अथोपनिष्क्रमणप्रयोगः ॥ नामकरणवन्मङ्गलस्नानाद्यौपासनैकदेशाग्निप्रतिष्ठापनान्तं कृत्वाचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम कुमारकस्य बीजगर्भसमुद्भवैनोनिबर्हणपुरसरमायुःश्रीबलवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमुपनिष्क्रमणहोमं करिष्ये ।
अन्वाधाने -
शिवो नामाग्निः, सविता देवता, चरुर्हविः,
इति विशेषः ॥ सावित्र्या पक्वं हुत्वावत्तं स्विष्टकृतमन्तःपरिधौ निधायाज्याहुतीरुपजुहोति -
ॐ स्व॒स्ति नो॑ मिमीता॰ सु॑चे॒तना॒ स्वाहा॑ । (अश्विभगादितिपूषद्यावापृथिवीभ्य इदं॰) ॥ ॐ स्व॒स्तये॑ वा॒युं॰ भवन्तु नः॒ स्वाहा॑ । (वायुसोमबृहस्पत्यादित्येभ्य इदं॰) ॥ ॐ विश्वे॑दे॒वा नो॑॰ पा॒त्वँह॑सः॒ स्वाहा॑ । (विश्वेदेववैश्वानरवस्वग्निदेवऋभुरुद्रेभ्य इदं॰) ॥ ॐ स्व॒स्ति मि॑त्रावरुणा॰ कृधि॒ स्वाहा॑ । (मित्रावरुणपथ्यारेवतीन्द्राग्न्यदितिभ्य इदं॰) ॥ ॐ स्व॒स्ति पन्था॒॰ सङ्ग॑मेमहि॒ स्वाहा॑ । (देवेभ्य इदं॰) ॥ ॐ स्व॒स्त्यय॑नं॒ तार्क्ष्यं॒॰ रु॑हेम॒ स्वाहा॑ । (तार्क्ष्यारिष्टनेमय इदं॰) ॥ ॐ अँ॒हो॒मुच॑मा॒ङ्गिरेसं॒॰ अस्तु॒ स्वाहा॑ । (स्वस्त्यात्रेयतार्क्ष्याभ्यामिदं॰) ॥ ॐ स्व॒स्ति न॒ इन्द्रः॑॰ दधातु॒ स्वाहा॑ । (इन्द्राय वृद्धश्रवसे पूष्णे विश्ववेदसे तार्क्ष्यायारिष्टनेमये बृहस्पतय इदं॰) ॥ [[TODO: परिष्कार्यम्]]
इत्यष्टभिरुपहुत्य स्विष्टकृत्प्रभृति सिद्धं प्रागुत्तरपरिषेकादथाग्रेणाग्निमश्वत्थपर्णेषु व्याहृतिभिर्हुतशेषं निदधाति ॥ अथ मङ्गलघोषपुरस्सरं कुमारेण सहोपनिष्क्रम्य बाह्यानि चित्रियाणि चन्द्रार्कधेनुदिगीशादीनि “चित्रियेभ्यो नमः” इति गन्धाक्षतपुष्पैरभ्यर्च्य
चन्द्रार्कयोर्दिगीशानां दिशाञ्च गगनस्य च ।
निक्षेपार्थमिमं दद्मि तेऽमुं रक्षन्तु सर्वदा ॥
अप्रमत्तं प्रमत्तं वा दिवा रात्रमथापि वा ।
रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः
इति सम्प्रार्थ्य, त्रिवृतान्नेन1 हिरण्येन वा ब्राह्मणान् सम्पूज्य “चित्रियाणि प्रीयन्ताम्" इति पुण्याहं वाचयित्वा चित्रियाणि प्रदक्षिणीकृत्य कुमारं गृहमानाय्योत्सरपरिषेकादिहामशेषं समापयेत् ॥ यथाचारं नीराजनं ब्राह्मणभोजनमाशीर्ग्रहणञ्च कुर्यात् ॥ ॥ इत्युपनिष्क्रमणप्रयोगः॥
-
ओदनापूपसक्त्वात्मकं त्रिदन्नमिति सत्याषाढः ॥ “भक्ष्यं भोज्यं च पेयं चेत्येतत्समुदितं त्रिवृत्" इति कारिका ॥ ↩︎