२६ अन्नप्राशनम्

(बो. गृ. सू. २. ३)

षष्ठे मास्यन्नप्राशनम् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा। अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा अन्नसूक्तेन जुहोति - ‘अहमस्मि प्रथमजा ऋतस्य’ इत्यष्टाभिरनुच्छंदसम् । जयप्रभृति सिद्धमाधेनुवरप्रदानात् । अथौदनं दध्ना मधुना घृतेनाद्भिरिति समुदायुत्य हिरण्येनौषधस्य कुमारं प्राशयति-‘या जाता ओषधयः’ इति षड्भिरनुच्छन्दसम्

इति ।

भूर्भुवःसुवरपां त्वौषधीनां रसमन्नं प्राशयामि शिवास्त आप ओषधयस्सन्त्वनमीवास्त आप ओषधयस्सन्त्वसौ इति सर्वास्वनुषजति"॥

॥ वारलग्नायुक्तं पारिजाते –

वारांशकाश्च गुरुशुक्रशशीन्दुजानां मेषाऽलिमीनरहितानि शुभानि यानि ॥
भुक्तौ शिशोः शुभकराः परिहत्य सौम्यं भौमं सितं न वमनैधनसप्तकेषु

इति ॥ (मुहूर्तग्रन्थेत्र दशमशुद्धिरभिहिता) तिथिनक्षत्राण्युक्तानि सं॰ मालायाम् -

आदित्यतिष्यवसुसौम्यकराऽनिलाश्विचित्राऽजविष्णुवरुणोत्तरपौष्णमित्राः ।
बालान्नभोजनविधौ दशमे विशुद्धे छिद्रां विहाय नवमीं तिथयः शुभास्स्युः

इति ॥

अन्नप्राशनकार्ये तु जन्मभं मृत्युदं भवेत् ।
शुभं कर्मर्क्षमाधानं विवाहे चान्नभोजने

जन्मदं जन्मनक्षत्रं दशमं कर्मसंज्ञितम् ।
एकोनविंशमाधानं त्रयोविंशं विनाशभम्

इति प्र॰ परिजाते आद्यजन्मर्क्षं दूषितम् ॥ तथा च जननात्षष्ठे मासे शुक्ले पक्षे नवमीछिद्रावर्जितेषु तिथिषु शुभग्रहवारेषु मेष वृश्चिकमीनातिरिक्तेषु दशमशुद्धियुतेषु राशिषु आद्यजन्मर्क्षं विपत्प्रत्यरवधर्क्षाणि च वर्जयित्वा अश्विनीरोहिणीमृगशिरःपुनर्वसुतिष्योत्तरात्रयहस्तचित्रास्वात्यनूराधाश्रवणधनिष्ठाशतभिषग्रेवतीनक्षत्रेष्वन्नप्राशनं कुर्यादिति पर्यवस्यति ॥

अन्नप्राशनप्रयोगः

अथान्नप्राशनप्रयोगः ॥ कर्ता पूर्वेद्युः प्रातर्नांदीश्राद्धं रात्रौ प्रतिसरबन्धञ्च1 कृत्वा श्वः स्नानादिचतुष्टयं गणपतिपूजनं ‘सविता प्रीयताम्’ इति पुण्याहवाचनं च कृत्वा देवयजनोल्लेखनाद्यौपासनैकदेशाग्निं प्रतिष्ठाप्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

मम कुमारकस्य बीजगर्भसमुद्भवैनोनिबर्हणपुरस्सरमायुःश्रीबलवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमन्नप्राशनहोमं करिष्ये ॥

अन्वाधाने -

शुचिर्नामाग्निः, सविता देवता, चरुर्हविः,

इत्याद्यग्निमुखान्ते सावित्र्या पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतारुपजुहोति -

अहमस्मि, पूर्वमग्नेः, जहाम्यन्यम्, पराके अन्नम्, महान्तौ चरू, अन्नं प्राणम्, मोघमन्नं अहं मेघः

इत्यष्टर्चेनान्नसूक्तेन ॥ सर्वत्र, (अन्नायेदं॰) ॥ अथ स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाग्रेणाग्निमश्वत्थपर्णेषु हुतशेषं निदधाति - “ॐ भूर्भुवस्सुवः” इति॥ अथ सौवर्णे राजते कांस्ये वा पात्रे दध्ना मधुना घृतेनाद्भिश्चौदनं समुदायुत्य मातुरुत्सङ्गोपविष्टं कुमारं हिरण्येन प्राशयति -

या जाता ओषधयः, शतं वो अम्ब, पुष्पावतीः, ओषधीरिति, अश्वत्थे वः, यदहं वाजयन्

इति षड्भिरनुच्छन्दसम् ॥

भूर्भुवः सुवरपान्त्वौषधीनाँ रसमन्नं प्राशयामि । शिवास्त आप ओषधयः सन्त्वनमीवास्त आप ओषधयः सन्तु [[TODO: परिष्कार्यम्]]

इति सर्वत्र मंत्रान्ते अनुषजति ॥ मुखं प्रक्षाळ्योत्तरपरिषेकादि होमशेषं समाप्य कर्मसमर्पणं कुर्यात् । ततो नीराजनादिब्राह्मणाशीर्ग्रहणान्तं पूर्ववद्यथाचारं कुर्यात् ॥ ॥ इत्यन्नप्राशनप्रयोगः ॥


  1. “रक्षाबन्धनमन्नादि” इति शेषसूत्रे ॥ ↩︎