बभूव स्वाहा ॥ (श्रोत्रायेदं॰) [[TODO: परिष्कार्यम्]]
इति दशाज्याहुतीर्तुत्वा स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाग्रेणाग्निं वेणुपर्णेषु हुतशेषं निदधाति -
स॒मु॒द्राय॑ व॒युना॑य॒॰ विश्वाहाम॑र्त्यँ ह॒विः
इति ॥ अथ ब्राह्मणान्सम्पूज्य “प्रजापतिः प्रीयताम्" इति पुण्याहं वाचयित्वा लोहितसूच्या कंटकेन वा दक्षिणं कर्णमातृणत्ति –
गा॒य॒त्री त्रि॒ष्टुप्॰ शिम्यन्तु त्वा
इति ॥ उत्तरकर्णमपि -
द्वि॒पदा॒ या॰ शिम्यन्तु त्वा
इत्यातृद्य लोहितसूत्रेण वा शणसूत्रेण वा कर्णौ बध्नाति – ‘वरु॑णस्य॒ स्कम्भ॑नमसि’ इति ॥ श्वोभूते तद्विस्त्रंसयति - ‘वरु॑णस्य स्कम्भ॒सर्ज॑नमासि’ इति ॥ अथोत्तरपरिषेकादि होमशेषं समाप्य कर्मेश्वराय समर्पयेत् ॥ ततः पुरन्ध्र्यो यथाचारं नीरांजनादिकं कुर्युः, ब्राह्मणान् भोजयित्वा दक्षिणादिना सन्तोष्य तेभ्यश्चाशिषो गृह्णीयात् ॥ ॥ इति कर्णवेधनप्रयोगः ॥