तत्र ज्येष्ठस्य प्रथमसंस्कार्यत्वादादौ ज्येष्ठत्वनिर्णयः ॥ मनुस्मृतौ -
जन्मज्येष्ठस्य चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् ।
यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता मता
इति प्रथमजातस्य ज्येष्ठत्वमुक्तम् ॥ सं॰ मालायाम् -
यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् ।
सन्तानः पितरश्चैव तस्मिञ्ज्यैष्ठ्यं प्रतिष्ठितम्
इति स्मृतितत्ववचनेन पित्रा प्रथममवलोकितस्य ज्येष्ठत्वं कल्पितम् ॥ वैद्यनाथस्तु –
पार्श्वयोः संस्थितौ गर्भौ तयोर्यः पूर्वजः स तु ।
ज्येष्ठ इत्युच्यते सद्भिर्जातकादिषु कर्मसु
इति यमयोर्गर्भकोशे पार्श्वसंस्थत्वे पूर्वजातत्वं ज्येष्ठत्वप्रयोजकम् । उपर्यधोभागस्थत्वे -
यमळावेकगर्भे तु स्त्री वाथ पुरुषोऽपि वा ।
कनिष्ठ आद्यजातः स्यात्पश्चाज्जातोऽग्रजः स्मृतः
इति पश्चाज्जातत्वं ज्येष्ठत्वप्रयोजकम् ॥ इत्येवं व्यवस्थापितवान् ॥ ॥ अथ यमलयोः संस्कारविषये निर्णयसिन्धौ गर्गः –
एकस्मिन् वासरे प्राप्ते कुर्याद्यमलजातयोः ।
क्षौरं चैव विवाहं च मौञ्जीबन्धनमेव च ।
तत्रैव भट्टकारिकापि –
एकस्मिन् वत्सरे चैकवासरे मण्टपे तथा ।
कर्तव्यं मङ्गलं स्वस्रोार्भ्रात्रोर्यमलजातयोः
इति ॥ आश्वलायनस्मृतौ च -
पिता त्वहनि चैकस्मिन्नेकस्यां सहजातयोः ।
करोति जातकर्माणि पृथक् स्नात्वा यथाविधि
इति ॥ वैद्यनाथदीक्षितीये स्मृतिमुक्ताफले सङ्ग्रहकारोऽपि -
एकगर्भप्रसूतौ चेदेकवेदीमवाप्य च ।
एकाचार्यैकलग्ने च कुर्यान्मौञ्जीव्रतं यतः ॥
चौलोपनयने चैव जातकर्मणि नाम्नि च ।
चतुर्व्रतोपाकरणे यमलानां समं भवेत्
इति ॥ ॥ एतैर्वचनैर्यमलयोर्जातकर्मादि ( चौलान्तानि ) संस्कारकर्माणि तत्तत्कालेषु द्वयोरप्येकदैव कर्तव्यानि ॥ तत्र नान्दीपुण्याहहोमहुतशेषादयः पितृकर्तृकाः सकृदेव कर्तव्याः॥ सुतकर्तृकास्तूपनयनव्रतविवाहहोमाः पृथक्कार्याः ॥ जातकर्माणि मातृस्नानाभिमंत्रणमुदकुम्भनिधानञ्च सकृत् । अन्यानि शिशुसम्बद्धानि तंत्राणि पृथगेव कार्याणि ॥ पुंसः समंत्रकं स्त्रियास्त्वमंत्रकं चेत्येवं सामान्यतः प्रयोगक्रमः पर्यवस्यति ॥ ॥ किञ्चात्र यमलजनने प्रायश्चित्तं शान्तिञ्चाह बोधायनः ॥ ते च नामकरणात्प्राक्कर्तव्ये
पत्नी गावो वा यमलौ विजायेरन् तस्य संस्कारः प्राङ्नामकरणात्कार्यः
इति गृह्योक्तेः॥
यमलजननप्रायश्चित्तम्
अथ यमलजननप्रायश्चित्तम् ॥ स्त्रीषु गोषु वा यमलजनने
यमलजननजनितप्रत्यवायपरिहारार्थं प्रायश्चित्तहोमं करिष्ये
इति सङ्कल्प्यापूर्वतंत्रेणाग्निमुपसमाधाय सम्परिस्तीर्याज्यसंस्काराद्यग्न्यलङ्करणान्तं कृत्वा पुरस्ताद्व्याहृतिभिश्चतसृभिः पाहीति पञ्चभिरुपरिष्टाद्व्याहृतिभिरित्येवं त्रयोदशाज्याहुतीर्तुत्वोत्तरपरिषेकादिशेषं समापयदिति ॥ यमलजननशान्तिस्त्वग्रे प्रकीर्णकाण्डे द्रष्टव्या ॥ इति यमलसंस्कारनिरूपणम् ॥