२३ नामकरणम्

(बो. गृ. सू. २. १)

दशम्यां द्वादश्यां वा नामकरणम् । प्राजापत्येन सूक्तेन हुत्वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयन्नामास्मै ददाति । द्व्यक्षरं चतुरक्षरं षडक्षरमष्टाक्षरं वा । घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तम् । अपि वा यस्मिन् स्वित्युपसर्गस्स्यात्तद्धि प्रतिष्ठितमिति विज्ञायते । ऋष्यणूकं देवताणूकं वा । यथैवैषां पूर्वपुरुषाणां नामानि स्युः । अयुगक्षरं कुमार्याः । अमुष्मै स्वस्तीति ॥

(बो. गृ. प. सू. १. ११. २० )

नामकरणोपनिष्क्रामणान्नप्राशनानि ब्राह्मणभोजनादेवैकेषाम् ॥ पुण्याहवाचनादेवैकेषाम् ॥

(बो. गृ. शे. सू. १. ११)

दशम्यां द्वादश्यां वा मातापितरौ स्नात्वा शुच्यगारं कृत्वा पुत्रस्य नामधेयस्य निदधीयाताम् इति ॥ नामास्मै दधाति नक्षत्रनामधेयेन । द्वितीयस्य नामधेयं गुह्यमस्यान्यदभिवादनीयमौपनयनकालान्मातापितरौ संविदितौ भवतः । विज्ञायते च

तस्माद् द्विनामा ब्राह्मणोर्धुकः

इति ।

सोमयाजिनस्तृतीयमस्य नामधेयं कुर्चीत

इति विज्ञायते । अयुगक्षरं कुमार्यै स्वस्तिश्रीसोम्येति दीर्घवर्णान्तम् । अथाप्युदाहरन्ति –

शर्मान्तं ब्राह्मणस्य वर्मान्तं क्षत्रियस्य गुप्तान्तं वैश्यस्य, भृत्यदासान्तं शूद्रस्य दासान्तमेव वा ॥ अथ यदि ब्राह्मणं न विन्देतौपासने ज्योतिष्मत्या पुत्रस्य नाम गृह्णात्युपतिष्ठते वा ॥

मनुस्मृतौ -

नामधेयं दशम्यान्तु द्वादश्यां वापि कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते

इति ॥ तिथ्यादिकमाह निर्णयसिन्धौ श्रीधरः -

मित्राऽदित्यमघोत्तराशतभिषक्स्वातीधनिष्ठाऽच्युत
प्राजेशाऽश्विशशाङ्कपोष्णदिनकृत्पुष्येषु राशौ स्थिरे ।
छिद्रां पञ्चदशीं विहाय नवमीं शुद्धेऽष्टमे भार्गव
ज्ञाऽचार्याऽमृतपादभागदिवसे1 नामानि कुर्याच्छिशोः

इति ॥ गृ॰ सङ्ग्रहे तु -

दशमेऽह्न्ये व तु क्षौरं कृत्वा नामाऽऽदधीत च ।
द्वादशेऽह्न्यपि वा पुण्ये नक्षत्रे वा गुणाऽन्विते ॥
नान्दीमुखन्तु कर्तव्यं कुर्याच्चेद्दशमेऽहनि ।
अशुचित्वान्न पूर्वेद्युः सद्यो न प्रतिषेधतः

इति विशेषोऽभिहितः ॥ न चाऽत्र दशमेऽहन्याशौचसत्वात्कर्माऽनर्हता इति वाच्यम् ॥

प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्वाशौचं न कुर्वीत सूतके पुत्रजन्मनि

इति प्र॰ पारिजाते व्यासोक्त्या तत्तद्विहितकर्मसु आशौचाऽभावविधानात् ॥ तथा च प्रसवाद्दशमे द्वादशे वाऽहनि तत्रासम्भवे उपनिष्क्रमणादर्वाक् व्यतीपातवैधृतिपर्वच्छिद्रतिथिपापवारचरराशींश्च2 वर्जयित्वा अश्विनीरोहिणीमृगशिरःपुनर्वसुतिष्यमघोत्तरात्रयहस्तस्वात्यनुराधाश्रवणधनिष्ठाशतभिषग्रेवतीनक्षत्रेषु नामकरणं कुर्यादिति निर्णीयते ॥ अत्राऽऽचारादौ “अमुकदेवताभक्तः” इति कुलदेवतानाम दध्यात् -

कुलदेवतासम्बद्धं पिता नाम कुर्यात्

इति सं॰ मालायां शङ्खोक्तेः ॥ द्वितीयं मासनाम ।

मासनाम प्रकुर्वीत बालकस्य पिता ततः ।
कृष्णोऽनन्तोऽच्युतश्चक्री वैकुण्ठोऽथ जनार्दनः ॥
उपेन्द्रो यज्ञपुरुषो वासुदेवस्तथा हरिः ।
योगीशः पुण्डरीकाक्षो मासनामान्यनुक्रमात्

इति गर्गोक्तेः ॥ अत्र मार्गशीर्षादिरेव क्रमः, इति सं॰ मालायाम् ॥

चैत्राऽदिमासनामानि वैकुण्ठोऽथ जनार्दनः

इति मदनरत्नोदाहृतगर्गवचःसंवादान्निर्णीतः ॥ ततः सूत्रोक्तं नाक्षत्रं व्यावहारिकञ्चेति नामद्वयमादधीत ॥ नाक्षत्राण्यभिहितानि ( वो. गृ. शे. सू. १. ११)

रोहिणीमृगशीर्षमघाचित्राज्येष्ठाश्रवणशतभिषग्रेवत्याश्वयुक्षु प्रथमाक्षरवृद्धिः स्याद्रोहिण्यां रौहिणायेति तथेतराणि ॥ तिष्याऽऽश्रेषाहस्तविशाखाऽनुराधाऽषाढाश्रविष्टासु प्रकृतिवत्तिष्यायेति तथेतराणि ॥ फल्गुन्यां फल्गुनाय फाल्गुनायेति वा ॥ स्वातीपुनर्वस्वोः स्वातये पुनर्वसव इति ॥ मूलार्द्रयोर्मूलकायाऽऽर्द्रकायेति ॥ प्रोष्ठपदासु प्रोष्ठपदाय प्रोष्ठपादायोति वा ॥ अपभरण्यामपभरणायाऽऽपभरणायेति वा ॥ अग्नये कृत्तिकाय कार्तिकायेति वा

इति ॥ तत्सङ्ग्रहार्थः श्लोकश्चोदाहृतः श्रीविद्यारण्यकृतबोधायनीयदर्शपूर्णमाससूत्रभाष्ये -

रोरेममृज्येचिषु3 वृद्धिरादौ ठोत्पे4 च वान्त्यश्रवशाश्वयुक्षु5
शेषेषु6 नार्म्वोः7 कपरः स्वरोन्त्यः स्वाप्वोरदीर्घः8 सविसर्ग इष्टः

इति ॥ तदेवं निष्पन्नानि नक्षत्रनामानि - “अश्वयुक्, आश्वयुजः” इति वा । “अपभरणः, आपभरण” इति वा । “कृत्तिकः, कार्तिक” इति वा ।

रौहिणः, मार्गशीर्षः, आर्द्रकः, पुनर्वसुः, तिष्यः, आश्रेषः, माघः, पूर्वाफल्गुनः, उत्तराफल्गुनः, फाल्गुन

इति वा ।

हस्तः, चैत्रः, स्वातिः, विशाखः, अनूराधः, ज्यैष्ठः, मूलकः, पूर्वाषाढः, उत्तराषाढः, श्रवणः श्रावण

इति वा ।

श्रविष्ठः, शतभिषक् शातभिषज

इति वा ।

पूर्वाप्रोष्ठपादः, उत्तराप्रोम्पादः, प्रोष्ठपदः

इति वा । “रैवतः” इति ॥

अथ नामकरणादिचौलाऽन्तेषु सुतसंस्कारेषु औपासनैकदेशाग्नौ संस्कारहोमः कर्तव्यः ॥ (बो. गृ. शे. सू. १.२ )

प्रजासंस्कारार्थमन्यत्र शुचौ देशे स्थण्डिलं कृत्वोल्लिखेत् ॥ औपासनादेकदेशं प्रणवेनाऽऽहृत्य व्याहृतिभिर्नियुप्याऽपि वा श्रोत्रियागारात् । एवमौपासनमुपसमाधाय

मयि गृह्णाम्यग्रे अग्निं, यो मो अग्निः पितरः

इति द्वाभ्यामात्मन्यग्निं गृहीत्वोपस्थानादि समानम्

इति ॥ कपर्दिकारिकायामपि -

उत्सृष्टसूतकाग्निश्चन्नामाद्युपनयादधः ।
औपासनैकदेशे स्यादपवृत्ते तु लौकिकः

इति ॥ “परार्थं लौकिकानले" इत्यपि कारिकान्तरम् ॥

औपासनैकदेशग्रहणविधिः

अथौपासनैकदेशग्रहणविधिः ॥

मम कुमारकस्याऽमुकसंस्कारं कर्तुमौपासनैकदेशग्रहणं करिष्ये

इति सङ्कल्प्य स्थण्डिलोल्लेखनाद्यौपसनादेकदेशं प्रणवेनाऽऽहृत्य ‘भूर्भुवस्वरों प्रतिष्ठापयामि’ इति स्थण्डिले प्रतिष्ठाप्य

मयि गृह्णाम्यग्रे अग्निँ रायस्पोषीय सुप्रजात्वाय सुवीर्याय । मयि प्र॒जां मयि वर्चो दधाम्यरिष्टाः स्याम तनुवा सुवीराः ॥ यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्याँ आविवेश । तमात्मन्परिगृह्णीमहे वयं मासो अस्माँ अवहाय परागात् [[TODO: परिष्कार्यम्]]

इति द्वाभ्यामात्मन्यग्निं गृहीत्वा “जुष्टो दमूना" इत्युपस्थायाऽग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्याऽज्यस्थालीं स्रुवं प्रोक्षणीं स्रुचं चेत्यासाद्य पवित्रकरणादि स्रुक्स्रुवसम्मार्जनान्तं कृत्वा स्रुचि चतुर्गृहीतं गृहीत्वा तूष्णीं समिधमभ्याधायाऽग्निं परिषिच्य

सप्त ते अग्ने॰ घृतेन स्थाहा

(अन्नये सप्तवत इदं॰) ॥ इति पूर्णाहुतिं हुत्वा तत्रैव नामकरणादि संस्कारहोमं कुर्यात् ॥ स चाग्निरपवृत्ते कर्मणि लौकिकः सम्पद्यते ॥ ॥ इत्येकदेशानिग्रहणविधिः॥

नामकरणप्रयोगः

अथ नामकरणप्रयोगः ॥ कर्ता पुत्रस्य जननाद्वादशेऽहन्यन्यस्मिन्वा शुभेहनि नामकरणं करिष्यन्पूर्वेद्युः प्रातर्मंगलस्नानादि नान्दीश्राद्धं कृत्वा श्वः स्नानादिचतुष्टयं गणपतिपूजनम् “सविता प्रीयताम् ” इति पुण्याहवाचनं च कृत्वा स्थण्डिलोल्लेखनाद्यौपासनैकदेशाग्निं प्रतिष्ठाप्य, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

ममास्य कुमारकस्य बीजगर्भसमुद्भवैनोनिबर्हण पुरस्सरमायुःश्रीबलवृद्धिव्यवहारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं नामकरणहोमाख्यं कर्म करिष्ये ॥

अन्वाधाने -

पार्थिवो नामाग्निः, सविता देवता, चरुर्हविः,

इत्यादि सङ्कल्प्याग्निमुखान्ते सावित्र्या पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -

प्रजापते न त्वत्, रयीणां पतिम्, प्रजापते त्वम्, तवेमे लोकाः, प्रजापतिं प्रथमम्, यो रायः

इति षडृचेन प्राजापत्येन सूक्तेन ॥ सर्वत्र, (प्रजापतय इदं॰)॥ ततः स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाग्रेणाग्निमश्वत्थपर्णेषु हुतशेषं निदधाति -

नमः॒9 सह॑मानाय॰ पत॑ये॒ नमः॑

इति ॥ अथ पितरौ देशकालौ सङ्कीर्त्य

अस्य कुमारकस्यायुःश्रीबलवृद्धिपूर्वकव्यवहारसिद्धये नाम धास्यावहे

इति सङ्कल्प्य ब्राह्मणान्यथानुकूलमभ्यर्च्य “प्रजापतिः प्रीयताम्” इति पुण्याहं वाचयित्वा॥ यथाचारं तण्डुलपूर्णे सुवर्णाद्यन्यतमे पात्रे सुवर्णशलाकया हरिद्राखण्डेन वा नामचतुष्टयं लिखेत् - “गणपतिभक्तः” इत्यादि तत्तत्कुलदेवतानाम । “वैकुण्ठः” इत्यादि यथाप्राप्तं मासनाम॥ “आश्वयुजः” इत्यादि तत्तन्नक्षत्रनाम ॥ “हरिशर्मा" इत्यादि यथाभिमतं व्यावहारिकं नाम चेत्येवं नामचतुष्टयं विलिख्य

नर्य प्र॒जां मे गोपाय । अमृतत्वाय जीवसे । जातां जनिष्यमाणां च । अमृते सत्ये प्रतिष्ठिताम् [[TODO: परिष्कार्यम्]]

इति प्रतिष्ठाप्य “नामचतुष्टयदेवताभ्यो नमः” इति षोडशोपचारैरभ्यर्च्योपोत्थाय ब्राह्मणान्प्रार्थयेताम् -

कुलदेवतानाम्ना गणपतिभक्ताय स्वस्ति भवन्तो बुवन्तु

इति ॥ “गणपतिभक्ताय स्वस्ति" इति ते प्रत्यूचुः ॥ एवं

मासनाम्ना वैकुण्ठाय स्वस्ति भवन्तो ब्रुवन्तु

इति ॥ “वैकुण्ठाय स्वस्ति" इति प्रतिवचनम् ॥

नक्षत्रनाम्ना आश्वयुजाय स्वस्ति भवन्तो ब्रुवन्तु

इति ॥ “आश्वयुजाय स्वस्ति" इति प्रतिवचनम् ॥

व्यावहारिकनाम्ना हरिशर्मणे स्वस्ति भवन्तो ब्रुवन्तु

इति ॥ “हरिशर्मणे स्वस्ति" इति प्रतिवचनम् ॥ अथोपविश्य कुमारं मातुरुत्सङ्गे उपवेश्य पिता तस्य दक्षिणकर्णे - कुलदेवतानाम्ना “त्वं गणपतिभक्तोऽसि" । मासनाम्ना “त्वं वैकुण्ठोऽसि” । नाक्षत्रनाम्ना “त्वमाश्वयुजोऽसि" । व्यावहारिकनाम्ना " त्वं हरिशर्मासि" इति प्रत्येकमुपाँशु त्रिस्त्रिरुक्त्वोपोत्थाय ब्राह्मणान्कुमारेणाभिवादयन् ब्रूयात् -

कुलदेवतानाम्ना गणपतिभक्तोऽयं भवतः सर्वान् ब्राह्मणानभिवादयते

इति ॥ “आयुष्मान् भवतु गणपतिभक्तः” इति ते प्रतिब्रूयुः । एवमेव

मासनाम्ना वैकुण्ठोऽयं भवतः सर्वान् ब्राह्मणानभिवादयते

इति ॥ “आयुष्मान् भवतु वैकुण्ठः” इति प्रतिवचनम् ॥

नाक्षत्रनाम्ना आश्वयुजोऽयं भवतः सर्वान् ब्राह्मणानभिवादयते

इति ॥ “आयुष्मान् भवत्वाश्वयुजः” इति प्रतिवचनम् ॥

व्यावहारिकनाम्ना हरिशर्मायं भवतः सर्वान् ब्राह्मणानभिवादयते

इति ॥ “आयुष्मान् भवतु हरिशर्मा" इति ते प्रत्यूचुः ॥ अथोपविश्योत्तरपरिषेकादि होमशेषं समाप्य कर्मेश्वराय समर्पयेत् ॥ यथाचारं पुरन्ध्र्यो नीराजनं कुर्युः ॥ कर्मसाद्गुण्याय यथाशक्ति ब्राह्मणान् भोजयित्वा दक्षिणादिभिः सन्तोष्याशिषो गृह्णीयात् ॥ इति नामकरणप्रयोगः॥

अत्र नामकरणोपनिष्क्रमणान्नप्राशनानि ब्राह्मणभोजनादेवैकेषां पुण्याहवाचनादेवैकेषाम्

इति बो॰ परिभाषावचनम् ॥

अन्नाशनोपनिष्क्रान्तिनामकर्माण्यशक्तितः ।
पुण्याहेनैव सिध्यन्ति विप्राणां भोजनेन वा

इति गृ॰ सङ्ग्रहवचनं च होमादिष्वत्यन्ताशक्तमधिकृत्य प्रवृत्तमिति द्रष्टव्यम् ॥

आन्दोलारोहणम्

अथान्दोलारोहणम् ॥ तदुक्तं सं॰ रत्नमालायाम् -

आन्दोलारोहणे पुंसो द्वादशो दिवसः शुभः ।
त्रयोदशस्तु कन्याया न नक्षत्रविचारणा

इति ॥

अन्यस्मिन्दिवसे चेत्स्याच्छुभकालं विचारयेत्

अभीष्टे पुण्यदिवसे चन्द्रताराबलान्विते ।
मृदुध्रुवक्षिप्रभेषु माता वा कुलयोषितः ॥
योगशायिहरिं स्मृत्वा प्राक्शीर्ष विन्यसेच्छिशुम् ।

इति भविष्य वचनम् ॥

करत्रये वैष्णवपौष्णभे चादितिद्वये चाश्विनकध्रुवेषु ।
कुर्याच्छिशूनां नृपतेश्च तद्दान्दोलनं वै सुखिनो भवन्ति

इति ज्योतिर्निबन्धवचनं च तत्रैव संगृहीतम् ॥ ॥ अथ संक्षेपतस्तद्विधिः -

जननदिनाद्द्वादशेऽहनि पुंसः, त्रयोदशेऽह्नि कन्यायाः, अन्यस्मिन्वा पूर्वोक्तनक्षत्रादियुते शुभदिने यथाचारं कुलदेवतापूजां विधायालंकृतं शिशुं हरिद्राद्यलंकृतायां दोलायां मात्राद्याः सौभाग्यवत्यः कुलस्त्रियो योगशायिनं हरिं स्मृत्वा प्राक्शिरसं शाययेयुः, इति ॥


  1. अमृतपादश्चन्द्रः ॥ ↩︎

  2. “अमासङ्क्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽचरेत्” इत्यमासङ्क्रान्त्यादिनिषेधः सर्वसंस्कारसाधारणः इति सं॰ र॰॥ ↩︎

  3. आद्यक्षरोपलक्षितेषु रोहिणीरेवतीमघामृगशीर्षज्येष्ठाचित्रेषु तद्धितप्रत्यययोजने आद्यक्षरवृद्धिः स्यादित्यर्थः ॥ ↩︎

  4. ‘प्रोष्ठपद’ इत्यत्र ठकारात्परे पकारे च वृद्धिरित्यर्थः ॥ ↩︎

  5. अपभरणीश्रवणशतभिषगश्वयुक्षु च तद्धितपरेष्वाद्यक्षरवृद्धिर्वास्यादित्यर्थः ॥ ↩︎

  6. शेषेषु नक्षत्रेषु न वृद्धिः ॥ ↩︎

  7. आर्द्रामूलयोरन्त्यः स्वरः ककारपरो भवतीत्यर्थः ॥ ↩︎

  8. स्वातीपुनर्वस्वोरन्त्यस्स्वरः अदीर्घः सविसर्गश्चेति ॥ ↩︎

  9. “हुतशेषस्त्वथ नमः सहमानाय मंत्रतः" इति प्र॰ तिलके ॥ प्र॰ रत्नेऽप्येवमेवोक्तम् ॥ ↩︎