२४ उपनिष्क्रमणम्

( बो. गृ. सू. २. २ )

चतुर्थे मास्युपनिष्क्रमणम् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा । अथ देवयममोल्लेखनप्रभृत्याग्निमुखात्कृत्वा स्वस्त्यात्रेयं जुहोति - “स्वस्ति नो मिमीतां” इत्यष्टाभिरनुच्छंदसम् । जयप्रभृति सिद्धमाधेनुवरप्रदानात् । अयोपनिष्क्रम्य बाह्यानि चित्रियाण्यभ्यर्च्य त्रिवृतान्नेन ब्राह्मणान्संपूज्याशिषो वाचयित्वा प्रदक्षिणीकृत्य स्वान्गृहानानयति ॥

शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना ।
रिक्ताषष्ठ्यष्टमीदर्शद्वादशीश्च विवर्जयेत् ॥
चत्वार्यर्थमतस्त्रीणि वैश्वात्रीणि च बुध्न्यभात् ।
मैत्रमादित्यपुष्यौ च राहिणी च शुभावहाः॥
वृषालिमेषा वर्ज्याः स्युस्तथैवाधोमुखानि च ।
सतां तु वारवर्गाश्च शुभदाः सूदयास्तथा ॥
उपनिष्क्रमणे शस्ता मातुलो वाहयेच्छिशुम्

इति सं॰ रत्नमालायाम् ।

मासे तृतीये दिवसे दिनेशं शिशुं चतुर्थे शशिनं च धेनुम् ।
विलोकयित्वान्नविधिप्रयुक्त काले गृहान्निष्क्रमणं विदध्यात्

इति तत्रैव श्रीधरः । चतुर्थे मासि शुक्ले पक्षे कृष्णेऽप्यन्त्यत्रिकवर्जिते दर्शरिक्तच्छिद्रतिथीवर्जयित्वा शुभग्रहाणां वारोदयेषु उत्तरात्रयचित्रास्वातीश्रवणधनिष्ठारेवत्यश्विन्यनूराधापुनर्वसुतिष्यरोहिणीनक्षत्रेषु शिशोर्ग्रहात्प्रथमनिर्गमनं कारयेदिति फलितार्थः ॥